११. उपालित्थेरगाथावण्णना

सद्धाय अभिनिक्खम्माति आयस्मतो उपालित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पदुमुत्तरस्स भगवतो काले हंसवतीनगरे कुलघरे निब्बत्तो एकदिवसं सत्थु धम्मं सुणन्तो सत्थारं एकं भिक्खुं विनयधरानं अग्गट्ठाने ठपेन्तं दिस्वा अधिकारकम्मं कत्वा तं ठानन्तरं पत्थेसि. सो यावजीवं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कप्पकगेहे पटिसन्धिं गण्हि, उपालीतिस्स नामं अकंसु. सो वयप्पत्तो अनुरुद्धादीनं छन्नं खत्तियानं पसादको हुत्वा तथागते अनुपियम्बवने विहरन्ते पब्बजनत्थाय निक्खमन्तेहि छहि खत्तियेहि सद्धिं निक्खमित्वा पब्बजि. तस्स पब्बज्जाविधानं पाळियं आगतमेव (चूळव. ३३०).

सो पब्बजित्वा उपसम्पन्नो सत्थु सन्तिके कम्मट्ठानं गहेत्वा ‘‘मय्हं, भन्ते, अरञ्ञवासं अनुजानाथा’’ति आह. भिक्खु तव अरञ्ञे वसन्तस्स एकमेव धुरं वड्ढिस्सति, अम्हाकं पन सन्तिके वसन्तस्स गन्थधुरञ्च विपस्सनाधुरञ्च परिपूरेस्सतीति. थेरो सत्थु वचनं सम्पटिच्छित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१.४४१-५९५) –

‘‘नगरे हंसवतिया, सुजातो नाम ब्राह्मणो;

असीतिकोटिनिचयो, पहूतधनधञ्ञवा.

‘‘अज्झायको मन्तधरो, तिण्णं वेदान पारगू;

लक्खणे इतिहासे च, सधम्मे पारमिं गतो.

‘‘परिब्बाजा एकसिखा, गोतमा बुद्धसावका;

चरका तापसा चेव, चरन्ति महिया तदा.

‘‘तेपि मं परिवारेन्ति, ब्राह्मणो विस्सुतो इति;

बहुज्जनो मं पूजेति, नाहं पूजेमि किञ्चनं.

‘‘पूजारहं न पस्सामि, मानत्थद्धो अहं तदा;

बुद्धोति वचनं नत्थि, ताव नुप्पज्जते जिनो.

‘‘अच्चयेन अहोरत्तं, पदुमुत्तरनामको;

सब्बं तमं विनोदेत्वा, लोके उप्पज्जि चक्खुमा.

‘‘वित्थारिके बाहुजञ्ञे, पुथुभूते च सासने;

उपागमि तदा बुद्धो, नगरं हंससव्हयं.

‘‘पितु अत्थाय सो बुद्धो, धम्मं देसेसि चक्खुमा;

तेन कालेन परिसा, समन्ता योजनं तदा.

‘‘सम्मतो मनुजानं सो, सुनन्दो नाम तापसो;

यावता बुद्धपरिसा, पुप्फेहच्छादयी तदा.

‘‘चतुसच्चं पकासेन्ते, सेट्ठे च पुप्फमण्डपे;

कोटिसतसहस्सानं, धम्माभिसमयो अहु.

‘‘सत्तरत्तिन्दिवं बुद्धो, वस्सेत्वा धम्मवुट्ठियो;

अट्ठमे दिवसे पत्ते, सुनन्दं कित्तयी जिनो.

‘‘देवलोके मनुस्से वा, संसरन्तो अयं भवे;

सब्बेसं पवरो हुत्वा, भवेसु संसरिस्सति.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

मन्ताणिपुत्तो पुण्णोति, हेस्सति सत्थु सावको.

‘‘एवं कित्तयि सम्बुद्धो, सुनन्दं तापसं तदा;

हासयन्तो जनं सब्बं, दस्सयन्तो सकं बलं.

‘‘कतञ्जली नमस्सन्ति, सुनन्दं तापसं जना;

बुद्धे कारं करित्वान, सोधेसि गतिमत्तनो.

‘‘तत्थ मे अहु सङ्कप्पो, सुत्वान मुनिनो वचं;

अहम्पि कारं कस्सामि, यथा पस्सामि गोतमं.

‘‘एवाहं चिन्तयित्वान, किरियं चिन्तयिं मम;

क्याहं कम्मं आचरामि, पुञ्ञक्खेत्ते अनुत्तरे.

‘‘अयञ्च पाठिको भिक्खु, सब्बपाठिस्स सासने;

विनये अग्गनिक्खित्तो, तं ठानं पत्थये अहं.

‘‘इदं मे अमितं भोगं, अक्खोभं सागरूपमं;

तेन भोगेन बुद्धस्स, आरामं मापये अहं.

‘‘सोभनं नाम आरामं, नगरस्स पुरत्थतो;

किणित्वा सतसहस्सेन, सङ्घारामं अमापयिं.

‘‘कूटागारे च पासादे, मण्डपे हम्मिये गुहा;

चङ्कमे सुकते कत्वा, सङ्घारामं अमापयिं.

‘‘जन्ताघरं अग्गिसालं, अथो उदकमाळकं;

न्हानघरं मापयित्वा, भिक्खुसङ्घस्सदासहं.

‘‘आसन्दियो पीठके च, परिभोगे च भाजने;

आरामिकञ्च भेसज्जं, सब्बमेतं अदासहं.

‘‘आरक्खं पट्ठपेत्वान, पाकारं कारयिं दळ्हं;

मा नं कोचि विहेठेसि, सन्तचित्तान तादिनं.

‘‘सतसहस्सेनावासं, सङ्घारामे अमापयिं;

वेपुल्लं तं मापयित्वा, सम्बुद्धं उपनामयिं.

‘‘निट्ठापितो मयारामो, सम्पटिच्छ तुवं मुनि;

निय्यादेस्सामि तं वीर, अधिवासेहि चक्खुम.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

मम सङ्कप्पमञ्ञाय, अधिवासेसि नायको.

‘‘अधिवासनमञ्ञाय, सब्बञ्ञुस्स महेसिनो;

भोजनं पटियादेत्वा, कालमारोचयिं अहं.

‘‘आरोचितम्हि कालम्हि, पदुमुत्तरनायको;

खीणासवसहस्सेहि, आरामं मे उपागमि.

‘‘निसिन्नं कालमञ्ञाय, अन्नपानेन तप्पयिं;

भुत्ताविं कालमञ्ञाय, इदं वचनमब्रविं.

‘‘कीतो सतसहस्सेन, तत्तकेनेव कारितो;

सोभनो नाम आरामो, सम्पटिच्छ तुवं मुनि.

‘‘इमिनारामदानेन, चेतनापणिधीहि च;

भवे निब्बत्तमानोहं, लभामि मम पत्थितं.

‘‘पटिग्गहेत्वा सम्बुद्धो, सङ्घारामं सुमापितं;

भिक्खुसङ्घे निसीदित्वा, इदं वचनमब्रवि.

‘‘यो सो बुद्धस्स पादासि, सङ्घारामं सुमापितं;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘हत्थी अस्सा रथा पत्ती, सेना च चतुरङ्गिनी;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘सट्ठि तूरसहस्सानि, भेरियो समलङ्कता;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘छळसीतिसहस्सानि, नारियो समलङ्कता;

विचित्तवत्थाभरणा, आमुत्तमणिकुण्डला.

‘‘अळारपम्हा हसुला, सुसञ्ञा तनुमज्झिमा;

परिवारेस्सन्तिमं निच्चं, सङ्घारामस्सिदं फलं.

‘‘तिंसकप्पसहस्सानि, देवलोके रमिस्सति;

सहस्सक्खत्तुं देविन्दो, देवरज्जं करिस्सति.

‘‘देवराजेन पत्तब्बं, सब्बं पटिलभिस्सति;

अनूनभोगो हुत्वान, देवरज्जं करिस्सति.

‘‘सहस्सक्खत्तुं चक्कवत्ती, राजा रट्ठे भविस्सति.

पथब्या रज्जं विपुलं, गणनातो असङ्खियं.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

उपालि नाम नामेन, हेस्सति सत्थु सावको.

‘‘विनये पारमिं पत्वा, ठानाठाने च कोविदो;

जिनसासनं धारेन्तो, विहरिस्सतिनासवो.

‘‘सब्बमेतं अभिञ्ञाय, गोतमो सक्यपुङ्गवो;

भिक्खुसङ्घे निसीदित्वा, एतदग्गे ठपेस्सति.

‘‘अपरिमेय्युपादाय, पत्थेमि तव सासनं;

सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो.

‘‘यथा सूलावुतो पोसो, राजदण्डेन तज्जितो;

सूले सातं अविन्दन्तो, परिमुत्तिंव इच्छति.

‘‘तथेवाहं महावीर, भवदण्डेन तज्जितो;

कम्मसूलावुतो सन्तो, पिपासावेदनट्टितो.

‘‘भवे सातं न विन्दामि, डय्हन्तो तीहि अग्गिभि;

परिमुत्तिं गवेसामि, यथापि राजदण्डितो.

‘‘यथा विसादो पुरिसो, विसेन परिपीळितो;

अगदं सो गवेसेय्य, विसघातायुपालनं.

‘‘गवेसमानो पस्सेय्य, अगदं विसघातकं;

तं पिवित्वा सुखी अस्स, विसम्हा परिमुत्तिया.

‘‘तथेवाहं महावीर, यथा विसहतो नरो;

सम्पीळितो अविज्जाय, सद्धम्मागदमेसहं.

‘‘धम्मागदं गवेसन्तो, अद्दक्खिं सक्यसासनं;

अग्गं सब्बोसधानं तं, सब्बसल्लविनोदनं.

‘‘धम्मोसधं पिवित्वान, विसं सब्बं समूहनिं;

अजरामरं सीतिभावं, निब्बानं फस्सयिं अहं.

‘‘यथा भूतट्टितो पोसो, भूतग्गाहेन पीळितो;

भूतवेज्जं गवेसेय्य, भूतस्मा परिमुत्तिया.

‘‘गवेसमानो पस्सेय्य, भूतविज्जासु कोविदं;

तस्स सो विहने भूतं, समूलञ्च विनासये.

‘‘तथेवाहं महावीर, तमग्गाहेन पीळितो;

ञाणालोकं गवेसामि, तमतो परिमुत्तिया.

‘‘अथद्दसं सक्यमुनिं, किलेसतमसोधनं;

सो मे तमं विनोदेसि, भूतवेज्जोव भूतकं.

‘‘संसारसोतं सञ्छिन्दिं, तण्हासोतं निवारयिं;

भवं उग्घाटयिं सब्बं, भूतवेज्जोव मूलतो.

‘‘गरुळो यथा ओपतति, पन्नगं भक्खमत्तनो;

समन्ता योजनसतं, विक्खोभेति महासरं.

‘‘पन्नगं सो गहेत्वान, अधोसीसं विहेठयं;

आदाय सो पक्कमति, येनकामं विहङ्गमो.

‘‘तथेवाहं महावीर, यथापि गरुळो बली;

असङ्खतं गवेसन्तो, दोसे विक्खालयिं अहं.

‘‘दिट्ठो अहं धम्मवरं, सन्तिपदमनुत्तरं;

आदाय विहरामेतं, गरुळो पन्नगं यथा.

‘‘आसावती नाम लता, जाता चित्तलतावने;

तस्सा वस्ससहस्सेन, एकं निब्बत्तते फलं.

‘‘तं देवा पयिरुपासन्ति, तावदूरफले सति;

देवानं सा पिया एवं, आसावती लतुत्तमा.

‘‘सतसहस्सुपादाय, ताहं परिचरे मुनि;

सायं पातं नमस्सामि, देवा आसावतिं यथा.

‘‘अवञ्झा पारिचरिया, अमोघा च नमस्सना;

दूरागतम्पि मं सन्तं, खणोयं न विराधयि.

‘‘पटिसन्धिं न पस्सामि, विचिनन्तो भवे अहं;

निरूपधि विप्पमुत्तो, उपसन्तो चरामहं.

‘‘यथापि पदुमं नाम, सूरियरंसेन पुप्फति;

तथेवाहं महावीर, बुद्धरंसेन पुप्फितो.

‘‘यथा बलाकयोनिम्हि, न विज्जति पुमो सदा;

मेघेसु गज्जमानेसु, गब्भं गण्हन्ति ता सदा.

‘‘चिरम्पि गब्भं धारेन्ति, याव मेघो न गज्जति;

भारतो परिमुच्चन्ति, यदा मेघो पवस्सति.

‘‘पदुमुत्तरबुद्धस्स, धम्ममेघेन गज्जतो;

सद्देन धम्ममेघस्स, धम्मगब्भं अगण्हहं.

‘‘सतसहस्सुपादाय, पुञ्ञगब्भं धरेमहं;