२. जोतिदासत्थेरगाथावण्णना

ये खो तेति आयस्मतो जोतिदासत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सिखिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं सत्थारं पिण्डाय गच्छन्तं दिस्वा पसन्नचित्तो कासुमारिकफलं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे पादियत्थजनपदे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, जोतिदासोतिस्स नामं अहोसि. सो विञ्ञुतं पत्वा घरमावसन्तो एकदिवसं महाकस्सपत्थेरं अत्तनो गामे पिण्डाय चरन्तं दिस्वा पसन्नचित्तो भोजेत्वा थेरस्स सन्तिके धम्मं सुत्वा अत्तनो गामसमीपे पब्बते महन्तं विहारं कारेत्वा थेरं तत्थ वासेत्वा चतूहि पच्चयेहि उपट्ठहन्तो थेरस्स धम्मदेसनाय पटिलद्धसंवेगो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५१.५१-५६) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, लोकजेट्ठं नरासभं.

‘‘पसन्नचित्तो सुमनो, सिरे कत्वान अञ्जलिं;

कासुमारिकमादाय, बुद्धसेट्ठस्सदासहं.

‘‘एकतिंसे इतो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा तीणि पिटकानि उग्गहेत्वा विसेसतो विनयपिटके सुकुसलभावं पत्वा दसवस्सिको परिसुपट्ठाको च हुत्वा बहूहि भिक्खूहि सद्धिं भगवन्तं वन्दितुं सावत्थिं गच्छन्तो अन्तरामग्गे अद्धानपरिस्समविनोदनत्थं तित्थियानं आरामं पविसित्वा एकमन्तं निसिन्नो एकं पञ्चतपं तपन्तं ब्राह्मणं दिस्वा, ‘‘किं, ब्राह्मण, अञ्ञस्मिं तपनीये अञ्ञं तपती’’ति आह. तं सुत्वा ब्राह्मणो कुपितो, ‘‘भो, मुण्डक, किं अञ्ञं तपनीय’’न्ति आह. थेरो तस्स –

‘‘कोपो च इस्सा परहेठना च, मानो च सारम्भमदो पमादो;

तण्हा अविज्जा भवसङ्गती च, ते तप्पनीया न हि रूपखन्धो’’ति. –

गाथाय धम्मं देसेसि. तं सुत्वा सो ब्राह्मणो तस्मिं तित्थियारामे सब्बे अञ्ञतित्थिया च थेरस्स सन्तिके पब्बजिंसु. थेरो तेहि सद्धिं सावत्थिं गन्त्वा भगवन्तं वन्दित्वा कतिपाहं तत्थ वसित्वा अत्तनो जातिभूमिंयेव गतो दस्सनत्थं उपगतेसु ञातकेसु नानालद्धिके यञ्ञसुद्धिके ओवदन्तो –

१४३. ‘‘ये खो ते वेठमिस्सेन, नानत्तेन च कम्मुना;

मनुस्से उपरुन्धन्ति, फरुसूपक्कमा जना;

तेपि तत्थेव कीरन्ति, न हि कम्मं पनस्सति.

१४४. ‘‘यं करोति नरो कम्मं, कल्याणं यदि पापकं;

तस्स तस्सेव दायादो, यं यं कम्मं पकुब्बती’’ति. – गाथाद्वयं अभासि;

तत्थ येति अनियमुद्देसो. तेति अनियमतो एव पटिनिद्देसो. पदद्वयस्सापि ‘‘जना’’ति इमिना सम्बन्धो. खोति निपातमत्तं. वेठमिस्सेनाति वरत्तखण्डादिना सीसादीसु वेठदानेन. ‘‘वेधमिस्सेना’’तिपि पाळि, सो एवत्थो. नानत्तेन च कम्मुनाति हननघातनहत्थपादादिच्छेदनेन खुद्दकसेळदानादिना च नानाविधेन परूपघातकम्मेन. मनुस्सेति निदस्सनमत्तं, तस्मा ये केचि सत्तेति अधिप्पायो. उपरुन्धन्तीति विबाधेन्ति. फरुसूपक्कमाति दारुणपयोगा, कुरूरकम्मन्ताति अत्थो. जनाति सत्ता. तेपि तत्थेव कीरन्तीति ते वुत्तप्पकारा पुग्गला याहि कम्मकारणाहि अञ्ञे बाधिंसु. तत्थेव तासुयेव कारणासु सयम्पि कीरन्ति पक्खिपीयन्ति, तथारूपंयेव दुक्खं अनुभवन्तीति अत्थो. ‘‘तथेव कीरन्ती’’ति च पाठो, यथा सयं अञ्ञेसं दुक्खं अकंसु, तथेव अञ्ञेहि करीयन्ति, दुक्खं पापीयन्तीति अत्थो, कस्मा? न हि कम्मं पनस्सति कम्मञ्हि एकन्तं उपचितं विपाकं अदत्वा न विगच्छति, अवसेसपच्चयसमवाये विपच्चतेवाति अधिप्पायो.

इदानि ‘‘न हि कम्मं पनस्सती’’ति सङ्खेपतो वुत्तमत्थं विभजित्वा सत्तानं कम्मस्सकतं विभावेतुं ‘‘यं करोती’’ति गाथं अभासि. तस्सत्थो यं कम्मं कल्याणं कुसलं, यदि वा पापकं अकुसलं सत्तो करोति, करोन्तो च तत्थ यं कम्मं यथा फलदानसमत्थं होति, तथा पकुब्बति उपचिनोति. तस्स तस्सेव दायादोति तस्स तस्सेव कम्मफलस्स गण्हनतो तेन तेन कम्मेन दातब्बविपाकस्स भागी होतीति अत्थो. तेनाह भगवा – ‘‘कम्मस्सका, माणव, सत्ता कम्मदायादा’’तिआदि (म. नि. ३.२८९). इमा गाथा सुत्वा थेरस्स ञातका कम्मस्सकतायं पतिट्ठहिंसूति.

जोतिदासत्थेरगाथावण्णना निट्ठिता.