६. नितकत्थेरगाथावण्णना

कस्स सेलूपमं चित्तन्ति आयस्मतो नितकत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे आरामगोपको हुत्वा जीवन्तो एकदिवसं भगवन्तं आकासेन गच्छन्तं दिस्वा पसन्नमानसो नाळिकेरफलं दातुकामो अहोसि. सत्था तं अनुग्गण्हन्तो आकासेयेव ठत्वा पटिग्गण्हि. सो तं दत्वा उळारं पीतिसोमनस्सं पटिसंवेदि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे ब्राह्मणकुले निब्बत्तित्वा नितकोति लद्धनामो विञ्ञुतं पत्तो सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो घटेन्तो अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.९१-९९) –

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

‘‘नाळिकेरफलं गय्ह, बुद्धसेट्ठस्सदासहं;

आकासे ठितको सन्तो, पटिग्गण्हि महायसो.

‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरे फलसुखेन निब्बानसुखेन विहरन्ते पधानपरिग्गाहको थेरो तं आरञ्ञायतनं गन्त्वा तत्थ वसन्तानं भिक्खूनं परिग्गण्हनत्थं ‘‘कस्स सेलूपम’’न्तिआदिना पठमं गाथमाह.

१९१. तत्थ कस्स सेलूपमं चित्तं, ठितं नानुपकम्पतीति इमस्मिं अरञ्ञायतने वसन्तेसु कस्स भिक्खुनो चित्तं अग्गफलाधिगमेन एकघनसिलामयपब्बतूपमं सब्बेसं इञ्जनानं अभावतो वसीभावप्पत्तिया च ठितं सब्बेहिपि लोकधम्मेहि नानुकम्पति न वेधति. इदानिस्स अकम्पनाकारं सद्धिं कारणेन दस्सेतुं ‘‘विरत्त’’न्तिआदि वुत्तं. तत्थ विरत्तं रजनीयेसूति विरागसङ्खातेन अरियमग्गेन रजनीयेसु रागुप्पत्तिहेतुभूतेसु तेभूमकधम्मेसु विरत्तं, तत्थ सब्बसो समुच्छिन्नरागन्ति अत्थो. कुप्पनीयेति पटिघट्ठानीये, सब्बस्मिम्पि आघातवत्थुस्मिं. न कुप्पतीति न दुस्सति न विकारं आपज्जति. यस्सेवं भावितं चित्तन्ति यस्स अरियपुग्गलस्स चित्तं मनो एवं वुत्तनयेन तादिभावेन भावितं, कुतो तं दुक्खमेस्सतीति तं पुग्गलं कुतो सत्ततो सङ्खारतो वा दुक्खं उपगमिस्सति, न तादिसस्स दुक्खं अत्थीति अत्थो.

१९२. एवं अनियमवसेन पुच्छितमत्थं नितकत्थेरो अत्तूपनायिकं कत्वा विस्सज्जेन्तो ‘‘मम सेलूपमं चित्त’’न्तिआदिना दुतियगाथाय अञ्ञं ब्याकासि. तं वुत्तत्थमेव.

नितकत्थेरगाथावण्णना निट्ठिता.