१०. सुमनत्थेरगाथावण्णना
यदा नवो पब्बजितोतिआदिका आयस्मतो सुमनत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले मालाकारकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सिखिं भगवन्तं पस्सित्वा पसन्नमानसो सुमनपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. सो च उपासको आयस्मतो अनुरुद्धत्थेरस्स उपट्ठाको अहोसि. तस्स च ततो पुब्बे जाताजाता दारका मरिंसु. तेन सो ‘‘सचाहं इदानि एकं पुत्तं लभिस्सामि, अय्यस्स अनुरुद्धत्थेरस्स सन्तिके पब्बाजेस्सामी’’ति चित्तं उप्पादेसि. सो च दसमासच्चयेन जातो अरोगोयेव हुत्वा अनुक्कमेन वड्ढेन्तो सत्तवस्सिको अहोसि, तं पिता थेरस्स सन्तिके पब्बाजेसि. सो पब्बजित्वा ततो परिपक्कञाणत्ता विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो हुत्वा थेरं उपट्ठहन्तो ‘‘पानीयं आहरिस्सामी’’ति घटं आदाय इद्धिया अनोतत्तदहं अगमासि. अथेको मिच्छादिट्ठिको नागराजा अनोतत्तदहं पटिच्छादेन्तो सत्तक्खत्तुं भोगेन परिक्खिपित्वा उपरि महन्तं फणं कत्वा सुमनस्स पानीयं गहेतुं ओकासं न देति. सुमनो गरुळरूपं गहेत्वा तं नागराजं अभिभवित्वा पानीयं गहेत्वा थेरस्स वसनट्ठानं उद्दिस्स आकासेन गच्छति. तं सत्था जेतवने निसिन्नो तथा गच्छन्तं दिस्वा धम्मसेनापतिं आमन्तेत्वा, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिना चतूहि गाथाहि तस्स गुणे अभासि. अथ सुमनत्थेरो –
४२९. ‘‘यदा नवो पब्बजितो, जातिया सत्तवस्सिको;
इद्धिया अभिभोत्वान, पन्नगिन्दं महिद्धिकं.
४३०. ‘‘उपज्झायस्स उदकं, अनोतत्ता महासरा;
आहरामि ततो दिस्वा, मं सत्था एतदब्रवि.
४३१. ‘‘सारिपुत्त इमं पस्स, आगच्छन्तं कुमारकं;
उदककुम्भमादाय, अज्झत्तं सुसमाहितं.
४३२. ‘‘पासादिकेन वत्तेन, कल्याणइरियापथो;
सामणेरोनुरुद्धस्स, इद्धिया च विसारदो.
४३३. ‘‘आजानीयेन आजञ्ञो, साधुना साधुकारितो;
विनीतो अनुरुद्धेन, कतकिच्चेन सिक्खितो.
४३४. ‘‘सो पत्वा परमं सन्तिं, सच्छिकत्वा अकुप्पतं;
सामणेरो स सुमनो, मा मं जञ्ञाति इच्छती’’ति. –
अञ्ञाब्याकरणवसेन छ गाथा अभासि.
तत्थ आदितो द्वे गाथा सुमनत्थेरेनेव भासिता, इतरा चतस्सो तं पसंसन्तेन सत्थारा भासिता. ता सब्बा एकज्झं कत्वा सुमनत्थेरो पच्छा अञ्ञाब्याकरणवसेन अभासि. तत्थ पन्नगिन्दन्ति नागराजं. ततोति तत्थ, यदा नवो पब्बजितो जातिया सत्तवस्सिको इद्धिबलेन महिद्धिकं नागराजं अभिभवित्वा अनोतत्तदहतो उपज्झायस्स पानीयं आहरामि, तस्मिं कालेति अत्थो.
मं उद्दिस्स मय्हं सत्था एतदब्रवि, तं दस्सेन्तो, ‘‘सारिपुत्त, इमं पस्सा’’तिआदिमाह. अज्झत्तं सुसमाहितन्ति विसयज्झत्तभूतेन अग्गफलसमाधिना सुट्ठु समाहितं.
पासादिकेन वत्तेनाति पस्सन्तानं पसादावहेन आचारवत्तेन, करणत्थे इदं करणवचनं. कल्याणइरियापथोति सम्पन्निरियापथो. पासादिकेन वत्तेनाति वा इत्थम्भूतलक्खणे करणवचनं. समणस्स भावो सामण्यं, सामञ्ञन्ति अत्थो. तदत्थं ईरति पवत्ततीति सामणेरो, समणुद्देसो. इद्धिया च विसारदोति इद्धियम्पि ब्यत्तो सुकुसलो. आजानीयेनाति पुरिसाजानीयेन. अत्तहितपरहितानं साधनतो साधुना कतकिच्चेन अनुरुद्धेन साधु उभयहितसाधको, सुट्ठु वा आजञ्ञो कारितो दमितो. अग्गविज्जाय विनीतो असेक्खभावापादनेन सिक्खितो सिक्खापितोति अत्थो.
सो सामणेरो सुमनो परमं सन्तिं निब्बानं पत्वा अग्गमग्गाधिगमेन अधिगन्त्वा सच्छिकत्वा अत्तपच्चक्खं कत्वा अकुप्पतं अरहत्तफलं अप्पिच्छभावस्स परमुक्कंसगतत्ता मा मं जञ्ञाति मं ‘‘अयं खीणासवो’’ति वा ‘‘छळभिञ्ञो’’ति वा कोचिपि मा जानेय्याति इच्छति अभिकङ्खतीति.
सुमनत्थेरगाथावण्णना निट्ठिता.