७. सत्तकनिपातो

१. सुन्दरसमुद्दत्थेरगाथावण्णना

सत्तकनिपाते अलङ्कतातिआदिका आयस्मतो सुन्दरसमुद्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनित्वा इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. समुद्दोतिस्स नामं अहोसि. रूपसम्पत्तिया पन सुन्दरसमुद्दोति पञ्ञायित्थ. सो पठमवये ठितो भगवतो राजगहप्पवेसे बुद्धानुभावं दिस्वा, पटिलद्धसद्धो निस्सरणज्झासयताय पब्बजित्वा, लद्धूपसम्पदो समादिन्नधुतधम्मो राजगहतो सावत्थिं गन्त्वा, कल्याणमित्तस्स सन्तिके विपस्सनाचारं उग्गहेत्वा, कम्मट्ठानं अनुयुञ्जन्तो विहरति. तस्स माता राजगहे उस्सवदिवसे अञ्ञे सेट्ठिपुत्ते सपजापतिके अलङ्कतपटियत्ते उस्सवकीळं कीळन्ते दिस्वा, पुत्तं अनुस्सरित्वा रोदति. तं दिस्वा अञ्ञतरा गणिका रोदनकारणं पुच्छि. सा तस्सा तं कारणं कथेसि. तं सुत्वा गणिका ‘‘अहं तं आनेस्सामि, पस्स ताव मम इत्थिभाव’’न्ति वत्वा ‘‘यदि एवं तंयेव तस्स पजापतिं कत्वा इमस्स कुलस्स सामिनिं करिस्सामी’’ति ताय बहुं धनं दत्वा, विस्सज्जिता महता परिवारेन सावत्थिं गन्त्वा, थेरस्स पिण्डाय विचरणट्ठाने एकस्मिं गेहे वसमाना दिवसे दिवसे अञ्ञेहि थेरस्स सक्कच्चं पिण्डपातं दापेसि. अलङ्कतपटियत्ता च हुत्वा सुवण्णपादुका आरुय्ह अत्तानं दस्सेसि. अथेकदिवसं गेहद्वारेन गच्छन्तं थेरं दिस्वा, सुवण्णपादुका ओमुञ्चित्वा, अञ्जलिं पग्गय्ह पुरतो गच्छन्ती नानप्पकारं थेरं कामनिमन्तनाय निमन्तेसि. तं सुत्वा थेरो ‘‘पुथुज्जनचित्तं नाम चञ्चलं, यंनून मया इदानेव उस्साहो करणीयो’’ति तत्थेव ठितो भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तं सन्धाय वुत्तं –

४५९. ‘‘अलङ्कता सुवसना, मालधारी विभूसिता;

अलत्तककतापादा, पादुकारुय्ह वेसिका.

४६०. ‘‘पादुका ओरुहित्वान, पुरतो पञ्जलीकता;

सा मं सण्हेन मुदुना, म्हितपुब्बं अभासथ.

४६१. ‘‘‘युवासि त्वं पब्बजितो, तिट्ठाहि मम सासने;

भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते;

सच्चं ते पटिजानामि, अग्गिं वा ते हरामहं.

४६२. ‘‘‘यदा जिण्णा भविस्साम, उभो दण्डपरायना;

उभोपि पब्बजिस्साम, उभयत्थ कटग्गहो’’’.

४६३. ‘‘तञ्च दिस्वान याचन्तिं, वेसिकं पञ्जलीकतं;

अलङ्कतं सुवसनं, मच्चुपासंव ओड्डितं.

४६४. ‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;

आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.

४६५. ‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति.

तत्थ मालधारीति मालाधारिनी पिळन्धपुप्फदामा. विभूसिताति ऊनट्ठानस्स पूरणवसेन पुप्फेहि चेव गन्धविलेपनादीहि च विभूसितगत्ता. ‘‘अलङ्कता’’ति इमिना हत्थूपगगीवूपगादीहि आभरणेहि अलङ्करणं अधिप्पेतं. अलत्तककतापादाति परिणतजयसुमनपुप्फवण्णेन लाखारसेन रञ्जितचरणयुगळा. समासपदञ्हेतं, ‘‘अलत्तककतपादा’’ति वत्तब्बे गाथासुखत्थं दीघं कत्वा वुत्तं. असमासभावे पन ‘‘तस्सा’’ति वचनसेसो वेदितब्बो. पादुकारुय्ह वेसिकाति एका रूपूपजीविका इत्थी यथावुत्तवेसा सुवण्णपादुका पटिमुञ्चित्वा ‘‘ठिता’’ति वचनसेसो.

पादुका ओरुहित्वानाति पादुकाहि ओतरित्वा, सुवण्णपादुकायो ओमुञ्चित्वाति अत्थो. पञ्जलीकताति पग्गहितअञ्जलिका सा वेसी मं. सामं वा वचनपरम्परं विना सयमेव अभासथ. सण्हेनाति मट्ठेन. मुदुनाति मधुरेन. ‘‘वचनेना’’ति अवुत्तम्पि वुत्तमेव होति, अभासथाति, वुत्तत्ता.

युवासि त्वं पब्बजितोति त्वं पब्बजन्तो युवा, दहरोयेव हुत्वा पब्बजितोसि, ननु पब्बजन्तेन सत्तमे दसके सम्पत्तेव पब्बजितब्बन्ति दस्सेति. तिट्ठाहि मम सासनेति मम वचने तिट्ठ.

किं पन तन्ति आह ‘‘भुञ्ज मानुसके कामे’’ति कामे परिभुञ्जितुकामस्स रूपसम्पत्ति, वयसम्पत्ति, परिवारसम्पत्ति, भोगसम्पत्ति च इच्छितब्बा. तत्थ ‘‘कुतो मे भोगसम्पत्ती’’ति वदेय्याति, आह ‘‘अहं वित्तं ददामि ते’’ति. ‘‘तयिदं वचनं कथं सद्दहातब्ब’’न्ति मञ्ञेय्याति तं सद्दहापेन्ती आह ‘‘सच्चं ते पटिजानामि, अग्गिं वा ते हरामह’’न्ति. ‘‘भुञ्ज मानुसके कामे, अहं वित्तं ददामि ते’’ति यदिदं मया पटिञ्ञातं, तं एकंसेन सच्चमेव पटिजानामि, सचे मे न पत्तियायसि, अग्गिं वा ते हरामहं अग्गिं हरित्वा अग्गिपच्चयं सपथं करोमीति अत्थो. उभयत्थ कटग्गहोति अम्हाकं उभिन्नं जिण्णकाले पब्बज्जनं उभयत्थ जयग्गाहो. यं मयं याव दण्डपरायनकाला भोगे भुञ्जाम, एवं इधलोकेपि भोगेहि न जीयाम, मयं पच्छा पब्बजिस्साम, एवं परलोकेपि भोगेहि न जीयामाति अधिप्पायो. ततोति तं निमित्तं, कामेहि निमन्तेन्तिया ‘‘युवासि त्व’’न्तिआदिना ‘‘यदा जिण्णा भविस्सामा’’तिआदिना च तस्सा वेसिया वुत्तवचनहेतु. तञ्हि वचनं अङ्कुसं कत्वा थेरो समणधम्मं करोन्तो सदत्थं परिपूरेसि. सेसं हेट्ठा वुत्तनयमेव.

सुन्दरसमुद्दत्थेरगाथावण्णना निट्ठिता.

२. लकुण्डकभद्दियत्थेरगाथावण्णना

परे अम्बाटकारामेतिआदिका आयस्मतो लकुण्डकभद्दियत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे महाभोगे कुले निब्बत्तित्वा, वयप्पत्तो सत्थु सन्तिके धम्मं सुणन्तो निसिन्नो तस्मिं खणे सत्थारं एकं भिक्खुं मञ्जुस्सरानं अग्गट्ठाने ठपेन्तं दिस्वा, सयम्पि तं ठानं पत्थेन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं दत्वा, ‘‘अहो वताहम्पि अनागते अयं भिक्खु विय एकस्स बुद्धस्स सासने मञ्जुस्सरानं अग्गो भवेय्य’’न्ति पणिधानं अकासि. भगवा च तस्स अनन्तरायतं दिस्वा ब्याकरित्वा पक्कामि.

सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो फुस्सस्स भगवतो काले चित्तपत्तकोकिलो हुत्वा राजुय्यानतो मधुरं अम्बफलं तुण्डेनादाय गच्छन्तो सत्थारं दिस्वा पसन्नमानसो ‘‘दस्सामी’’ति चित्तं उप्पादेसि. सत्था तस्स चित्तं ञत्वा पत्तं गहेत्वा निसीदि. कोकिलो दसबलस्स पत्ते अम्बपक्कं पतिट्ठापेसि. सत्था तं परिभुञ्जि. सो कोकिलो पसन्नमानसो तेनेव पीतिसुखेन सत्ताहं वीतिनामेसि. तेन च पुञ्ञकम्मेन मञ्जुस्सरो अहोसि. कस्सपसम्मासम्बुद्धकाले पन चेतिये आरद्धे किं पमाणं करोम? सत्तयोजनप्पमाणं. अतिमहन्तमेतं. छयोजनप्पमाणं. एतम्पि अतिमहन्तं. पञ्चयोजनं, चतुयोजनं, तियोजनं, द्वियोजनन्ति वुत्ते अयं तदा जेट्ठवड्ढकी हुत्वा ‘‘एथ, भो, अनागते सुखपटिजग्गियं कातुं वट्टती’’ति वत्वा रज्जुया परिक्खिपन्तो गावुतमत्तके ठत्वा ‘‘एकेकं मुखं गावुतं गावुतं होतु, चेतियं एकयोजनावट्टं योजनुब्बेधं भविस्सती’’ति आह. ते तस्स वचने अट्ठंसु. इति अप्पमाणस्स बुद्धस्स पमाणं अकासीति. तेन पन कम्मेन निब्बत्तनिब्बत्तट्ठाने अञ्ञेहि नीचतरप्पमाणो होति.

सो अम्हाकं सत्थु काले सावत्थियं महाभोगकुले निब्बत्ति, भद्दियोतिस्स नामं अहोसि. अतिरस्सताय पन लकुण्डकभद्दियोति पञ्ञायित्थ. सो सत्थु सन्तिके धम्मं सुत्वा, पटिलद्धसद्धो पब्बजित्वा, बहुस्सुतो धम्मकथिको हुत्वा मधुरेन सरेन परेसं धम्मं कथेसि. अथेकस्मिं उस्सवदिवसे एकेन ब्राह्मणेन सद्धिं रथेन गच्छन्ती अञ्ञतरा गणिका थेरं दिस्वा दन्तविदंसकं हसि. थेरो तस्सा दन्तट्ठिके निमित्तं गहेत्वा झानं उप्पादेत्वा, तं पादकं कत्वा, विपस्सनं पट्ठपेत्वा, अनागामी अहोसि. सो अभिण्हं कायगताय सतिया विहरन्तो एकदिवसं आयस्मता धम्मसेनापतिना ओवदियमानो अरहत्ते पतिट्ठहि. तेन वुत्तं अपदाने (अप. थेर २.५५.१-३३) –

‘‘पदुमुत्तरो नाम जिनो, सब्बधम्मेसु चक्खुमा;

इतो सतसहस्सम्हि, कप्पे उप्पज्जि नायको.

‘‘तदाहं हंसवतियं सेट्ठिपुत्तो महद्धनो;

जङ्घाविहारं विचरं, सङ्घारामं अगच्छहं.

‘‘तदा सो लोकपज्जोतो, धम्मं देसेसि नायको;

मञ्जुस्सरानं पवरं, सावकं अभिकित्तयि.

‘‘तं सुत्वा मुदितो हुत्वा, कारं कत्वा महेसिनो;

वन्दित्वा सत्थुनो पादे, तं ठानमभिपत्थयिं.

‘‘तदा बुद्धो वियाकासि, सङ्घमज्झे विनायको;

अनागतम्हि अद्धाने, लच्छसे तं मनोरथं.

‘‘सतसहस्सितो कप्पे, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘द्वेनवुते इतो कप्पे, फुस्सो उप्पज्जि नायको;

दुरासदो दुप्पसहो, सब्बलोकुत्तमो जिनो.

‘‘चरणेन च सम्पन्नो, ब्रहा उजु पतापवा;

हितेसी सब्बसत्तानं, बहुं मोचेसि बन्धना.

‘‘नन्दारामवने तस्स, अहोसिं फुस्सकोकिलो;

गन्धकुटिसमासन्ने, अम्बरुक्खे वसामहं.

‘‘तदा पिण्डाय गच्छन्तं, दक्खिणेय्यं जिनुत्तमं;

दिस्वा चित्तं पसादेत्वा, मञ्जुनाभिनिकूजहं.

‘‘राजुय्यानं तदा गन्त्वा, सुपक्कं कनकत्तचं;

अम्बपिण्डं गहेत्वान, सम्बुद्धस्सोपनामयिं.

‘‘तदा मे चित्तमञ्ञाय, महाकारुणिको जिनो;

उपट्ठाकस्स हत्थतो, पत्तं पग्गण्हि नायको.

‘‘अदासिं हट्ठचित्तोहं, अम्बपिण्डं महामुने;

पत्ते पक्खिप्प पक्खेहि, पञ्जलिं कत्वान मञ्जुना.

‘‘सरेन रजनीयेन, सवनीयेन वग्गुना;

वस्सन्तो बुद्धपूजत्थं, नीळं गन्त्वा निपज्जहं.

‘‘तदा मुदितचित्तं मं, बुद्धपेमगतासयं;

सकुणग्घि उपागन्त्वा, घातयी दुट्ठमानसो.

‘‘ततो चुतोहं तुसिते, अनुभोत्वा महासुखं;

मनुस्सयोनिमागच्छिं, तस्स कम्मस्स वाहसा.

‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;

कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.

‘‘सासनं जोतयित्वा सो, अभिभुय्य कुतित्थिये;

विनयित्वान वेनेय्ये, निब्बुतो सो ससावको.

‘‘निब्बुते तम्हि लोकग्गे, पसन्ना जनता बहू;

पूजनत्थाय बुद्धस्स, थूपं कुब्बन्ति सत्थुनो.

‘‘सत्तयोजनिकं थूपं, सत्तरतनभूसितं;

करिस्साम महेसिस्स, इच्चेवं मन्तयन्ति ते.

‘‘किकिनो कासिराजस्स, तदा सेनाय नायको;

हुत्वाहं अप्पमाणस्स, पमाणं चेतिये वदिं.

‘‘तदा ते मम वाक्येन, चेतियं योजनुग्गतं;

अकंसु नरवीरस्स, नानारतनभूसितं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘पच्छिमे च भवे दानि, जातो सेट्ठिकुले अहं;

सावत्थियं पुरवरे, इद्धे फीते महद्धने.

‘‘पुरप्पवेसे सुगतं, दिस्वा विम्हितमानसो;

पब्बजित्वान न चिरं, अरहत्तमपापुणिं.

‘‘चेतियस्स पमाणं यं, अकरिं तेन कम्मुना;

लकुण्डकसरीरोहं, जातो परिभवारहो.

‘‘सरेन मधुरेनाहं, पूजित्वा इसिसत्तमं;

मञ्जुस्सरानं भिक्खूनं, अग्गत्तमनुपापुणिं.

‘‘फलदानेन बुद्धस्स, गुणानुस्सरणेन च;

सामञ्ञफलसम्पन्नो, विहरामि अनासवो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अपरभागे अञ्ञं ब्याकरोन्तो –

४६६. ‘‘परे अम्बाटकारामे, वनसण्डम्हि भद्दियो;

समूलं तण्हमब्बुय्ह, तत्थ भद्दोव झायति.

४६७. ‘‘रमन्तेके मुदिङ्गेहि, वीणाहि पणवेहि च;

अहञ्च रुक्खमूलस्मिं, रतो बुद्धस्स सासने.

४६८. ‘‘बुद्धो चे मे वरं दज्जा, सो च लब्भेथ मे वरो;

गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. –

इमा तिस्सो गाथा अभासि.

तत्थ परेति सेट्ठे अधिके, विसिट्ठेति अत्थो. अधिकवाची हि अयं परसद्दो ‘‘परं विय मत्ताया’’तिआदीसु विय. अम्बाटकारामेति एवंनामके आरामे. सो किर छायूदकसम्पन्नो वनसण्डमण्डितो रमणीयो होति तेन ‘‘परे’’ति विसेसेत्वा वुत्तो. ‘‘अम्बाटकवने अम्बाटकेहि अभिलक्खितवने’’ति च वदन्ति. वनसण्डम्हीति वनगहने, घननिचितरुक्खगच्छलतासमूहे वनेति अत्थो. भद्दियोति एवंनामको, अत्तानमेव थेरो अञ्ञं विय वदति. समूलं तण्हमब्बुय्हाति तण्हाय मूलं नाम अविज्जा. तस्मा साविज्जं तण्हं अग्गमग्गेन समुग्घाटेत्वाति अत्थो. तत्थ भद्दोव झायतीति लोकुत्तरेहि सीलादीहि भद्दो सुन्दरो तस्मिंयेव वनसण्डे कतकिच्चताय दिट्ठधम्मसुखविहारवसेन अग्गफलझानेन झायति.

फलसुखेन च झानसमापत्तीहि च वीतिनामेतीति अत्तनो विवेकरतिं दस्सेत्वा ‘‘रमन्तेके’’ति गाथायपि ब्यतिरेकमुखेन तमेवत्थं दस्सेति. तत्थ मुदिङ्गेहीति अङ्गिकादीहि मुरजेहि. वीणाहीति नन्दिनीआदीहि वीणाहि. पणवेहीति तुरियेहि रमन्ति एके कामभोगिनो, सा पन तेसं रति अनरिया अनत्थसंहिता. अहञ्चा ति अहं पन, एकको बुद्धस्स भगवतो सासने रतो, ततो एव रुक्खमूलस्मिं रतो अभिरतो विहरामीति अत्थो.

एवं अत्तनो विवेकाभिरतिं कित्तेत्वा इदानि यं कायगतासतिकम्मट्ठानं भावेत्वा अरहत्तं पत्तो, तस्स पसंसनत्थं ‘‘बुद्धो चे मे’’ति गाथमाह. तस्सत्थो – सचे बुद्धो भगवा ‘‘एकाहं, भन्ते, भगवन्तं वरं याचामी’’ति मया याचितो ‘‘अतिक्कन्तवरा खो, भिक्खु, तथागता’’ति अपटिक्खिपित्वा मय्हं यथायाचितं वरं ददेय्य, सो च वरो ममाधिप्पायपूरको लब्भेथ मय्हं मनोरथं मत्थकं पापेय्याति थेरो परिकप्पवसेन वदति. ‘‘भन्ते, सब्बो लोको सब्बकालं कायगतासतिकम्मट्ठानं भावेतू’’ति ‘‘सब्बलोकस्स निच्चं कायगतासति भावेतब्बा’’ति कत्वा वरं गण्हे अहन्ति दस्सेन्तो आह ‘‘गण्हेहं सब्बलोकस्स, निच्चं कायगतं सति’’न्ति. इदानि अपरिक्खणगरहामुखेन परिक्खणं पसंसन्तो –

४६९. ‘‘ये मं रूपेन पामिंसु, ये च घोसेन अन्वगू;

छन्दरागवसूपेता, न मं जानन्ति ते जना.

४७०. ‘‘अज्झत्तञ्च न जानाति, बहिद्धा च न पस्सति;

समन्तावरणो बालो, स वे घोसेन वुय्हति.

४७१. ‘‘अज्झत्तञ्च न जानाति, बहिद्धा च विपस्सति;

बहिद्धा फलदस्सावी, सोपि घोसेन वुय्हति.

४७२. ‘‘अज्झत्तञ्च पजानाति, बहिद्धा च विपस्सति;

अनावरणदस्सावी, न सो घोसेन वुय्हती’’ति. –

इमा चतस्सो गाथा अभासि.

तत्थ ये मं रूपेन पामिंसूति ये जना अविद्दसू मम रूपेन अपसादिकेन निहीनेन ‘‘आकारसदिसी पञ्ञा’’ति, धम्मसरीरेन च मं निहीनं पामिंसु, ‘‘ओरको अय’’न्ति हीळेन्ता परिच्छिन्दनवसेन मञ्ञिंसूति अत्थो. ये च घोसेन अन्वगूति ये च सत्ता घोसेन मञ्जुना मं सम्भावनावसेन अनुगता बहु मञ्ञिंसु, तं तेसं मिच्छा, न हि अहं रूपमत्तेन अवमन्तब्बो, घोसमत्तेन वा न बहुं मन्तब्बो, तस्मा छन्दरागवसूपेता, न मं जानन्ति ते जनाति ते दुविधापि जना छन्दरागस्स वसं उपेता अप्पहीनछन्दरागा सब्बसो पहीनछन्दरागं मं न जानन्ति.

अविसयो तेसं मादिसो अज्झत्तं बहिद्धा च अपरिञ्ञातवत्थुतायाति दस्सेतुं ‘‘अज्झत्त’’न्तिआदि वुत्तं. अज्झत्तन्ति अत्तनो सन्ताने खन्धायतनादिधम्मं. बहिद्धाति परसन्ताने. अथ वा अज्झत्तन्ति, मम अब्भन्तरे असेक्खसीलक्खन्धादिं. बहिद्धाति, ममेव आकप्पसम्पत्तियादियुत्तं बहिद्धा रूपधम्मप्पवत्तिं चक्खुविञ्ञाणादिप्पवत्तिञ्च. समन्तावरणोति एवं अज्झत्तञ्च बहिद्धा च अजाननेन समन्ततो आवरणयुत्तो आवटञाणगतिको. स वे घोसेन वुय्हतीति सो परनेय्यबुद्धिको बालो घोसेन परेसं वचनेन वुय्हति निय्यति आकड्ढीयति.

बहिद्धा च विपस्सतीति यो च वुत्तनयेन अज्झत्तं न जानाति, बहिद्धा पन सुतानुसारेन आकप्पसम्पत्तिआदिउपधारणेन वा विसेसतो पस्सति. ‘‘गुणविसेसयुत्तो सिया’’ति मञ्ञति, सोपि बहिद्धा फलदस्सावी नयग्गाहेन फलमत्तं गण्हन्तो वुत्तनयेन घोसेन वुय्हति, सोपि मादिसे न जानातीति अत्थो.

यो पन अज्झत्तञ्च खीणासवस्स अब्भन्तरे असेक्खसीलक्खन्धादिगुणं जानाति, बहिद्धा चस्स पटिपत्तिसल्लक्खणेन विसेसतो गुणविसेसयोगं पस्सति. अनावरणदस्सावी केनचि अनावटो हुत्वा अरियानं गुणे दट्ठुं ञातुं समत्थो, न सो घोसमत्तेन वुय्हति याथावतो दस्सनतोति.

लकुण्डकभद्दियत्थेरगाथावण्णना निट्ठिता.

३. भद्दत्थेरगाथावण्णना

एकपुत्तोतिआदिका आयस्मतो भद्दत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरं भगवन्तं भिक्खुसङ्घञ्च सतसहस्सपरिमाणं चीवरादीहि चतूहि पच्चयेहि पूजेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सेट्ठिकुले निब्बत्ति. निब्बत्तमानो च अपुत्तकेसु मातापितूसु देवतायाचनादीनि कत्वापि अलभन्तेसु सत्थारं उपसङ्कमित्वा ‘‘सचे, भन्ते, मयं एकं पुत्तं लच्छाम, तं तुम्हाकं दासत्थाय दस्सामा’’ति वत्वा आयाचित्वा गतेसु सत्थु अधिप्पायं ञत्वा अञ्ञतरो देवपुत्तो खीणायुको हुत्वा ठितो सक्केन देवरञ्ञा ‘‘अमुकस्मिं कुले निब्बत्ताही’’ति आणत्तो तत्थ निब्बत्ति, भद्दोतिस्स नामं अकंसु. तं सत्तवस्सुद्देसिकं जातं मातापितरो अलङ्करित्वा भगवतो सन्तिकं नेत्वा ‘‘अयं सो, भन्ते, तुम्हे आयाचित्वा लद्धदारको, इमं तुम्हाकं निय्यातेमा’’ति आहंसु. सत्था आनन्दत्थेरं आणापेसि – ‘‘इमं पब्बाजेही’’ति. आणापेत्वा च गन्धकुटिं पाविसि. थेरो तं पब्बाजेत्वा सङ्खेपेन विपस्सनामुखं आचिक्खि. सो उपनिस्सयसम्पन्नत्ता विपस्सनाय कम्मं करोन्तो सूरिये अनोग्गतेयेव भावनं उस्सुक्कापेत्वा छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.५.५४-६९) –

‘‘पदुमुत्तरसम्बुद्धं, मेत्तचित्तं महामुनिं;

उपेति जनता सब्बा, सब्बलोकग्गनायकं.

‘‘सत्तुकञ्च बद्धकञ्च, आमिसं पानभोजनं;

ददन्ति सत्थुनो सब्बे, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘अहम्पि दानं दस्सामि, देवदेवस्स तादिनो;

बुद्धसेट्ठं निमन्तेत्वा, सङ्घम्पि च अनुत्तरं.

‘‘उय्योजिता मया चेते, निमन्तेसुं तथागतं;

केवलं भिक्खुसङ्घञ्च, पुञ्ञक्खेत्तं अनुत्तरं.

‘‘सतसहस्सपल्लङ्कं, सोवण्णं गोनकत्थतं;

तूलिकापटलिकाय, खोमकप्पासिकेहि च;

महारहं पञ्ञापयिं, आसनं बुद्धयुत्तकं.

‘‘पदुमुत्तरो लोकविदू, देवदेवो नरासभो;

भिक्खुसङ्घपरिब्यूळ्हो, मम द्वारमुपागमि.

‘‘पच्चुग्गन्त्वान सम्बुद्धं, लोकनाथं यसस्सिनं;

पसन्नचित्तो सुमनो, अभिनामयिं सङ्घरं.

‘‘भिक्खूनं सतसहस्सं, बुद्धञ्च लोकनायकं;

पसन्नचित्तो सुमनो, परमन्नेन तप्पयिं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.

‘‘येनिदं आसनं दिन्नं, सोवण्णं गोनकत्थतं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘चतुसत्ततिक्खत्तुं सो, देवरज्जं करिस्सति;

अनुभोस्सति सम्पत्तिं, अच्छराहि पुरक्खतो.

‘‘पदेसरज्जं सहस्सं, वसुधं आवसिस्सति;

एकपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.

‘‘सब्बासु भवयोनीसु, उच्चाकुली भविस्सति;

सो च पच्छा पब्बजित्वा, सुक्कमूलेन चोदितो;

भद्दियो नाम नामेन, हेस्सति सत्थु सावको.

‘‘विवेकमनुयुत्तोम्हि, पन्तसेननिवासहं;

फलञ्चाधिगतं सब्बं, चत्तक्लेसोम्हि अज्जहं.

‘‘मम सब्बं अभिञ्ञाय, सब्बञ्ञू लोकनायको;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेसि मं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

तस्स भगवा छळभिञ्ञुप्पत्तिं ञत्वा ‘‘एहि, भद्दा’’ति आह. सो तावदेव सत्थारं उपसङ्कमित्वा वन्दित्वा पञ्जलिको सत्थु समीपे अट्ठासि, सा एव चस्स उपसम्पदा अहोसि. बुद्धूपसम्पदा नाम किरेसा. थेरो जातितो पट्ठाय अत्तनो पवत्तिया कथनमुखेन अञ्ञं ब्याकरोन्तो –