६. छक्कनिपातो
१. उरुवेलकस्सपत्थेरगाथावण्णना
छक्कनिपाते दिस्वान पाटिहीरानीतिआदिका आयस्मतो उरुवेलकस्सपत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं महापरिसानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानन्तरं पत्थेत्वा महादानं दत्वा पणिधानमकासि. भगवा चस्स अनन्तरायतं दिस्वा, ‘‘अनागते गोतमबुद्धस्स सासने महापरिसानं अग्गो भविस्सती’’ति ब्याकासि.
सो तत्थ यावजीवं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वानवुतिकप्पमत्थके फुस्सस्स भगवतो वेमातिककनिट्ठभाता हुत्वा निब्बत्ति. अञ्ञेपिस्स द्वे कनिट्ठभातरो अहेसुं. ते तयोपि बुद्धप्पमुखं सङ्घं परमाय पूजाय पूजेत्वा यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो अम्हाकं भगवतो निब्बत्तितो पुरेतरमेव बाराणसियं ब्राह्मणकुले भातरो हुत्वा, अनुक्कमेन निब्बत्ता गोत्तवसेन तयोपि कस्सपा एव नाम जाता. ते वयप्पत्ता तयो वेदे उग्गण्हिंसु. तेसं जेट्ठभातिकस्स पञ्च माणवकसतानि परिवारो, मज्झिमस्स तीणि, कनिट्ठस्स द्वे. ते अत्तनो गन्थे सारं ओलोकेन्ता दिट्ठधम्मिकमेव अत्थं दिस्वा पब्बज्जं रोचेसुं. तेसु जेट्ठभाता अत्तनो परिवारेन सद्धिं उरुवेलं गन्त्वा इसिपब्बज्जं पब्बजित्वा उरुवेलकस्सपो नाम जातो महागङ्गानदीवङ्के पब्बजितो नदीकस्सपो नाम जातो, गयासीसे पब्बजितो गयाकस्सपो नाम जातो.
एवं तेसु इसिपब्बज्जं पब्बजित्वा तत्थ तत्थ वसन्तेसु बहूनं दिवसानं अच्चयेन अम्हाकं बोधिसत्तो महाभिनिक्खमनं निक्खमित्वा, पटिविद्धसब्बञ्ञुतञ्ञाणो अनुक्कमेन धम्मचक्कं पवत्तेत्वा, पञ्चवग्गियत्थेरे अरहत्ते पतिट्ठापेत्वा यसप्पमुखे पञ्चपञ्ञास सहायके विनेत्वा सट्ठि अरहन्ते ‘‘चरथ, भिक्खवे, चारिक’’न्ति विस्सज्जेत्वा, भद्दवग्गिये विनेत्वा उरुवेलकस्सपस्स वसनट्ठानं गन्त्वा वसनत्थाय अग्यागारं पविसित्वा, तत्थ कतनागदमनं आदिं कत्वा अड्ढुड्ढसहस्सेहि पाटिहारियेहि उरुवेलकस्सपं सपरिसं विनेत्वा पब्बाजेसि. तस्स पब्बजितभावं ञत्वा इतरेपि द्वे भातरो सपरिसा आगन्त्वा सत्थु सन्तिके पब्बजिंसु. सब्बेव एहिभिक्खू इद्धिमयपत्तचीवरधरा अहेसुं.
सत्था तं समणसहस्सं आदाय गयासीसं गन्त्वा पिट्ठिपासाणे निसिन्नो आदित्तपरियायदेसनाय सब्बे अरहत्ते पतिट्ठापेसि. तेन वुत्तं अपदाने (अप. थेर २.५४.२५१-२९५) –
‘‘पदुमुत्तरो नाम जिनो, सब्बलोकविदू मुनि;
इतो सतसहस्सम्हि, कप्पे उप्पज्जि चक्खुमा.
‘‘ओवादको विञ्ञापको, तारको सब्बपाणिनं;
देसनाकुसलो बुद्धो, तारेसि जनतं बहुं.
‘‘अनुकम्पको कारुणिको, हितेसी सब्बपाणिनं;
सम्पत्ते तित्थिये सब्बे, पञ्चसीले पतिट्ठपि.
‘‘एवं निराकुलं आसि, सुञ्ञतं तित्थियेहि च;
विचित्तं अरहन्तेहि, वसीभूतेहि तादिभि.
‘‘रतनानट्ठपञ्ञासं, उग्गतो सो महामुनि;
कञ्चनग्घियसङ्कासो, बात्तिंसवरलक्खणो.
‘‘वस्ससतसहस्सानि, आयु विज्जति तावदे;
तावता तिट्ठमानो सो, तारेसि जनतं बहुं.
‘‘तदाहं हंसवतिया, ब्राह्मणो साधुसम्मतो;
उपेच्च लोकपज्जोतं, अस्सोसिं धम्मदेसनं.
‘‘तदा महापरिसतिं, महापरिससावकं;
ठपेन्तं एतदग्गम्हि, सुत्वान मुदितो अहं.
‘‘महता परिवारेन, निमन्तेत्वा महाजिनं;
ब्राह्मणानं सहस्सेन, सहदानमदासहं.
‘‘महादानं ददित्वान, अभिवादिय नायकं;
एकमन्तं ठितो हट्ठो, इदं वचनमब्रविं.
‘‘तयि सद्धाय मे वीर, अधिकारगुणेन च;
परिसा महती होतु, निब्बत्तस्स तहिं तहिं.
‘‘तदा अवोच परिसं, गजगज्जितसुस्सरो;
करवीकरुतो सत्था, एतं पस्सथ ब्राह्मणं.
‘‘हेमवण्णं महाबाहुं, कमलाननलोचनं;
उदग्गतनुजं हट्ठं, सद्धवन्तं गुणे मम.
‘‘एस पत्थयते ठानं, सीहघोसस्स भिक्खुनो;
अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.
‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;
कस्सपो नाम गोत्तेन, हेस्सति सत्थु सावको.
‘‘इतो द्वेनवुते कप्पे, अहु सत्था अनुत्तरो;
अनूपमो असदिसो, फुस्सो लोकग्गनायको.
‘‘सो च सब्बं तमं हन्त्वा, विजटेत्वा महाजटं;
वस्सते अमतं वुट्ठिं, तप्पयन्तो सदेवकं.
‘‘तदा हि बाराणसियं, राजापच्चा अहुम्हसे;
भातरोम्ह तयो सब्बे, संविसट्ठाव राजिनो.
‘‘वीरङ्गरूपा बलिनो, सङ्गामे अपराजिता;
तदा कुपितपच्चन्तो, अम्हे आह महीपति.
‘‘एथ गन्त्वान पच्चन्तं, सोधेत्वा अट्टवीबलं;
खेमं विजिरितं कत्वा, पुन देथाति भासथ.
‘‘ततो मयं अवोचुम्ह, यदि देय्यासि नायकं;
उपट्ठानाय अम्हाकं, साधयिस्साम वो ततो.
‘‘ततो मयं लद्धवरा, भूमिपालेन पेसिता;
निक्खित्तसत्थं पच्चन्तं, कत्वा पुनरुपेच्च तं.
‘‘याचित्वा सत्थुपट्ठानं, राजानं लोकनायकं;
मुनिवीरं लभित्वान, यावजीवं यजिम्ह तं.
‘‘महग्घानि च वत्थानि, पणीतानि रसानि च;
सेनासनानि रम्मानि, भेसज्जानि हितानि च.
‘‘दत्वा ससङ्घमुनिनो, धम्मेनुप्पादितानि नो;
सीलवन्तो कारुणिका, भावनायुत्तमानसा.
‘‘सद्धा परिचरित्वान, मेत्तचित्तेन नायकं;
निब्बुते तम्हि लोकग्गे, पूजं कत्वा यथाबलं.
‘‘ततो चुता सन्तुसितं, गता तत्थ महासुखं;
अनुभूता मयं सब्बे, बुद्धपूजायिदं फलं.
‘‘मायाकारो यथा रङ्गे, दस्सेसि विकतिं बहुं;
तथा भवे भमन्तोहं, विदेहाधिपती अहुं.
‘‘गुणाचेलस्स वाक्येन, मिच्छादिट्ठिगतासयो;
नरकं मग्गमारूळ्हो, रुचाय मम धीतुया.
‘‘ओवादं नादियित्वान, ब्रह्मुना नारदेनहं;
बहुधा संसितो सन्तो, दिट्ठिं हित्वान पापिकं.
‘‘पूरयित्वा विसेसेन, दस कम्मपथानिहं;
हित्वान देहमगमिं, सग्गं सभवनं यथा.
‘‘पच्छिमे भवे सम्पत्ते, ब्रह्मबन्धु अहोसहं;
बाराणसियं फीतायं, जातो विप्पमहाकुले.
‘‘मच्चुब्याधिजराभीतो, ओगाहेत्वा महावनं;
निब्बानं पदमेसन्तो, जटिलेसु परिब्बजिं.
‘‘तदा द्वे भातरो मय्हं, पब्बजिंसु मया सह;
उरुवेलायं मापेत्वा, अस्समं निवसिं अहं.
‘‘कस्सपो नाम गोत्तेन, उरुवेलनिवासिको;
ततो मे आसि पञ्ञत्ति, उरुवेलकस्सपो इति.
‘‘नदीसकासे भाता मे, नदीकस्सपसव्हयो;
आसी सकासनामेन, गयायं गयाकस्सपो.
‘‘द्वे सतानि कनिट्ठस्स, तीणि, मज्झस्स भातुनो;
मम पञ्च सतानूना, सिस्सा सब्बे ममानुगा.
‘‘तदा उपेच्च मं बुद्धो, कत्वान विविधानि मे;
पाटिहीरानि लोकग्गो, विनेसि नरसारथि.
‘‘सहस्सपरिवारेन, अहोसिं एहिभिक्खुको;
तेहेव सह सब्बेहि, अरहत्तमपापुणिं.
‘‘ते चेवञ्ञे च बहवो, सिस्सा मं परिवारयुं;
भासितुञ्च समत्थोहं, ततो मं इसिसत्तमो.
‘‘महापरिसभावस्मिं, एतदग्गे ठपेसि मं;
अहो बुद्धे कतं कारं, सफलं मे अजायथ.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सीहनादं नदन्तो –
३७५. ‘‘दिस्वान पाटिहीरानि, गोतमस्स यसस्सिनो;
न तावाहं पणिपतिं, इस्सामानेन वञ्चितो.
३७६. ‘‘मम सङ्कप्पमञ्ञाय, चोदेसि नरसारथि;
ततो मे आसि संवेगो, अब्भुतो लोमहंसनो.
३७७. ‘‘पुब्बे जटिलभूतस्स, या मे सिद्धि परित्तिका;
ताहं तदा निराकत्वा, पब्बजिं जिनसासने.
३७८. ‘‘पुब्बे यञ्ञेन सन्तुट्ठो, कामधातुपुरक्खतो;
पच्छा रागञ्च दोसञ्च, मोहञ्चापि समूहनिं.
३७९. ‘‘पुब्बेनिवासं जानामि, दिब्बचक्खु विसोधितं;
इद्धिमा परचित्तञ्ञू, दिब्बसोतञ्च पापुणिं.
३८०. ‘‘यस्स चत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. –
इमा छ गाथा अभासि.
तत्थ दिस्वान पाटिहीरानीति नागराजदमनादीनि अड्ढुड्ढसहस्सानि पाटिहारियानि दिस्वा. ‘‘पाटिहीरं, पाटिहेरं, पाटिहारिय’’न्ति हि अत्थतो एकं, ब्यञ्जनमेव नानं. यसस्सिनो’’ति ‘‘इतिपि सो भगवा’’तिआदिना सदेवके लोके यथाभुच्चं पत्थटकित्तिसद्दस्स. न तावाहं पणिपतिन्ति याव मं भगवा ‘‘नेव खो त्वं, कस्सप, अरहा, नापि अरहत्तमग्गं समापन्नो, सापि ते पटिपदा नत्थि, याय त्वं अरहा वा अस्स, अरहत्तमग्गं वा समापन्नो’’ति न तज्जेसि, ताव अहं न पणिपातनं अकासिं. किंकारणा? इस्सामानेन वञ्चितो, ‘‘इमस्स मयि सावकत्तं उपगते मम लाभसक्कारो परिहायिस्सति, इमस्स एव वड्ढिस्सती’’ति एवं परसम्पत्तिअसहनलक्खणाय इस्साय चेव, ‘‘अहं गणपामोक्खो बहुजनसम्मतो’’ति एवं अब्भुन्नतिलक्खणेन मानेन च वञ्चितो, पलम्भितो हुत्वाति अत्थो.
मम सङ्कप्पमञ्ञायाति मय्हं मिच्छासङ्कप्पं जानित्वा, यं यं भगवा उत्तरि मनुस्सधम्मा इद्धिपाटिहारियं दस्सेति, तं तं दिस्वा ‘‘महिद्धिको खो महासमणो महानुभावो’’ति चिन्तेत्वापि ‘‘न त्वेव खो अरहा यथा अह’’न्ति एवं पवत्तं मिच्छावितक्कं जानन्तोपि ञाणपरिपाकं आगमेन्तो अज्झुपेक्खित्वा पच्छा नेरञ्जराय मज्झे समन्ततो उदकं उस्सारेत्वा रेणुहताय भूमिया चङ्कमित्वा तेन आभतनावाय ठितो तदापि ‘‘महिद्धिको’’तिआदिकं चिन्तेत्वा पुन ‘‘न त्वेव खो अरहा यथा अह’’न्ति पवत्तितं मिच्छासङ्कप्पं ञत्वाति अत्थो. चोदेसि नरसारथीति तदा मे ञाणपरिपाकं ञत्वा ‘‘नेव खो त्वं अरहा’’तिआदिना पुरिसदम्मसारथि सत्था मं चोदेसि निग्गण्हि. ततो मे आसि संवेगो, अब्भुतो लोमहंसनोति ततो यथावुत्तचोदनाहेतु एत्तकं कालं अभूतपुब्बताय अब्भुतो लोमहंसनवसेन पवत्तिया लोमहंसनो ‘‘अनरहाव समानो ‘अरहा’ति मञ्ञि’’न्ति संवेगो सहोत्तप्पो ञाणुप्पादो मय्हं अहोसि.
जटिलभूतस्साति तापसभूतस्स. सिद्धीति लाभसक्कारसमिद्धि. परित्तिकाति अप्पमत्तिका. ताहन्ति तं अहं. तदाति भगवतो चोदनाय संवेगुप्पत्तिकाले. निराकत्वाति अपनेत्वा छड्डेत्वा, अनपेक्खो हुत्वाति अत्थो. ‘‘इद्धीति भावनामयइद्धी’’ति वदन्ति. तदयुत्तं तदा तस्स अझानलाभीभावतो. तथा हि वुत्तं ‘‘कामधातुपुरक्खतो’’ति.
यञ्ञेन सन्तुट्ठोति ‘‘यञ्ञं यजित्वा सग्गसुखं अनुभविस्सामि, अलमेत्तावता’’ति यञ्ञयजनेन सन्तुट्ठो निट्ठितकिच्चसञ्ञी. कामधातुपुरक्खतोति कामसुगतिं आरब्भ उप्पन्नतण्हो यञ्ञयजनेन कामलोकं पुरक्खत्वा ठितो. सो चे यञ्ञो पाणातिपातपटिसंयुत्तो होति, न तेन सुगतिं सक्का लद्धुं. न हि अकुसलस्स इट्ठो कन्तो विपाको निब्बत्तति. या पन तत्थ दानादिकुसलचेतना, ताय सति पच्चयसमवाये सुगतिं गच्छेय्य. पच्छाति तापसपब्बज्जातो पच्छा सत्थु ओवादेन तापसलद्धिं पहाय चतुसच्चकम्मट्ठानानुयोगकाले. समूहनिन्ति विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया रागञ्च दोसञ्च मोहञ्च अनवसेसतो समुग्घातेसिं.
यस्मा पनायं थेरो अरियमग्गेन रागादयो समूहनन्तोयेव छळभिञ्ञो अहोसि, तस्मा तं अत्तनो छळभिञ्ञभावं दस्सेन्तो ‘‘पुब्बेनिवासं जानामी’’तिआदिमाह. तत्थ पुब्बेनिवासं जानामीति अत्तनो परेसञ्च पुब्बेनिवासं अतीतासु जातीसु निब्बत्तक्खन्धे खन्धपटिबद्धे च पुब्बेनिवासञाणेन हत्थतले आमलकं विय पच्चक्खतो जानामि बुज्झामि. दिब्बचक्खु विसोधितन्ति दिब्बचक्खुञाणं विसोधितं, पकतिचक्खुना आपाथगतं पकतिरूपं विय दिब्बं मानुसम्पि दूरं तिरोट्ठितं अतिसुखुमञ्च रूपं विभावेतुं समत्थञाणं भावनाय मया विसुद्धं कत्वा पटिलद्धन्ति अत्थो. इद्धिमाति अधिट्ठानिद्धिविकुब्बनिद्धिआदीहि इद्धीहि इद्धिमा, इद्धिविधञाणलाभीति अत्थो. सरागादिभेदस्स परेसं चित्तस्स जाननतो परचित्तञ्ञू, चेतोपरियञाणलाभीति वुत्तं होति. दिब्बसोतञ्च पापुणिन्ति दिब्बसोतञाणञ्च पटिलभिं.
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयोति यो सब्बेसं संयोजनानं खयभूतो खयेन वा लद्धब्बो, सो सदत्थो परमत्थो च मया अरियमग्गाधिगमेन अधिगतोति. एवमेताय गाथाय थेरस्स अञ्ञाब्याकरणं अहोसीति वेदितब्बो.
उरुवेलकस्सपत्थेरगाथावण्णना निट्ठिता.
२. तेकिच्छकारित्थेरगाथावण्णना
अतिहिता वीहीतिआदिका आयस्मतो तेकिच्छकारित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्वा वेज्जसत्थे निप्फत्तिं गतो. विपस्सिस्स भगवतो उपट्ठाकं असोकं नाम थेरं ब्याधितं अरोगमकासि, अञ्ञेसञ्च सत्तानं रोगाभिभूतानं अनुकम्पाय भेसज्जं संविदहि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सुबुद्धस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति. तस्स तिकिच्छकेहि गब्भकाले परिस्सयं अपहरित्वा परिपालितताय तेकिच्छकारीति नामं अकंसु. सो अत्तनो कुलानुरूपानि विज्जाट्ठानानि सिप्पानि च सिक्खन्तो वड्ढति. तदा चाणक्को सुबुद्धस्स पञ्ञावेय्यत्तियं किरियासु उपायकोसल्लञ्च दिस्वा, ‘‘अयं इमस्मिं राजकुले पतिट्ठं लभन्तो मं अभिभवेय्या’’ति इस्सापकतो रञ्ञा चन्दगुत्तेन तं बन्धनागारे खिपापेसि. तेकिच्छकारी पितु बन्धनागारप्पवेसनं सुत्वा भीतो पलायित्वा साणवासित्थेरस्स सन्तिकं गन्त्वा अत्तनो संवेगकारणं थेरस्स कथेत्वा पब्बजित्वा कम्मट्ठानं गहेत्वा अब्भोकासिको नेसज्जिको च हुत्वा विहरति, सीतुण्हं अगणेन्तो समणधम्ममेव करोति, विसेसतो ब्रह्मविहारभावनमनुयुञ्जति. तं दिस्वा मारो पापिमा ‘‘न इमस्स मम विसयं अतिक्कमितुं दस्सामी’’ति विक्खेपं कातुकामो सस्सानं निप्फत्तिकाले खेत्तगोपकवण्णेन थेरस्स सन्तिकं गन्त्वा तं निप्पण्डेन्तो –
३८१. ‘‘अतिहिता वीहि, खलगता साली;
न च लभे पिण्डं, कथमहं कस्स’’न्ति. – आह; तं सुत्वा थेरो –
३८२. ‘‘बुद्धमप्पमेय्यं अनुस्सर पसन्नो, पीतिया फुटसरीरो होहिसि सततमुदग्गो.
३८३. ‘‘धम्ममप्पमेय्यं …पे… सततमुदग्गो.
३८४. ‘‘सङ्घमप्पमेय्यं…पे… सततमुदग्गो’’ति. – आह; तं सुत्वा मारो –
३८५. ‘‘अब्भोकासे विहरसि, सीता हेमन्तिका इमा रत्यो;
मा सीतेन परेतो विहञ्ञित्थो, पविस त्वं विहारं फुसितग्गळ’’न्ति. –
आह. अथ थेरो –
३८६. ‘‘फुसिस्सं चतस्सो अप्पमञ्ञायो, ताहि च सुखितो विहरिस्सं;
नाहं सीतेन विहञ्ञिस्सं, अनिञ्जितो विहरन्तो’’ति. – आह;
तत्थ अतिहिता वीहीति वीहयो कोट्ठागारं अतिनेत्वा ठपिता, तत्थ पटिसामिता खलतो वा घरं उपनीताति अत्थो. वीहिग्गहणेन चेत्थ इतरम्पि धञ्ञं सङ्गण्हाति. साली पन येभुय्येन वीहितो पच्छा पच्चन्तीति आह. खलगता सालीति खलं धञ्ञकरणट्ठानं गता, तत्थ रासिवसेन मद्दनचावनादिवसेन ठिताति अत्थो. पधानधञ्ञभावदस्सनत्थञ्चेत्थ सालीनं विसुं गहणं, उभयेनपि गामे, गामतो बहि च धञ्ञं परिपुण्णं ठितन्ति दस्सेति. न च लभे पिण्डन्ति एवं सुलभधञ्ञे सुभिक्खकाले अहं पिण्डमत्तम्पि न लभामि. इदानि कथमहं कस्सन्ति अहं कथं करिस्सामि, कथं जीविस्सामीति परिहासकेळिं अकासि.
तं सुत्वा थेरो ‘‘अयं वराको अत्तना अत्तनो पवत्तिं मय्हं पकासेसि, मया पन अत्तनाव अत्ता ओवदितब्बो, न मया किञ्चि कथेतब्ब’’न्ति वत्थुत्तयानुस्सतियं अत्तानं नियोजेन्तो ‘‘बुद्धमप्पमेय्य’’न्तिआदिना तिस्सो गाथा अभासि. तत्थ बुद्धमप्पमेय्यं अनुस्सर पसन्नोति सवासनाय अविज्जानिद्दाय अच्चन्तविगमेन, बुद्धिया च विकसितभावेन बुद्धं भगवन्तं पमाणकरानं रागादिकिलेसानं अभावा अपरिमाणगुणसमङ्गिताय अप्पमेय्यपुञ्ञक्खेत्तताय च अप्पमेय्यं. ओकप्पनलक्खणेन अभिप्पसादेन पसन्नो, पसन्नमानसो ‘‘इतिपि सो भगवा अरहं सम्मासम्बुद्धो’’तिआदिना (म. नि. १.७४; सं. नि. ५.९९७) अनुस्सर अनु अनु बुद्धारम्मणं सतिं पवत्तेहि, पीतिया फुटसरीरो होहिसि. सततमुदग्गोति अनुस्सरन्तोव फरणलक्खणाय पीतिया सततं सब्बदा फुटसरीरो पीतिसमुट्ठानपणीतरूपेहि अज्झोत्थटसरीरो उब्बेगपीतिया उदग्गो कायं उदग्गं कत्वा आकासं लङ्घितुं समत्थो च भवेय्यासि, बुद्धानुस्सतिया बुद्धारम्मणं उळारं पीतिसोमनस्सं पटिसंवेदेय्यासि. यतो सीतुण्हेहि विय जिघच्छापिपासाहिपि अनभिभूतो होहिसीति अत्थो.
धम्मन्ति अरियं लोकुत्तरधम्मं. सङ्घन्ति अरियं परमत्थसङ्घं. सेसं वुत्तनयमेव. अनुस्सराति पनेत्थ ‘‘स्वाक्खातो भगवता धम्मो’’तिआदिना धम्मं, ‘‘सुप्पटिपन्नो भगवतो सावकसङ्घो’’तिआदिना सङ्घं अनुस्सराति योजेतब्बं.
एवं थेरेन रतनत्तयगुणानुस्सरणे नियोजनवसेन अत्तनि ओवदिते पुन मारो विवेकवासतो नं विवेचेतुकामो हितेसीभावं विय दस्सेन्तो ‘‘अब्भोकासे विहरसी’’ति पञ्चमं गाथमाह. तस्सत्थो – त्वं, भिक्खु, अब्भोकासे केनचि अपटिच्छन्ने विवटङ्गणे विहरसि इरियापथे कप्पेसि. हेमन्तिका हिमपातसमये परियापन्ना इमा सीता रत्तियो वत्तन्ति. तस्मा सीतेन परेतो अभिभूतो हुत्वा मा विहञ्ञित्थो विघातं मा आपज्जि मा किलमि. फुसितग्गळं पिहितकवाटं सेनासनं पविस, एवं ते सुखविहारो भविस्सतीति.
तं सुत्वा थेरो ‘‘न मय्हं सेनासनपरियेसनाय पयोजनं, एत्थेवाहं सुखविहारी’’ति दस्सेन्तो ‘‘फुसिस्स’’न्तिआदिना छट्ठं गाथमाह. तत्थ फुसिस्सं चतस्सो अप्पमञ्ञायोति अप्पमाणगोचरताय ‘‘अप्पमञ्ञा’’ति लद्धवोहारे चत्तारो ब्रह्मविहारे फुसिस्सं फुसिस्सामि, कालेन कालं समापज्जिस्सामि. ताहि च सुखितो विहरिस्सन्ति ताहि अप्पमञ्ञाहि सुखितो सञ्जातसुखो हुत्वा विहरिस्सं चत्तारोपि इरियापथे कप्पेस्सामीति. तेन मय्हं सब्बकाले सुखमेव, न दुक्खं. यतो नाहं सीतेन विहञ्ञिस्सं अन्तरट्ठकेपि हिमपातसमये अहं सीतेन न किलमिस्सामि, तस्मा अनिञ्जितो विहरन्तो चित्तस्स इञ्जितकारणानं ब्यापादादीनं सुप्पहीनत्ता पच्चयुप्पन्निञ्जनाय च अभावतो समापत्तिसुखेनेव सुखितो विहरिस्सामीति. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१८.३९-४४) –
‘‘नगरे बन्धुमतिया, वेज्जो आसिं सुसिक्खितो;
आतुरानं सदुक्खानं, महाजनसुखावहो.
‘‘ब्याधितं समणं दिस्वा, सीलवन्तं महाजुतिं;
पसन्नचित्तो सुमनो, भेसज्जमददिं तदा.
‘‘अरोगो आसि तेनेव, समणो संवुतिन्द्रियो;
असोको नाम नामेन, उपट्ठाको विपस्सिनो.
‘‘एकनवुतितो कप्पे, यं ओसधमदासहं;
दुग्गतिं नाभिजानामि, भेसज्जस्स इदं फलं.
‘‘इतो च अट्ठमे कप्पे, सब्बोसधसनामको;
सत्तरतनसम्पन्नो, चक्कवत्ती महप्फलो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
एत्थ च बिन्दुसाररञ्ञो काले इमस्स थेरस्स उप्पन्नत्ता ततियसङ्गीतियं इमा गाथा सङ्गीताति वेदितब्बा.
तेकिच्छकारित्थेरगाथावण्णना निट्ठिता.
३. महानागत्थेरगाथावण्णना
यस्स सब्रह्मचारीसूतिआदिका आयस्मतो महानागत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं ककुसन्धं भगवन्तं अरञ्ञं अज्झोगाहेत्वा अञ्ञतरस्मिं रुक्खमूले झानसुखेन निसिन्नं दिस्वा पसन्नमानसो तस्स दाळिमफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे साकेते मधुवासेट्ठस्स नाम ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, महानागोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो भगवति साकेते अञ्जनवने विहरन्ते आयस्मतो गवम्पतित्थेरस्स पाटिहारियं दिस्वा पटिलद्धसद्धो थेरस्सेव सन्तिके पब्बजित्वा तस्सोवादे ठत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –
‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;
गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.
‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;
भगवा तम्हि समये, झायते पब्बतन्तरे.
‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;