४. विमलकोण्डञ्ञत्थेरगाथावण्णना

दुमव्हयाय उप्पन्नोति विमलकोण्डञ्ञत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले विभवसम्पन्ने कुले निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं महतिया परिसाय परिवुतं धम्मं देसेन्तं दिस्वा पसन्नमानसो चतूहि सुवण्णपुप्फेहि पूजेसि. भगवा तस्स पसादसंवड्ढनत्थं तथारूपं इद्धाभिसङ्खारं अभिसङ्खारेसि, यथा सुवण्णाभा सकलं तं पदेसं ओत्थरति. तं दिस्वा भिय्योसोमत्ताय पसन्नमानसो हुत्वा भगवन्तं वन्दित्वा तं निमित्तं गहेत्वा अत्तनो गेहं गन्त्वा बुद्धारम्मणं पीतिं अविजहन्तो केनचि रोगेन कालं कत्वा तुसितेसु उपपन्नो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजानं बिम्बिसारं पटिच्च अम्बपालिया कुच्छिम्हि पटिसन्धिं गण्हि. राजा हि बिम्बिसारो तरुणकाले अम्बपालिया रूपसम्पत्तिं सुत्वा सञ्जाताभिलासो कतिपयमनुस्सपरिवारो अञ्ञातकवेसेन वेसालिं गन्त्वा एकरत्तिं ताय संवासं कप्पेसि. तदा अयं तस्सा कुच्छिम्हि पटिसन्धिं अग्गहेसि. सा च गब्भस्स पतिट्ठितभावं तस्स आरोचेसि. राजापि अत्तानं जानापेत्वा दातब्बयुत्तकं दत्वा पक्कामि. सा गब्भस्स परिपाकमन्वाय पुत्तं विजायि, ‘‘विमलो’’तिस्स नामं अहोसि, पच्छा विमलकोण्डञ्ञोति पञ्ञायित्थ. सो वयप्पत्तो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पसन्नमानसो पब्बजित्वा कतपुब्बकिच्चो विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.४०-४८) –

‘‘विपस्सी नाम भगवा, लोकजेट्ठो नरासभो;

निसिन्नो जनकायस्स, देसेसि अमतं पदं.

‘‘तस्साहं धम्मं सुत्वान, द्विपदिन्नस्स तादिनो;

सोण्णपुप्फानि चत्तारि, बुद्धस्स अभिरोपयिं.

‘‘सुवण्णच्छदनं आसि, यावता परिसा तदा;

बुद्धाभा च सुवण्णाभा, आलोको विपुलो अहु.

‘‘उदग्गचित्तो सुमनो, वेदजातो कतञ्जली;

वित्तिसञ्जननो तेसं, दिट्ठधम्मसुखावहो.

‘‘आयाचित्वान सम्बुद्धं, वन्दित्वान च सुब्बतं;

पामोज्जं जनयित्वान, सकं भवनुपागमिं.

‘‘भवने उपविट्ठोहं, बुद्धसेट्ठं अनुस्सरिं;

तेन चित्तप्पसादेन, तुसितं उपपज्जहं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सोळसासिंसु राजानो, नेमिसम्मतनामका;

तेतालीसे इतो कप्पे, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञापदेसेन अञ्ञं ब्याकरोन्तो ‘‘दुमव्हयाया’’ति गाथं अभासि.

६४. तत्थ दुमव्हयायाति दुमेन अम्बेन अव्हातब्बाय, अम्बपालियाति अत्थो. आधारे चेतं भुम्मवचनं. उप्पन्नोति तस्सा कुच्छियं उप्पन्नो उप्पज्जमानो च. जातो पण्डरकेतुनाति धवलवत्थधजत्ता ‘‘पण्डरकेतू’’ति पञ्ञातेन बिम्बिसाररञ्ञा हेतुभूतेन जातो, तं पटिच्च निब्बत्तोति अत्थो. उप्पन्नोति वा पठमाभिनिब्बत्तिदस्सनं. ततो हि जातोति अभिजातिदस्सनं. विजायनकालतो पट्ठाय हि लोके जातवोहारो. एत्थ च ‘‘दुमव्हयाय उप्पन्नो’’ति इमिना अत्तुक्कंसनभावं अपनेति, अनेकपतिपुत्तानम्पि विसेसाधिगमसम्भवञ्च दीपेति. ‘‘जातो पण्डरकेतुना’’ति इमिना विञ्ञातपितिकदस्सनेन परवम्भनं अपनेति. केतुहाति मानप्पहायी. मानो हि उण्णतिलक्खणत्ता केतु वियाति केतु. तथा हि सो ‘‘केतुकम्यतापच्चुपट्ठानो’’ति वुच्चति. केतुनायेवाति पञ्ञाय एव. पञ्ञा हि अनवज्जधम्मेसु अच्चुग्गतट्ठेन मारसेनप्पमद्दनेन पुब्बङ्गमट्ठेन च अरियानं धजा नाम. तेनाह ‘‘धम्मो हि इसिनं धजो’’ति (सं. नि. २.२४१; अ. नि. ४.४८; जा. २.२१.४९४). महाकेतुं पधंसयीति महाविसयताय महन्ता, सेय्यमानजातिमानादिभेदतो बहवो च मानप्पकारा, इतरे च किलेसधम्मा समुस्सितट्ठेन केतु एतस्साति महाकेतु मारो पापिमा. तं बलविधमनविसयातिक्कमनवसेन अभिभवि निब्बिसेवनं अकासीति. ‘‘महाकेतुं पधंसयी’’ति अत्तानं परं विय दस्सेन्तो अञ्ञापदेसेन अरहत्तं ब्याकासि.

विमलकोण्डञ्ञत्थेरगाथावण्णना निट्ठिता.