९. पुरोहितपुत्तजेन्तत्थेरगाथावण्णना

जातिमदेन मत्तोहन्तिआदिका आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं कोसलरञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, तस्स जेन्तोति नामं अहोसि. सो वयप्पत्तो जातिमदेन भोगइस्सरियरूपमदेन च मत्तो अञ्ञे हीळेन्तो गरुट्ठानियानम्पि अपचितिं अकरोन्तो मानथद्धो विचरति. सो एकदिवसं सत्थारं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा उपसङ्कमन्तो ‘‘सचे मं समणो गोतमो पठमं आलपिस्सति, अहम्पि आलपिस्सामि; नो चे, नालपिस्सामी’’ति चित्तं उप्पादेत्वा उपसङ्कमित्वा ठितो भगवति पठमं अनालपन्ते सयम्पि मानेन अनालपित्वा गमनाकारं दस्सेसि. तं भगवा –

‘‘न मानं ब्राह्मण साधु, अत्थिकस्सीध ब्राह्मण;

येन अत्थेन आगच्छि, तमेवमनुब्रूहये’’ति. (सं. नि. १.२०१) –

गाथाय अज्झभासि. सो ‘‘चित्तं मे समणो गोतमो जानाती’’ति अभिप्पसन्नो भगवतो पादेसु सिरसा निपतित्वा परमनिपच्चाकारं कत्वा –

‘‘केसु न मानं कयिराथ, केसु चस्स सगारवो;

क्यस्स अपचिता अस्सु, क्यस्सु साधु सुपूजिता’’ति. –

पुच्छि. तस्स भगवा –

‘‘मातरि पितरि चापि, अथो जेट्ठम्हि भातरि;

आचरिये चतुत्थम्हि, समणब्राह्मणेसु च.

‘‘तेसु न मानं कयिराथ, तेसु अस्स सगारवो;

क्यस्स अपचिता अस्सु, त्यस्सु साधु सुपूजिता.

‘‘अरहन्ते सीतिभूते, कतकिच्चे अनासवे;

निहच्च मानं अत्थद्धो, ते नमस्से अनुत्तरे’’ति. (सं. नि. १.२०१) –

पञ्हं विस्सज्जेन्तो धम्मं देसेसि. सो ताय देसनाय सोतापन्नो हुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो अरहत्तं पत्वा अत्तनो पटिपत्तिकित्तनमुखेन अञ्ञं ब्याकरोन्तो –

४२३. ‘‘जातिमदेन मत्तोहं, भोगइस्सरियेन च;

सण्ठानवण्णरूपेन, मदमत्तो अचारिहं.

४२४. ‘‘नात्तनो समकं कञ्चि, अतिरेकञ्च मञ्ञिसं;

अतिमानहतो बालो, पत्थद्धो उस्सितद्धजो.

४२५. ‘‘मातरं पितरञ्चापि, अञ्ञेपि गरुसम्मते;

न कञ्चि अभिवादेसिं, मानत्थद्धो अनादरो.

४२६. ‘‘दिस्वा विनायकं अग्गं, सारथीनं वरुत्तमं;

तपन्तमिव आदिच्चं, भिक्खुसङ्घपुरक्खतं.

४२७. ‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा;

सिरसा अभिवादेसिं, सब्बसत्तानमुत्तमं.

४२८. ‘‘अतिमानो च ओमानो, पहीना सुसमूहता;

अस्मिमानो समुच्छिन्नो, सब्बे मानविधा हता’’ति. –

इमा गाथा अभासि.

तत्थ जातिमदेन मत्तोहन्ति अहं उदिच्चे ब्राह्मणकुले निब्बत्तो, ‘‘न मादिसो उभतो सुजातो अञ्ञो अत्थी’’ति कुलमानेन मत्तो मानथद्धो अचारिन्ति योजना. भोगइस्सरियेन चाति विभवेन आधिपच्चेन च हेतुभूतेन भोगसम्पदञ्च इस्सरियसम्पदञ्च पटिच्च उप्पन्नमदेन मत्तो अहं अचारिन्ति योजना. सण्ठानवण्णरूपेनाति सण्ठानं आरोहपरिणाहसम्पत्ति, वण्णो ओदातसामतादिछविसम्पत्ति, रूपं अङ्गपच्चङ्गसोभा. इधापि वुत्तनयेन योजना वेदितब्बा. मदमत्तोति वुत्तप्पकारतो अञ्ञेनपि मदेन मत्तो.

नात्तनो समकं कञ्चीति अत्तनो समकं सदिसं जातिआदीहि समानं अतिरेकं वा कञ्चि न मञ्ञिसं न मञ्ञिं, मया समानम्पि न मञ्ञिं, कुतो अधिकन्ति अधिप्पायो. अतिमानहतो बालोति बालो अहं ततो बालभावतो अतिमानेन खतूपहतकुसलाचारो, ततो एव पत्थद्धो उस्सितद्धजो थम्भवसेन गरूनम्पि निपच्चकारस्स अकरणतो भुसं थद्धो अनोनमनथद्धजातो उस्सितमानद्धजो.

वुत्तमेवत्थं पाकटतरं कातुं ‘‘मातर’’न्तिआदि वुत्तं. तत्थ अञ्ञेति जेट्ठभातुआदिके, समणब्राह्मणे च. गरुसम्मतेति गरूति सम्मते गरुट्ठानिये. अनादरोति आदररहितो.

दिस्वा विनायकं अग्गन्ति एवं मानथद्धो हुत्वा विचरन्तो दिट्ठधम्मिकसम्परायिकपरमत्थेहि वेनेय्यानं विनयनतो सयम्भुताय नायकभावतो च विनायकं. सदेवके लोके सीलादिगुणेहि सेट्ठभावतो अग्गं. पुरिसदम्मानं अच्चन्तताय दमनतो सारथीनं वरुत्तमं, अतिविय उत्तमं ब्यामप्पभादिओभासेन आदिच्चमिव तपन्तं, ओभासन्तं भिक्खुसङ्घपुरक्खतं धम्मं देसेन्तं सब्बसत्तानं उत्तमं सत्थारं दिस्वा बुद्धानुभावेन सन्तज्जितो ‘‘अहमेव सेट्ठो, अञ्ञे हीना’’ति पवत्तमानं भोगमदादिमदञ्च छड्डेत्वा पहाय विप्पसन्नेन चेतसा सिरसा अभिवादेसिन्ति योजना. कथं पनायं मानथद्धो समानो सत्थु दस्सनमत्तेन मानं पहासीति? न खो पनेतं एवं दट्ठब्बं. सत्थु दस्सनमत्तेन मानं न पहासि ‘‘न मानं, ब्राह्मण, साधू’’तिआदिकाय पन देसनाय मानं पहासि. तं सन्धाय वुत्तं ‘‘मानं मदञ्च छड्डेत्वा, विप्पसन्नेन चेतसा. सिरसा अभिवादेसि’’न्ति. विप्पसन्नेन चेतसाति च इत्थम्भूतलक्खणे करणवचनं दट्ठब्बं.

‘‘अहमेव सेट्ठो’’ति पवत्तो मानो अतिमानो. ‘‘इमे पन निहीना’’ति अञ्ञे हीनतो दहन्तस्स मानो ‘‘ओमानो’’ति वदन्ति. ‘‘सेय्योहमस्मी’’ति पन अञ्ञं अतिक्कमित्वा अत्तानं सेय्यतो दहन्तस्स पवत्तो सेय्यमानो अतिमानो. ‘‘हीनोहमस्मी’’ति पवत्तो हीनमानो ओमानो. पहीना सुसमूहताति हेट्ठिममग्गेहि पहीना हुत्वा अग्गमग्गेन सुट्ठु समुग्घाटिता. अस्मिमानोति ‘‘एसोहमस्मी’’ति खन्धे ‘‘अह’’न्ति गहणवसेन पवत्तमानो. सब्बेति न केवलं अतिमानओमानअस्मिमाना एव, अथ खो सेय्यस्स सेय्यमानादयो नवविधा अन्तरभेदेन अनेकविधा च सब्बे मानविधा मानकोट्ठासा हता अग्गमग्गेन समुग्घाटिताति.

पुरोहितपुत्तजेन्तत्थेरगाथावण्णना निट्ठिता.