५. पञ्चमवग्गो

१. सिरिवड्ढत्थेरगाथावण्णना

विवरमनुपतन्ति विज्जुताति आयस्मतो सिरिवड्ढत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो विपस्सिं भगवन्तं पस्सित्वा किङ्कणिपुप्फेहि पूजं कत्वा तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स गेहे निब्बत्ति, सिरिवड्ढोतिस्स नामं अहोसि. सो वयप्पत्तो बिम्बिसारसमागमे सत्थरि सद्धम्मे च उप्पन्नप्पसादो हेतुसम्पन्नताय पब्बजि. पब्बजित्वा च कतपुब्बकिच्चो वेभारपण्डवपब्बतानं अविदूरे अञ्ञतरस्मिं अरञ्ञायतने पब्बतगुहायं कम्मट्ठानमनुयुत्तो विहरति. तस्मिञ्च समये महा अकालमेघो उट्ठहि. विज्जुल्लता पब्बतविवरं पविसन्तियो विय विचरन्ति. थेरस्स घम्मपरिळाहाभिभूतस्स सारगब्भेहि मेघवातेहि घम्मपरिळाहो वूपसमि. उतुसप्पायलाभेन चित्तं एकग्गं अहोसि. समाहितचित्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.१०-१४) –

‘‘कञ्चनग्घियसङ्कासो, सब्बञ्ञू लोकनायको;

ओदकं दहमोग्गय्ह, सिनायि अग्गपुग्गलो.

‘‘पग्गय्ह किङ्कणिं पुप्फं, विपस्सिस्साभिरोपयिं;

उदग्गचित्तो सुमनो, द्विपदिन्दस्स तादिनो.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सत्तवीसतिकप्पम्हि, राजा भीमरथो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञापदेसेन अत्तसन्निस्सयं उदानं उदानेन्तो ‘‘विवरमनुपतन्ति विज्जुता’’ति गाथं अभासि.

४१. तत्थ विवरन्ति अन्तरा वेमज्झं. अनुपतन्तीति अनुलक्खणे पतन्ति पवत्तन्ति, विज्जोतन्तीति अत्थो. विज्जोतनमेव हि विज्जुल्लतानं पवत्ति नाम. अनु-सद्दयोगेन चेत्थ उपयोगवचनं, यथा ‘‘रुक्खमनुविज्जोतन्ती’’ति. विज्जुताति सतेरता. वेभारस्स च पण्डवस्स चाति वेभारपब्बतस्स च पण्डवपब्बतस्स च विवरमनुपतन्तीति योजना. नगविवरगतोति नगविवरं पब्बतगुहं उपगतो. झायतीति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन च झायति, समथविपस्सनं उस्सुक्कापेन्तो भावेति. पुत्तो अप्पटिमस्स तादिनोति सीलक्खन्धादिधम्मकायसम्पत्तिया रूपकायसम्पत्तिया च अनुपमस्स उपमारहितस्स इट्ठानिट्ठादीसु तादिलक्खणसम्पत्तिया तादिनो बुद्धस्स भगवतो ओरसपुत्तो. पुत्तवचनेनेव चेत्थ थेरेन सत्थु अनुजातभावदीपनेन अञ्ञा ब्याकताति वेदितब्बं.

सिरिवड्ढत्थेरगाथावण्णना निट्ठिता.

२. खदिरवनियत्थेरगाथावण्णना

चाले उपचालेति आयस्मतो खदिरवनियरेवतत्थेरस्स गाथा. का उप्पति? अयं किर पदुमुत्तरस्स भगवतो काले हंसवतीनगरे तित्थनाविककुले निब्बत्तित्वा महागङ्गाय पयागतित्थे तित्थनावाकम्मं करोन्तो एकदिवसं ससावकसङ्घं भगवन्तं गङ्गातीरं उपगतं दिस्वा पसन्नमानसो नावासङ्घाटं योजेत्वा महन्तेन पूजासक्कारेन परतीरं पापेत्वा अञ्ञतरं भिक्खुं सत्थारा आरञ्ञकानं अग्गट्ठाने ठपियमानं दिस्वा तदत्थं पत्थनं पट्ठपेत्वा भगवतो भिक्खुसङ्घस्स च महादानं पवत्तेसि. भगवा च तस्स पत्थनाय अवज्झभावं ब्याकासि. सो ततो पट्ठाय तत्थ तत्थ विवट्टूपनिस्सयं कुसलं कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे नालकगामे रूपसारिया ब्राह्मणिया कुच्छिस्मिं निब्बत्ति. तं वयप्पत्तं मातापितरो घरबन्धनेन बन्धितुकामा जाता. सो सारिपुत्तत्थेरस्स पब्बजितभावं सुत्वा ‘‘मय्हं जेट्ठभाता अय्यो उपतिस्सो इमं विभवं छड्डेत्वा पब्बजितो, तेन वन्तं खेळपिण्डं कथाहं पच्छा गिलिस्सामी’’ति जातसंवेगो पासं अनुपगच्छनकमिगो विय ञातके वञ्चेत्वा हेतुसम्पत्तिया चोदियमानो भिक्खूनं सन्तिकं गन्त्वा धम्मसेनापतिनो कनिट्ठभावं निवेदेत्वा अत्तनो पब्बज्जाय छन्दं आरोचेसि. भिक्खू तं पब्बाजेत्वा परिपुण्णवीसतिवस्सं उपसम्पादेत्वा कम्मट्ठाने नियोजेसुं. सो कम्मट्ठानं गहेत्वा खदिरवनं पविसित्वा, ‘‘अरहत्तं पत्वा भगवन्तं धम्मसेनापतिञ्च पस्सिस्सामी’’ति घटेन्तो वायमन्तो ञाणस्स परिपाकगतत्ता नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१.६२८-६४३) –

‘‘गङ्गा भागीरथी नाम, हिमवन्ता पभाविता;

कुतित्थे नाविको आसिं, ओरिमे च तरिं अहं.

‘‘पदुमुत्तरो नायको, सम्बुद्धो द्विपदुत्तमो;

वसीसतसहस्सेहि, गङ्गातीरमुपागतो.

‘‘बहू नावा समानेत्वा, वड्ढकीहि सुसङ्खतं;

नावाय छदनं कत्वा, पटिमानिं नरासभं.

‘‘आगन्त्वान च सम्बुद्धो, आरूहि तञ्च नावकं;

वारिमज्झे ठितो सत्था, इमा गाथा अभासथ.

‘‘यो सो तारेसि सम्बुद्धं, सङ्घञ्चापि अनासवं;

तेन चित्तप्पसादेन, देवलोके रमिस्सति.

‘‘निब्बत्तिस्सति ते ब्यम्हं, सुकतं नावसण्ठितं;

आकासे पुप्फछदनं, धारयिस्सति सब्बदा.

‘‘अट्ठपञ्ञासकप्पम्हि, तारको नाम खत्तियो;

चातुरन्तो विजितावी, चक्कवत्ती भविस्सति.

‘‘सत्तपञ्ञासकप्पम्हि, चम्मको नाम खत्तियो;

उग्गच्छन्तोव सूरियो, जोतिस्सति महब्बलो.

‘‘कप्पसतसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तिदसा सो चवित्वान, मनुस्सत्तं गमिस्सति;

रेवतो नाम नामेन, ब्रह्मबन्धु भविस्सति.

‘‘अगारा निक्खमित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

‘‘सो पच्छा पब्बजित्वान, युत्तयोगो विपस्सको;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘वीरियं मे धुरधोरय्हं, योगक्खेमाधिवाहनं;

धारेमि अन्तिमं देहं, सम्मासम्बुद्धसासने.

‘‘सतसहस्से कतं कम्मं, फलं दस्सेसि मे इध;

सुमुत्तो सरवेगोव, किलेसे झापयी मम.

‘‘ततो मं वननिरतं, दिस्वा लोकन्तगू मुनि;

वनवासिभिक्खूनग्गं, पञ्ञपेसि महामति.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा थेरो सत्थारं धम्मसेनापतिञ्च वन्दितुं सेनासनं संसामेत्वा पत्तचीवरमादाय अनुपुब्बेन सावत्थिं पत्वा जेतवनं पविसित्वा सत्थारं धम्मसेनापतिञ्च वन्दित्वा कतिपाहं जेतवने विहासि. अथ नं सत्था अरियगणमज्झे निसिन्नो आरञ्ञकानं भिक्खूनं अग्गट्ठाने ठपेसि – ‘‘एतदग्गं, भिक्खवे, मम सावकानं भिक्खूनं आरञ्ञकानं यदिदं रेवतो खदिरवनियो’’ति (अ. नि. १.१९८, २०३). सो अपरभागे अत्तनो जातगामं गन्त्वा ‘‘चाला, उपचाला, सीसूपचाला’’ति तिस्सन्नं भगिनीनं पुत्ते ‘‘चाला, उपचाला, सीसूपचाला’’ति तयो भागिनेय्ये आनेत्वा पब्बाजेत्वा कम्मट्ठाने नियोजेसि. ते कम्मट्ठानं अनुयुत्ता विहरन्ति. तस्मिञ्च समये थेरस्स कोचिदेव आबाधो उप्पन्नो. तं सुत्वा सारिपुत्तत्थेरो रेवतं ‘‘गिलानपुच्छनं अधिगमपुच्छनञ्च करिस्सामी’’ति उपगच्छि. रेवतत्थेरो धम्मसेनापतिं दूरतोव आगच्छन्तं दिस्वा तेसं सामणेरानं सतुप्पादनवसेन ओवदन्तो ‘‘चाले उपचाले’’ति गाथं अभासि.

४२. तत्थ चाले उपचाले सीसूपचालेति तेसं आलपनं. ‘‘चाला, उपचाला, सीसूपचाला’’ति हि इत्थिलिङ्गवसेन लद्धनामा ते तयो दारका पब्बजितापि तथा वोहरीयन्ति. ‘‘‘चाली, उपचाली, सीसूपचाली’ति तेसं नाम’’न्ति च वदन्ति. यदत्थं ‘‘चाला’’तिआदिना आमन्तनं कतं, तं दस्सेन्तो ‘‘पतिस्सता नु खो विहरथा’’ति वत्वा तत्थ कारणमाह ‘‘आगतो वो वालं विय वेधी’’ति. पतिस्सताति पतिस्सतिका. खोति अवधारणे. आगतोति आगच्छि. वोति तुम्हाकं. वालं विय वेधीति वालवेधी विय, अयञ्हेत्थ सङ्खेपत्थो – तिक्खजवननिब्बेधिकपञ्ञताय वालवेधिरूपो सत्थुकप्पो तुम्हाकं मातुलत्थेरो आगतो, तस्मा समणसञ्ञं उपट्ठपेत्वा सतिसम्पजञ्ञयुत्ता एव हुत्वा विहरथ, ‘‘यथाधिगते विहारे अप्पमत्ता भवथा’’ति.

तं सुत्वा ते सामणेरा धम्मसेनापतिस्स पच्चुग्गमनादिवत्तं कत्वा उभिन्नं मातुलत्थेरानं पटिसन्थारवेलायं नातिदूरे समाधिं समापज्जित्वा निसीदिंसु. धम्मसेनापति रेवतत्थेरेन सद्धिं पटिसन्थारं कत्वा उट्ठायासना ते सामणेरे उपसङ्कमि, ते तथाकालपरिच्छेदस्स कतत्ता थेरे उपसङ्कमन्ते एव उट्ठहित्वा वन्दित्वा अट्ठंसु. थेरो ‘‘कतरकतरविहारेन विहरथा’’ति पुच्छित्वा तेहि ‘‘इमाय इमाया’’ति वुत्ते ‘‘दारकेपि नाम एवं विनेन्तो मय्हं भातिको पच्चपादि वत धम्मस्स अनुधम्म’’न्ति थेरं पसंसन्तो पक्कामि.

खदिरवनियत्थेरगाथावण्णना निट्ठिता.

३. सुमङ्गलत्थेरगाथावण्णना

सुमुत्तिकोति आयस्मतो सुमङ्गलत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो सिद्धत्थस्स भगवतो काले रुक्खदेवता हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं न्हायित्वा एकचीवरं ठितं दिस्वा सोमनस्सप्पत्तो हुत्वा अप्फोटेसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थिया अविदूरे अञ्ञतरस्मिं गामके तादिसेन कम्मनिस्सन्देन दलिद्दकुले निब्बत्ति. तस्स सुमङ्गलोति नामं अहोसि. सो वयप्पत्तो खुज्जकासितनङ्गलकुद्दालपरिक्खारो हुत्वा कसिया जीवति. सो एकदिवसं रञ्ञा पसेनदिकोसलेन भगवतो भिक्खुसङ्घस्स च महादाने पवत्तियमाने दानोपकरणानि गहेत्वा आगच्छन्तेहि मनुस्सेहि सद्धिं दधिघटं गहेत्वा आगतो भिक्खूनं सक्कारसम्मानं दिस्वा ‘‘इमे समणा सक्यपुत्तिया सुखुमवत्थसुनिवत्था सुभोजनानि भुञ्जित्वा निवातेसु सेनासनेसु विहरन्ति, यंनूनाहम्पि पब्बजेय्य’’न्ति चिन्तेत्वा, अञ्ञतरं महाथेरं उपसङ्कमित्वा अत्तनो पब्बज्जाधिप्पायं निवेदेसि. सो तं करुणायन्तो पब्बाजेत्वा कम्मट्ठानं आचिक्खि. सो अरञ्ञे विहरन्तो एकविहारे निब्बिन्नो उक्कण्ठितो हुत्वा, विब्भमितुकामो ञातिगामं गच्छन्तो अन्तरामग्गे कच्छं बन्धित्वा खेत्तं कसन्ते किलिट्ठवत्थनिवत्थे समन्ततो रजोकिण्णसरीरे वातातपेन फुस्सन्ते कस्सके दिस्वा, ‘‘महन्तं वतिमे सत्ता जीविकनिमित्तं दुक्खं पच्चनुभोन्ती’’ति संवेगं पटिलभि. ञाणस्स परिपाकं गतत्ता यथागहितं कम्मट्ठानं उपट्ठासि. सो अञ्ञतरं रुक्खमूलं उपगन्त्वा विवेकं लभित्वा योनिसो मनसिकरोन्तो विपस्सनं वड्ढेत्वा मग्गपटिपाटिया अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१२.११-१९) –

‘‘अत्थदस्सी जिनवरो, लोकजेट्ठो नरासभो;

विहारा अभिनिक्खम्म, तळाकं उपसङ्कमि.

‘‘न्हात्वा पित्वा च सम्बुद्धो, उत्तरित्वेकचीवरो;

अट्ठासि भगवा तत्थ, विलोकेन्तो दिसोदिसं.

‘‘भवने उपविट्ठोहं, अद्दसं लोकनायकं;

हट्ठो हट्ठेन चित्तेन, अप्फोटेसिं अहं तदा.

‘‘सतरंसिंव जोतन्तं, पभासन्तंव कञ्चनं;

नच्चगीते पयुत्तोहं, पञ्चङ्गतूरियम्हि च.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

सब्बे सत्ते अभिभोमि, विपुलो होति मे यसो.

‘‘नमो ते पुरिसाजञ्ञ, नमो ते पुरिसुत्तम;

अत्तानं तोसयित्वान, परे तोसेसि त्वं मुनि.

‘‘परिग्गहे निसीदित्वा, हासं कत्वान सुब्बते;

उपट्ठहित्वा सम्बुद्धं, तुसितं उपपज्जहं.

‘‘सोळसेतो कप्पसते, द्विनवएकचिन्तिता;

सत्तरतनसम्पन्ना, चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सम्पत्तिं अत्तनो दुक्खविमुत्तिञ्च कित्तनवसेन उदानं उदानेन्तो ‘‘सुमुत्तिको’’तिआदिमाह.

४३. तत्थ सुमुत्तिकोति सुन्दरा अच्चन्तिकताय अपुनब्भविका मुत्ति एतस्साति सुमुत्तिको. तस्स पन विमुत्तिया पासंसियताय अच्छरियताय च अप्फोटेन्तो आह ‘‘सुमुत्तिको’’ति. पुन तत्थ विमुत्तियं अत्तनो पसादस्स दळ्हभावं दस्सेन्तो ‘‘साहु सुमुत्तिकोम्ही’’ति आह. ‘‘साधु सुट्ठु मुत्तिको वतम्ही’’ति अत्थो. ‘‘कुतो पनायं सुमुत्तिकता’’ति? कामञ्चायं थेरो सब्बस्मापि वट्टदुक्खतो सुविमुत्तो, अत्तनो पन ताव उपट्ठितं अतिविय अनिट्ठभूतं दुक्खं दस्सेन्तो ‘‘तीहि खुज्जकेही’’तिआदिमाह. तत्थ खुज्जकेहीति खुज्जसभावेहि, खुज्जाकारेहि वा. निस्सक्कवचनञ्चेतं मुत्तसद्दापेक्खाय. कस्सको हि अखुज्जोपि समानो तीसु ठानेसु अत्तानं खुज्जं कत्वा दस्सेति लायने कसने कुद्दालकम्मे च. यो हि पन कस्सको लायनादीनि करोति, तानिपि असितादीनि कुटिलाकारतो खुज्जकानीति वुत्तं ‘‘तीहि खुज्जकेही’’ति.

इदानि तानि सरूपतो दस्सेन्तो ‘‘असितासु मया, नङ्गलासु मया, खुद्दकुद्दालासु मया’’ति आह. तत्थ असितासु मयाति लवित्तेहि मया मुत्तन्ति अत्थो. निस्सक्के चेतं भुम्मवचनं. सेसेसुपि एसेव नयो. अपरे पन ‘‘असितासु मयाति लवित्तेहि करणभूतेहि मया खुज्जित’’न्ति वदन्ति. तेसं मतेन करणत्थे हेतुम्हि वा भुम्मवचनं. ‘‘नङ्गलासू’’ति लिङ्गविपल्लासं कत्वा वुत्तं, नङ्गलेहि कसिरेहीति अत्थो. अत्तना वळञ्जितकुद्दालस्स सभावतो वळञ्जनेन वा अप्पकताय वुत्तं ‘‘खुद्दकुद्दालासू’’ति ‘‘कुण्ठकुद्दालासू’’तिपि पाळि. वळञ्जनेनेव अतिखिणखणित्तेसूति अत्थो. इधमेवाति म-कारो पदसन्धिकरो. अथ वापीति वा-सद्दो निपातमत्तं. गामके ठितत्ता तानि असितादीनि किञ्चापि इधेव मम समीपेयेव, तथापि अलमेव होतीति अत्थो. तुरितवसेन चेतं आमेडितवचनं. झायाति फलसमापत्तिज्झानवसेन दिट्ठधम्मसुखविहारत्थं दिब्बविहारादिवसेन च झाय. सुमङ्गलाति अत्तानं आलपति. झाने पन आदरदस्सनत्थं आमेडितं कतं. अप्पमत्तो विहराति सतिपञ्ञावेपुल्लप्पत्तिया सब्बत्थकमेव अप्पमत्तोसि त्वं, तस्मा इदानि सुखं विहर, सुमङ्गल. केचि पन ‘‘अरहत्तं अप्पत्वा एव विपस्सनाय वीथिपटिपन्नाय सासने सञ्जाताभिरतिया यथानुभूतं घरावासदुक्खं जिगुच्छन्तो थेरो इमं गाथं वत्वा पच्छा विपस्सनं वड्ढेत्वा अरहत्तं पापुणी’’ति वदन्ति. तेसं मतेन ‘‘झाय अप्पमत्तो विहरा’’ति पदानं अत्थो विपस्सनामग्गवसेनपि युज्जति एव.

सुमङ्गलत्थेरगाथावण्णना निट्ठिता.

४. सानुत्थेरगाथावण्णना

मतं वा अम्म रोदन्तीति आयस्मतो सानुत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो हत्थपादधोवनमुखविक्खालनानं अत्थाय उदकं उपनेसि. सत्था हि भोजनकाले हत्थपादे धोवितुकामो अहोसि. सो सत्थु आकारं सल्लक्खेत्वा उदकं उपनेसि. भगवा हत्थपादे धोवित्वा भुञ्जित्वा मुखं विक्खालेतुकामो अहोसि. सो तम्पि ञत्वा मुखोदकं उपनेसि. सत्था मुखं विक्खालेत्वा मुखधोवनकिच्चं निट्ठापेसि. एवं भगवा अनुकम्पं उपादाय तेन करीयमानं वेय्यावच्चं सादियि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स उपासकस्स गेहे पटिसन्धिं गण्हि. तस्मिं गब्भगतेयेव पिता पवासं गतो, उपासिका दसमासच्चयेन पुत्तं विजायित्वा सानूतिस्स नामं अकासि. तस्मिं अनुक्कमेन वड्ढन्ते सत्तवस्सिकंयेव नं भिक्खूनं सन्तिके पब्बाजेसि, ‘‘एवमयं अनन्तरायो वड्ढित्वा अच्चन्तसुखभागी भविस्सती’’ति. ‘‘सो सानुसामणेरो’’ति पञ्ञातो पञ्ञवा वत्तसम्पन्नो बहुस्सुतो धम्मकथिको सत्तेसु मेत्तज्झासयो हुत्वा देवमनुस्सानं पियो अहोसि मनापोति सब्बं सानुसुत्ते आगतनयेन वेदितब्बं.

तस्स अतीतजातियं माता यक्खयोनियं निब्बत्ति. तं यक्खा ‘‘सानुत्थेरस्स अयं माता’’ति गरुचित्तिकारबहुला हुत्वा मानेन्ति. एवं गच्छन्ते काले पुथुज्जनभावस्स आदीनवं विभावेन्तं विय एकदिवसं सानुस्स योनिसो मनसिकाराभावा अयोनिसो उम्मुज्जन्तस्स विब्भमितुकामताचित्तं उप्पज्जि. तं तस्स यक्खिनिमाता ञत्वा मनुस्समातुया आरोचेसि – ‘‘तव पुत्तो, सानु, ‘विब्भमिस्सामी’ति चित्तं उप्पादेसि, तस्मा त्वं –

‘‘सानुं पबुद्धं वज्जासि, यक्खानं वचनं इदं;

माकासि पापकं कम्मं, आवि वा यदि वा रहो.

‘‘सचे त्वं पापकं कम्मं, करिस्ससि करोसि वा;

न ते दुक्खा पमुत्यत्थि, उप्पच्चापि पलायतो’’ति. (सं. नि. १.२३९; ध. प. अट्ठ. २.३२५ सानुसामणेरवत्थु) –

एवं भणाही’’ति. एवञ्च पन वत्वा यक्खिनिमाता तत्थेवन्तरधायि. मनुस्समाता पन तं सुत्वा परिदेवसोकसमापन्ना चेतोदुक्खसमप्पिता अहोसि. अथ सानुसामणेरो पुब्बण्हसमयं निवासेत्वा पत्तचीवरमादाय मातु सन्तिकं उपगतो मातरं रोदमानं दिस्वा ‘‘अम्म, किं निस्साय रोदसी’’ति वत्वा ‘‘तं निस्साया’’ति च वुत्तो मातु ‘‘मतं वा, अम्म, रोदन्ति, यो वा जीवं न दिस्सती’’ति गाथं अभासि.

४४. तस्सत्थो – ‘‘अम्म, रोदन्ता नाम ञातका मित्ता वा अत्तनो ञातकं मित्तं वा मतं उद्दिस्स रोदन्ति परलोकं गतत्ता, यो वा ञातको मित्तो वा जीवं जीवन्तो देसन्तरं पक्कन्तताय च न दिस्सति, तं वा उद्दिस्स रोदन्ति, उभयम्पेतं मयि न विज्जति, एवं सन्ते जीवन्तं धरमानं मं पुरतो ठितं पस्सन्ती; कस्मा, अम्म, रोदसि?मं उद्दिस्स तव रोदनस्स कारणमेव नत्थी’’ति.

तं सुत्वा तस्स माता ‘‘मरणञ्हेतं, भिक्खवे, यो सिक्खं पच्चक्खाय हीनायावत्तती’’ति (म. नि. ३.६३) सुत्तपदानुसारेन उप्पब्बजनं अरियस्स विनये मरणन्ति दस्सेन्ती –

‘‘मतं वा पुत्त रोदन्ति, यो वा जीवं न दिस्सति;

यो च कामे चजित्वान, पुनरागच्छते इध.

‘‘तं वापि पुत्त रोदन्ति, पुन जीवं मतो हि सो;

कुक्कुळा उब्भतो तात, कुक्कुळं पतितुमिच्छसी’’ति. (सं. नि. १.२३९; ध. प. अट्ठ. २.सानुसामणेरवत्थु) –

गाथाद्वयं अभासि.

तत्थ कामे चजित्वानाति नेक्खम्मज्झासयेन वत्थुकामे पहाय, तञ्च किलेसकामस्स तदङ्गप्पहानवसेन वेदितब्बं. पब्बज्जा हेत्थ कामपरिच्चागो अधिप्पेतो. पुनरागच्छते इधाति इध गेहे पुनदेव आगच्छति, हीनायावत्तनं सन्धाय वदति. तं वापीति यो पब्बजित्वा विब्भमति, तं वापि पुग्गलं मतं वियमादिसियो रोदन्ति. कस्माति चे? पुन जीवं मतो हि सोति विब्भमनतो पच्छा यो जीवन्तो, सो गुणमरणेन अत्थतो मतोयेव. इदानिस्स सविसेससंवेगं जनेतुं ‘‘कुक्कुळा’’तिआदि वुत्तं. तस्सत्थो – ‘‘अहोरत्तं आदित्तं विय हुत्वा डहनट्ठेन कुक्कुळनिरयसदिसत्ता कुक्कुळा गिहिभावा अनुकम्पन्तिया मया उब्भतो उद्धतो, तात सानु, कुक्कुळं पतितुं इच्छसि पतितुकामोसी’’ति.

तं सुत्वा सानुसामणेरो संवेगजातो हुत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.२५-२९) –

‘‘भुञ्जन्तं समणं दिस्वा, विप्पसन्नमनाविलं;

घटेनोदकमादाय, सिद्धत्थस्स अदासहं.

‘‘निम्मलो होमहं अज्ज, विमलो खीणसंसयो;

भवे निब्बत्तमानस्स, फलं निब्बत्तते सुभं.

‘‘चतुन्नवुतितो कप्पे, उदकं यमदासहं;

दुग्गतिं नाभिजानामि, दकदानस्सिदं फलं.

‘‘एकसट्ठिम्हितो कप्पे, एकोव विमलो अहु;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा थेरो इमिस्सा गाथाय वसेन ‘‘मय्हं विपस्सनारम्भो अरहत्तप्पत्ति च जाता’’ति उदानवसेन तमेव गाथं पच्चुदाहासि.

सानुत्थेरगाथावण्णना निट्ठिता.

५. रमणीयविहारित्थेरगाथावण्णना

यथापि भद्दो आजञ्ञोति आयस्मतो रमणीयविहारित्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ पुञ्ञानि उपचिनन्तो इतो एकनवुते कप्पे विपस्सिं भगवन्तं दिस्वा पसन्नमानसो पञ्चपतिट्ठितेन वन्दित्वा कोरण्डपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवेसु निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स सेट्ठिस्स पुत्तो हुत्वा निब्बत्तो योब्बनमदेन कामेसु मुच्छं आपन्नो विहरति. सो एकदिवसं अञ्ञतरं पारदारिकं राजपुरिसेहि विविधा कम्मकारणा करीयमानं दिस्वा संवेगजातो सत्थु सन्तिके धम्मं सुत्वा पब्बजि. पब्बजितो च रागचरितताय निच्चकालं सुसम्मट्ठं परिवेणं सूपट्ठितं पानीयपरिभोजनीयं सुपञ्ञतं मञ्चपीठं कत्वा विहरति. तेन सो रमणीयविहारीत्वेव पञ्ञायित्थ.

सो रागुस्सन्नताय अयोनिसो मनसि करित्वा सञ्चेतनिकं सुक्कविस्सट्ठिआपत्तिं आपज्जित्वा, ‘‘धिरत्थु, मं एवंभूतो सद्धादेय्यं भुञ्जेय्य’’न्ति विप्पटिसारी हुत्वा ‘‘विब्भमिस्सामी’’ति गच्छन्तो अन्तरामग्गे रुक्खमूले निसीदि, तेन च मग्गेन सकटेसु गच्छन्तेसु एको सकटयुत्तो गोणो परिस्समन्तो विसमट्ठाने खलित्वा पति, तं साकटिका युगतो मुञ्चित्वा तिणोदकं दत्वा परिस्समं विनोदेत्वा पुनपि धुरे योजेत्वा अगमंसु. थेरो तं दिस्वा – ‘‘यथायं गोणो सकिं खलित्वापि उट्ठाय सकिं धुरं वहति, एवं मयापि किलेसवसेन सकिं खलितेनापि वुट्ठाय समणधम्मं कातुं वट्टती’’ति योनिसो उम्मुज्जन्तो निवत्तित्वा उपालित्थेरस्स अत्तनो पवत्तिं आचिक्खित्वा तेन वुत्तविधिना आपत्तितो वुट्ठहित्वा सीलं पाकतिकं कत्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.३५-३९) –

‘‘अक्कन्तञ्च पदं दिस्वा, चक्कालङ्कारभूसितं;

पदेनानुपदं यन्तो, विपस्सिस्स महेसिनो.

‘‘कोरण्डं पुप्फितं दिस्वा, समूलं पूजितं मया;

हट्ठो हट्ठेन चित्तेन, अवन्दिं पदमुत्तमं.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘सत्तपञ्ञासकप्पम्हि, एको वीतमलो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विमुत्तिसुखं अनुभवन्तो अत्तनो पुब्बभागपटिपत्तिया सद्धिं अरियधम्माधिगमनदीपनिं ‘‘यथापि भद्दो आजञ्ञो, खलित्वा पतितिट्ठती’’ति गाथं अभासि.

४५. तत्थ खलित्वाति पक्खलित्वा. पतितिट्ठतीति पतिट्ठहति, पुनदेव यथाठाने तिट्ठति. एवन्ति यथा भद्दो उसभाजानीयो भारं वहन्तो परिस्समप्पत्तो विसमट्ठानं आगम्म एकवारं पक्खलित्वा पतितो न तत्तकेन धुरं छड्डेति, थामजवपरक्कमसम्पन्नताय पन खलित्वापि पतितिट्ठति, अत्तनो सभावेनेव ठत्वा भारं वहति, एवं किलेसपरिस्समप्पत्तो किरियापराधेन खलित्वा तं खलितं थामवीरियसम्पत्तिताय पटिपाकतिकं कत्वा मग्गसम्मादिट्ठिया दस्सनसम्पन्नं, ततो एव सम्मासम्बुद्धस्स सवनन्ते अरियाय जातिया जातताय सावकं, तस्स उरे वायामजनिताभिजातिताय ओरसं पुत्तं भद्दाजानीयसदिसकिच्चताय आजानीयन्ति च मं धारेथ उपधारेथाति अत्थो.

रमणीयविहारित्थेरगाथावण्णना निट्ठिता.

६. समिद्धित्थेरगाथावण्णना

सद्धायाहं पब्बजितोति आयस्मतो समिद्धित्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कत्ताधिकारो तत्थ तत्थ पुञ्ञानि उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थं भगवन्तं पस्सित्वा पसन्नमानसो सवण्टानि पुप्फानि कण्णिकबद्धानि गहेत्वा पूजेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे राजगहे कुलगेहे निब्बत्ति. तस्स जातकालतो पट्ठाय तं कुलं धनधञ्ञादीहि वड्ढि, अत्तभावो चस्स अभिरूपो दस्सनीयो गुणवा इति विभवसमिद्धिया च गुणसमिद्धिया च समिद्धीत्वेव पञ्ञायित्थ. सो बिम्बिसारसमागमे बुद्धानुभावं दिस्वा पटिलद्धसद्धो पब्बजित्वा भावनाय युत्तप्पयुत्तो विहरन्तो भगवति तपोदारामे विहरन्ते एकदिवसं एवं चिन्तेसि – ‘‘लाभा वत मे सत्था अरहं सम्मासम्बुद्धो, स्वाक्खाते चाहं धम्मविनये पब्बजितो, सब्रह्मचारी च मे सीलवन्तो कल्याणधम्मा’’ति. तस्सेवं चिन्तेन्तस्स उळारं पीतिसोमनस्सं उदपादि. तं असहन्तो मारो पापिमा थेरस्स अविदूरे महन्तं भेरवसद्दमकासि, पथविया उन्द्रियनकालो विय अहोसि. थेरो भगवतो तमत्थं आरोचेसि. भगवा ‘‘मारो तुय्हं विचक्खुकम्माय चेतेति, गच्छ, भिक्खु तत्थ अचिन्तेत्वा विहराही’’ति आह. थेरो तत्थ गन्त्वा विहरन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.३०-३४) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

ओभासेन्तं दिसा सब्बा, सिद्धत्थं नरसारथिं.

‘‘धनुं अद्वेज्झं कत्वान, उसुं सन्नय्हहं तदा;

पुप्फं सवण्टं छेत्वान, बुद्धस्स अभिरोपयिं.

‘‘चतुन्नवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘एकपञ्ञासितो कप्पे, एको आसिं जुतिन्धरो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा तत्थेव विहरन्तस्स थेरस्स खीणासवभावं अजानन्तो पुरिमनयेनेव मारो महन्तं भेरवसद्दं अकासि. तं सुत्वा थेरो अभीतो अच्छम्भी ‘‘तादिसानं मारानं सतम्पि सहस्सम्पि मय्हं लोमम्पि न कम्पेती’’ति अञ्ञं ब्याकरोन्तो ‘‘सद्धायाहं पब्बजितो’’ति गाथं अभासि.

४६. तत्थ सद्धायाति धम्मच्छन्दसमुट्ठानाय कम्मफलसद्धाय चेव रतनत्तयसद्धाय च. अहन्ति अत्तानं निद्दिसति. पब्बजितोति उपगतो. अगारस्माति गेहतो घरावासतो वा. अनगारियन्ति पब्बज्जं, सा हि यंकिञ्चि कसिवाणिज्जादिकम्मं ‘अगारस्स हित’न्ति अगारियं नाम, तदभावतो ‘‘अनगारिया’’ति वुच्चति. सति पञ्ञा च मे वुड्ढाति सरणलक्खणा सति, पजाननलक्खणा पञ्ञाति इमे धम्मा विपस्सनाक्खणतो पट्ठाय मग्गपटिपाटिया याव अरहत्ता मे वुड्ढा वड्ढिता, न दानि वड्ढेतब्बा अत्थि सतिपञ्ञा वेपुल्लप्पत्ताति दस्सेति. चित्तञ्च सुसमाहितन्ति अट्ठसमापत्तिवसेन चेव लोकुत्तरसमाधिवसेन च चित्तं मे सुट्ठु समाहितं, न दानि तस्स समाधातब्बं अत्थि, समाधि वेपुल्लप्पत्तोति दस्सेति. तस्मा कामं करस्सु रूपानीति पापिम मं उद्दिस्स यानि कानिचि विप्पकारानि यथारुचिं करोहि, तेहि पन नेव मं ब्याधयिस्ससि मम सरीरकम्पनमत्तम्पि कातुं न सक्खिस्ससि, कुतो चित्तञ्ञथत्तं? तस्मा तव किरिया अप्पटिच्छितपहेनकं विय न किञ्चि अत्थं सोधेति, केवलं तव चित्तविघातमत्तफलाति थेरो मारं तज्जेसि. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायि.

समिद्धित्थेरगाथावण्णना निट्ठिता.

७. उज्जयत्थेरगाथावण्णना

नमो ते बुद्ध वीरत्थूति आयस्मतो उज्जयत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि करोन्तो इतो द्वानवुते कप्पे तिस्सं भगवन्तं पस्सित्वा पसन्नमानसो कणिकारपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे अञ्ञतरस्स सोत्तियब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, उज्जयोतिस्स नामं अहोसि. सो वयप्पत्तो तिण्णं वेदानं पारगू हुत्वा तत्थ सारं अपस्सन्तो उपनिस्सयसम्पत्तिया चोदियमानो वेळुवनं गन्त्वा सत्थु सन्तिके धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्ञे विहरन्तो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.२१.१-४) –

‘‘कणिकारं पुप्फितं दिस्वा, ओचिनित्वानहं तदा;

तिस्सस्स अभिरोपेसिं, ओघतिण्णस्स तादिनो.

‘‘द्वेनवुते इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘पञ्चतिंसे इतो कप्पे, अरुणपाणीति विस्सुतो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा एकमन्तं निसीदित्वा भगवतो थोमनाकारेन अञ्ञं ब्याकरोन्तो ‘‘नमो ते बुद्ध वीरत्थू’’ति गाथं अभासि.

४७. तत्थ नमोति पणामकित्तनं. तेति पणामकिरियाय सम्पदानकित्तनं, तुय्हन्ति अत्थो. बुद्ध वीराति च भगवतो आलपनं. भगवा हि यथा अभिञ्ञेय्यादिभेदस्स अत्थस्स अभिञ्ञेय्यादिभेदेन सयम्भूञाणेन अनवसेसतो बुद्धत्ता ‘‘बुद्धो’’ति वुच्चति. एवं पञ्चन्नम्पि मारानं अभिप्पमद्दनवसेन पदहन्तेन महता वीरियेन समन्नागतत्ता ‘‘वीरो’’ति वुच्चति. अत्थूति होतु, तस्स ‘‘नमो’’ति इमिना सम्बन्धो. विप्पमुत्तोसि सब्बधीति सब्बेहि किलेसेहि सब्बस्मिञ्च सङ्खारगते विप्पमुत्तो विसंयुत्तो असि भवसि, न तया किञ्चि अविप्पमुत्तं नाम अत्थि, यतोहं तुय्हापदाने विहरं, विहरामि अनासवोति तुय्हं तव अपदाने ओवादे गतमग्गे पटिपत्तिचरियाय विहरं यथासत्ति यथाबलं पटिपज्जन्तो कामासवादीनं चतुन्नम्पि आसवानं सुप्पहीनत्ता अनासवो विहरामि, तादिसस्स नमो ते बुद्ध-वीरत्थूति.

उज्जयत्थेरगाथावण्णना निट्ठिता.

८. सञ्जयत्थेरगाथावण्णना

यतो अहन्ति आयस्मतो सञ्जयत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञं उपचिनन्तो विपस्सिस्स भगवतो काले महति पूगे संकित्तिवसेन वत्थुं सङ्घरित्वा रतनत्तयं उद्दिस्स पुञ्ञं करोन्तो सयं दलिद्दो हुत्वा नेसं गणादीनं पुञ्ञकिरियाय ब्यावटो अहोसि. कालेन कालं भगवन्तं उपसङ्कमित्वा वन्दित्वा पसन्नमानसो भिक्खूनञ्च तं तं वेय्यावच्चं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति सञ्जयो नाम नामेन, सो वयप्पत्तो ब्रह्मायुपोक्खरसातिआदिके अभिञ्ञाते ब्राह्मणे सासने अभिप्पसन्ने दिस्वा सञ्जातप्पसादो सत्थारं उपसङ्कमि. तस्स सत्था धम्मं देसेसि. सो धम्मं सुत्वा सोतापन्नो अहोसि. अपरभागे पब्बजि. पब्बजन्तो च खुरग्गेयेव छळभिञ्ञो अहोसी. तेन वुत्तं अपदाने (अप. थेर १.१०.५१-५५) –

‘‘विपस्सिस्स भगवतो, महापूगगणो अहु;

वेय्यावच्चकरो आसिं, सब्बकिच्चेसु वावटो.

‘‘देय्यधम्मो च मे नत्थि, सुगतस्स महेसिनो;

अवन्दिं सत्थुनो पादे, विप्पसन्नेन चेतसा.