२. वज्जिपुत्तत्थेरगाथावण्णना

एकका मयं अरञ्ञेति आयस्मतो वज्जिपुत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं विपस्सिं भगवन्तं दिस्वा पसन्नमानसो नागपुप्फकेसरेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अमच्चकुले निब्बत्ति, वज्जिपुत्तोतिस्स नामं अहोसि. सो भगवतो वेसालिगमने बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा कतपुब्बकिच्चो कम्मट्ठानं गहेत्वा वेसालिया अविदूरे अञ्ञतरस्मिं वनसण्डे विहरति. तेन च समयेन वेसालियं उस्सवो अहोसि. तत्थ तत्थ नच्चगीतवादितं पवत्तति, महाजनो हट्ठतुट्ठो उस्सवसम्पत्तिं पच्चनुभोति, तं सुत्वा सो भिक्खु अयोनिसो उम्मुज्जन्तो विवेकं वज्जमानो कम्मट्ठानं विस्सज्जेत्वा अत्तनो अनभिरतिं पकासेन्तो –

‘‘एकका मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;

एतादिसिकाय रत्तिया, को सु नाम अम्हेहि पापियो’’ति. – गाथमाह;

तं सुत्वा वनसण्डे अधिवत्था देवता तं भिक्खुं अनुकम्पमाना ‘‘यदिपि, त्वं भिक्खु, अरञ्ञवासं हीळेन्तो वदसि, विवेककामा पन विद्दसुनो तं बहु मञ्ञन्तियेवा’’ति इममत्थं दस्सेन्ती –

‘‘एकको त्वं अरञ्ञे विहरसि, अपविद्धंव वनस्मिं दारुकं;

तस्स ते बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति. –

गाथं वत्वा, ‘‘कथञ्हि नाम त्वं, भिक्खु, निय्यानिके सम्मासम्बुद्धस्स सासने पब्बजित्वा अनिय्यानिकं वितक्कं वितक्केस्ससी’’ति सन्तज्जेन्ती संवेजेसि. एवं सो भिक्खु ताय देवताय संवेजितो कसाभिहतो विय भद्रो अस्साजानीयो विपस्सनावीथिं ओतरित्वा नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.११.६२-६६) –

‘‘सुवण्णवण्णं सम्बुद्धं, सतरंसिंव भाणुमं;

ओभासेन्तं दिसा सब्बा, उळुराजंव पूरितं.

‘‘पुरक्खतं सावकेहि, सागरेहेव मेदनिं;

नागं पग्गय्ह रेणूहि, विपस्सिस्साभिरोपयिं.

‘‘एकनवुतितो कप्पे, यं रेणुमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘पण्णतालीसितो कप्पे, रेणु नामासि खत्तियो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ‘‘अयं मे अरहत्तप्पत्तिया अङ्कुसो जातो’’ति अत्तनो देवताय च वुत्तनयं संकड्ढित्वा –

६२. ‘‘एकका मयं अरञ्ञे विहराम, अपविद्धंव वनस्मिं दारुकं;

तस्स मे बहुका पिहयन्ति, नेरयिका विय सग्गगामिन’’न्ति. –

गाथं अभासि.

तस्सत्थो – अनपेक्खभावेन वने छड्डितदारुक्खण्डं विय यदिपि मयं एकका एकाकिनो असहाया इमस्मिं अरञ्ञे विहराम, एवं विहरतो पन तस्स मे बहुका पिहयन्ति मं बहू अत्थकामरूपा कुलपुत्ता अभिपत्थेन्ति, ‘‘अहो वतस्स मयम्पि वज्जिपुत्तत्थेरो विय घरबन्धनं पहाय अरञ्ञे विहरेय्यामा’’ति. यथा किं? नेरयिका विय सग्गगामिनं, यथा नाम नेरयिका अत्तनो पापकम्मेन निरये निब्बत्तसत्ता सग्गगामीनं सग्गूपगामीनं पिहयन्ति – ‘‘अहो वत मयम्पि निरयदुक्खं पहाय सग्गसुखं पच्चनुभवेय्यामा’’ति एवंसम्पदमिदन्ति अत्थो. एत्थ च अत्तनि गरुबहुवचनप्पयोगस्स इच्छितब्बत्ता ‘‘एकका मयं विहरामा’’ति पुन तस्स अत्थस्स एकत्तं सन्धाय ‘‘तस्स मे’’ति एकवचनप्पयोगो कतो. ‘‘तस्स मे’’, ‘‘सग्गगामिन’’न्ति च उभयम्पि ‘पिहयन्ती’ति पदं अपेक्खित्वा उपयोगत्थे सम्पदाननिद्देसो दट्ठब्बो. तं अभिपत्थेन्तीति च तादिसे अरञ्ञवासादिगुणे अभिपत्थेन्ता नाम होन्तीति कत्वा वुत्तं. तस्स मेति वा तस्स मम सन्तिके गुणेति अधिप्पायो.

वज्जिपुत्तत्थेरगाथावण्णना निट्ठिता.