४. रट्ठपालत्थेरगाथावण्णना
पस्स चित्तकतन्तिआदिका आयस्मतो रट्ठपालत्थेरस्स गाथा. का उप्पत्ति? अयं किर पदुमुत्तरस्स भगवतो उप्पत्तितो पुरेतरमेव हंसवतीनगरे गहपतिमहासालकुले निब्बत्तित्वा वयप्पत्तो पितु अच्चयेन घरावासे पतिट्ठितो रतनकोट्ठागारकम्मिकेन दस्सितं अपरिमाणं कुलवंसानुगतं धनं दिस्वा ‘‘इमं एत्तकं धनरासिं मय्हं पितुअय्यकपय्यकादयो अत्तना सद्धिं गहेत्वा गन्तुं नासक्खिंसु, मया पन गहेत्वा गन्तुं वट्टती’’ति चिन्तेत्वा कपणद्धिकादीनं महादानं अदासि. सो अभिञ्ञालाभिं एकं तापसं उपट्ठहन्तो तेन देवलोकाधिपच्चे नियोजितो यावजीवं पुञ्ञानि कत्वा ततो चुतो देवलोके निब्बत्तित्वा दिब्बसम्पत्तिं अनुभवन्तो तत्थ यावतायुकं ठत्वा ततो चुतो मनुस्सलोके भिन्नं रट्ठं सन्धारेतुं समत्थस्स कुलस्स एकपुत्तको हुत्वा निब्बत्ति.
तेन च समयेन पदुमुत्तरो भगवा लोके उप्पज्जित्वा पवत्तितवरधम्मचक्को वेनेय्यसत्ते निब्बानमहानगरसङ्खातं खेमन्तभूमिं सम्पापेसि. अथ सो कुलपुत्तो अनुक्कमेन विञ्ञुतं पत्तो एकदिवसं उपासकेहि सद्धिं विहारं गन्त्वा सत्थारं धम्मं देसेन्तं दिस्वा पसन्नचित्तो परिसपरियन्ते निसीदि. तेन खो पन समयेन सत्था एकं भिक्खुं सद्धापब्बजितानं अग्गट्ठाने ठपेसि. तं दिस्वा सो पसन्नमानसो तदत्थाय चित्तं ठपेत्वा सतसहस्सभिक्खुपरिवुतस्स भगवतो महता सक्कारेन सत्ताहं महादानं पवत्तेत्वा पणिधानं अकासि. सत्था तस्स अनन्तरायेन इज्झनभावं दिस्वा ‘‘अनागते गोतमस्स नाम सम्मासम्बुद्धस्स सासने सद्धापब्बजितानं अग्गो भविस्सती’’ति ब्याकासि. सो सत्थारं भिक्खुसङ्घञ्च वन्दित्वा उट्ठायासना पक्कामि. सो तत्थ यावतायुकं पुञ्ञानि कत्वा ततो चवित्वा देवमनुस्सेसु संसरन्तो इतो द्वेनवुते कप्पे फुस्सस्स भगवतो काले सत्थु वेमातिकभातिकेसु तीसु राजपुत्तेसु सत्थारं उपट्ठहन्तेसु तेसं पुञ्ञकिरियाय किच्चं अकासि.
एवं तत्थ तत्थ भवे तं तं बहुं कुसलं उपचिनित्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे कुरुरट्ठे थुल्लकोट्ठिकनिगमे रट्ठपालसेट्ठिनो गेहे निब्बत्ति, तस्स भिन्नं रट्ठं सन्धारेतुं समत्थे कुले निब्बत्तत्ता रट्ठपालोति वंसानुगतमेव नामं अहोसि. सो महता परिवारेन वड्ढन्तो अनुक्कमेन योब्बनपत्तो मातापितूहि पतिरूपेन दारेन संयोजितो महन्ते च यसे पतिट्ठापितो दिब्बसम्पत्तिसदिसं सम्पत्तिं पच्चनुभोति. अथ भगवा कुरुरट्ठे जनपदचारिकं चरन्तो थुल्लकोट्ठिकं अनुपापुणि. तं सुत्वा रट्ठपालो कुलपुत्तो सत्थारं उपसङ्कमित्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजितुकामो सत्ताहं भत्तच्छेदं कत्वा किच्छेन कसिरेन मातापितरो अनुजानापेत्वा सत्थारं उपसङ्कमित्वा पब्बज्जं याचित्वा सत्थु आणत्तिया अञ्ञतरस्स थेरस्स सन्तिके पब्बजित्वा योनिसोमनसिकारेन कम्मं करोन्तो विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२.९७-१११) –
‘‘पदुमुत्तरस्स भगवतो, लोकजेट्ठस्स तादिनो;
वरनागो मया दिन्नो, ईसादन्तो उरूळ्हवा.
‘‘सेतच्छत्तो पसोभितो, सकप्पनो सहत्थिपो;
अग्घापेत्वान तं सब्बं, सङ्घारामं अकारयिं.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयिं अहं;
महोघदानं करित्वान, निय्यादेसिं महेसिनो.
‘‘अनुमोदि महावीरो, सयम्भू अग्गपुग्गलो;
सब्बे जने हासयन्तो, देसेसि अमतं पदं.
‘‘तं मे बुद्धो वियाकासि, जलजुत्तरनामको;
भिक्खुसङ्घे निसीदित्वा, इमा गाथा अभासथ.
‘‘चतुपञ्ञाससहस्सानि, पासादे कारयी अयं;
कथयिस्सामि विपाकं, सुणोथ मम भासतो.
‘‘अट्ठारससहस्सानि, कूटागारा भविस्सरे;
ब्यम्हुत्तमम्हि निब्बत्ता, सब्बसोण्णमया च ते.
‘‘पञ्ञासक्खत्तुं देविन्दो, देवरज्जं करिस्सति;
अट्ठपञ्ञासक्खत्तुञ्च, चक्कवत्ती भविस्सति.
‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;
गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.
‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;
अड्ढे कुले महाभोगे, निब्बत्तिस्सति तावदे.
‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;
रट्ठपालोति नामेन, हेस्सति सत्थु सावको.
‘‘पधानपहितत्तो सो, उपसन्तो निरूपधि;
सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.
‘‘उट्ठाय अभिनिक्खम्म, जहिता भोगसम्पदा;
खेळपिण्डेव भोगम्हि, पेमं मय्हं न विज्जति.
‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;
धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.
‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;
छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा सत्थारं अनुजानापेत्वा मातापितरो पस्सितुं थुल्लकोट्ठिकं गन्त्वा, तत्थ सपदानं पिण्डाय चरन्तो पितु निवेसने आभिदोसिकं कुम्मासं लभित्वा तं अमतं विय परिभुञ्जन्तो, पितरा निमन्तितो स्वातनाय अधिवासेत्वा, दुतियदिवसे पितु निवेसने पिण्डपातं परिभुञ्जित्वा अलङ्कतपटियत्ते इत्थागारजने उपगन्त्वा ‘‘कीदिसा नाम ता, अय्यपुत्त, अच्छरायो, यासं त्वं हेतु ब्रह्मचरियं चरसी’’तिआदीनि (म. नि. २.३०१) वत्वा, पलोभनकम्मं कातुं आरद्धे तस्स अधिप्पायं परिवत्तेत्वा अनिच्चतादिपटिसंयुत्तं धम्मं कथेन्तो –
७६९. ‘‘पस्स चित्तकतं बिम्बं, अरुकायं समुस्सितं;
आतुरं बहुसङ्कप्पं, यस्स नत्थि धुवं ठिति.
७७०. ‘‘पस्स चित्तकतं रूपं, मणिना कुण्डलेन च;
अट्ठिं तचेन ओनद्धं, सह वत्थेहि सोभति.
७७१. ‘‘अलत्तककता पादा, मुखं चुण्णकमक्खितं;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
७७२. ‘‘अट्ठापदकता केसा, नेत्ता अञ्जनमक्खिता;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
७७३. ‘‘अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतो;
अलं बालस्स मोहाय, नो च पारगवेसिनो.
७७४. ‘‘ओदहि मिगवो पासं, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, कन्दन्ते मिगबन्धके.
७७५. ‘‘छिन्नो पासो मिगवस्स, नासदा वागुरं मिगो;
भुत्वा निवापं गच्छाम, सोचन्ते मिगलुद्दके’’ति. – इमा गाथा अभासि;
तत्थ चित्तकतन्ति चित्तं कतं चित्तकतं, वत्थाभरणमालादीहि विचित्तं कतन्ति अत्थो. बिम्बन्ति दीघादिभावेन युत्तट्ठानेसु दीघादीहि अङ्गपच्चङ्गेहि मण्डितं अत्तभावं. अरुकायन्ति नवन्नं वणमुखानं लोमकूपानञ्च वसेन विस्सन्दमानअसुचिं, सब्बसो च अरुभूतं वणभूतं अरूनं वा कायं. समुस्सितन्ति तीहि अट्ठिसतेहि समुस्सितं. आतुरन्ति सब्बकालं इरियापथन्तरादीहि परिहरितब्बताय निच्चं गिलानं. बहुसङ्कप्पन्ति बालजनेन अभूतं आरोपेत्वा बहुधा सङ्कप्पितब्बं. यस्स नत्थि धुवं ठितीति यस्स कायस्स धुवभावो ठितिसभावो नत्थि, एकंसतो भेदनविकिरणविद्धंसनधम्मोयेव. तं पस्साति समीपे ठितं जनं, अत्तानमेव वा सन्धाय वदति.
रूपन्ति सरीरं. सरीरम्पि हि ‘‘अट्ठिञ्च पटिच्च, न्हारुञ्च पटिच्च, मंसञ्च पटिच्च, चम्मञ्च पटिच्च, आकासो परिवारितो ‘रूपन्त्वेव सङ्खं गच्छती’’तिआदीसु (म. नि. १.३०६) रूपन्ति वुच्चति. मणिना कुण्डलेन चाति सीसूपगादिआभरणगतेन मणिना कुण्डलेन चित्तकतं. अट्ठिं तचेन ओनद्धन्ति अल्लचम्मेन परियोनद्धं अतिरेकतिसतपभेदं अट्ठिं पस्साति योजना. कुण्डलेन चाति च-सद्देन सेसाभरणालङ्कारे सङ्गण्हाति. सह वत्थेहि सोभतीति तयिदं रूपं मणिना चित्तकतम्पि वत्थेहि पटिच्छादितमेव सोभति, न अपटिच्छादितन्ति अत्थो. ये पन ‘‘अट्ठितचेना’’ति पठन्ति, तेसं अट्ठितचेनं ओनद्धं सोभति, ओनद्धत्ता अट्ठितचेनाति अत्थो.
अलत्तककताति अलत्तकेन कतरञ्जना लाखाय संरञ्जिता. पादाति चरणा. मुखं चुण्णकमक्खितन्ति मुखं चुण्णकेन मक्खितं, यं मण्डनमनुयुत्ता सासपकक्केन मुखपीळकादीनि हरित्वा लोणमत्तिकाय दुट्ठलोहितं हरित्वा मुखचुण्णकविलेपनं करोन्ति, तं सन्धाय वुत्तं. अलन्ति बालस्स अन्धपुथुज्जनस्स नो च पारगवेसिनो वट्टाभिरतस्स मोहाय सम्मोहनाय समत्थं तस्स चित्तं मोहेतुं परियत्तं, पारगवेसिनो पन विवट्टाभिरतस्स नो अलं न परियत्तं.
अट्ठापदकताति अट्ठपदाकारेन कता सञ्चिता पुरिमभागे केसे कप्पेत्वा नलाटस्स पटिच्छादनवसेन कता केसरचना अट्ठपदं नाम, यं ‘‘अलक’’न्तिपि वुच्चति. नेत्ता अञ्जनमक्खिताति उभोपि नयनानि अन्तो द्वीसु अन्तेसु च यथा अञ्जनच्छाया दिस्सति, एवं अञ्जितञ्जनानि.
अञ्जनीव नवा चित्ता, पूतिकायो अलङ्कतोति यथा अञ्जनी अञ्जननाळिका नवा अभिनवा मालाकम्ममकरदन्तादिवसेन चित्ता बहि मट्ठा उज्जला दस्सनीया, अन्तो पन न दस्सनीया होति, एवमेव तासं कायो न्हानब्भञ्जनवत्थालङ्कारेहि अलङ्कतो बहि उज्जलो, अन्तो पन पूति नानप्पकारअसुचीहि भरितो तिट्ठतीति अत्थो.
ओदहीति ओड्डेसि. मिगवोति, मिगलुद्दको. पासन्ति, दण्डवागुरं. नासदाति न सङ्घट्टेसि. वागुरन्ति पासं. निवापन्ति मिगानं खादनत्थाय खित्तं तिणादिघासं. उपमा खो अयं थेरेन कता अत्थस्स विञ्ञापनाय. अयञ्हेत्थ अत्थो – यथा मिगानं मारणत्थाय दण्डवागुरं ओड्डेत्वा तत्थ निवापं विकिरिय मिगलुद्दके निलीने ठिते तत्थेको जवपरक्कमसम्पन्नो छेको मिगो पासं अफुसन्तो एव यथासुखं निवापं खादित्वा, ‘‘वञ्चेसि वत मिगो’’ति मिगलुद्दके विरवन्ते एव गच्छति. अपरो मिगो बलवा छेको जवसम्पन्नोव तत्थ गन्त्वा निवापं खादित्वा तत्थ तत्थ पासं छिन्दित्वा, ‘‘वञ्चेसि वत मिगो, पासो छिन्नो’’ति मिगलुद्दके सोचन्ते एव गच्छति, एवं मयम्पि पुब्बे पुथुज्जनकाले मातापितूहि आसज्जनत्थाय निय्यादिते भोगे भुञ्जित्वा तत्थ तत्थ असज्जमाना निक्खन्ता. इदानि पन सब्बसो छिन्नकिलेसा अपासा हुत्वा ठिता, तेहि दिन्नभोजनं भुञ्जित्वा तेसु सोचन्तेसु एव गच्छामाति.
एवं थेरो मिगलुद्दकं विय मातापितरो, हिरञ्ञसुवण्णं इत्थागारञ्च वागुरजालं विय, अत्तना पुब्बे भुत्तभोगे च इदानि भुत्तभोजनञ्च निवापतिणं विय, अत्तानं महामिगं विय च कत्वा दस्सेति. इमा गाथा वत्वा वेहासं अब्भुग्गन्त्वा रञ्ञो कोरब्यस्स मिगाजिनउय्याने मङ्गलसिलापट्टे निसीदि. थेरस्स किर पिता सत्तसु द्वारकोट्ठकेसु अग्गळं दापेत्वा मल्ले आणापेसि ‘‘निक्खमितुं मा देथ, कासायानि अपनेत्वा सेतकानि निवासेथा’’ति, तस्मा थेरो आकासेन अगमासि. अथ राजा कोरब्यो थेरस्स तत्थ निसिन्नभावं सुत्वा तं उपसङ्कमित्वा सम्मोदनीयं कथं सारणीयं वीतिसारेत्वा ‘‘इध, भो रट्ठपाल, पब्बजन्तो ब्याधिपारिजुञ्ञं वा जराभोगञातिपारिजुञ्ञं वा पत्तो पब्बजति. त्वं पन किञ्चिपि पारिजुञ्ञं अनुपगतो एव कस्मा पब्बजितो’’ति पुच्छि. अथस्स थेरो, ‘‘उपनिय्यति लोको अद्धुवो, अताणो लोको अनभिस्सरो, अस्सको लोको सब्बं पहाय गमनीयं, ऊनो लोको अतित्तो तण्हादासो’’ति (म. नि. २.३०५) इमेसं चतुन्नं धम्मुद्देसानं अत्तानं विवित्तभावं कथेत्वा तस्सा देसनाय अनुगीतिं कथेन्तो –
७७६. ‘‘पस्सामि लोके सधने मनुस्से, लद्धान वित्तं न ददन्ति मोहा;
लुद्धा धनं सन्निचयं करोन्ति, भिय्योव कामे अभिपत्थयन्ति.
७७७. ‘‘राजा पसय्हप्पथविं विजेत्वा, ससागरन्तं महिमावसन्तो;
ओरं समुद्दस्स अतित्तरूपो, पारं समुद्दस्सपि पत्थयेथ.
७७८. ‘‘राजा च अञ्ञे च बहू मनुस्सा, अवीततण्हा मरणं उपेन्ति;
ऊनाव हुत्वान जहन्ति देहं, कामेहि लोकम्हि न हत्थि तित्ति.
७७९. ‘‘कन्दन्ति नं ञाती पकिरिय केसे, ‘अहो वता नो अमरा’ति चाहु;
वत्थेन नं पारुतं नीहरित्वा, चितं समोधाय ततो डहन्ति.
७८०. ‘‘सो डय्हति सूलेहि तुज्जमानो, एकेन वत्थेन पहाय भोगे;
न मीयमानस्स भवन्ति ताणा, ञाती च मित्ता अथ वा सहाया.
७८१. ‘‘दायादका तस्स धनं हरन्ति, सत्तो पन गच्छति येनकम्मं;
न मीयमानं धनमन्वेति किञ्चि, पुत्ता च दारा च धनञ्च रट्ठं.
७८२. ‘‘न दीघमायुं लभते धनेन, न चापि वित्तेन जरं विहन्ति;
अप्पं हिदं जीवितमाहु धीरा, असस्सतं विप्परिणामधम्मं.
७८३. ‘‘अड्ढा दलिद्दा च फुसन्ति फस्सं, बालो च धीरो च तथेव फुट्ठो;
बालो हि बाल्या वधितोव सेति, धीरो च नो वेधति फस्सफुट्ठो.
७८४. ‘‘तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छति;
अब्योसितत्ता हि भवाभवेसु, पापानि कम्मानि करोति मोहा.
७८५. ‘‘उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्पराय;
तस्सप्पपञ्ञो अभिसद्दहन्तो, उपेति गब्भञ्च परञ्च लोकं.
७८६. ‘‘चोरो यथा सन्धिमुखे गहीतो, सकम्मुना हञ्ञति पापधम्मो;
एवं पजा पेच्च परम्हि लोके, सकम्मुना हञ्ञति पापधम्मो.
७८७. ‘‘कामा हि चित्रा मधुरा मनोरमा, विरूपरूपेन मथेन्ति चित्तं;
आदीनवं कामगुणेसु दिस्वा, तस्मा अहं पब्बजितोम्हि राज.
७८८. ‘‘दुमप्फलानीव पतन्ति माणवा, दहरा च वुड्ढा च सरीरभेदा;
एतम्पि दिस्वा पब्बजितोम्हि राज, अपण्णकं सामञ्ञमेव सेय्यो.
७८९. ‘‘सद्धायाहं पब्बजितो, उपेतो जिनसासने;
अवञ्झा मय्हं पब्बज्जा, अनणो भुञ्जामि भोजनं.
७९०. ‘‘कामे आदित्ततो दिस्वा, जातरूपानि सत्थतो;
गब्भवोक्कन्तितो दुक्खं, निरयेसु महब्भयं.
७९१. ‘‘एतमादीनवं ञत्वा, संवेगं अलभिं तदा;
सोहं विद्धो तदा सन्तो, सम्पत्तो आसवक्खयं.
७९२. ‘‘परिचिण्णो मया सत्था, कतं बुद्धस्स सासनं;
ओहितो गरुको भारो, भवनेत्ति समूहता.
७९३. ‘‘यस्सत्थाय पब्बजितो, अगारस्मानगारियं;
सो मे अत्थो अनुप्पत्तो, सब्बसंयोजनक्खयो’’ति. – इमा गाथा अवोच;
तत्थ पस्सामि लोकेति अहं, महाराज, इमस्मिं लोके सधने धनसम्पन्ने अड्ढे मनुस्से पस्सामि, ते पन लद्धान वित्तं धनं लभित्वा भोगसम्पत्तियं ठिता समणब्राह्मणादीसु कस्सचि किञ्चिपि न ददन्ति. कस्मा? मोहा कम्मस्सकतापञ्ञाय अभावतो. लुद्धा लोभाभिभूता यथालद्धं धनं सन्निचयं सब्बसो निचेतब्बं निधेतब्बं करोन्ति. भिय्योव यथाधिगतकामतो उपरि कामे कामगुणे ‘‘तथाहं एदिसे च भोगे पटिलभेय्य’’न्ति अभिपत्थयन्ति पच्चासीसन्ति तज्जञ्च वायामं करोन्ति.
भिय्यो कामपत्थनाय उदाहरणं दस्सेन्तो ‘‘राजा’’तिआदिमाह. तत्थ पसय्हप्पथविं विजेत्वाति अत्तनो वंसानुगतं पथविं बलक्कारेन अभिविजिय. आवसन्तोति पसासेन्तो. ओरं समुद्दस्साति अनवसेसं समुद्दस्स ओरभागं लभित्वापि तेन अतित्तरूपो पारं समुद्दस्स दीपन्तरम्पि पत्थयेय्य.
अवीततण्हाति अविगततण्हा. ऊनावाति अपरिपुण्णमनोरथाव. कामेहि लोकम्हि न हत्थि तित्तीति तण्हाविपन्नानं इमस्मिं लोके वत्थुकामेहि तित्ति नाम नत्थि.
कन्दन्ति नन्ति मतपुरिसं उद्दिस्स तस्स गुणे कित्तेन्ता कन्दनं करोन्ति. अहो वता नो अमराति चाहूति अहो वत अम्हाकं ञाती अमरा सियुन्ति च कथेन्ति, गाथासुखत्थञ्हेत्थ वता-इति दीघं कत्वा वुत्तं.
सो डय्हति सूलेहि तुज्जमानोति सो मतसत्तो छवडाहकेहि सम्मा झापेतुं सूलेहि तुज्जमानो. ताणाति परित्ताणकरा.
येनकम्मन्ति यथाकम्मं. धनन्ति धनायितब्बं यंकिञ्चि वत्थु. पुन धनन्ति हिरञ्ञसुवण्णं सन्धाय वदति.
‘‘न दीघमायु’’न्तिआदिना कामगुणस्स जराय च पटिकाराभावं वत्वा पुन तस्स एकन्तिकभावं दस्सेतुं ‘‘अप्पं ही’’तिआदि वुत्तं. फुसन्तीति अनिट्ठफस्सं फुसन्ति पापुणन्ति, तत्थ अड्ढदलिद्दता अकारणन्ति दस्सेति. फस्सं बालो च धीरो च तथेव फुट्ठोति यथा बालो इट्ठानिट्ठसम्फस्सं फुट्ठो, तथेव धीरो इट्ठानिट्ठफस्सं फुट्ठो होति, न एत्थ बालपण्डितानं कोचि विसेसो. अयं पन विसेसो, बालो हि बाल्या वधितोव सेतीति बालपुग्गलो केनचि दुक्खधम्मेन फुट्ठो सोचन्तो किलमन्तो उरत्ताळिं कन्दन्तो बालभावेन वधितो पीळितोव हुत्वा सेति सयति. इतो चितो च आवट्टन्तो विवट्टन्तो विरोधेन्तो वेधति फस्सफुट्ठोति धीरो पन पण्डितो दुक्खसम्फस्सेन सम्फुट्ठो न वेधति कम्पनमत्तम्पि तस्स न होतीति.
तस्माति यस्मा बालपण्डितानं लोकधम्मे एदिसी पवत्ति, तस्मा हि पञ्ञाव धनेन सेय्या, याय वोसानमिधाधिगच्छतीति पञ्ञाव धनतो पासंसतरा, याय पञ्ञाय वोसानं भवस्स परियोसानभूतं निब्बानं अधिगच्छति. अब्योसितत्ता हीति अनधिगतनिट्ठत्ता. भवाभवेसूति महन्तामहन्तेसु भवेसु.
उपेति गब्भञ्च परञ्च लोकं, संसारमापज्ज परम्परायाति यो पापानि कत्वा अपरापरं संसरणमापज्जित्वा उपेति गब्भञ्च परञ्च लोकं गब्भसेय्याय परलोकुप्पत्तिया च न मुच्चति, तस्स पापकम्मकारिनो पुग्गलस्स किरियं अभिसद्दहन्तो ‘‘अत्ता च मे होती’’ति पत्तियायन्तो अञ्ञोपि अप्पपञ्ञो बालो यथा पटिपज्जित्वा उपेति गब्भञ्च परञ्च लोकं, न ततो परिमुच्चति.
चोरो यथाति यथा चोरो पापधम्मो घरसन्धिं छिन्दन्तो सन्धिमुखे आरक्खकपुरिसेहि गहितो सकम्मुना तेन अत्तनो सन्धिच्छेदकम्मुना कारणभूतेन कसादीहि ताळनादिवसेन हञ्ञति राजपुरिसेहि बाधिय्यति बज्झति च. एवं पजाति एवमयं सत्तलोको इध पापानि करित्वा पेच्च पत्वा तेन कम्मुना परम्हि लोके निरयादीसु हञ्ञति, पञ्चविधबन्धनकम्मकारणादिवसेन बाधिय्यति.
एवमेताहि एकादसहि गाथाहि यथारहं चत्तारो धम्मुद्देसे पकासेत्वा इदानि कामेसु संसारे च आदीनवं दिस्वा सद्धाय अत्तनो पब्बजितभावं पब्बजितकिच्चस्स च मत्थकप्पत्तिं विभावेन्तो ‘‘कामा ही’’तिआदिमाह. तत्थ कामाति वत्थुकामा मनापिया रूपादयो धम्मा, किलेसकामा सब्बेपि रागप्पभेदा. इध पन वत्थुकामा वेदितब्बा. ते हि रूपादिवसेन अनेकप्पकारताय चित्रा. लोकस्सादवसेन इट्ठाकारताय मधुरा. बालपुथुज्जनानं मनं रमेन्तीति मनोरमा. विरूपरूपेनाति विविधरूपेन, अनेकविधसभावेनाति अत्थो. ते हि रूपादिवसेन चित्रा, नीलादिवसेन विविधरूपा. एवं तेन विरूपरूपेन तथा तथा अस्सादं दस्सेत्वा मथेन्ति चित्तं पब्बज्जाय अभिरमितुं न देन्तीति इमिना अप्पस्सादबहुदुक्खतादिना आदीनवं कामगुणेसु दिस्वा तस्मा तंनिमित्तं अहं पब्बजितो अम्हि. दुमप्फलानि पक्ककाले अपरिपक्ककाले च यत्थ कत्थचि परूपक्कमतो सरसतो वा पतन्ति, एवं सत्ता दहरा च वुड्ढा च सरीरस्स भेदा पतन्तियेव. एतम्पि दिस्वाति एवं अनिच्चतम्पि पञ्ञाचक्खुना दिस्वा, न केवलं अप्पस्सादतादिताय आदीनवमेवाति अधिप्पायो. अपण्णकन्ति अविरद्धनकं सामञ्ञमेव समणभावोव सेय्यो उत्तरितरो.
सद्धायाति कम्मं कम्मफलं बुद्धसुबुद्धतं धम्मसुधम्मतं सङ्घसुप्पटिपत्तिञ्च सद्दहित्वा. उपेतो जिनसासनेति सत्थु सासने सम्मापटिपत्तिं उपगतो. अवञ्झा मय्हं पब्बज्जा अरहत्तस्स अधिगतत्ता. ततो एव अनणो भुञ्जामि भोजनं निक्किलेसवसेन सामिभावतो सामिपरिभोगेन परिभुञ्जनतो.
कामे आदित्ततो दिस्वाति वत्थुकामे किलेसकामे च एकादसहि अग्गीहि आदित्तभावतो दिस्वा. जातरूपानि सत्थतोति कताकतप्पभेदा सब्बसुवण्णविकतियो अनत्थावहताय निसितसत्थतो. गब्भवोक्कन्तितो दुक्खन्ति गब्भवोक्कन्तितो पट्ठाय सब्बसंसारपवत्तिदुक्खं. निरयेसु महब्भयन्ति सउस्सदेसु अट्ठसु महानिरयेसु लब्भमानं महाभयञ्च सब्बत्थ दिस्वाति योजना.
एतमादीनवं ञत्वाति एतं कामानं आदित्ततादिं संसारे आदीनवं दोसं ञत्वा. संवेगं अलभिं तदाति तस्मिं सत्थु सन्तिके धम्मस्स सुतकाले भवादिके संवेगं अलत्थं. विद्धो तदा सन्तोति तस्मिं गहट्ठकाले रागसल्लादीहि विद्धो समानो इदानि सत्थु सासनं आगम्म सम्पत्तो आसवक्खयं, विद्धो वा चत्तारि सच्चानि, पटिविद्धोति अत्थो. सेसं अन्तरन्तरादीसु वुत्तत्ता सुविञ्ञेय्यमेव.
एवं थेरो रञ्ञो कोरब्यस्स धम्मं देसेत्वा सत्थु सन्तिकमेव गतो. सत्था च अपरभागे अरियगणमज्झे निसिन्नो थेरं सद्धापब्बजितानं अग्गट्ठाने ठपेसीति.
रट्ठपालत्थेरगाथावण्णना निट्ठिता.