४. सुन्दरीथेरीगाथावण्णना

पेतानि भोति पुत्तानीतिआदिका सुन्दरिया थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती इतो एकतिंसकप्पे वेस्सभुस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा एकदिवसं सत्थारं पिण्डाय चरन्तं दिस्वा पसन्नमानसा भिक्खं दत्वा पञ्चपतिट्ठितेन वन्दि. सत्था तस्सा चित्तप्पसादं ञत्वा अनुमोदनं कत्वा पक्कामि. सा तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तित्वा तत्थ यावतायुकं ठत्वा दिब्बसम्पत्तिं अनुभवित्वा ततो चुता अपरापरं सुगतीसुयेव संसरन्ती परिपक्कञाणा हुत्वा इमस्मिं बुद्धुप्पादे बाराणसियं सुजातस्स नाम ब्राह्मणस्स धीता हुत्वा निब्बत्ति. तस्सा रूपसम्पत्तिया सुन्दरीति नामं अहोसि. वयप्पत्तकाले चस्सा कनिट्ठभाता कालमकासि. अथस्सा पिता पुत्तसोकेन अभिभूतो तत्थ तत्थ विचरन्तो वासिट्ठित्थेरिया समागन्त्वा तं सोकविनोदनकारणं पुच्छन्तो ‘‘पेतानि भोति पुत्तानी’’तिआदिका द्वे गाथा अभासि. थेरी तं सोकाभिभूतं ञत्वा सोकं विनोदेतुकामा ‘‘बहूनि पुत्तसतानी’’तिआदिका द्वे गाथा वत्वा अत्तनो असोकभावं कथेसि. तं सुत्वा ब्राह्मणो ‘‘कथं त्वं, अय्ये, एवं असोका जाता’’ति आह. तस्स थेरी रतनत्तयगुणं कथेसि.

अथ ब्राह्मणो ‘‘कुहिं सत्था’’ति पुच्छित्वा ‘‘इदानि मिथिलायं विहरती’’ति तं सुत्वा तावदेव रथं योजेत्वा रथेन मिथिलं गन्त्वा सत्थारं उपसङ्कमित्वा वन्दित्वा सम्मोदनीयं कथं कत्वा एकमन्तं निसीदि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो ततिये दिवसे अरहत्तं पापुणि. अथ सारथि रथं आदाय बाराणसिं गन्त्वा ब्राह्मणिया तं पवत्तिं आरोचेसि. सुन्दरी अत्तनो पितु पब्बजितभावं सुत्वा, ‘‘अम्म, अहम्पि पब्बजिस्सामी’’ति मातरं आपुच्छि. माता ‘‘यं इमस्मिं गेहे भोगजातं, सब्बं तं तुय्हं सन्तकं, त्वं इमस्स कुलस्स दायादिका पटिपज्ज, इमं सब्बभोगं परिभुञ्ज, मा पब्बजी’’ति आह. सा ‘‘न मय्हं भोगेहि अत्थो, पब्बजिस्सामेवाहं, अम्मा’’ति मातरं अनुजानापेत्वा महतिं सम्पत्तिं खेळपिण्डं विय छड्डेत्वा पब्बजि. पब्बजित्वा च सिक्खमानायेव हुत्वा विपस्सनं वड्ढेत्वा घटेन्ती वायमन्ती हेतुसम्पन्नताय ञाणस्स परिपाकं गतत्ता सह पटिसम्भिदाहि अरहत्तं पापुणि. तेन वुत्तं अपदाने –

‘‘पिण्डपातं चरन्तस्स, वेस्सभुस्स महेसिनो;

कटच्छुभिक्खमुग्गय्ह, बुद्धसेट्ठस्सदासहं.

‘‘पटिग्गहेत्वा सम्बुद्धो, वेस्सभू लोकनायको;

वीथिया सण्ठितो सत्था, अका मे अनुमोदनं.

‘‘कटच्छुभिक्खं दत्वान, तावतिंसं गमिस्ससि;

छत्तिंसदेवराजूनं, महेसित्तं करिस्ससि.

‘‘पञ्ञासं चक्कवत्तीनं, महेसित्तं करिस्ससि;

मनसा पत्थितं सब्बं, पटिलच्छसि सब्बदा.

‘‘सम्पत्तिं अनुभोत्वान, पब्बजिस्ससि किञ्चना;

सब्बासवे परिञ्ञाय, निब्बायिस्ससिनासवा.

‘‘इदं वत्वान सम्बुद्धो, वेस्सभू लोकनायको;

नभं अब्भुग्गमी वीरो, हंसराजाव अम्बरे.

‘‘सुदिन्नं मे दानवरं, सुयिट्ठा यागसम्पदा;

कटच्छुभिक्खं दत्वान, पत्ताहं अचलं पदं.

‘‘एकतिंसे इतो कप्पे, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, भिक्खादानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा फलसुखेन निब्बानसुखेन च विहरन्ती अपरभागे ‘‘सत्थु पुरतो सीहनादं नदिस्सामी’’ति उपज्झायं आपुच्छित्वा बाराणसितो निक्खमित्वा सम्बहुलाहि भिक्खुनीहि सद्धिं अनुक्कमेन सावत्थिं गन्त्वा सत्थु सन्तिकं उपसङ्कमित्वा सत्थारं वन्दित्वा एकमन्तं ठिता सत्थारा कतपटिसन्थारा सत्थु ओरसधीतुभावादिविभावनेन अञ्ञं ब्याकासि. अथस्सा मातरं आदिं कत्वा सब्बो ञातिगणो परिजनो च पब्बजि. सा अपरभागे अत्तनो पटिपत्तिं पच्चवेक्खित्वा पितरा वुत्तगाथं आदिं कत्वा उदानवसेन –

३१३. ‘‘पेतानि भोति पुत्तानि, खादमाना तुवं पुरे;

तुवं दिवा च रत्तो च, अतीव परितप्पसि.

३१४. ‘‘साज्ज सब्बानि खादित्वा, सतपुत्तानि ब्राह्मणी;

वासेट्ठि केन वण्णेन, न बाळ्हं परितप्पसि.

३१५. ‘‘बहूनि पुत्तसतानि, ञातिसङ्घसतानि च;

खादितानि अतीतंसे, मम तुञ्हञ्च ब्राह्मण.

३१६. ‘‘साहं निस्सरणं ञत्वा, जातिया मरणस्स च;

न सोचामि न रोदामि, न चापि परितप्पयिं.

३१७. ‘‘अब्भुतं वत वासेट्ठि, वाचं भाससि एदिसिं;

कस्स त्वं धम्ममञ्ञाय, गिरं भाससि एदिसिं.

३१८. ‘‘एस ब्राह्मण सम्बुद्धो, नगरं मिथिलं पति;

सब्बदुक्खप्पहानाय, धम्मं देसेसि पाणिनं.

३१९. ‘‘तस्स ब्रह्मे अरहतो, धम्मं सुत्वा निरूपधिं;

तत्थ विञ्ञातसद्धम्मा, पुत्तसोकं ब्यपानुदिं.

३२०. ‘‘सो अहम्पि गमिस्सामि, नगरं मिथिलं पति;

अप्पेव मं सो भगवा, सब्बदुक्खा पमोचये.

३२१. ‘‘अद्दस ब्राह्मणो बुद्धं, विप्पमुत्तं निरूपधिं;

स्वस्स धम्ममदेसेसि, मुनि दुक्खस्स पारगू.

३२२. ‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

३२३. ‘‘तत्थ विञ्ञातसद्धम्मो, पब्बज्जं समरोचयि;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.

३२४. ‘‘एहि सारथि गच्छाहि, रथं निय्यादयाहिमं;

आरोग्यं ब्राह्मणिं वज्ज, पब्बजि दानि ब्राह्मणो;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.

३२५. ‘‘ततो च रथमादाय, सहस्सञ्चापि सारथि;

आरोग्यं ब्राह्मणिंवोच, ‘पब्बजि दानि ब्राह्मणो;

सुजातो तीहि रत्तीहि, तिस्सो विज्जा अफस्सयि.

३२६. ‘‘एतञ्चाहं अस्सरथं, सहस्सञ्चापि सारथि;

तेविज्जं ब्राह्मणं सुत्वा, पुण्णपत्तं ददामि ते.

३२७. ‘‘तुय्हेव होत्वस्सरथो, सहस्सञ्चापि ब्राह्मणि;

अहम्पि पब्बजिस्सामि, वरपञ्ञस्स सन्तिके.

३२८. ‘‘हत्थी गवस्सं मणिकुण्डलञ्च, फीतञ्चिमं गहविभवं पहाय;

पिता पब्बजितो तुय्हं, भुञ्ज भोगानि सुन्दरी;

तुवं दायादिका कुले.

३२९. ‘‘हत्थी गवस्सं मणिकुण्डलञ्च, रम्मं चिमं गहविभवं पहाय;

पिता पब्बजितो मय्हं, पुत्तसोकेन अट्टितो;

अहम्पि पब्बजिस्सामि, भातुसोकेन अट्टिता.

३३०. ‘‘सो ते इज्झतु सङ्कप्पो, यं त्वं पत्थेसि सुन्दरी;

उत्तिट्ठपिण्डो उञ्छो च, पंसुकूलञ्च चीवरं;

एतानि अभिसम्भोन्ती, परलोके अनासवा.

३३१. ‘‘सिक्खमानाय मे अय्ये, दिब्बचक्खु विसोधितं;

पुब्बेनिवासं जानामि, यत्थ मे वुसितं पुरे.

३३२. ‘‘तुवं निस्साय कल्याणि, थेरि सङ्घस्स सोभने;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

३३३. ‘‘अनुजानाहि मे अय्ये, इच्छे सावत्थि गन्तवे;

सीहनादं नदिस्सामि, बुद्धसेट्ठस्स सन्तिके.

३३४. ‘‘पस्स सुन्दरि सत्थारं, हेमवण्णं हरित्तचं;

अदन्तानं दमेतारं, सम्बुद्धमकुतोभयं.

३३५. ‘‘पस्स सुन्दरिमायन्तिं, विप्पमुत्तं निरूपधिं;

वीतरागं विसंयुत्तं, कतकिच्चमनासवं.

३३६. ‘‘बाराणसितो निक्खम्म, तव सन्तिकमागता;

साविका ते महावीर, पादे वन्दति सुन्दरी.

३३७. ‘‘तुवं बुद्धो तुवं सत्था, तुय्हं धीताम्हि ब्राह्मण;

ओरसा मुखतो जाता, कतकिच्चा अनासवा.

३३८. ‘‘तस्सा ते स्वागतं भद्दे, ततो ते अदुरागतं;

एवञ्हि दन्ता आयन्ति, सत्थु पादानि वन्दिका;

वीतरागा विसंयुत्ता, कतकिच्चा अनासवा’’ति. –

इमा गाथा पच्चुदाहासि.

तत्थ पेतानीति मतानि. भोतीति तं आलपति. पुत्तानीति लिङ्गविपल्लासेन वुत्तं, पेते पुत्तेति अत्थो. एको एव च तस्सा पुत्तो मतो, ब्राह्मणो पन ‘‘चिरकालं अयं सोकेन अट्टा हुत्वा विचरि, बहू मञ्ञे इमिस्सा पुत्ता मता’’ति एवंसञ्ञी हुत्वा बहुवचनेनाह. तथा च ‘‘साज्ज सब्बानि खादित्वा सतपुत्तानी’’ति. खादमानाति लोकवोहारवसेन खुंसनवचनमेतं. लोके हि यस्सा इत्थिया जातजाता पुत्ता मरन्ति, तं गरहन्ता ‘‘पुत्तखादिनी’’तिआदिं वदन्ति. अतीवाति अतिविय भुसं. परितप्पसीति सन्तप्पसि, पुरेति योजना. अयञ्हेत्थ सङ्खेपत्थो – भोति वासेट्ठि, पुब्बे त्वं मतपुत्ता हुत्वा सोचन्ती परिदेवन्ती अतिविय सोकाय समप्पिता गामनिगमराजधानियो आहिण्डसि.

साज्जाति सा अज्ज, सा त्वं एतरहीति अत्थो. ‘‘सज्जा’’ति वा पाठो. केन वण्णेनाति केन कारणेन.

खादितानीति थेरीपि ब्राह्मणेन वुत्तपरियायेनेव वदति. खादितानि वा ब्यग्घदीपिबिळारादिजातियो सन्धायेवमाह. अतीतंसेति अतीतकोट्ठासे, अतिक्कन्तभवेसूति अत्थो. मम तुय्हञ्चाति मया च तया च.

निस्सरणं ञत्वा जातिया मरणस्स चाति जातिजरामरणानं निस्सरणभूतं निब्बानं मग्गञाणेन पटिविज्झित्वा. न चापि परितप्पयिन्ति न चापि उपायासासिं, अहं उपायासं न आपज्जिन्ति अत्थो.

अब्भुतं वताति अच्छरियं वत. तञ्हि अब्भुतं पुब्बे अभूतं अब्भुतन्ति वुच्चति. एदिसिन्ति एवरूपिं, ‘‘न सोचामि न रोदामि, न चापि परितप्पयि’’न्ति एवं सोचनादीनं अभावदीपनिं वाचं. कस्स त्वं धम्ममञ्ञायाति केवलं यथा एदिसो धम्मो लद्धुं न सक्का, तस्मा कस्स नाम सत्थुनो धम्ममञ्ञाय गिरं भाससि एदिसन्ति सत्थारं सासनञ्च पुच्छति.

निरूपधिन्ति निद्दुक्खं. विञ्ञातसद्धम्माति पटिविद्धअरियसच्चधम्मा. ब्यपानुदिन्ति नीहरिं पजहिं.

विप्पमुत्तन्ति सब्बसो विमुत्तं, सब्बकिलेसेहि सब्बभवेहि च विसंयुत्तं. स्वस्साति सो सम्मासम्बुद्धो अस्स ब्राह्मणस्स.

तत्थाति तस्सं चतुसच्चधम्मदेसनायं.

रथं निय्यादयाहिमन्ति इमं रथं ब्राह्मणिया निय्यादेहि.

सहस्सञ्चापीति मग्गपरिब्बयत्थं नीतं कहापणसहस्सञ्चापि आदाय निय्यादेहीति योजना.

अस्सरथन्ति अस्सयुत्तरथं. पुण्णपत्तन्ति तुट्ठिदानं.

एवं ब्राह्मणिया तुट्ठिदाने दिय्यमाने तं असम्पटिच्छन्तो सारथि ‘‘तुय्हेव होतू’’ति गाथं वत्वा सत्थु सन्तिकमेव गन्त्वा पब्बजि. पब्बजिते पन सारथिम्हि ब्राह्मणी अत्तनो धीतरं सुन्दरिं आमन्तेत्वा घरावासे नियोजेन्ती ‘‘हत्थी गवस्स’’न्ति गाथमाह. तत्थ हत्थीति हत्थिनो. गवस्सन्ति गावो च अस्सा च. मणिकुण्डलञ्चाति मणि च कुण्डलानि च. फीतञ्चिमं गहविभवं पहायाति इमं हत्थिआदिप्पभेदं यथावुत्तं अवुत्तञ्च खेत्तवत्थुहिरञ्ञसुवण्णादिभेदं फीतं पहूतञ्च गहविभवं गेहूपकरणं अञ्ञञ्च दासिदासादिकं सब्बं पहाय तव पिता पब्बजितो. भुञ्ज भोगानि सुन्दरीति सुन्दरि, त्वं इमे भोगे भुञ्जस्सु. तुवं दायादिका कुलेति तुवञ्हि इमस्मिं कुले दायज्जारहाति.

तं सुत्वा सुन्दरी अत्तनो नेक्खम्मज्झासयं पकासेन्ती ‘‘हत्थीगवस्स’’न्तिआदिमाह.

अथ नं माता नेक्खम्मेयेव नियोजेन्ती ‘‘सो ते इज्झतू’’तिआदिना दियड्ढगाथमाह. तत्थ यं त्वं पत्थेसि सुन्दरीति सुन्दरि त्वं इदानि यं पत्थेसि आकङ्खसि. सो तव पब्बज्जाय सङ्कप्पो पब्बज्जाय छन्दो इज्झतु अनन्तरायेन सिज्झतु. उत्तिट्ठपिण्डोति घरे घरे पतिट्ठित्वा लद्धब्बभिक्खापिण्डो. उञ्छोति तदत्थं घरपटिपाटिया आहिण्डनं उद्दिस्स ठानञ्च. एतानीति उत्तिट्ठपिण्डादीनि. अभिसम्भोन्तीति अनिब्बिन्नरूपा जङ्घबलं निस्साय अभिसम्भवन्ती, साधेन्तीति अत्थो.

अथ सुन्दरी ‘‘साधु, अम्मा’’ति मातुया पटिस्सुणित्वा निक्खमित्वा भिक्खुनुपस्सयं गन्त्वा सिक्खमानायेव समाना तिस्सो विज्जा सच्छिकत्वा ‘‘सत्थु सन्तिकं गमिस्सामी’’ति उपज्झायं आरोचेत्वा भिक्खुनीहि सद्धिं सावत्थिं अगमासि. तेन वुत्तं ‘‘सिक्खमानाय मे, अय्ये’’तिआदि. तत्थ सिक्खमानाय मेति सिक्खमानाय समानाय मया. अय्येति अत्तनो उपज्झायं आलपति.

तुवं निस्साय कल्याणि, थेरि सङ्घस्स सोभनेति भिक्खुनिसङ्घे वुद्धतरभावेन थिरगुणयोगेन च सङ्घत्थेरि सोभनेहि सीलादीहि समन्नागतत्ता सोभने कल्याणि कल्याणमित्ते, अय्ये, तं निस्साय मया तिस्सो विज्जा अनुप्पत्ता कतं बुद्धस्स सासनन्ति योजना.

इच्छेति इच्छामि. सावत्थि गन्तवेति सावत्थिं गन्तुं. सीहनादं नदिस्सामीति अञ्ञाब्याकरणमेव सन्धायाह.

अथ सुन्दरी अनुक्कमेन सावत्थिं गन्त्वा विहारं पविसित्वा सत्थारं धम्मासने निसिन्नं दिस्वा उळारं पीतिसोमनस्सं पटिसंवेदयमाना अत्तानमेव आलपन्ती आह ‘‘पस्स सुन्दरी’’ति. हेमवण्णन्ति सुवण्णवण्णं. हरित्तचन्ति कञ्चनसन्निभत्तचं. एत्थ च भगवा पीतवण्णेन ‘‘सुवण्णवण्णो’’ति वुच्चति. अथ खो सम्मदेव घंसित्वा जातिहिङ्गुलकेन अनुलिम्पित्वा सुपरिमज्जितकञ्चनादाससन्निभोति दस्सेतुं ‘‘हेमवण्ण’’न्ति वत्वा ‘‘हरित्तच’’न्ति वुत्तं.

पस्स सुन्दरिमायन्तिन्ति तं सुन्दरिनामिकं मं भगवा आगच्छन्ति पस्स. ‘‘विप्पमुत्त’’न्तिआदिना अञ्ञं ब्याकरोन्ती पीतिविप्फारवसेन वदति.

कुतो पन आगता, कत्थ च आगता, कीदिसा चायं सुन्दरीति आसङ्कन्तानं आसङ्कं निवत्तेतुं ‘‘बाराणसितो’’ति गाथं वत्वा तत्थ ‘‘साविका चा’’ति वुत्तमत्थं पाकटतरं कातुं ‘‘तुवं बुद्धो’’ति गाथमाह. तस्सत्थो – इमस्मिं सदेवके लोके तुवमेवेको सब्बञ्ञुबुद्धो, दिट्ठधम्मिकसम्परायिकपरमत्थेहि यथारहं अनुसासनतो तुवं मे सत्था, अहञ्च खीणासवब्राह्मणी भगवा तुय्हं उरे वायाम जनिताभिजातिताय ओरसा, मुखतो पवत्तधम्मघोसेन सासनस्स च मुखभूतेन अरियमग्गेन जातत्ता मुखतो जाता, निट्ठितपरिञ्ञातादिकरणीयताय कतकिच्चा, सब्बसो आसवानं खेपितत्ता अनासवाति.

अथस्सा सत्था आगमनं अभिनन्दन्तो ‘‘तस्सा ते स्वागत’’न्ति गाथमाह. तस्सत्थो – या त्वं मया अधिगतं धम्मं याथावतो अधिगच्छि. तस्सा ते, भद्दे सुन्दरि, इध मम सन्तिके आगतं आगमनं सुआगतं. ततो एव तं अदुरागतं न दुरागतं होति. कस्मा? यस्मा एवञ्हि दन्ता आयन्तीति, यथा त्वं सुन्दरि, एवञ्हि उत्तमेन अरियमग्गदमथेन दन्ता ततो एव सब्बधि वीतरागा, सब्बेसं संयोजनानं समुच्छिन्नत्ता विसंयुत्ता कतकिच्चा अनासवा सत्थु पादानं वन्दिका आगच्छन्ति, तस्मा तस्सा ते स्वागतं अदुरागतन्ति योजना.

सुन्दरीथेरीगाथावण्णना निट्ठिता.