३. ततियवग्गो

१. निग्रोधत्थेरगाथावण्णना

नाहं भयस्स भायामीति आयस्मतो निग्रोधत्थेरस्स गाथा. का उप्पत्ति? अयं किर इतो अट्ठारसे कप्पसते ब्राह्मणमहासालकुले निब्बत्तित्वा वयप्पत्तो कामेसु आदीनवं नेक्खम्मे च आनिसंसं दिस्वा घरबन्धनं पहाय अरञ्ञायतनं पविसित्वा अञ्ञतरस्मिं सालवने पण्णसालं कत्वा तापसपब्बजं पब्बजित्वा वनमूलफलाहारो वसति. तेन समयेन पियदस्सी नाम सम्मासम्बुद्धो लोके उप्पज्जित्वा सदेवकस्स लोकस्स धम्मामतवस्सेन किलेससन्तापं निब्बापेन्तो एकदिवसं तापसे अनुकम्पाय तं सालवनं पविसित्वा निरोधसमापत्तिं समापन्नो. तापसो वनमूलफलत्थाय गच्छन्तो भगवन्तं दिस्वा पसन्नमानसो पुप्फितसालदण्डसाखायो गहेत्वा सालमण्डपं कत्वा तं सब्बत्थकमेव सालपुप्फेहि सञ्छादेत्वा भगवन्तं वन्दित्वा पीतिसोमनस्सवसेनेव आहारत्थायपि अगन्त्वा नमस्समानो अट्ठासि. सत्था निरोधतो वुट्ठाय तस्स अनुकम्पाय ‘‘भिक्खुसङ्घो आगच्छतू’’ति चिन्तेसि, ‘‘भिक्खुसङ्घेपि चित्तं पसादेस्सती’’ति. तावदेव भिक्खुसङ्घो आगतो. सो भिक्खुसङ्घम्पि दिस्वा पसन्नमानसो वन्दित्वा अञ्जलिं पग्गय्ह अट्ठासि. सत्था सितस्स पातुकरणापदेसेन तस्स भाविनिं सम्पत्तिं पकासेन्तो धम्मं कथेत्वा पक्कामि सद्धिं भिक्खुसङ्घेन. सो तेन पुञ्ञकम्मेन देवमनुस्सेसुयेव संसरन्तो विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणमहासालकुले निब्बत्ति, निग्रोधोतिस्स नामं अहोसि. सो जेतवनपटिग्गहणदिवसे बुद्धानुभावदस्सनेन सञ्जातप्पसादो पब्बजित्वा विपस्सनं आरभित्वा नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.४९.१९०-२२०) –

‘‘अज्झोगाहेत्वा सालवनं, सुकतो अस्समो मम;

सालपुप्फेहि सञ्छन्नो, वसामि विपिने तदा.

‘‘पियदस्सी च भगवा, सयम्भू अग्गपुग्गलो;

विवेककामो सम्बुद्धो, सालवनमुपागमि.

‘‘अस्समा अभिनिक्खम्म, पवनं अगमासहं;

मूलफलं गवेसन्तो, आहिन्दामि वने तदा.

‘‘तत्थद्दसासिं सम्बुद्धं, पियदस्सिं महायसं;

सुनिसिन्नं समापन्नं, विरोचन्तं महावने.

‘‘चतुदण्डे ठपेत्वान, बुद्धस्स उपरी अहं;

मण्डपं सुकतं कत्वा, सालपुप्फेहि छादयिं.

‘‘सत्ताहं धारयित्वान, मण्डपं सालछादितं;

तत्थ चित्तं पसादेत्वा, बुद्धसेट्ठमवन्दहं.

‘‘भगवा तम्हि समये, वुट्ठहित्वा समाधितो;

युगमत्तं पेक्खमानो, निसीदि पुरिसुत्तमो.

‘‘सावको वरुणो नाम, पियदस्सिस्स सत्थुनो;

वसीसतसहस्सेहि, उपगच्छि विनायकं.

‘‘पियदस्सी च भगवा, लोकजेट्ठो नरासभो;

भिक्खुसङ्घे निसीदित्वा, सितं पातुकरी जिनो.

‘‘अनुरुद्धो उपट्ठाको, पियदस्सिस्स सत्थुनो;

एकंसं चीवरं कत्वा, अपुच्छित्थ महामुनिं.

‘‘को नु खो भगवा हेतु, सितकम्मस्स सत्थुनो;

कारणे विज्जमानम्हि, सत्था पातुकरे सितं.

‘‘सत्ताहं सालच्छदनं, यो मे धारेसि माणवो;

तस्स कम्मं सरित्वान, सितं पातुकरिं अहं.

‘‘अनोकासं न पस्सामि, यत्थ पुञ्ञं विपच्चति;

देवलोके मनुस्से वा, ओकासोव न सम्मति.

‘‘देवलोके वसन्तस्स, पुञ्ञकम्मसमङ्गिनो;

यावता परिसा तस्स, सालच्छन्ना भविस्सति.

‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

रमिस्सति सदा सन्तो, पुञ्ञकम्मसमाहितो.

‘‘यावता परिसा तस्स, गन्धगन्धी भविस्सति;

सालस्स पुप्फवस्सो च, पवस्सिस्सति तावदे.

‘‘ततो चुतोयं मनुजो, मानुसं आगमिस्सति;

इधापि सालच्छदनं, सब्बकालं धरिस्सति.

‘‘इध नच्चञ्च गीतञ्च, सम्मताळसमाहितं;

परिवारेस्सन्ति मं निच्चं, बुद्धपूजायिदं फलं.

‘‘उग्गच्छन्ते च सूरिये, सालवस्सं पवस्सते;

पुञ्ञकम्मेन संयुत्तं, वस्सते सब्बकालिकं.

‘‘अट्ठारसे कप्पसते, ओक्काककुलसम्भवो;

गोतमो नाम नामेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मे सुदायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘धम्मं अभिसमेन्तस्स, सालच्छन्नं भविस्सति;

चितके झायमानस्स, छदनं तत्थ हेस्सति.

‘‘विपाकं कित्तयित्वान, पियदस्सी महामुनि;

परिसाय धम्मं देसेसि, तप्पेन्तो धम्मवुट्ठिया.

‘‘तिंसकप्पानि देवेसु, देवरज्जमकारयिं;

सट्ठि च सत्तक्खत्तुञ्च, चक्कवत्ती अहोसहं.

‘‘देवलोका इधागन्त्वा, लभामि विपुलं सुखं;

इधापि सालच्छदनं, मण्डपस्स इदं फलं.

‘‘अयं पच्छिमको मय्हं, चरिमो वत्तते भवो;

इधापि सालच्छदनं, हेस्सति सब्बकालिकं.

‘‘महामुनिं तोसयित्वा, गोतमं सक्यपुङ्गवं;

पत्तोम्हि अचलं ठानं, हित्वा जयपराजयं.

‘‘अट्ठारसे कप्पसते, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं, भवा सब्बे समूहता;

नागोव बन्धनं छेत्वा, विहरामि अनासवो.

‘‘स्वागतं वत मे आसि, बुद्धसेट्ठस्स सन्तिके;

तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासनं.

‘‘पटिसम्भिदा चतस्सो, विमोक्खापि च अट्ठिमे;

छळभिञ्ञा सच्छिकता, कतं बुद्धस्स सासन’’न्ति.

एवं पन छळभिञ्ञो हुत्वा फलसुखेन वीतिनामेन्तो सासनस्स निय्यानिकभावविभावनत्थं अञ्ञाब्याकरणवसेन ‘‘नाहं भयस्स भायामी’’ति गाथं अभासि.

२१. तत्थ भायन्ति एतस्माति भयं, जातिजरादि. भयस्साति निस्सक्के सामिवचनं, भयतो भायितब्बनिमित्तं जातिजरामरणादिना हेतुना नाहं भायामीति अत्थो. तत्थ कारणमाह ‘‘सत्था नो अमतस्स कोविदो’’ति. अम्हाकं सत्था अमते कुसलो वेनेय्यानं अमतदाने छेको. यत्थ भयं नावतिट्ठतीति यस्मिं निब्बाने यथावुत्तं भयं न तिट्ठति ओकासं न लभति. तेनाति ततो निब्बानतो. वजन्तीति अभयट्ठानमेव गच्छन्ति. निब्बानञ्हि अभयट्ठानं नाम. केन पन वजन्तीति आह ‘‘मग्गेन वजन्ति भिक्खवो’’ति, अट्ठङ्गिकेन अरियमग्गेन सत्थु ओवादकरणा भिक्खू संसारे भयस्स इक्खनकाति अत्थो. यत्थाति वा यं निमित्तं यस्स अरियमग्गस्स अधिगमहेतु अत्तानुवादादिकं पञ्चवीसतिविधम्पि भयं नावतिट्ठति पतिट्ठं न लभति, तेन अरियेन मग्गेन वजन्ति अभयट्ठानं सत्थु सासने भिक्खू, तेन मग्गेन अहम्पि गतो, तस्मा नाहं भयस्स भायामीति थेरो अञ्ञं ब्याकासि.

निग्रोधत्थेरगाथावण्णना निट्ठिता.

२. चित्तकत्थेरगाथावण्णना

नीलासुगीवाति आयस्मतो चित्तकत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरबुद्धकालतो पट्ठाय विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकनवुते कप्पे मनुस्सयोनियं निब्बत्तित्वा विञ्ञुत्तं पत्तो विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो पुप्फेहि पूजं कत्वा वन्दित्वा ‘‘सन्तधम्मेन नाम एत्थ भवितब्ब’’न्ति सत्थरि निब्बाने च अधिमुच्चि. सो तेन पुञ्ञकम्मेन ततो चुतो तावतिंसभवने निब्बत्तो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति चित्तको नाम नामेन. सो भगवति राजगहं गन्त्वा वेळुवने विहरन्ते सत्थारं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा अरञ्ञायतनं पविसित्वा भावनानुयुत्तो झानं निब्बत्तेत्वा झानपादकं विपस्सनं वड्ढेत्वा नचिरेनेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.१-७) –

‘‘कणिकारंव जोतन्तं, निसिन्नं पब्बतन्तरे;

अद्दसं विरजं बुद्धं, विपस्सिं लोकनायकं.

‘‘तीणि किङ्कणिपुप्फानि, पग्गय्ह अभिरोपयिं;

सम्बुद्धं अभिपूजेत्वा, गच्छामि दक्खिणामुखो.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘एकनवुते इतो कप्पे, यं बुद्धमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा सत्थारं वन्दितुं राजगहं उपगतो तत्थ भिक्खूहि ‘‘किं, आवुसो, अरञ्ञे अप्पमत्तो विहासी’’ति पुट्ठो अत्तनो अप्पमादविहारनिवेदनेन अञ्ञं ब्याकरोन्तो ‘‘नीलासुगीवा’’ति गाथं अभासि.

२२. तत्थ नीलासुगीवाति नीलसुगीवा, गाथासुखत्थञ्हेत्थ दीघो कतो, राजिवन्तताय सुन्दराय गीवाय समन्नागतोति अत्थो. ते येभुय्येन च नीलवण्णताय नीला. सोभनकण्ठताय सुगीवा. सिखिनोति मत्थके जाताय सिखाय सस्सिरिकभावेन सिखिनो. मोराति मयूरा. कारम्भियन्ति कारम्बरुक्खे. कारम्भियन्ति वा तस्स वनस्स नामं. तस्मा कारम्भियन्ति कारम्भनामके वनेति अत्थो. अभिनदन्तीति पावुस्सकाले मेघगज्जितं सुत्वा केकासद्दं करोन्ता उतुसम्पदासिद्धेन सरेन हंसादिके अभिभवन्ता विय नदन्ति. तेति ते मोरा. सीतवातकीळिताति सीतेन मेघवातेन सञ्जातकीळिता मधुरवस्सितं वस्सन्ता. सुत्तन्ति भत्तसम्मदविनोदनत्थं सयितं, कायकिलमथपटिपस्सम्भनाय वा अनुञ्ञातवेलायं सुपन्तं. झायन्ति समथविपस्सनाझानेहि झायनसीलं भावनानुयुत्तं. निबोधेन्तीति पबोधेन्ति. ‘‘इमेपि नाम निद्दं अनुपगन्त्वा जागरन्ता अत्तना कत्तब्बं करोन्ति, किमङ्गं पनाह’’न्ति एवं सम्पजञ्ञुप्पादनेन सयनतो वुट्ठापेन्तीति अधिप्पायो.

चित्तकत्थेरगाथावण्णना निट्ठिता.

३. गोसालत्थेरगाथावण्णना

अहं खो वेळुगुम्बस्मिन्ति आयस्मतो गोसालत्थेरस्स गाथा. का उप्पत्ति? सोपि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकनवुते कप्पे अञ्ञतरस्मिं पब्बते रुक्खसाखायं ओलम्बमानं पच्चेकबुद्धस्स पंसुकूलचीवरं दिस्वा ‘‘अरहद्धजो वताय’’न्ति पसन्नचित्तो पुप्फेहि पूजेहि. सो तेन पुञ्ञकम्मेन तावतिंसभवने निब्बत्तो. ततो पट्ठाय देवमनुस्सेसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे इब्भकुले निब्बत्तो गोसालो नाम नामेन. सोणेन पन कोटिकण्णेन कतपरिचयत्ता तस्स पब्बजितभावं सुत्वा ‘‘सोपि नाम महाविभवो पब्बजिस्सति, किमङ्गं पनाह’’न्ति सञ्जातसंवेगो भगवतो सन्तिके पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा सप्पायं वसनट्ठानं गवेसन्तो अत्तनो जातगामस्स अविदूरे एकस्मिं सानुपब्बते विहासि. तस्स माता दिवसे दिवसे भिक्खं देति. अथेकदिवसं गामं पिण्डाय पविट्ठस्स माता मधुसक्खराभिसङ्खतं पायासं अदासि. सो तं गहेत्वा तस्स पब्बतस्स छायायं अञ्ञतरस्स वेळुगुम्बस्स मूले निसीदित्वा परिभुञ्जित्वा धोवितपत्तपाणी विपस्सनं आरभि. भोजनसप्पायलाभेन कायचित्तानं कल्लताय समाहितो उदयब्बयञाणादिके तिक्खे सूरे वहन्ते अप्पकसिरेनेव विपस्सनं उस्सुक्कापेत्वा मग्गपटिपाटिया भावनं मत्थकं पापेन्तो सह पटिसम्भिदाहि अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५०.८-१४) –

‘‘हिमवन्तस्स अविदूरे, उदङ्गणो नाम पब्बतो;

तत्थद्दसं पंसुकूलं, दुमग्गम्हि विलम्बितं.

‘‘तीणि किङ्कणिपुप्फानि, ओचिनित्वानहं तदा;

हेट्ठा पहट्ठेन चित्तेन, पंसुकूलं अपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसं अगच्छहं.

‘‘एकनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पूजित्वा अरहद्धजं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन अधिगन्त्वा दिट्ठधम्मसुखविहारत्थं पब्बतसानुमेव गन्तुकामो अत्तनो पटिपत्तिं पवेदेन्तो ‘‘अहं खो वेळुगुम्बस्मि’’न्ति गाथं अभासि.

२३. तत्थ वेळुगुम्बस्मिन्ति वेळुगच्छस्स समीपे, तस्स छायायं. भुत्वान मधुपायसन्ति मधुपसित्तपायासं भुञ्जित्वा. पदक्खिणन्ति पदक्खिणग्गाहेन, सत्थु ओवादस्स सम्मा सम्पटिच्छनेनाति अत्थो. सम्मसन्तो खन्धानं उदयब्बयन्ति पञ्चन्नं उपादानक्खन्धानं उदयब्बयञ्च विपस्सन्तो, यदिपि इदानि कतकिच्चो, फलसमापत्तिं पन समापज्जितुं विपस्सनं पट्ठपेन्तोति अधिप्पायो. सानुं पटिगमिस्सामीति पुब्बे मया वुत्थपब्बतसानुमेव उद्दिस्स गच्छिस्सामि. विवेकमनुब्रूहयन्ति पटिपस्सद्धिविवेकं फलसमापत्तिकायविवेकञ्च परिब्रूहयन्तो, तस्स वा परिब्रूहनहेतु गमिस्सामीति. एवं पन वत्वा थेरो तत्थेव गतो, अयमेव च इमस्स थेरस्स अञ्ञाब्याकरणगाथा अहोसि.

गोसालत्थेरगाथावण्णना निट्ठिता.

४. सुगन्धत्थेरगाथावण्णना

अनुवस्सिको पब्बजितोति आयस्मतो सुगन्धत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो द्वानवुते कप्पे तिस्सस्स नाम सम्मासम्बुद्धस्स काले मनुस्सयोनियं निब्बत्तित्वा विञ्ञुतं पत्तो मिगब्यधनेन अरञ्ञे विचरति. सत्था तस्स अनुकम्पाय पदवळञ्जं दस्सेत्वा गतो. सो सत्थु पदचेतियानि दिस्वा पुरिमबुद्धेसु कताधिकारताय ‘‘सदेवके लोके अग्गपुग्गलस्स इमानि पदानी’’ति पीतिसोमनस्सजातो कोरण्डकपुप्फानि गहेत्वा पूजं कत्वा चित्तं पसादेसि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा ततो चुतो अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो कस्सपस्स भगवतो काले कुटुम्बिको हुत्वा सत्थु भिक्खुसङ्घस्स च महादानं पवत्तेत्वा गन्धकुटिं महग्घगोसितचन्दनं पिसित्वा तेन परिभण्डं कत्वा पत्थनं पट्ठपेसि – ‘‘निब्बत्तनिब्बत्तट्ठाने मय्हं सरीरं एवंसुगन्धं होतू’’ति. एवं अञ्ञानिपि तत्थ तत्थ भवे बहूनि पुञ्ञकम्मानि कत्वा सुगतीसु एव परिवत्तमानो इमस्मिं बुद्धुप्पादे सावत्थियं विभवसम्पन्नस्स ब्राह्मणस्स गेहे निब्बत्ति. निब्बत्तस्स च तस्स मातुकुच्छिगतकालतो पट्ठाय मातु सरीरं सकलम्पि गेहं सुरभिगन्धं वायति. जातदिवसे पन विसेसतो परमसुगन्धं सामन्तगेहेसुपि वायतेव. तस्स मातापितरो ‘‘अम्हाकं पुत्तो अत्तनाव अत्तनो नामं गहेत्वा आगतो’’ति सुगन्धोत्वेव नामं अकंसु. सो अनुपुब्बेन वयप्पत्तो महासेलत्थेरं दिस्वा तस्स सन्तिके धम्मं सुत्वा पब्बजित्वा विपस्सनाय कम्मं करोन्तो सत्ताहब्भन्तरे एव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५०.१५-२४) –

‘‘वनकम्मिको पुरे आसिं, पितुमातुमतेनहं;

पसुमारेन जीवामि, कुसलं मे न विज्जति.

‘‘मम आसयसामन्ता, तिस्सो लोकग्गनायको;

पदानि तीणि दस्सेसि, अनुकम्पाय चक्खुमा.

‘‘अक्कन्ते च पदे दिस्वा, तिस्सनामस्स सत्थुनो;

हट्ठो हट्ठेन चित्तेन, पदे चित्तं पसादयिं.

‘‘कोरण्डं पुप्फितं दिस्वा, पादपं धरणीरुहं;

सकोसकं गहेत्वान, पदसेट्ठं अपूजयिं.

‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;

जहित्वा मानुसं देहं, तावतिंसमगच्छहं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

कोरण्डकछवी होमि, सुप्पभासो भवामहं.

‘‘द्वेनवुते इतो कप्पे, यं कम्ममकरिं तदा;

दुग्गतिं नाभिजानामि, पदपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अञ्ञं ब्याकरोन्तो ‘‘अनुवस्सिको पब्बजितो’’ति इमं गाथं अभासि.

२४. तत्थ अनुवस्सिकोति अनुगतो उपगतो वस्सं अनुवस्सो, अनुवस्सोव अनुवस्सिको. पब्बजितोति पब्बज्जं उपगतो, पब्बजितो हुत्वा उपगतवस्समत्तो एकवस्सिकोति अत्थो. अथ वा अनुगतं पच्छागतं अपगतं वस्सं अनुवस्सं, तं अस्स अत्थीति अनुवस्सिको. यस्स पब्बजितस्स वस्सं अपरिपुण्णताय न गणनूपगतं, सो एवं वुत्तो, तस्मा अवस्सिकोति वुत्तं होति. पस्स धम्मसुधम्मतन्ति तव सत्थु धम्मस्स सुधम्मभावं स्वाक्खाततं एकन्तनिय्यानिकतं पस्स, यत्थ अनुवस्सिको तुवं पब्बजितो. पुब्बेनिवासञाणं दिब्बचक्खुञाणं आसवक्खयञाणन्ति तिस्सो विज्जा तया अनुप्पत्ता सच्छिकता, ततो एव कतं बुद्धस्स सासनं सम्मासम्बुद्धस्स सासनं अनुसिट्ठि ओवादो अनुसिक्खितोति कतकिच्चतं निस्साय पीतिसोमनस्सजातो थेरो अत्तानं परं विय कत्वा वदतीति.

सुगन्धत्थेरगाथावण्णना निट्ठिता.

५. नन्दियत्थेरगाथावण्णना

ओभासजातन्ति आयस्मतो नन्दियत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले सत्थरि परिनिब्बुते चेतिये चन्दनसारेन वेदिकं कारेत्वा उळारं पूजासक्कारं पवत्तेसि. ततो पट्ठाय अज्झासयसम्पन्नो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं बहुं पुञ्ञकम्मं आचिनित्वा देवेसु च मनुस्सेसु च संसरन्तो इमस्मिं बुद्धुप्पादे कपिलवत्थुस्मिं सक्यराजकुले निब्बत्ति. तस्स मातापितरो नन्दिं जनेन्तो जातोति नन्दियोति नामं अकंसु. सो वयप्पत्तो अनुरुद्धादीसु सत्थु सन्तिके पब्बजन्तेसु सयम्पि पब्बजित्वा विपस्सनाय कम्मं करोन्तो कताधिकारताय नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१५.१५-२०) –

‘‘पदुमुत्तरो नाम जिनो, लोकजेट्ठो नरासभो;

जलित्वा अग्गिखन्धोव, सम्बुद्धो परिनिब्बुतो.

‘‘निब्बुते च महावीरे, थूपो वित्थारिको अहु;

दूरतोव उपट्ठेन्ति, धातुगेहवरुत्तमे.

‘‘पसन्नचित्तो सुमनो, अकं चन्दनवेदिकं;

दिस्सति थूपखन्धो च, थूपानुच्छविको तदा.

‘‘भवे निब्बत्तमानम्हि, देवत्ते अथ मानुसे.

ओमत्तं मे न पस्सामि, पुब्बकम्मस्सिदं फलं.

‘‘पञ्चदसकप्पसते, इतो अट्ठ जना अहुं;

सब्बे समत्तनामा ते चक्कवत्ती महब्बला.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अनुरुद्धत्थेरादीहि सद्धिं पाचीनवंसमिगदाये विहरन्ते इमस्मिं थेरे एकदिवसं मारो पापिमा भिंसापेतुकामो तस्स भेरवरूपं दस्सेति. थेरो तं ‘‘मारो अय’’न्ति ञत्वा ‘‘पापिम, ये मारधेय्यं वीतिवत्ता, तेसं तव किरिया किं करिस्सति, ततोनिदानं पन त्वं एव विघातं अनत्थं पापुणिस्ससी’’ति दस्सेन्तो ‘‘ओभासजातं फलग’’न्ति गाथं अभासि.

२५. तत्थ ओभासजातन्ति ञाणोभासेन जातोभासं अग्गमग्गञाणस्स अधिगतत्ता. तेन अनवसेसतो किलेसन्धकारस्स विहतविद्धंसितभावतो अतिविय पभस्सरन्ति अत्थो. फलगन्ति फलं गतं उपगतं, अग्गफलञाणसहितन्ति अधिप्पायो. चित्तन्ति खीणासवस्स चित्तं सामञ्ञेन वदति. तेनाह ‘‘अभिण्हसो’’ति. तञ्हि निरोधनिन्नताय खीणासवानं निच्चकप्पं अरहत्तफलसमापत्तिसमापज्जनतो ‘‘फलेन सहित’’न्ति वत्तब्बतं अरहति. तादिसन्ति तथारूपं, अरहन्तन्ति अत्थो. आसज्जाति विसोधेत्वा परिभुय्य. कण्हाति मारं आलपति, सो हि कण्हकम्मत्ता कण्हाभिजातिताय च ‘‘कण्हो’’ति वुच्चति. दुक्खं निगच्छसीति इध कुच्छिअनुप्पवेसादिना निरत्थकं कायपरिस्समं दुक्खं, सम्पराये च अप्पतिकारं अपायदुक्खं उपगमिस्ससि पापुणिस्ससि. तं सुत्वा मारो ‘‘जानाति मं समणो’’ति तत्थेवन्तरधायीति.

नन्दियत्थेरगाथावण्णना निट्ठिता.

६. अभयत्थेरगाथावण्णना

सुत्वा सुभासितं वाचन्ति आयस्मतो अभयत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो सासने पब्बजित्वा धम्मकथिको हुत्वा धम्मकथनकाले पठमं चतूहि गाथाहि भगवन्तं अभित्थवित्वा पच्छा धम्मं कथेसि. तेनस्स पुञ्ञकम्मबलेन कप्पानं सतसहस्सं अपायपटिसन्धि नाम नाहोसि. तथा हि वुत्तं –

‘‘अभित्थवित्वा पदुमुत्तरं जिनं, पसन्नचित्तो अभयो सयम्भुं;

न गच्छि कप्पानि अपायभूमिं, सतसहस्सानि उळारसद्धो’’ति. (अप. थेर २.५५.२२१)

खेत्तसम्पत्तियादीहि तस्स च पुब्बपच्छिमसन्निट्ठानचेतनानं अतिविय उळारभावेन सो अपरिमेय्यो पुञ्ञाभिसन्दो कुसलाभिसन्दो तादिसो अहोसि. ‘‘अचिन्तिये पसन्नानं, विपाको होति अचिन्तियो’’ति (अप. थेर १.१.८२) हि वुत्तं. तत्थ तत्थ हि भवे उपचितं पुञ्ञं तस्स उपत्थम्भकमहोसि. तथा हि सो विपस्सिस्स भगवतो केतकपुप्फेहि पूजमकासि. एवं उळारेहि पुञ्ञविसेसेहि सुगतीसु एव संसरन्तो इमस्मिं बुद्धुप्पादे रञ्ञो बिम्बिसारस्स पुत्तो हुत्वा निब्बत्ति. अभयोतिस्स नामं अहोसि. तस्स उप्पत्ति परतो आवि भविस्सति. सो निगण्ठेन नाटपुत्तेन उभतोकोटिकं पञ्हं सिक्खापेत्वा ‘‘इमं पञ्हं पुच्छित्वा समणस्स गोतमस्स वादं आरोपेही’’ति विस्सज्जितो भगवन्तं उपसङ्कमित्वा तं पञ्हं पुच्छित्वा तस्स पञ्हस्स अनेकंसब्याकरणभावे भगवता कथिते निगण्ठानं पराजयं, सत्थु च सम्मासम्बुद्धभावं विदित्वा उपासकत्तं पटिवेदेसि. ततो रञ्ञे बिम्बिसारे कालङ्कते सञ्जातसंवेगो सासने पब्बजित्वा तालच्छिग्गळूपमसुत्तदेसनाय सोतापन्नो हुत्वा पुन विपस्सनं आरभित्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५२.१७-२२) –

‘‘विनतानदिया तीरे, विहासि पुरिसुत्तमो;

अद्दसं विरजं बुद्धं, एकग्गं सुसमाहितं.

‘‘मधुगन्धस्स पुप्फेन, केतकस्स अहं तदा;

पसन्नचित्तो सुमनो, बुद्धसेट्ठमपूजयिं.

‘‘एकनवुते इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिकित्तनेन अञ्ञं ब्याकरोन्तो ‘‘सुत्वा सुभासितं वाच’’न्ति गाथं अभासि.

२६. तत्थ सुत्वाति सोतं ओदहित्वा, सोतद्वारानुसारेन उपधारेत्वा. सुभासितन्ति सुट्ठु भासितं, सम्मदेव भासितं, सम्मासम्बुद्धभावतो महाकारुणिकताय च किञ्चि अविसंवादेत्वा यथाधिप्पेतस्स अत्थस्स एकन्ततो साधनवसेन भासितं चतुसच्चविभावनीयधम्मकथं. न हि सच्चविनिमुत्ता भगवतो धम्मदेसना अत्थि. बुद्धस्साति सब्बञ्ञुबुद्धस्स. आदिच्चबन्धुनोति आदिच्चवंसे सम्भूतत्ता आदिच्चो बन्धु एतस्साति आदिच्चबन्धु, भगवा. तस्स आदिच्चबन्धुनो. आदिच्चस्स वा बन्धूति आदिच्चबन्धु, भगवा. तस्स भगवतो ओरसपुत्तभावतो. तेनाह भगवा –

‘‘यो अन्धकारे तमसी पभङ्करो, वेरोचनो मण्डली उग्गतेजो;

मा राहु गिली चरमन्तलिक्खे, पजं ममं राहु पमुञ्च सूरिय’’न्ति. (सं. नि. १.९१);

पच्चब्यधिन्ति पटिविज्झिं. ही-ति निपातमत्तं. निपुणन्ति सण्हं परमसुखुमं, निरोधसच्चं, चतुसच्चमेव वा. ही-ति वा हेतुअत्थे निपातो. यस्मा पच्चब्यधिं निपुणं चतुसच्चं, तस्मा न दानि किञ्चि पटिविज्झितब्बं अत्थीति अत्थो. यथा किं पटिविज्झीति आह ‘‘वालग्गं उसुना यथा’’ति. यथा सत्तधा भिन्नस्स वालस्स कोटिं सुसिक्खितो कुसलो इस्सासो उसुना कण्डेन अविरज्झन्तो विज्झेय्य, एवं पच्चब्यधिं निपुणं अरियसच्चन्ति योजना.

अभयत्थेरगाथावण्णना निट्ठिता.