५. पञ्चकनिपातो
१. राजदत्तत्थेरगाथावण्णना
पञ्चकनिपाते भिक्खु सिवथिकं गन्त्वातिआदिका आयस्मतो राजदत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो, तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो, इतो चतुद्दसे कप्पे बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो, एकदिवसं केनचिदेव करणीयेन वनन्तं उपगतो तत्थ अञ्ञतरं पच्चेकबुद्धं रुक्खमूले निसिन्नं दिस्वा पसन्नमानसो सुपरिसुद्धं अम्बाटकफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं सत्थवाहकुले निब्बत्ति. तस्स महाराजं वेस्सवणं आराधेत्वा पटिलद्धभावतो मातापितरो राजदत्तोति नामं अकंसु. सो वयप्पत्तो पञ्चहि सकटसतेहि भण्डं आदाय वाणिज्जवसेन राजगहं अगमासि. तेन च समयेन राजगहे अञ्ञतरा गणिका अभिरूपा दस्सनीया परमसोभग्गयोगतो दिवसे दिवसे सहस्सं लभति. अथ सो सत्थवाहपुत्तो दिवसे दिवसे तस्सा गणिकाय सहस्सं दत्वा संवासं कप्पेन्तो नचिरस्सेव सब्बं धनं खेपेत्वा दुग्गतो हुत्वा घासच्छादनमत्तम्पि अलभन्तो इतो चितो च परिब्भमन्तो संवेगप्पत्तो अहोसि. सो एकदिवसं उपासकेहि सद्धिं वेळुवनं अगमासि.
तेन च समयेन सत्था महतिया परिसाय परिवुतो धम्मं देसेन्तो निसिन्नो होति. सो परिसपरियन्ते निसीदित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा धुतङ्गानि समादियित्वा सुसाने वसति. तदा अञ्ञतरोपि सत्थवाहपुत्तो सहस्सं दत्वा ताय गणिकाय सह वसति. सा च गणिका तस्स हत्थे महग्घरतनं दिस्वा लोभं उप्पादेत्वा अञ्ञेहि धुत्तपुरिसेहि तं मारापेत्वा तं रतनं गण्हि. अथ तस्स सत्थवाहपुत्तस्स मनुस्सा तं पवत्तिं सुत्वा ओचरकमनुस्से पेसेसुं. ते रत्तियं तस्सा गणिकाय घरं पविसित्वा छविआदीनि अनुपहच्चेव तं मारेत्वा सिवथिकाय छड्डेसुं. राजदत्तत्थेरो असुभनिमित्तं गहेतुं सुसाने विचरन्तो तस्सा गणिकाय कळेवरं पटिक्कुलतो मनसि कातुं उपगतो कतिपयवारे योनिसो मनसि कत्वा अचिरमतभावतो सोणसिङ्गालादीहि अनुपहतछविताय विसभागवत्थुताय च अयोनिसो मनसिकरोन्तो, तत्थ कामरागं उप्पादेत्वा संविग्गतरमानसो अत्तनो चित्तं परिभासित्वा मुहुत्तं एकमन्तं अपसक्कित्वा आदितो उपट्ठितं असुभनिमित्तमेव गहेत्वा योनिसो मनसिकरोन्तो झानं उप्पादेत्वा तं झानं पादकं कत्वा विपस्सनं पट्ठपेत्वा तावदेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.४४.५५-५९) –
‘‘विपिने बुद्धं दिस्वान, सयम्भुं अपराजितं;
अम्बाटकं गहेत्वान, सयम्भुस्स अदासहं.
‘‘एकतिंसे इतो कप्पे, यं फलमददिं तदा;
दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा पीतिसोमनस्सजातो –
३१५. ‘‘भिक्खु सिवथिकं गन्त्वा, अद्दस इत्थिमुज्झितं;
अपविद्धं सुसानस्मिं, खज्जन्तिं किमिही फुटं.
३१६. ‘‘यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकं;
कामरागो पातुरहु, अन्धोव सवती अहुं.
३१७. ‘‘ओरं ओदनपाकम्हा, तम्हा ठाना अपक्कमिं;
सतिमा सम्पजानोहं, एकमन्तं उपाविसिं.
३१८. ‘‘ततो मे मनसीकारो, योनिसो उदपज्जथ;
आदीनवो पातुरहु, निब्बिदा समतिट्ठथ.
३१९. ‘‘ततो चित्तं विमुच्चि मे, पस्स धम्मसुधम्मतं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. –
इमा पञ्च गाथा अभासि.
तत्थ भिक्खु सिवथिकं गन्त्वाति संसारे भयस्स इक्खनतो भिक्खु, असुभकम्मट्ठानत्थं आमकसुसानं उपगन्त्वा. ‘‘भिक्खू’’ति चेतं अत्तानं सन्धाय थेरो सयं वदति. इत्थिन्ति थीयति एत्थ सुक्कसोणितं सत्तसन्तानभावेन संहञ्ञतीति थी, मातुगामो. एवञ्च सभावनिरुत्तिवसेन ‘‘इत्थी’’तिपि वुच्चति. वञ्झादीसु पन तंसदिसताय तंसभावानतिवत्तनतो च तब्बोहारो. ‘‘इत्थी’’ति इत्थिकळेवरं वदति. उज्झितन्ति परिच्चत्तं उज्झनियत्ता एव अपविद्धं अनपेक्खभावेन खित्तं. खज्जन्तिं किमिही फुटन्ति किमीहि पूरितं हुत्वा खज्जमानं.
यञ्हि एके जिगुच्छन्ति, मतं दिस्वान पापकन्ति यं अपगतायुउस्माविञ्ञाणताय मतं कळेवरं पापकं निहीनं लामकं एके चोक्खजातिका जिगुच्छन्ति, ओलोकेतुम्पि न इच्छन्ति. कामरागो पातुरहूति तस्मिं कुणपे अयोनिसोमनसिकारस्स बलवताय कामरागो मय्हं पातुरहोसि उप्पज्जि. अन्धोव सवती अहुन्ति तस्मिं कळेवरे नवहि द्वारेहि असुचिं सवति सन्दन्ते असुचिभावस्स अदस्सनेन अन्धो विय अहोसिं. तेनाह –
‘‘रत्तो अत्थं न जानाति, रत्तो धम्मं न पस्सति;
अन्धतमं तदा होति, यं रागो सहते नर’’न्ति च.
‘‘कामच्छन्दो खो, ब्राह्मण, अन्धकरणो अचक्खुकरणो’’ति च आदि. केचि पनेत्थ तकारागमं कत्वा ‘‘किलेसपरियुट्ठानेन अवसवत्ति किलेसस्स वा वसवत्ती’’ति अत्थं वदन्ति. अपरे ‘‘अन्धोव असति अहु’’न्ति पाळिं वत्वा ‘‘कामरागेन अन्धो एव हुत्वा सतिरहितो अहोसि’’न्ति अत्थं वदन्ति. तदुभयं पन पाळियं नत्थि.
ओरं ओदनपाकम्हाति ओदनपाकतो ओरं, यावता कालेन सुपरिधोततिन्ततण्डुलनाळिया ओदनं पचति, ततो ओरमेव कालं, ततोपि लहुकालेन रागं विनोदेन्तो, तम्हा ठाना अपक्कमिं यस्मिं ठाने ठितस्स मे रागो उप्पज्जि, तम्हा ठाना अपक्कमिं अपसक्किं. अपक्कन्तोव सतिमा सम्पजानोहं समणसञ्ञं उपट्ठपेत्वा सतिपट्ठानमनसिकारवसेन सतिमा, सम्मदेव धम्मसभावजाननेन सम्पजानो च हुत्वा एकमन्तं उपाविसिं, पल्लङ्कं आभुजित्वा निसीदिं. निसिन्नस्स च ततो मे मनसीकारो, योनिसो उदपज्जथातिआदि सब्बं हेट्ठा वुत्तनयमेवाति.
राजदत्तत्थेरगाथावण्णना निट्ठिता.
२. सुभूतत्थेरगाथावण्णना
अयोगेतिआदिका आयस्मतो सुभूतत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो कस्सपस्स भगवतो काले बाराणसियं गहपतिमहासालकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थु सन्तिके धम्मं सुत्वा पसन्नमानसो सरणेसु च सीलेसु च पतिट्ठाय मासे मासे अट्ठक्खत्तुं चतुज्जातियगन्धेन सत्थु गन्धकुटिं ओपुञ्जापेसि. सो तेन पुञ्ञकम्मेन निब्बत्तनिब्बत्तट्ठाने सुगन्धसरीरो हुत्वा, इमस्मिं बुद्धुप्पादे मगधरट्ठे गहपतिकुले निब्बत्तित्वा सुभूतोति लद्धनामो वयप्पत्तो, निस्सरणज्झासयताय घरावासं पहाय तित्थियेसु पब्बजित्वा तत्थ सारं अलभन्तो, सत्थु सन्तिके उपतिस्सकोलितसेलादिके बहू समणब्राह्मणे पब्बजित्वा सामञ्ञसुखं अनुभवन्ते दिस्वा सासने पटिलद्धसद्धो पब्बजित्वा आचरियुपज्झाये आराधेत्वा कम्मट्ठानं गहेत्वा विवेकवासं वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५५.२७२-३०८) –
‘‘इमम्हि भद्दके कप्पे, ब्रह्मबन्धु महायसो;
कस्सपो नाम गोत्तेन, उप्पज्जि वदतं वरो.
‘‘अनुब्यञ्जनसम्पन्नो, बात्तिंसवरलक्खणो;
ब्यामप्पभापरिवुतो, रंसिजालसमोत्थटो.
‘‘अस्सासेता यथा चन्दो, सूरियोव पभङ्करो;
निब्बापेता यथा मेघो, सागरोव गुणाकरो.
‘‘धरणीरिव सीलेन, हिमवाव समाधिना;
आकासो विय पञ्ञाय, असङ्गो अनिलो यथा.
‘‘तदाहं बाराणसियं, उपपन्नो महाकुले;
पहूतधनधञ्ञस्मिं, नानारतनसञ्चये.
‘‘महता परिवारेन, निसिन्नं लोकनायकं;
उपेच्च धम्ममस्सोसिं, अमतंव मनोहरं.
‘‘द्वत्तिंसलक्खणधरो, सनक्खत्तोव चन्दिमा;
अनुब्यञ्जनसम्पन्नो, सालराजाव फुल्लितो.
‘‘रंसिजालपरिक्खित्तो, दित्तोव कनकाचलो;
ब्यामप्पभापरिवुतो, सतरंसी दिवाकरो.
‘‘सोण्णाननो जिनवरो, समणीव सिलुच्चयो;
करुणापुण्णहदयो, गुणेन विय सागरो.
‘‘लोकविस्सुतकित्ति च, सिनेरूव नगुत्तमो;
यससा वित्थतो वीरो, आकाससदिसो मुनि.
‘‘असङ्गचित्तो सब्बत्थ, अनिलो विय नायको;
पतिट्ठा सब्बभूतानं, महीव मुनिसत्तमो.
‘‘अनुपलित्तो लोकेन, तोयेन पदुमं यथा;
कुवादगच्छदहनो, अग्गिक्खन्धोव सोभति.
‘‘अगदो विय सब्बत्थ, किलेसविसनासको;
गन्धमादनसेलोव, गुणगन्धविभूसितो.
‘‘गुणानं आकरो वीरो, रतनानंव सागरो;
सिन्धूव वनराजीनं, किलेसमलहारको.
‘‘विजयीव महायोधो, मारसेनावमद्दनो;
चक्कवत्तीव सो राजा, बोज्झङ्गरतनिस्सरो.
‘‘महाभिसक्कसङ्कासो, दोसब्याधितिकिच्छको;
सल्लकत्तो यथा वेज्जो, दिट्ठिगण्डविफालको.
‘‘सो तदा लोकपज्जोतो, सनरामरसक्कतो;
परिसासु नरादिच्चो, धम्मं देसयते जिनो.
‘‘दानं दत्वा महाभोगो, सीलेन सुगतूपगो;
भावनाय च निब्बाति, इच्चेवमनुसासथ.
‘‘देसनं तं महस्सादं, आदिमज्झन्तसोभनं;
सुणन्ति परिसा सब्बा, अमतंव महारसं.
‘‘सुत्वा सुमधुरं धम्मं, पसन्नो जिनसासने;
सुगतं सरणं गन्त्वा, यावजीवं नमस्सहं.
‘‘मुनिनो गन्धकुटिया, ओपुञ्जेसिं तदा महिं;
चतुज्जातेन गन्धेन, मासे अट्ठ दिनेस्वहं.
‘‘पणिधाय सुगन्धत्तं, सरीरविस्सगन्धिनो;
तदा जिनो वियाकासि, सुगन्धतनुलाभितं.
‘‘यो यं गन्धकुटिभूमिं, गन्धेनोपुञ्जते सकिं;
तेन कम्मविपाकेन, उपपन्नो तहिं तहिं.
‘‘सुगन्धदेहो सब्बत्थ, भविस्सति अयं नरो;
गुणगन्धयुत्तो हुत्वा, निब्बायिस्सतिनासवो.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘पच्छिमे च भवे दानि, जातो विप्पकुले अहं;
गब्भं मे वसतो माता, देहेनासि सुगन्धिता.
‘‘यदा च मातुकुच्छिम्हा, निक्खमामि तदा पुरी;
सावत्थि सब्बगन्धेहि, वासिता विय वायथ.
‘‘पुप्फवस्सञ्च सुरभि, दिब्बगन्धं मनोरमं;
धूपानि च महग्घानि, उपवायिंसु तावदे.
‘‘देवा च सब्बगन्धेहि, धूपपुप्फेहि तं घरं;
वासयिंसु सुगन्धेन, यस्मिं जातो अहं घरे.
‘‘यदा च तरुणो भद्दो, पठमे योब्बने ठितो;
तदा सेलं सपरिसं, विनेत्वा नरसारथि.
‘‘तेहि सब्बेहि परिवुतो, सावत्थिपुरमागतो;
तदा बुद्धानुभावं तं, दिस्वा पब्बजितो अहं.
‘‘सीलं समाधिपञ्ञञ्च, विमुत्तिञ्च अनुत्तरं;
भावेत्वा चतुरो धम्मे, पापुणिं आसवक्खयं.
‘‘यदा पब्बजितो चाहं, यदा च अरहा अहुं;
निब्बायिस्सं यदा चाहं, गन्धवस्सो तदा अहु.
‘‘सरीरगन्धो च सदातिसेति मे, महारहं चन्दनचम्पकुप्पलं;
तथेव गन्धे इतरे च सब्बसो, पसय्ह वायामि ततो तहिं तहिं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा तित्थियेसु पब्बजित्वा अत्तनो पत्तं अत्तकिलमथानुयोगं दुक्खं, सासने पब्बजित्वा पत्तं झानादिसुखञ्च चिन्तेत्वा अत्तनो पटिपत्तिपच्चवेक्खणमुखेन अञ्ञं ब्याकरोन्तो –
३२०. ‘‘अयोगे युञ्जमत्तानं, पुरिसो किच्चमिच्छको;
चरं चे नाधिगच्छेय्य, तं मे दुब्भगलक्खणं.
३२१. ‘‘अब्बूळ्हं अघगतं विजितं, एकञ्चे ओस्सजेय्य कलीव सिया;
सब्बानिपि चे ओस्सजेय्य अन्धोव सिया, समविसमस्स अदस्सनतो.
३२२. ‘‘यञ्हि कयिरा तञ्हि वदे, यं न कयिरा न तं वदे;
अकरोन्तं भासमानं, परिजानन्ति पण्डिता.
३२३. ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं अगन्धकं;
एवं सुभासिता वाचा, अफला होति अकुब्बतो.
३२४. ‘‘यथापि रुचिरं पुप्फं, वण्णवन्तं सुगन्धकं;
एवं सुभासिता वाचा, सफला होति कुब्बतो’’ति. –
इमा पञ्च गाथा अभासि.
तत्थ अयोगेति अयुञ्जितब्बे असेवितब्बे अन्तद्वये. इध पन अत्तकिलमथानुयोगवसेन अत्थो वेदितब्बो. युञ्जन्ति तस्मिं अत्तानं युञ्जन्तो योजेन्तो तथा पटिपज्जन्तो. किच्चमिच्छकोति उभयहितावहं किच्चं इच्छन्तो, तप्पटिपक्खतो अयोगे चरं चरन्तो चे भवेय्य. नाधिगच्छेय्याति यथाधिप्पेतं हितसुखं न पापुणेय्याति ञायो. तस्मा यं अहं तित्थियमतवञ्चितो अयोगे युञ्जिं, तं मे दुब्भगलक्खणं अपुञ्ञसभावो. ‘‘पुरिमकम्मब्यामोहितो अयोगे युञ्जि’’न्ति दस्सेति.
अब्बूळ्हं अघगतं विजितन्ति विबाधनसभावताय अघा नाम रागादयो, अघानि एव अघगतं, अघगतानं विजितं संसारप्पवत्ति, तेसं विजयो कुसलधम्माभिभवो. ‘‘अघगतं विजित’’न्ति अनुनासिकलोपं अकत्वा वुत्तं. तं अब्बूळ्हं अनुद्धतं येन, तं अब्बूळ्हाघगतं विजितं कत्वा एवंभूतो हुत्वा, किलेसे असमुच्छिन्दित्वाति अत्थो. एकञ्चे ओस्सजेय्याति अदुतियताय पधानताय च एकं अप्पमादं सम्मापयोगमेव वा ओस्सजेय्य परिच्चजेय्य चे. कलीव सो पुग्गलो काळकण्णी विय सिया. सब्बानिपि चे ओस्सजेय्याति सब्बानिपि विमुत्तिया परिपाचकानि सद्धावीरियसतिसमाधिपञ्ञिन्द्रियानि ओस्सजेय्य चे, अभावनाय छड्डेय्य चे, अन्धोव सिया समविसमस्स अदस्सनतो.
यथाति ओपम्मसम्पटिपादनत्थे निपातो. रुचिरन्ति सोभनं. वण्णवन्तन्ति वण्णसण्ठानसम्पन्नं. अगन्धकन्ति गन्धरहितं पालिभद्दकगिरिकण्णिकजयसुमनादिभेदं. एवं सुभासिता वाचाति सुभासिता वाचा नाम तेपिटकं बुद्धवचनं वण्णसण्ठानसम्पन्नपुप्फसदिसं. यथा हि अगन्धकं पुप्फं धारेन्तस्स सरीरे गन्धो न फरति, एवं एतम्पि यो सक्कच्चसवनादीहि च समाचरति, तस्स सक्कच्चं असमाचरन्तस्स यं तत्थ कत्तब्बं, तं अकुब्बतो सुतगन्धं पटिपत्तिगन्धञ्च न आवहति अफला होति. तेन वुत्तं ‘‘एवं सुभासिता वाचा, अफला होति अकुब्बतो’’ति.
सुगन्धकन्ति सुमनचम्पकनीलुप्पलपुप्फादिभेदं. एवन्ति यथा तं पुप्फं धारेन्तस्स सरीरे गन्धो फरति, एवं तेपिटकबुद्धवचनसङ्खाता सुभासिता वाचापि यो सक्कच्चसवनादीहि तत्थ कत्तब्बं करोति, अस्स पुग्गलस्स सफला होति, सुतगन्धपटिपत्तिगन्धानं आवहनतो महप्फला होति महानिसंसा. तस्मा यथोवादं पटिपज्जेय्य, यथाकारी तथावादी च भवेय्याति. सेसं वुत्तनयमेव.
सुभूतत्थेरगाथावण्णना निट्ठिता.
३. गिरिमानन्दत्थेरगाथावण्णना
वस्सति देवोतिआदिका आयस्मतो गिरिमानन्दत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले कुलगेहे निब्बत्तित्वा वयप्पत्तो घरावासं वसन्तो अत्तनो भरियाय पुत्ते च कालङ्कते सोकसल्लसमप्पितो अरञ्ञं पविट्ठो सत्थारा तत्थ गन्त्वा धम्मं कथेत्वा सोकसल्ले अब्बूळ्हे पसन्नमानसो सुगन्धपुप्फेहि पूजेत्वा पञ्चपतिट्ठितेन वन्दित्वा सिरसि अञ्जलिं कत्वा अभित्थवि.
सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे बिम्बिसाररञ्ञो पुरोहितस्स पुत्तो हुत्वा निब्बत्ति, गिरिमानन्दोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु राजगहगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा समणधम्मं करोन्तो कतिपयं दिवसं गामकावासे वसित्वा सत्थारं वन्दितुं राजगहं अगमासि. बिम्बिसारमहाराजा तस्स आगमनं सुत्वा उपसङ्कमित्वा ‘‘इधेव, भन्ते, वसथ, अहं चतूहि पच्चयेहि उपट्ठहामी’’ति सम्पवारेत्वा गतो बहुकिच्चताय न सरि. ‘‘थेरो अब्भोकासे वसती’’ति देवता थेरस्स तेमनभयेन वस्सं वारेसुं. राजा अवस्सनकारणं सल्लक्खेत्वा थेरस्स कुटिकं कारापेसि. थेरो कुटिकायं वसन्तो सेनासनसप्पायलाभेन समाधानं लभित्वा वीरियसमतं योजेत्वा विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.४१९-४४८) –
‘‘भरिया मे कालङ्कता, पुत्तो सिवथिकं गतो;
माता पिता मता भाता, एकचितम्हि डय्हरे.
‘‘तेन सोकेन सन्तत्तो, किसो पण्डु अहोसहं;
चित्तक्खेपो च मे आसि, तेन सोकेन अट्टितो.
‘‘सोकसल्लपरेतोहं, वनन्तमुपसङ्कमिं;
पवत्तफलं भुञ्जित्वा, रुक्खमूले वसामहं.
‘‘सुमेधो नाम सम्बुद्धो, दुक्खस्सन्तकरो जिनो;
ममुद्धरितुकामो सो, आगञ्छि मम सन्तिकं.
‘‘पदसद्दं सुणित्वान, सुमेधस्स महेसिनो;
पग्गहेत्वानहं सीसं, उल्लोकेसिं महामुनिं.
‘‘उपागते महावीरे, पीति मे उदपज्जथ;
तदासिमेकग्गमनो, दिस्वा तं लोकनायकं.
‘‘सतिं पटिलभित्वान, पण्णमुट्ठिमदासहं;
निसीदि भगवा तत्थ, अनुकम्पाय चक्खुमा.
‘‘निसज्ज तत्थ भगवा, सुमेधो लोकनायको;
धम्मं मे कथयी बुद्धो, सोकसल्लविनोदनं.
‘‘अनव्हिता ततो आगुं, अननुञ्ञाता इतो गता;
यथागता तथा गता, तत्थ का परिदेवना.
‘‘यथापि पथिका सत्ता, वस्समानाय वुट्ठिया;
सभण्डा उपगच्छन्ति, वस्सस्सापतनाय ते.
‘‘वस्से च ते ओरमिते, सम्पयन्ति यदिच्छकं;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘आगन्तुका पाहुनका, चलितेरितकम्पिता;
एवं माता पिता तुय्हं, तत्थ का परिदेवना.
‘‘यथापि उरगो जिण्णं, हित्वा गच्छति सं तचं;
एवं माता पिता तुय्हं, सं तनुं इध हीयरे.
‘‘बुद्धस्स गिरमञ्ञाय, सोकसल्लं विवज्जयिं;
पामोज्जं जनयित्वान, बुद्धसेट्ठं अवन्दहं.
‘‘वन्दित्वान महानागं, पूजयिं गिरिमञ्जरिं;
दिब्बगन्धं सम्पवन्तं, सुमेधं लोकनायकं.
‘‘पूजयित्वान सम्बुद्धं, सिरे कत्वान अञ्जलिं;