११. सोणकुटिकण्णत्थेरगाथावण्णना
उपसम्पदा च मे लद्धातिआदिका आयस्मतो सोणस्स कुटिकण्णस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे विभवसम्पन्नो सेट्ठि हुत्वा उळाराय इस्सरियसम्पत्तिया ठितो एकदिवसं सत्थारं सतसहस्सखीणासवपरिवुतं महतिया बुद्धलीळाय महन्तेन बुद्धानुभावेन नगरं पविसन्तं दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं कत्वा अट्ठासि. सो पच्छाभत्तं उपासकेहि सद्धिं विहारं गन्त्वा भगवतो सन्तिके धम्मं सुणन्तो सत्थारं एकं भिक्खुं कल्याणवाक्करणानं अग्गट्ठाने ठपेन्तं दिस्वा सयम्पि तं ठानं पत्थेत्वा महादानं दत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायतं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने कल्याणवाक्करणानं अग्गो भविस्सती’’ति ब्याकासि.
सो तत्थ यावजीवं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो विपस्सिस्स भगवतो काले सासने पब्बजित्वा वत्तपटिवत्तानि पूरेन्तो एकस्स भिक्खुनो चीवरं सिब्बित्वा अदासि. पुन बुद्धसुञ्ञे लोके बाराणसियं तुन्नवायो हुत्वा एकस्स पच्चेकबुद्धस्स चीवरकोटिं छिन्नं घटेत्वा अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे कुररघरे महाविभवस्स सेट्ठिनो पुत्तो हुत्वा निब्बत्ति. सोणोतिस्स नामं अकंसु. कोटिअग्घनकस्स कण्णपिळन्धनस्स धारणेन ‘‘कोटिकण्णो’’ति वत्तब्बे कुटिकण्णोति पञ्ञायित्थ.
सो अनुक्कमेन वड्ढित्वा कुटुम्बं सण्ठपेन्तो आयस्मन्ते महाकच्चाने कुलघरं निस्साय पवत्तपब्बते विहरन्ते तस्स सन्तिके धम्मं सुत्वा सरणेसु च सीलेसु च पतिट्ठाय तं चतूहि पच्चयेहि उपट्ठहि. सो अपरभागे संसारे सञ्जातसंवेगो थेरस्स सन्तिके पब्बजित्वा किच्छेन कसिरेन दसवग्गं सङ्घं सन्निपातेत्वा उपसम्पज्जित्वा कतिपयकालं थेरस्स सन्तिके वसित्वा, थेरं आपुच्छित्वा सत्थारं वन्दितुं सावत्थिं उपगतो, सत्थारा एकगन्धकुटियं वासं लभित्वा पच्चूससमये अज्झिट्ठो सोळसअट्ठकवग्गियानं उस्सारणेन साधुकारं दत्वा भासिताय ‘‘दिस्वा आदीनवं लोके’’ति (उदा. ४६; महाव. २५८) उदानगाथाय परियोसाने विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.२६-३४) –
‘‘पदुमुत्तरो नाम जिनो, आहुतीनं पटिग्गहो;
वसीसतसहस्सेहि, नगरं पाविसी तदा.
‘‘नगरं पविसन्तस्स, उपसन्तस्स तादिनो;
रतनानि पज्जोतिंसु, निग्घोसो आसि तावदे.
‘‘बुद्धस्स आनुभावेन, भेरी वज्जुमघट्टिता;
सयं वीणा पवज्जन्ति, बुद्धस्स पविसतो पुरं.
‘‘बुद्धसेट्ठं नमस्सामि, पदुमुत्तरमहामुनिं;
पाटिहीरञ्च पस्सित्वा, तत्थ चित्तं पसादयिं.
‘‘अहो बुद्धो अहो धम्मो, अहो नो सत्थु सम्पदा;
अचेतनापि तूरिया, सयमेव पवज्जरे.
‘‘सतसहस्सितो कप्पे, यं सञ्ञमलभिं तदा;
दुग्गतिं नाभिजानामि, बुद्धसञ्ञायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्ते पन पतिट्ठितो अत्तनो उपज्झायेन आचिक्खितनियामेन पच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन उपसम्पदा, धुवन्हानं, चम्मत्थरणं, गुणङ्गुणूपाहनं, चीवरविप्पवासोति पञ्च वरे याचित्वा ते सत्थु सन्तिका लभित्वा पुनदेव अत्तनो वसितट्ठानं गन्त्वा उपज्झायस्स तमत्थं आरोचेसि. अयमेत्थ सङ्खेपो. वित्थारो पन उदानट्ठकथायं आगतनयेन वेदितब्बो. अङ्गुत्तरट्ठकथायं (अ. नि. अट्ठ. १.१.२०६) पन ‘‘उपसम्पन्नो हुत्वा अत्तनो उपज्झायस्स सन्तिके कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वुत्तं.
सो अपरभागे विमुत्तिसुखेन विहरन्तो अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –
३६५. ‘‘उपसम्पदा च मे लद्धा, विमुत्तो चम्हि अनासवो;
सो च मे भगवा दिट्ठो, विहारे च सहावसिं.
३६६. ‘‘बहुदेव रत्तिं भगवा, अब्भोकासेतिनामयि;
विहारकुसलो सत्था, विहारं पाविसी तदा.
३६७. ‘‘सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसि गोतमो;
सीहो सेलगुहायंव, पहीनभयभेरवो.
३६८. ‘‘ततो कल्याणवाक्करणो, सम्मासम्बुद्धसावको;
सोणो अभासि सद्धम्मं, बुद्धसेट्ठस्स सम्मुखा.
३६९. ‘‘पञ्चक्खन्धे परिञ्ञाय, भावयित्वान अञ्जसं;
पप्पुय्य परमं सन्तिं, परिनिब्बिस्सत्यनासवो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ उपसम्पदा च मे लद्धाति या सा किच्छेन दसवग्गं भिक्खुसङ्घं सन्निपातेत्वा अत्तना लद्धा उपसम्पदा. या च पन वरदानवसेन सब्बपच्चन्तिमेसु जनपदेसु विनयधरपञ्चमेन गणेन सत्थारा अनुञ्ञाता उपसम्पदा, तदुभयं सन्धायाह. च-सद्दो समुच्चयत्थो, तेन इतरेपि सत्थु सन्तिका लद्धवरे सङ्गण्हाति. विमुत्तो चम्हि अनासवोति अग्गमग्गेन सकलकिलेसवत्थुविमुत्तिया विमुत्तो च अम्हि. ततो एव कामासवादीहि अनासवो अम्हीति योजना. सो च मे भगवा दिट्ठोति यदत्थं अहं अवन्तिरट्ठतो सावत्थिं गतो, सो च भगवा मया अदिट्ठपुब्बो दिट्ठो. विहारे च सहावसिन्ति न केवलं तस्स भगवतो दस्सनमेव मया लद्धं, अथ खो विहारे सत्थु गन्धकुटियं सत्थारा कारणं सल्लक्खेत्वा वासेन्तेन सह अवसिं. ‘‘विहारेति विहारसमीपे’’ति केचि.
बहुदेव रत्तिन्ति पठमं यामं भिक्खूनं धम्मदेसनावसेन कम्मट्ठानसोधनवसेन च, मज्झिमं यामं देवानं ब्रह्मूनञ्च कङ्खच्छेदनवसेन भगवा बहुदेव रत्तिं अब्भोकासे अतिनामयि वीतिनामेसि. विहारकुसलोति दिब्बब्रह्मआनेञ्जअरियविहारेसु कुसलो. विहारं पाविसीति अतिवेलं निसज्जचङ्कमेहि उप्पन्नपरिस्समविनोदनत्थं गन्धकुटिं पाविसि.
सन्थरित्वान सङ्घाटिं, सेय्यं कप्पेसीति चतुग्गुणं सङ्घाटिं पञ्ञापेत्वा सीहसेय्यं कप्पेसि. तेनाह ‘‘गोतमो सीहो सेलगुहायंव पहीनभयभेरवो’’ति. तत्थ गोतमोति भगवन्तं गोत्तेन कित्तेति. सीहो सेलगुहायंवाति सेलस्स पब्बतस्स गुहायं. यथा सीहो मिगराजा तेजुस्सदताय पहीनभयभेरवो दक्खिणेन पस्सेन पादे पादं अच्चाधाय सेय्यं कप्पेसि, एवं चित्तुत्रासलोमहंसनछम्भितत्तहेतूनं किलेसानं समुच्छिन्नत्ता पहीनभयभेरवो गोतमो भगवा सेय्यं कप्पेसीति अत्थो.
ततोति पच्छा, सीहसेय्यं कप्पेत्वा ततो वुट्ठहित्वा ‘‘पटिभातु तं भिक्खु धम्मो भासितु’’न्ति (उदा. ४६) सत्थारा अज्झेसितोति अत्थो. कल्याणवाक्करणोति सुन्दरवचीकरणो, लक्खणसम्पन्नवचनक्कमोति अत्थो. सोणो अभासि सद्धम्मन्ति सोळस अट्ठकवग्गियसुत्तानि सोणो कुटिकण्णो, बुद्धसेट्ठस्स सम्मासम्बुद्धस्स सम्मुखा, पच्चक्खतो अभासीति थेरो अत्तानमेव परं विय अवोच.
पञ्चक्खन्धे परिञ्ञायाति पञ्चुपादानक्खन्धे तीहिपि परिञ्ञाहि परिजानित्वा ते परिजानन्तोयेव, अञ्जसं अरियं अट्ठङ्गिकं मग्गं भावयित्वा, परमं सन्तिं निब्बानं पप्पुय्य पापुणित्वा ठितो अनासवो. ततो एव इदानि परिनिब्बिस्सति अनुपादिसेसनिब्बानवसेन निब्बायिस्सतीति.
सोणकुटिकण्णत्थेरगाथावण्णना निट्ठिता.