३. तेलकानित्थेरगाथावण्णना
चिररत्तं वतातापीतिआदिका आयस्मतो तेलकानित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सत्थु अभिजातितो पुरेतरंयेव सावत्थियं अञ्ञतरस्मिं ब्राह्मणकुले निब्बत्तित्वा तेलकानीति लद्धनामो वयप्पत्तो हेतुसम्पन्नताय कामे जिगुच्छन्तो घरावासं पहाय परिब्बाजकपब्बज्जं पब्बजित्वा विवट्टज्झासयो ‘‘को सो पारङ्गतो लोके’’तिआदिना विमोक्खपरियेसनं चरमानो ते ते समणब्राह्मणे उपसङ्कमित्वा पञ्हं पुच्छति, ते न सम्पायन्ति. सो तेन अनाराधितचित्तो विचरति. अथ अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के लोकहितं करोन्ते एकदिवसं सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव अरहत्ते पतिट्ठाति. सो एकदिवसं भिक्खूहि सद्धिं निसिन्नो अत्तना अधिगतविसेसं पच्चवेक्खित्वा तदनुसारेन अत्तनो पटिपत्तिं अनुस्सरित्वा तं सब्बं भिक्खूनं आचिक्खन्तो –
७४७. ‘‘चिररत्तं वतातापी, धम्मं अनुविचिन्तयं;
समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणे.
७४८. ‘‘को सो पारङ्गतो लोके, को पत्तो अमतोगधं;
कस्स धम्मं पटिच्छामि, परमत्थविजाननं.
७४९. ‘‘अन्तोवङ्कगतो आसि, मच्छोव घसमामिसं;
बद्धो महिन्दपासेन, वेपचित्यसुरो यथा.
७५०. ‘‘अञ्छामि नं न मुञ्चामि, अस्मा सोकपरिद्दवा;
को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सति.
७५१. ‘‘समणं ब्राह्मणं वा कं, आदिसन्तं पभङ्गुनं;
कस्स धम्मं पटिच्छामि, जरामच्चुपवाहनं.
७५२. ‘‘विचिकिच्छाकङ्खागन्थितं, सारम्भबलसञ्ञुतं;
कोधप्पत्तमनत्थद्धं, अभिजप्पप्पदारणं.
७५३. ‘‘तण्हाधनुसमुट्ठानं, द्वे च पन्नरसायुतं;
पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठति.
७५४. ‘‘अनुदिट्ठीनं अप्पहानं, सङ्कप्पपरतेजितं;
तेन विद्धो पवेधामि, पत्तंव मालुतेरितं.
७५५. ‘‘अज्झत्तं मे समुट्ठाय, खिप्पं पच्चति मामकं;
छफस्सायतनी कायो, यत्थ सरति सब्बदा.
७५६. ‘‘तं न पस्सामि तेकिच्छं, यो मेतं सल्लमुद्धरे;
नानारज्जेन सत्थेन, नाञ्ञेन विचिकिच्छितं.
७५७. ‘‘को मे असत्थो अवणो, सल्लमब्भन्तरपस्सयं;
अहिंसं सब्बगत्तानि, सल्लं मे उद्धरिस्सति.
७५८. ‘‘धम्मप्पति हि सो सेट्ठो, विसदोसप्पवाहको;
गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सये.
७५९. ‘‘रहदेहमस्मि ओगाळ्हो, अहारियरजमत्तिके;
मायाउसूयसारम्भ, थिनमिद्धमपत्थटे.
७६०. ‘‘उद्धच्चमेघथनितं, संयोजनवलाहकं;
वाहा वहन्ति कुद्दिट्ठिं, सङ्कप्पा रागनिस्सिता.
७६१. ‘‘सवन्ति सब्बधि सोता, लता उब्भिज्ज तिट्ठति;
ते सोते को निवारेय्य, तं लतं को हि छेच्छति.
७६२. ‘‘वेलं करोथ भद्दन्ते, सोतानं सन्निवारणं;
मा ते मनोमयो सोता, रुक्खंव सहसा लुवे.
७६३. ‘‘एवं मे भयजातस्स, अपारा पारमेसतो;
ताणो पञ्ञावुधो सत्था, इसिसङ्घनिसेवितो.
७६४. ‘‘सोपानं सुगतं सुद्धं, धम्मसारमयं दळ्हं;
पादासि वुय्हमानस्स, मा भायीति च मब्रवि.
७६५. ‘‘सतिपट्ठानपासादं, आरुय्ह पच्चवेक्खिसं;
यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजं.
७६६. ‘‘यदा च मग्गमद्दक्खिं, नावाय अभिरूहनं;
अनधिट्ठाय अत्तानं, तित्थमद्दक्खिमुत्तमं.
७६७. ‘‘सल्लं अत्तसमुट्ठानं, भवनेत्तिप्पभावितं;
एतेसं अप्पवत्ताय, देसेसि मग्गमुत्तमं.
७६८. ‘‘दीघरत्तानुसयितं, चिररत्तमधिट्ठितं;
बुद्धो मेपानुदी गन्थं, विसदोसप्पवाहनो’’ति. – इमा गाथा अभासि;
तत्थ चिररत्तं वताति चिरकालं वत. आतापीति वीरियवा विमोक्खधम्मपरियेसने आरद्धवीरियो. धम्मं अनुविचिन्तयन्ति ‘‘कीदिसो नु खो विमोक्खधम्मो, कथं वा अधिगन्तब्बो’’ति विमुत्तिधम्मं अनुविचिनन्तो गवेसन्तो. समं चित्तस्स नालत्थं, पुच्छं समणब्राह्मणेति ते ते नानातित्थिये समणब्राह्मणे विमुत्तिधम्मं पुच्छन्तो पकतिया अनुपसन्तसभावस्स चित्तस्स समं वूपसमभूतं वट्टदुक्खविस्सरणं अरियधम्मं नालत्थं नाधिगच्छन्ति अत्थो.
को सो पारङ्गतोतिआदि पुच्छिताकारदस्सनं. तत्थ को सो पारङ्गतो लोकेति इमस्मिं लोके तित्थकारपटिञ्ञेसु समणब्राह्मणेसु को नु खो सो संसारस्स पारं निब्बानं उपगतो. को पत्तो अमतोगधन्ति निब्बानपतिट्ठं विमोक्खमग्गं को पत्तो अधिगतोति अत्थो. कस्स धम्मं पटिच्छामीति कस्स समणस्स वा ब्राह्मणस्स वा ओवादधम्मं पटिग्गण्हामि पटिपज्जामि. परमत्थविजाननन्ति परमत्थस्स विजाननं, अविपरीतप्पवत्तिनिवत्तियो पवेदेन्तन्ति अत्थो.
अन्तोवङ्कगतो आसीति वङ्कं वुच्चति दिट्ठिगतं मनोवङ्कभावतो, सब्बेपि वा किलेसा, अन्तोति पन हदयवङ्कस्स अन्तो, हदयब्भन्तरगतकिलेसवङ्को वा अहोसीति अत्थो. मच्छोव घसमामिसन्ति आमिसं घसन्तो खादन्तो मच्छो विय, गिलबळिसो मच्छो वियाति अधिप्पायो. बद्धो महिन्दपासेन, वेपचित्यसुरो यथाति महिन्दस्स सक्कस्स पासेन बद्धो यथा वेपचित्ति असुरिन्दो असेरिविहारी महादुक्खप्पत्तो, एवमहं पुब्बे किलेसपासेन बद्धो आसिं, असेरिविहारी महादुक्खप्पत्तोति अधिप्पायो.
अञ्छामीति आकड्ढामि. नन्ति किलेसपासं. न मुञ्चामीति न मोचेमि. अस्मा सोकपरिद्दवाति इमस्मा सोकपरिदेववट्टतो. इदं वुत्तं होति – यथापासेन बद्धो मिगो सूकरो वा मोचनुपायं अजानन्तो परिप्फन्दमानो तं आविञ्छन्तो बन्धनं दळ्हं करोति, एवं अहं पुब्बे किलेसपासेन पटिमुक्को मोचनुपायं अजानन्तो कायसञ्चेतनादिवसेन परिप्फन्दमानो तं न मोचेसिं, अञ्ञदत्थु तं दळ्हं करोन्तो सोकादिना परं किलेसं एव पापुणिन्ति. को मे बन्धं मुञ्चं लोके, सम्बोधिं वेदयिस्सतीति इमस्मिं लोके एतं किलेसबन्धनेन बन्धं मुञ्चन्तो सम्बुज्झति एतेनाति ‘‘सम्बोधी’’ति लद्धनामं विमोक्खमग्गं को मे वेदयिस्सति आचिक्खिस्सतीति अत्थो. ‘‘बन्धमुञ्च’’न्तिपि पठन्ति, बन्धा, बन्धस्स वा मोचकं सम्बोधिन्ति योजना.
आदिसन्तन्ति देसेन्तं. पभङ्गुनन्ति पभञ्जनं किलेसानं विद्धंसनं, पभङ्गुनं वा धम्मप्पवत्तिं आदिसन्तं कथेन्तं जराय मच्चुनो च पवाहनं कस्स धम्मं पटिच्छामि. ‘‘पटिपज्जामी’’ति वा पाठो, सो एवत्थो. विचिकिच्छाकङ्खागन्थितन्ति ‘‘अहोसिं नु खो अहमतीतमद्धान’’न्तिआदिनयप्पवत्ताय (म. नि. १.१८; सं. नि. २.२०) विचिकिच्छाय आसप्पनपरिसप्पनाकारवुत्तिया कङ्खाय च गन्थितं. सारम्भबलसञ्ञुतन्ति करणुत्तरियकरणलक्खणेन बलप्पत्तेन सारम्भेन युत्तं. कोधप्पत्तमनत्थद्धन्ति सब्बत्थ कोधेन युत्तमनसा थद्धभावं गतं अभिजप्पप्पदारणं. इच्छितालाभादिवसेन हि तण्हा सत्तानं चित्तं पदालेन्ती विय पवत्तति. दूरे ठितस्सापि विज्झनुपायताय तण्हाव धनु समुपतिट्ठति उप्पज्जति एतस्माति तण्हाधनुसमुट्ठानं, दिट्ठिसल्लं. तं पन यस्मा वीसतिवत्थुका सक्कायदिट्ठि, दसवत्थुका मिच्छादिट्ठीति तिंसप्पभेदं, तस्मा वुत्तं ‘‘द्वे च पन्नरसायुत’’न्ति, द्विक्खत्तुं पन्नरसभेदवन्तन्ति अत्थो. पस्स ओरसिकं बाळ्हं, भेत्वान यदि तिट्ठतीति यं उरसम्बन्धनीयताय ओरसिकं बाळ्हं बलवतरं भेत्वान हदयं विनिविज्झित्वा तस्मिंयेव हदये तिट्ठति, तं पस्साति अत्तानमेव आलपति.
अनुदिट्ठीनं अप्पहानन्ति अनुदिट्ठिभूतानं सेसदिट्ठीनं अप्पहानकारणं. याव हि सक्कायदिट्ठि सन्तानतो न विगच्छति, ताव सस्सतदिट्ठिआदीनं अप्पहानमेवाति. सङ्कप्पपरतेजितन्ति सङ्कप्पेन मिच्छावितक्केन परे परजने निस्सयलक्खणं पतिपतिते तेजितं उस्साहितं. तेन विद्धो पवेधामीति तेन दिट्ठिसल्लेन यथा हदयं आहच्च तिट्ठति, एवं विद्धो पवेधामि सङ्कप्पामि सस्सतुच्छेदादिवसेन इतो चितो च परिवट्टामि. पत्तंव मालुतेरितन्ति मालुतेन वायुना एरितं वण्टतो मुत्तं दुमपत्तं विय.
अज्झत्तं मे समुट्ठायाति यथा लोके सल्लं नाम बाहिरतो उट्ठाय अज्झत्तं निम्मथेत्वा बाधति, न एवमिदं. इदं पन अज्झत्तं मे मम अत्तभावे समुट्ठाय सो अत्तभावसञ्ञितो छफस्सायतनकायो यथा खिप्पं सीघं पच्चति, डय्हति. यथा किं? अग्गि विय सनिस्सयडाहको तंयेव मामकं मम सन्तकं अत्तभावं डहन्तो यत्थ उप्पन्नो, तत्थेव सरति पवत्तति.
तं न पस्सामि तेकिच्छन्ति तादिसाय तिकिच्छाय नियुत्तताय तेकिच्छं सल्लकत्तं भिसक्कं तं न पस्सामि. यो मेतं सल्लमुद्धरेति यो भिसक्को एतं दिट्ठिसल्लं किलेससल्लञ्च उद्धरेय्य, उद्धरन्तो च नानारज्जेन रज्जुसदिससङ्खाताय एसनिसलाकाय पवेसेत्वान सत्थेन कन्तित्वा नाञ्ञेन मन्तागदप्पयोगेन विचिकिच्छितं सल्लं तिकिच्छितुं सक्काति आहरित्वा योजेतब्बं. विचिकिच्छितन्ति, च निदस्सनमत्तमेतं. सब्बस्सपि किलेससल्लस्स वसेन अत्थो वेदितब्बो.
असत्थोति सत्थरहितो. अवणोति वणेन विना. अब्भन्तरपस्सयन्ति अब्भन्तरसङ्खातं हदयं निस्साय ठितं. अहिंसन्ति अपीळेन्तो. ‘‘अहिंसा’’ति च पाठो, अहिंसाय अपीळनेनाति अत्थो. अयञ्हेत्थ सङ्खेपत्थो – को नु खो किञ्चि सत्थं अग्गहेत्वा वणञ्च अकरोन्तो ततो एव सब्बगत्तानि अबाधेन्तो मम हदयब्भन्तरगतं पीळाजननतो अन्तो तुदनतो अन्तो रुद्धनतो च परमत्थेनेव सल्लभूतं किलेससल्लं उद्धरिस्सतीति.
एवं दसहि गाथाहि पुब्बे अत्तना चिन्तिताकारं दस्सेत्वा पुनपि तं पकारन्तरेन दस्सेतुं ‘‘धम्मप्पति हि सो सेट्ठो’’तिआदिमाह. तत्थ धम्मप्पतीति धम्मनिमित्तं धम्महेतु. हीति निपातमत्तं. सो सेट्ठोति सो पुग्गलो उत्तमो. विसदोसप्पवाहकोति यो मय्हं रागादिकिलेसस्स पवाहको उच्छिन्नको. गम्भीरे पतितस्स मे, थलं पाणिञ्च दस्सयेति को नु खो अतिगम्भीरे संसारमहोघे पतितस्स मय्हं ‘‘मा भायी’’ति अस्सासेन्तो निब्बानथलं तंसम्पापकं अरियमग्गहत्थञ्च दस्सेय्य.
रहदेहमस्मि ओगाळ्होति महति संसाररहदे अहमस्मि ससीसं निमुज्जनवसेन ओतिण्णो अनुपविट्ठो. अहारियरजमत्तिकेति अपनेतुं असक्कुणेय्यो रागादिरजो मत्तिका कद्दमो एतस्साति अहारियरजमत्तिको, रहदो. तस्मिं रहदस्मिं. ‘‘अहारियरजमन्तिके’’ति वा पाठो, अन्तिके ठितरागादीसु दुन्नीहरणीयरागादिरजेति अत्थो. सन्तदोसपटिच्छादनलक्खणा माया, परसम्पत्तिअसहनलक्खणा उसूया, करणुत्तरियकरणलक्खणो सारम्भो, चित्तालसियलक्खणं थिनं, कायालसियलक्खणं मिद्धन्ति इमे पापधम्मा पत्थटा यं रहदं, तस्मिं मायाउसूयसारम्भथिनमिद्धमपत्थटे, मकारो चेत्थ पदसन्धिकरो वुत्तो. यथावुत्तेहि इमेहि पापधम्मेहि पत्थटेति अत्थो.
उद्धच्चमेघथनितं, संयोजनवलाहकन्ति वचनविपल्लासेन वुत्तं, भन्तसभावं उद्धच्चं मेघथनितं मेघगज्जितं एतेसन्ति उद्धच्चमेघथनिता. दसविधा संयोजना एव वलाहका एतेसन्ति संयोजनवलाहका. वाहा महाउदकवाहसदिसा रागनिस्सिता मिच्छासङ्कप्पा असुभादीसु ठिता कुद्दिट्ठिं मं वहन्ति अपायसमुद्दमेव उद्दिस्स कड्ढन्तीति अत्थो.
सवन्ति सब्बधि सोताति तण्हासोतो, दिट्ठिसोतो, मानसोतो, अविज्जासोतो, किलेससोतोति इमे पञ्चपिसोता चक्खुद्वारादीनं वसेन सब्बेसु रूपादीसु आरम्मणेसु सवनतो ‘‘रूपतण्हा…पे… धम्मतण्हा’’तिआदिना (विभ. २०४, २३२) सब्बभागेहि वा सवनतो सब्बधि सवन्ति. लताति पलिवेठनट्ठेन संसिब्बनट्ठेन लता वियाति लता, तण्हा. उब्भिज्ज तिट्ठतीति छहि द्वारेहि उब्भिज्जित्वा रूपादीसु आरम्मणेसु तिट्ठति. ते सोतेति तण्हादिके सोते मम सन्ताने सन्दन्ते मग्गसेतुबन्धनेन को पुरिसविसेसो निवारेय्य, तं लतन्ति तण्हालतं, मग्गसत्थेन को छेच्छति छिन्दिस्सति.
वेलं करोथाति तेसं सोतानं वेलं सेतुं करोथ सन्निवारणं. भद्दन्तेति आलपनाकारदस्सनं. मा ते मनोमयो सोतोति उदकसोतो ओळारिको, तस्स बालमहाजनेनपि सेतुं कत्वा निवारणं सक्का. अयं पन मनोमयो सोतो सुखुमो दुन्निवारणो. सो यथा उदकसोतो वड्ढन्तो कूले ठितं रुक्खं पातेत्वाव नासेति, एवं तुम्हे अपायतीरे ठिते तत्थ सहसा पातेत्वा अपायसमुद्दं पापेन्तो मा लुवे मा विनासेय्य मा अनयब्यसनं पापेय्याति अत्थो.
एवं अयं थेरो पुरिमत्तभावे परिमद्दितसङ्खारत्ता ञाणपरिपाकं गतत्ता पवत्तिदुक्खं उपधारेन्तो यथा विचिकिच्छादिके संकिलेसधम्मे परिग्गण्हि, तमाकारं दस्सेत्वा इदानि जातसंवेगो किंकुसलगवेसी सत्थु सन्तिकं गतो यं विसेसं अधिमुच्चि, तं दस्सेन्तो ‘‘एवं मे भयजातस्सा’’तिआदिमाह. तत्थ एवं मे भयजातस्साति एवं वुत्तप्पकारेन संसारे जातभयस्स अपारा ओरिमतीरतो सप्पटिभयतो संसारवट्टतो ‘‘कथं नु खो मुञ्चेय्य’’न्ति पारं निब्बानं, एसतो गवेसतो, ताणो सदेवकस्स लोकस्स ताणभूतो किलेससमुच्छेदनी पञ्ञा आवुधो एतस्साति पञ्ञावुधो. दिट्ठधम्मिकादिअत्थेन सत्तानं यथारहं अनुसासनतो सत्था, इसिसङ्घेन अग्गसावकादिअरियपुग्गलसमूहेन निसेवितो पयिरुपासितो इसिसङ्घनिसेवितो, सोपानन्ति देसनाञाणेन सुट्ठु कतत्ता अभिसङ्खतत्ता सुकतं, उपक्किलेसविरहिततो सुद्धं, सद्धापञ्ञादिसारभूतं धम्मसारमयं पटिपक्खेहि अचलनीयतो दळ्हं, विपस्सनासङ्खातं सोपानं महोघेन वुय्हमानस्स मय्हं सत्था पादासि, ददन्तो च ‘‘इमिना ते सोत्थि भविस्सती’’ति समस्सासेन्तो मा भायीति च अब्रवि, कथेसि.
सतिपट्ठानपासादन्ति तेन विपस्सनासोपानेन कायानुपस्सनादिना लद्धब्बचतुब्बिधसामञ्ञफलविसेसेन चतुभूमिसम्पन्नं सतिपट्ठानपासादं आरुहित्वा पच्चवेक्खिसं चतुसच्चधम्मं मग्गञाणेन पतिअवेक्खिं पटिविज्झिं. यं तं पुब्बे अमञ्ञिस्सं, सक्कायाभिरतं पजन्ति एवं पटिविद्धसच्चो यं सक्काये ‘‘अहं ममा’’ति अभिरतं पजं तित्थियजनं तेन परिकप्पितअत्तानञ्च पुब्बे सारतो अमञ्ञिस्सं. यदा च मग्गमद्दक्खिं, नावाय अभिरूहनन्ति अरियमग्गनावाय अभिरुहनूपायभूतं यदा विपस्सनामग्गं याथावतो अद्दक्खिं. ततो पट्ठाय तं तित्थियजनं अत्तानञ्च अनधिट्ठाय चित्ते अट्ठपेत्वा अग्गहेत्वा तित्थं निब्बानसङ्खातस्स अमतमहापारस्स तित्थभूतं अरियमग्गदस्सनं सब्बेहि मग्गेहि सब्बेहि कुसलधम्मेहि उक्कट्ठं अद्दक्खिं, याथावतो अपस्सिन्ति अत्थो.
एवं अत्तनो अनुत्तरं मग्गाधिगमं पकासेत्वा इदानि तस्स देसकं सम्मासम्बुद्धं थोमेन्तो ‘‘सल्लं अत्तसमुट्ठान’’न्तिआदिमाह. तत्थ सल्लन्ति दिट्ठिमानादिकिलेससल्लं. अत्तसमुट्ठानन्ति ‘‘अह’’न्ति मानट्ठानताय ‘‘अत्ता’’ति च लद्धनामे अत्तभावे सम्भूतं. भवनेत्तिप्पभावितन्ति भवतण्हासमुट्ठितं भवतण्हासन्निस्सयं. सा हि दिट्ठिमानादीनं सम्भवो. एतेसं अप्पवत्तायाति यथावुत्तानं पापधम्मानं अप्पवत्तिया अनुप्पादाय. देसेसि मग्गमुत्तमन्ति उत्तमं सेट्ठं अरियं अट्ठङ्गिकं मग्गं, तदुपायञ्च विपस्सनामग्गं कथेसि.
दीघरत्तानुसयितन्ति अनमतग्गे संसारे चिरकालं सन्ताने अनु अनु सयितं कारणलाभेन उप्पज्जनारहभावेन थामगतं, ततो च चिररत्तं अधिट्ठितं सन्तानं अज्झारुय्ह ठितं. गन्थन्ति अभिज्झाकायगन्थादिं मम सन्ताने गन्थभूतं किलेसविसदोसं पवाहनो बुद्धो भगवा अत्तनो देसनानुभावेन अपानुदी परिजहापेसि, गन्थेसु हि अनवसेसतो पहीनेसु अप्पहीनो नाम किलेसो नत्थीति.
तेलकानित्थेरगाथावण्णना निट्ठिता.