९. हारितत्थेरगाथावण्णना
समुन्नमयमत्तानन्ति आयस्मतो हारितत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं पुञ्ञसम्भारं उपचिनन्तो इतो एकतिंसे कप्पे सुदस्सनं नाम पच्चेकसम्बुद्धं दिस्वा पसन्नमानसो कुटजपुप्फेहि पूजं कत्वा तेन पुञ्ञकम्मेन सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थिनगरे ब्राह्मणमहासालकुले निब्बत्ति. हारितोतिस्स नामं अहोसि. तस्स वयप्पत्तस्स मातापितरो कुलरूपादीहि अनुच्छविकं कुमारिकं ब्राह्मणधीतरं आनेसुं. सो ताय सद्धिं भोगसुखं अनुभवन्तो एकदिवसं अत्तनो तस्सा च रूपसम्पत्तिं ओलोकेत्वा धम्मताय चोदियमानो ‘‘ईदिसं नाम रूपं नचिरस्सेव जराय मच्चुना च अभिप्पमद्दीयती’’ति संवेगं पटिलभि. कतिपयदिवसातिक्कमेनेव चस्स भरियं कण्हसप्पो डंसित्वा मारेसि. सो तेन भिय्योसोमत्ताय सञ्जातसंवेगो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा घरबन्धने छिन्दित्वा पब्बजि. तस्स च चरियानुकूलं कम्मट्ठानं गहेत्वा विहरन्तस्स कम्मट्ठानं न सम्पज्जति, चित्तं उजुगतं न होति. सो गामं पिण्डाय पविट्ठो अञ्ञतरं उसुकारं उसुदण्डं यन्ते पक्खिपित्वा उजुं करोन्तं दिस्वा ‘‘इमे अचेतनम्पि नाम उजुं करोन्ति, कस्मा अहं चित्तं उजुं न करिस्सामी’’ति चिन्तेत्वा ततोव पटिनिवत्तित्वा दिवाट्ठाने निसिन्नो विपस्सनं आरभि. अथस्स भगवा उपरि आकासे निसीदित्वा ओवादं देन्तो ‘‘समुन्नमयमत्तान’’न्ति गाथं अभासि. अयमेव थेरो अत्तानं परं विय ओवदन्तो अभासीति च वदन्ति.
२९. तत्थ समुन्नमयन्ति सम्मा उन्नमेन्तो, समापत्तिवसेन कोसज्जपक्खे पतितुं अदत्वा ततो उद्धरन्तो वीरियसमतं योजेन्तोति अत्थो. अत्तानन्ति चित्तं, अथ वा समुन्नमयाति कोसज्जपक्खतो समुन्नमेहि. म-कारो पदसन्धिकरो. हीनवीरियताय तव चित्तं कम्मट्ठानवीथिं नप्पटिपज्जति चे, तं वीरियारम्भवसेन सम्मा उन्नमेहि, अनोनतं अनपनतं करोहीति अधिप्पायो. एवं पन करोन्तो उसुकारोव तेजनं. चित्तं उजुं करित्वान, अविज्जं भिन्द हारिताति. यथा नाम उसुकारो कण्डं ईसकम्पि ओनतं अपनतञ्च विज्झन्तो लक्खं भिन्दनत्थं उजुं करोति, एवं कोसज्जपाततो अरक्खणेन ओनतं उद्धच्चपाततो अरक्खणेन अपनतं विज्झन्तो अप्पनापत्तिया चित्तं उजुं करित्वान समाहितचित्तो विपस्सनं उस्सुक्कापेत्वा सीघं अग्गमग्गञाणेन अविज्जं भिन्द पदालेहीति. तं सुत्वा थेरो विपस्सनं वड्ढेत्वा नचिरेनेव अरहा अहोसि. तेन वुत्तं अपदाने (अप. थेर १.३५.३९-४३) –
‘‘हिमवन्तस्साविदूरे, वसलो नाम पब्बतो;
बुद्धो सुदस्सनो नाम, वसते पब्बतन्तरे.
‘‘पुप्फं हेमवन्तं गय्ह, वेहासं अगमासहं;
तत्थद्दसासिं सम्बुद्धं, ओघतिण्णमनासवं.
‘‘पुप्फं कुटजमादाय, सीसे कत्वानहं तदा;
बुद्धस्स अभिरोपेसिं, सयम्भुस्स महेसिनो.
‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;
दुग्गतिं नाभिजानामि, पुप्फपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तोपि तमेव गाथं अभासि.
हारितत्थेरगाथावण्णना निट्ठिता.