८. सञ्जयत्थेरगाथावण्णना

यतो अहन्ति आयस्मतो सञ्जयत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले महति पूगे संकित्तिवसेन वत्थुं सङ्घरित्वा रतनत्तयं उद्दिस्स पुञ्ञं करोन्तो सयं दलिद्दो हुत्वा नेसं गणादीनं पुञ्ञकिरियाय ब्यावटो अहोसि. कालेन कालं भगवन्तं उपसङ्कमित्वा वन्दित्वा पसन्नमानसो भिक्खूनञ्च तं तं वेय्यावच्चं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति सञ्जयो नाम नामेन, सो वयप्पत्तो ब्रह्मायुपोक्खरसातिआदिके अभिञ्ञाते ब्राह्मणे सासने अभिप्पसन्ने दिस्वा सञ्जातप्पसादो सत्थारं उपसङ्कमि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा सोतापन्नो अहोसि. अपरभागे पब्बजि. पब्बजन्तो च खुरग्गेयेव छळभिञ्ञो अहोसी. तेन वुत्तं अपदाने (अप. थेर १.१०.५१-५५) –

‘‘विपस्सिस्स भगवतो, महापूगगणो अहु;

वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो.

‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.

‘‘एकनवुतितो कप्पे, वेय्यावच्चं अकासहं;

दुग्गतिं नाभिजानामि, वेय्यावच्चस्सिदं फलं.

‘‘इतो च अट्ठमे कप्पे, राजा आसिं सुचिन्तितो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा अञ्ञं ब्याकरोन्तो ‘‘यतो अहं पब्बजितो’’ति गाथं अभासि.

४८. तत्थ यतो अहं पब्बजितोति यतो पभुति यतो पट्ठाय अहं पब्बजितो. पब्बजितकालतो पट्ठाय नाभिजानामि सङ्कप्पं, अनरियं दोससंहितन्ति रागादिदोससंहितं ततो एव अनरियं निहीनं, अरियेहि वा अनरणीयताय अनरियेहि अरणीयताय च अनरियं पापकं आरम्मणे अभूतगुणादिसङ्कप्पनतो ‘‘सङ्कप्पो’’ति लद्धनामं कामवितक्कादिमिच्छावितक्कं उप्पादितं नाभिजानामीति, ‘‘खुरग्गेयेव मया अरहत्तं पत्त’’न्ति अञ्ञं ब्याकासि.

सञ्जयत्थेरगाथावण्णना निट्ठिता.