३. चापाथेरीगाथावण्णना

लट्ठिहत्थो पुरे आसीतिआदिका चापाय थेरिया गाथा. अयम्पि पुरिमबुद्धेसु कताधिकारा तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्ती, अनुक्कमेन उपचितकुसलमूला सम्भतविमोक्खसम्भारा हुत्वा इमस्मिं बुद्धुप्पादे वङ्गहारजनपदे अञ्ञतरस्मिं मिगलुद्दकगामे जेट्ठकमिगलुद्दकस्स धीता हुत्वा निब्बत्ति, चापातिस्सा नामं अहोसि. तेन च समयेन उपको आजीवको बोधिमण्डतो धम्मचक्कं पवत्तेतुं बाराणसिं उद्दिस्स गच्छन्तेन सत्थारा समागतो ‘‘विप्पसन्नानि खो ते, आवुसो, इन्द्रियानि, परिसुद्धो छविवण्णो परियोदातो, कंसि त्वं, आवुसो, उद्दिस्स पब्बजितो, को वा ते सत्था, कस्स वा त्वं धम्मं रोचेसी’’ति (महाव. ११; म. नि. १.२८५) पुच्छित्वा –

‘‘सब्बाभिभू सब्बविदूहमस्मि, सब्बेसु धम्मेसु अनूपलित्तो;

सब्बञ्जहो तण्हाक्खये विमुत्तो, सयं अभिञ्ञाय कमुद्दिसेय्यं. (ध. प. ३५३; महाव. ११; कथा. ४०५; म. नि. १.२८५);

‘‘न मे आचरियो अत्थि, सदिसो मे न विज्जति;

सदेवकस्मिं लोकस्मिं, नत्थि मे पटिपुग्गलो.

‘‘अहञ्हि अरहा लोके, अहं सत्था अनुत्तरो;

एकोम्हि सम्मासम्बुद्धो, सीतिभूतोम्हि निब्बुतो.

‘‘धम्मचक्कं पवत्तेतुं, गच्छामि कासिनं पुरं;

अन्धीभूतस्मिं लोकस्मिं, आहञ्छं अमतदुन्दुभि’’न्ति. (महाव. ११; कथा. ४०५; म. नि. १.२८५) –

सत्थारा अत्तनो सब्बञ्ञुबुद्धभावे धम्मचक्कपवत्तने च पवेदिते पसन्नचित्तो सो ‘‘हुपेय्यपावुसो, अरहसि अनन्तजिनो’’ति (महाव. ११; म. नि. १.२८५) वत्वा उम्मग्गं गहेत्वा पक्कन्तो वङ्गहारजनपदं अगमासि. सो तत्थ एकं मिगलुद्दकगामकं उपनिस्साय वासं कप्पेसि. तं तत्थ जेट्ठकमिगलुद्दको उपट्ठासि. सो एकदिवसं दूरं मिगवं गच्छन्तो ‘‘मय्हं अरहन्ते मा पमज्जी’’ति अत्तनो धीतरं चापं आणापेत्वा अगमासि सद्धिं पुत्तभातुकेहि. सा चस्स धीता अभिरूपा होति दस्सनीया.

अथ खो उपको आजीवको भिक्खाचारवेलायं मिगलुद्दकस्स घरं गतो परिविसितुं उपगतं चापं दिस्वा रागेन अभिभूतो भुञ्जितुम्पि असक्कोन्तो भाजनेन भत्तं आदाय वसनट्ठानं गन्त्वा भत्तं एकमन्ते निक्खिपित्वा ‘‘सचे चापं लभिस्सामि, जीवामि, नो चे, मरिस्सामी’’ति निराहारो निपज्जि. सत्तमे दिवसे मिगलुद्दको आगन्त्वा धीतरं पुच्छि – ‘‘किं मय्हं अरहन्ते न पमज्जी’’ति? सा ‘‘एकदिवसमेव आगन्त्वा पुन नागतपुब्बो’’ति आह. मिगलुद्दको च तावदेवस्स वसनट्ठानं गन्त्वा ‘‘किं, भन्ते, अफासुक’’न्ति पादे परिमज्जन्तो पुच्छि. उपको नित्थुनन्तो परिवत्ततियेव. सो ‘‘वदथ, भन्ते, यं मया सक्का कातुं, सब्बं तं करिस्सामी’’ति आह. उपको एकेन परियायेन अत्तनो अज्झासयं आरोचेसि. ‘‘इतरो जानासि पन, भन्ते, किञ्चि सिप्प’’न्ति. ‘‘न जानामी’’ति. ‘‘न, भन्ते, किञ्चि सिप्पं अजानन्तेन सक्का घरं आवसितु’’न्ति. सो आह – ‘‘नाहं किञ्चि सिप्पं जानामि, अपिच तुम्हाकं मंसहारको भविस्सामि, मंसञ्च विक्किणिस्सामी’’ति. मागविको ‘‘अम्हाकम्पि एतदेव रुच्चती’’ति उत्तरसाटकं दत्वा अत्तनो सहायकस्स गेहे कतिपाहं वसापेत्वा तादिसे दिवसे घरं आनेत्वा धीतरं अदासि.

अथ काले गच्छन्ते तेसं संवासमन्वाय पुत्तो निब्बत्ति, सुभद्दोतिस्स नामं अकंसु. चापा तस्स रोदनकाले ‘‘उपकस्स पुत्त, आजीवकस्स पुत्त, मंसहारकस्स पुत्त, मा रोदि मा रोदी’’तिआदिना पुत्ततोसनगीतेन उपकं उप्पण्डेसि. सो ‘‘मा त्वं चापे मं ‘अनाथो’ति मञ्ञि, अत्थि मे सहायो अनन्तजिनो नाम, तस्साहं सन्तिकं गमिस्सामी’’ति आह. चापा ‘‘एवमयं अट्टीयती’’ति ञत्वा पुनप्पुनं तथा कथेसियेव. सो एकदिवसं ताय तथा वुत्तो कुज्झित्वा गन्तुमारद्धो. ताय तं तं वत्वा अनुनीयमानोपि सञ्ञत्तिं अनागच्छन्तो पच्छिमदिसाभिमुखो पक्कामि.

भगवा च तेन समयेन सावत्थियं जेतवने विहरन्तो भिक्खूनं आचिक्खि – ‘‘यो, भिक्खवे, अज्ज ‘कुहिं अनन्तजिनो’ति इधागन्त्वा पुच्छति, तं मम सन्तिकं पेसेथा’’ति. उपकोपि ‘‘कुहिं अनन्तजिनो वसती’’ति तत्थ तत्थ पुच्छन्तो अनुपुब्बेन सावत्थिं गन्त्वा विहारं पविसित्वा विहारमज्झे ठत्वा ‘‘कुहिं अनन्तजिनो’’ति पुच्छि. तं भिक्खू भगवतो सन्तिकं नयिंसु. सो भगवन्तं दिस्वा ‘‘जानाथ मं भगवा’’ति आह. ‘‘आम, जानामि, कुहिं पन त्वं एत्तकं कालं वसी’’ति? ‘‘वङ्गहारजनपदे, भन्ते’’ति. ‘‘उपक, इदानि महल्लको जातो पब्बजितुं सक्खिस्ससी’’ति? ‘‘पब्बजिस्सामि, भन्ते’’ति. सत्था अञ्ञतरं भिक्खुं आणापेसि – ‘‘एहि त्वं, भिक्खु, इमं पब्बाजेही’’ति. सो तं पब्बाजेसि. सो पब्बजितो सत्थु सन्तिके कम्मट्ठानं गहेत्वा भावनं अनुयुञ्जन्तो न चिरस्सेव अनागामिफले पतिट्ठाय कालं कत्वा अविहेसु निब्बत्तो, निब्बत्तक्खणेयेव अरहत्तं पापुणि. अविहेसु निब्बत्तमत्ता सत्त जना अरहत्तं पत्ता, तेसं अयं अञ्ञतरो. वुत्तञ्हेतं –

‘‘अविहं उपपन्नासे, विमुत्ता सत्त भिक्खवो;

रागदोसपरिक्खीणा, तिण्णा लोके विसत्तिकं.

‘‘उपकोपलगण्डो च, पक्कुसाति च ते तयो;

भद्दियो खण्डदेवो च, बाहुरग्गि च सिङ्गियो;

ते हित्वा मानुसं देहं, दिब्बयोगं उपच्चगु’’न्ति. (सं. नि. १.१०५);

उपके पन पक्कन्ते निब्बिन्दहदया चापा दारकं अय्यकस्स निय्यादेत्वा पुब्बे उपकेन गतमग्गं गच्छन्ती सावत्थिं गन्त्वा भिक्खुनीनं सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्ती मग्गपटिपाटिया अरहत्ते पतिट्ठिता, अत्तनो पटिपत्तिं पच्चवेक्खित्वा पुब्बे उपकेन अत्तना च कथितगाथायो उदानवसेन एकज्झं कत्वा –

२९२. ‘‘लट्ठिहत्थो पुरे आसि, सो दानि मिगलुद्दको;

आसाय पलिपा घोरा, नासक्खि पारमेतवे.

२९३. ‘‘सुमत्तं मं मञ्ञमाना, चापि पुत्तमतोसयि;

चापाय बन्धनं छेत्वा, पब्बजिस्सं पुनोपहं.

२९४. ‘‘मा मे कुज्झि महावीर, मा मे कुज्झि महामुनि;

न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो.

२९५. ‘‘पक्कमिस्सञ्च नाळातो, कोध नाळाय वच्छति;

बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनो.

२९६. ‘‘एहि काळ निवत्तस्सु, भुञ्ज कामे यथा पुरे;

अहञ्च ते वसीकता, ये च मे सन्ति ञातका.

२९७. ‘‘एत्तो चापे चतुब्भागं, यथा भाससि त्वञ्च मे;

तयि रत्तस्स पोसस्स, उळारं वत तं सिया.

२९८. ‘‘काळङ्गिनिंव तक्कारिं, पुप्फितं गिरिमुद्धनि;

फुल्लं दालिमलट्ठिंव, अन्तोदीपेव पाटलिं.

२९९. ‘‘हरिचन्दनलित्तङ्गिं, कासिकुत्तमधारिनिं;

तं मं रूपवतिं सन्तिं, कस्स ओहायं गच्छसि.

३००. ‘‘साकुन्तिकोव सकुणिं, यथा बन्धितुमिच्छति;

आहरिमेन रूपेन, न मं त्वं बाधयिस्ससि.

३०१. ‘‘इमञ्च मे पुत्तफलं, काळ उप्पादितं तया;

तं मं पुत्तवतिं सन्तिं, कस्स ओहाय गच्छसि.

३०२. ‘‘जहन्ति पुत्ते सप्पञ्ञा, ततो ञाती ततो धनं;

पब्बजन्ति महावीरा, नागो छेत्वाव बन्धनं.

३०३. ‘‘इदानि ते इमं पुत्तं, दण्डेन छुरिकाय वा;

भूमियं वा निसुम्भिस्सं, पुत्तसोका न गच्छसि.

३०४. ‘‘सचे पुत्तं सिङ्गालानं, कुक्कुरानं पदाहिसि;

न मं पुत्तकत्ते जम्मि, पुनरावत्तयिस्ससि.

३०५. ‘‘हन्द खो दानि भद्दन्ते, कुहिं काळ गमिस्ससि;

कतमं गामनिगमं, नगरं राजधानियो.

३०६. ‘‘अहुम्ह पुब्बे गणिनो, अस्समणा समणमानिनो;

गामेन गामं विचरिम्ह, नगरे राजधानियो.

३०७. ‘‘एसो हि भगवा बुद्धो, नदिं नेरञ्जरं पति;

सब्बदुक्खप्पहानाय, धम्मं देसेति पाणिनं;

तस्साहं सन्तिकं गच्छं, सो मे सत्था भविस्सति.

३०८. ‘‘वन्दनं दानि मे वज्जासि, लोकनाथं अनुत्तरं;

पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणं.

३०९. ‘‘एतं खो लब्भमम्हेहि, यथा भाससि त्वञ्च मे;

वन्दनं दानि ते वज्जं, लोकनाथं अनुत्तरं;

पदक्खिणञ्च कत्वान, आदिसिस्सामि दक्खिणं.

३१०. ‘‘ततो च काळो पक्कामि, नदिं नेरञ्जरं पति;

सो अद्दसासि सम्बुद्धं, देसेन्तं अमतं पदं.

३११. ‘‘दुक्खं दुक्खसमुप्पादं, दुक्खस्स च अतिक्कमं;

अरियं चट्ठङ्गिकं मग्गं, दुक्खूपसमगामिनं.

३१२. ‘‘तस्स पादानि वन्दित्वा, कत्वान नं पदक्खिणं;

चापाय आदिसित्वान, पब्बजिं अनगारियं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –

इमा गाथा अभासि.

तत्थ लट्ठिहत्थोति दण्डहत्थो. पुरेति पुब्बे परिब्बाजककाले चण्डगोणकुक्कुरादीनं परिहरणत्थं दण्डं हत्थेन गहेत्वा विचरणको अहोसि. सो दानि मिगलुद्दकोति सो इदानि मिगलुद्देहि सद्धिं सम्भोगसंवासेहि मिगलुद्दो मागविको जातो. आसायाति तण्हाय. ‘‘आसया’’तिपि पाठो, अज्झासयहेतूति अत्थो. पलिपाति कामपङ्कतो दिट्ठिपङ्कतो च. घोराति अविदितविपुलानत्थावहत्ता दारुणतो घोरा. नासक्खि पारमेतवेति तस्सेव पलिपस्स पारभूतं निब्बानं एतुं गन्तुं न असक्खि, न अभिसम्भुनीति अत्तानमेव सन्धाय उपको वदति.

सुमत्तं मं मञ्ञमानाति अत्तनि सुट्ठु मत्तं मदप्पत्तं कामगेधवसेन लग्गं पमत्तं वा कत्वा मं सल्लक्खन्ती. चापा पुत्तमतोसयीति मिगलुद्दस्स धीता चापा ‘‘आजीवकस्स पुत्ता’’तिआदिना मं घट्टेन्ती पुत्तं तोसेसि केळायसि. ‘‘सुपति मं मञ्ञमाना’’ति च पठन्ति, सुपतीति मं मञ्ञमानाति अत्थो. चापाय बन्धनं छेत्वाति चापाय तयि उप्पन्नं किलेसबन्धनं छिन्दित्वा. पब्बजिस्सं पुनोपहन्ति पुन दुतियवारम्पि अहं पब्बजिस्सामि.

इदानि तस्सा ‘‘मय्हं अत्थो नत्थी’’ति वदति, तं सुत्वा चापा खमापेन्ती ‘‘मा मे कुज्झी’’ति गाथमाह. तत्थ मा मे कुज्झीति केळिकरणमत्तेन मा मय्हं कुज्झि. महावीर, महामुनीति उपकं आलपति. तञ्हि सा पुब्बेपि पब्बजितो, इदानिपि पब्बजितुकामोति कत्वा खन्तिञ्च पच्चासीसन्ती ‘‘महामुनी’’ति आह. तेनेवाह – ‘‘न हि कोधपरेतस्स, सुद्धि अत्थि कुतो तपो’’ति, त्वं एत्तकम्पि असहन्तो कथं चित्तं दमेस्ससि, कथं वा तपं चरिस्ससीति अधिप्पायो.

अथ नाळं गन्त्वा जीवितुकामोसीति चापाय वुत्तो आह – ‘‘पक्कमिस्सञ्च नाळातो, कोध नाळाय वच्छती’’ति को इध नाळाय वसिस्सति, नाळातोव अहं पक्कमिस्सामेव. सो हि तस्स जातगामो, ततो निक्खमित्वा पब्बजि. सो च मगधरट्ठे बोधिमण्डस्स आसन्नपदेसे, तं सन्धाय वुत्तं. बन्धन्ती इत्थिरूपेन, समणे धम्मजीविनोति चापे त्वं धम्मेन जीवन्ते धम्मिके पब्बजिते अत्तनो इत्थिरूपेन इत्थिकुत्ताकप्पेहि बन्धन्ती तिट्ठसि. येनाहं इदानि एदिसो जातो, तस्मा तं परिच्चजामीति अधिप्पायो.

एवं वुत्ते चापा तं निवत्तेतुकामा ‘‘एहि, काळा’’ति गाथमाह. तस्सत्थो – काळवण्णताय, काळ, उपक, एहि निवत्तस्सु मा पक्कमि, पुब्बे विय कामे परिभुञ्ज, अहञ्च ये च मे सन्ति ञातका, ते सब्बेव तुय्हं मा पक्कमितुकामताय वसीकता वसवत्तिनो कताति.

तं सुत्वा उपको ‘‘एत्तो चापे’’ति गाथमाह. तत्थ चापेति चापे. चापसदिसअङ्गलट्ठिताय हि सा, चापाति नामं लभि, तस्मा, चापाति वुच्चति. त्वं चापे, यथा भाससि, इदानि यादिसं कथेसि, इतो चतुब्भागमेव पियसमुदाचारं करेय्यासि. तयि रत्तस्स रागाभिभूतस्स पुरिसस्स उळारं वत तं सिया, अहं पनेतरहि तयि कामेसु च विरत्तो, तस्मा चापाय वचने न तिट्ठामीति अधिप्पायो.

पुन, चापा, अत्तनि तस्स आसत्तिं उप्पादेतुकामा ‘‘काळङ्गिनि’’न्ति आह. तत्थ, काळाति तस्सालपनं. अङ्गिनिन्ति अङ्गलट्ठिसम्पन्नं. इवाति उपमाय निपातो. तक्कारिं पुप्फितं गिरिमुद्धनीति पब्बतमुद्धनि ठितं सुपुप्फितदालिमलट्ठिं विय. ‘‘उक्कागारि’’न्ति च केचि पठन्ति, अङ्गत्थिलट्ठिं वियाति अत्थो. गिरिमुद्धनीति च इदं केनचि अनुपहतसोभतादस्सनत्थं वुत्तं. केचि ‘‘कालिङ्गिनि’’न्ति पाठं वत्वा तस्स कुम्भण्डलतासदिसन्ति अत्थं वदन्ति. फुल्लं दालिमलट्ठिंवाति पुप्फितं बीजपूरलतं विय. अन्तोदीपेव पाटलिन्ति दीपकब्भन्तरे पुप्फितपाटलिरुक्खं विय, दीपग्गहणञ्चेत्थ सोभापाटिहारियदस्सनत्थमेव.

हरिचन्दनलित्तङ्गिन्ति लोहितचन्दनेन अनुलित्तसब्बङ्गिं. कासिकुत्तमधारिनिन्ति उत्तमकासिकवत्थधरं. तं मन्ति तादिसं मं. रूपवतिं सन्तिन्ति रूपसम्पन्नं समानं. कस्स ओहाय गच्छसीति कस्स नाम सत्तस्स, कस्स वा हेतुनो, केन कारणेन, ओहाय पहाय परिच्चजित्वा गच्छसि.

इतो परम्पि तेसं वचनपटिवचनगाथाव ठपेत्वा परियोसाने तिस्सो गाथा. तत्थ साकुन्तिकोवाति सकुणलुद्दो विय. आहरिमेन रूपेनाति केसमण्डनादिना सरीरजग्गनेन चेव वत्थाभरणादिना च अभिसङ्खारिकेन रूपेन वण्णेन कित्तिमेन चातुरियेनाति अत्थो. न मं त्वं बाधयिस्ससीति पुब्बे विय इदानि मं त्वं न बाधितुं सक्खिस्ससि.

पुत्तफलन्ति पुत्तसङ्खातं फलं पुत्तपसवो.

सप्पञ्ञाति पञ्ञवन्तो, संसारे आदीनवविभाविनिया पञ्ञाय समन्नागताति अधिप्पायो. ते हि अप्पं वा महन्तं वा ञातिपरिवट्टं भोगक्खन्धं वा पहाय पब्बजन्ति. तेनाह – ‘‘पब्बजन्ति महावीरा, नागो छेत्वाव बन्धन’’न्ति, अयबन्धनं विय हत्थिनागो गिहिबन्धनं छिन्दित्वा महावीरियाव पब्बजन्ति, न निहीनवीरियाति अत्थो.

दण्डेनाति येन केनचि दण्डेन. छुरिकायाति खुरेन. भूमियं वा निसुम्भिस्सन्ति पथवियं पातेत्वा पोथनविज्झनादिना विबाधिस्सामि. पुत्तसोका न गच्छसीति पुत्तसोकनिमित्तं न गच्छिस्ससि.

पदाहिसीति दस्ससि. पुत्तकत्तेति पुत्तकारणा. जम्मीति तस्सा आलपनं, लामकेति अत्थो.

इदानि तस्स गमनं अनुजानित्वा गमनट्ठानं जानितुं ‘‘हन्द खो’’ति गाथमाह.

इतरो पुब्बे अहं अनिय्यानिकं सासनं पग्गय्ह अट्ठासिं, इदानि पन निय्यानिके अनन्तजिनस्स सासने ठातुकामो, तस्मा तस्स सन्तिकं गमिस्सामीति दस्सेन्तो ‘‘अहुम्हा’’तिआदिमाह. तत्थ गणिनोति गणधरा. अस्समणाति न समितपापा. समणमानिनोति समितपापाति एवं सञ्ञिनो. विचरिम्हाति पूरणादीसु अत्तानं पक्खिपित्वा वदति.

नेरञ्जरं पतीति नेरञ्जराय नदिया समीपे तस्सा तीरे. बुद्धोति अभिसम्बोधिं पत्तो, अभिसम्बोधिं पत्वा धम्मं देसेन्तो सब्बकालं भगवा तत्थेव वसीति अधिप्पायेन वदति.

वन्दनं दानि मे वज्जासीति मम वन्दनं वदेय्यासि, मम वचनेन लोकनाथं अनुत्तरं वदेय्यासीति अत्थो. पदक्खिणञ्च कत्वान, आदिसेय्यासि दक्खिणन्ति बुद्धं भगवन्तं तिक्खत्तुं पदक्खिणं कत्वापि चतूसु ठानेसु वन्दित्वा, ततो पुञ्ञतो मय्हं पत्तिदानं देन्तो पदक्खिणं आदिसेय्यासि बुद्धगुणानं सुतपुब्बत्ता हेतुसम्पन्नताय च एवं वदति.

एतं खो लब्भमम्हेहीति एतं पदक्खिणकरणं पुञ्ञं अम्हेहि तव दातुं सक्का, न निवत्तनं, पुब्बे विय कामूपभोगो च न सक्काति अधिप्पायो. ते वज्जन्ति तव वन्दनं वज्जं वक्खामि.

सोति काळो, अद्दसासीति अद्दक्खि.

सत्थुदेसनायं सच्चकथाय पधानत्ता तब्बिनिमुत्ताय अभावतो ‘‘दुक्ख’’न्तिआदि वुत्तं, सेसं वुत्तनयमेव.

चापाथेरीगाथावण्णना निट्ठिता.