५. विसाखपञ्चालपुत्तत्थेरगाथावण्णना

न उक्खिपे नो च परिक्खिपे परेति आयस्मतो विसाखस्स पञ्चालपुत्तस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चुद्दसे कप्पे पच्चन्तगामे दलिद्दकुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं फलपरियेसनं चरन्तेहि तस्मिं गामे मनुस्सेहि सद्धिं अरञ्ञं गतो तत्थ एकं पच्चेकबुद्धं दिस्वा पसन्नमानसो वल्लिफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे मण्डलिकराजकुले निब्बत्तित्वा विसाखोति लद्धनामो पञ्चालराजधीतुया पुत्तभावतो पच्छा पञ्चालपुत्तोति पञ्ञायित्थ. सो पितरि मते रज्जं कारेन्तो सत्थरि अत्तनो गामसमीपगते सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा सत्थारा सद्धिं सावत्थिं गतो विपस्सनं पट्ठपेत्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३९.३१-३६) –

‘‘सब्बे जना समागम्म, अगमिंसु वनं तदा;

फलमन्वेसमाना ते, अलभिंसु फलं तदा.

‘‘तत्थद्दसासिं सम्बुद्धं, सयम्भुं अपराजितं;

पसन्नचित्तो सुमनो, वल्लिफलमदासहं.

‘‘चतुद्दसे इतो कप्पे, यं फलमददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा थेरो ञातीनं अनुकम्पाय जातिभूमिं अगमासि. तत्थ मनुस्सा थेरं उपसङ्कमित्वा कालेन कालं धम्मं सुणन्ता एकदिवसं ‘‘कतिहि नु खो, भन्ते, अङ्गेहि समन्नागतो धम्मकथिको होती’’ति धम्मकथिकलक्खणं पुच्छिंसु. थेरो तेसं धम्मकथिकलक्खणं कथेन्तो –

२०९. ‘‘न उक्खिपे नो च परिक्खिपे परे, न ओक्खिपे पारगतं न एरये;

न चत्तवण्णं परिसासु ब्याहरे, अनुद्धतो सम्मितभाणि सुब्बतो.

२१०. ‘‘सुसुखुमनिपुणत्थदस्सिना, मतिकुसलेन निवातवुत्तिना;

संसेवितबुद्धसीलिना, निब्बानं न हि तेन दुल्लभ’’न्ति. –

गाथाद्वयं अभासि.

तत्थ न उक्खिपेति अत्तानं न उक्खिपेय्य, जातिआदीहि बाहुसच्चादीहि च अत्तुक्कंसनं न करेय्य. नो च परिक्खिपे परेति परे परपुग्गले तेहेव जातिआदीहि नो परिक्खिपे परिच्छिन्दित्वा न खिपेय्य गुणपरिधंसनवसेन वा न खिपेय्य. न ओक्खिपे परे इच्चेवं सम्बन्धो. परे ओज्झापनवसेन न ओक्खिपे हेट्ठतो कत्वा परे न ओलोकापेय्य, न ओज्झापेय्याति अत्थो. ‘‘न उक्खिपे’’ति केचि पठन्ति, सो एवत्थो. पारगतन्ति संसारपारं विय विज्जाय पारं गतं खीणासवं तेविज्जं छळभिञ्ञं वा न एरये न घट्टये न आसादेय्य. न चत्तवण्णं परिसासु ब्याहरेति अत्तनो वण्णं गुणं लाभसक्कारसिलोकं निकामयमानो खत्तियपरिसादीसु न भासेय्य. अनुद्धतोति उद्धच्चरहितो. उद्धतस्स हि वचनं नादियन्ति. सम्मितभाणीति सम्मदेव मितभाणी, कालेन सापदेसं परियन्तवतिं अत्थसञ्हितमेव वाचं भासनसीलोति अत्थो. इतो अञ्ञथा वदन्तस्स वचनं अगहणीयं होति. सुब्बतोति सुन्दरवतो सीलसम्पन्नो. ‘‘सिया’’ति किरियापदं आनेत्वा योजेतब्बं.

एवं थेरो सङ्खेपेनेव धम्मकथिकलक्खणं वत्वा तेसं गुणानं अत्तनि लब्भमानतं अधिमुच्चित्वा भिय्योसोमत्ताय अभिप्पसन्नं महाजनं ञत्वा ‘‘एवंविधस्स धम्मकथिकस्स विमुत्तायतनसन्निस्सितस्स न निब्बानं दुल्लभं, अथ खो सुलभमेवा’’ति दस्सेन्तो ‘‘सुसुखुमनिपुणत्थदस्सिना’’ति दुतियगाथमाह. तस्सत्थो हेट्ठा वुत्तोयेव.

विसाखपञ्चालपुत्तत्थेरगाथावण्णना निट्ठिता.