४. चतुत्थवग्गो

१. गह्वरतीरियत्थेरगाथावण्णना

फुट्ठो डंसेहीति आयस्मतो गह्वरतीरियत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले मिगलुद्दो हुत्वा अरञ्ञे विचरन्तो अद्दस सिखिं भगवन्तं अञ्ञतरस्मिं रुक्खमूले देवनागयक्खानं धम्मं देसेन्तं, दिस्वा पन पसन्नमानसो ‘‘धम्मो एस वुच्चती’’ति सरे निमित्तं अग्गहेसि. सो तेन चित्तप्पसादेन देवलोके उप्पन्नो पुन अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा ‘‘अग्गिदत्तो’’ति लद्धनामो वयप्पत्तो भगवतो यमकपाटिहारियं दिस्वा सञ्जातप्पसादो सासने पब्बजित्वा कम्मट्ठानं गहेत्वा गह्वरतीरे नाम अरञ्ञट्ठाने वसति. तेनस्स गह्वरतीरयोति समञ्ञा अहोसि. सो विपस्सनं वड्ढेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.४४-५०) –

‘‘मिगलुद्दो पुरे आसि, अरञ्ञे विपिने अहं;

अद्दसं विरजं बुद्धं, देवसङ्घपुरक्खतं.

‘‘चतुसच्चं पकासेन्तं, देसेन्तं, अमतं पदं;

अस्सोसिं मधुरं धम्मं, सिखिनो लोकबन्धुनो.

‘‘घोसे चित्तं पसादेसिं, असमप्पटिपुग्गले;

तत्थ चित्तं पसादेत्वा, उत्तरिं दुत्तरं भवं.

‘‘एकतिंसे इतो कप्पे, यं सञ्ञमलभिं तदा;

दुग्गतिं नाभिजानामि, घोससञ्ञायिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भगवन्तं वन्दित्वा सावत्थियं अगमासि. तस्स आगतभावं सुत्वा ञातका उपगन्त्वा महादानं पवत्तेसुं. सो कतिपयदिवसे वसित्वा अरञ्ञमेव गन्तुकामो अहोसि. तं ञातका, ‘‘भन्ते, अरञ्ञं नाम डंसमकसादिवसेन बहुपरिस्सयं, इधेव वसथा’’ति आहंसु. तं सुत्वा थेरो ‘‘अरञ्ञवासोयेव मय्हं रुच्चती’’ति विवेकाभिरतिकित्तनमुखेन अञ्ञं ब्याकरोन्तो ‘‘फुट्ठो डंसेही’’ति गाथं अभासि.

३१. तत्थ फुट्ठो डंसेहि मकसेहीति डंसनसीलताय ‘‘डंसा’’ति लद्धनामाहि अन्धकमक्खिकाहि, मकसनञ्ञितेहि च सूचिमुखपाणेहि फुस्सितो दट्ठोति अत्थो. अरञ्ञस्मिन्ति ‘‘पञ्चधनुसतिकं पच्छिम’’न्ति (पारा. ६५४) वुत्तअरञ्ञलक्खणयोगतो अरञ्ञे. ब्रहावनेति महारुक्खगच्छगहनताय महावने अरञ्ञानियं. नागो सङ्गामसीसेवाति सङ्गामावचरो हत्थिनागो विय सङ्गाममुद्धनि परसेनासम्पहारं. ‘‘अरञ्ञवासो नाम बुद्धादीहि वण्णितो थोमितो’’ति उस्साहजातो सतो सतिमा हुत्वा तत्र तस्मिं अरञ्ञे, तस्मिं वा डंसादिसम्फस्से उपट्ठिते अधिवासये अधिवासेय्य सहेय्य, ‘‘डंसादयो मं आबाधेन्ती’’ति अरञ्ञवासं न जहेय्याति अत्थो.

गह्वरतीरियत्थेरगाथावण्णना निट्ठिता.

२. सुप्पियत्थेरगाथावण्णना

अजरं जीरमानेनाति आयस्मतो सुप्पियत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले कुलगेहे निब्बत्तित्वा तापसपब्बज्जं पब्बजित्वा अरञ्ञायतने वसन्तो तत्थ भगवन्तं दिस्वा पसन्नमानसो फलाफलं अदासि, तथा भिक्खुसङ्घस्स. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो कस्सपस्स सम्मासम्बुद्धस्स काले खत्तियकुले निब्बत्तित्वा अनुक्कमेन विञ्ञुतं पत्तो कल्याणमित्तसन्निस्सयेन लद्धसंवेगो सासने पब्बजित्वा बहुस्सुतो अहोसि. जातिमदेन सुतमदेन च अत्तानं उक्कंसेन्तो परे च वम्भेन्तो विहासि. सो इमस्मिं बुद्धुप्पादे तस्स कम्मस्स निस्सन्देन सावत्थियं परिभूतरूपे सुसानगोपककुले निब्बत्ति. सुप्पियोतिस्स नामं अहोसि. अथ विञ्ञुतं पत्तो अत्तनो सहायभूतं सोपाकत्थेरं उपसङ्कमित्वा तस्स सन्तिके धम्मं सुत्वा पटिलद्धसंवेगो पब्बजित्वा सम्मापटिपत्तिं पूरेत्वा ‘‘अजरं जीरमानेना’’ति गाथं अभासि.

३२. तत्थ अजरन्ति जरारहितं, निब्बानं सन्धायाह. तञ्हि अजातत्ता नत्थि एत्थ जरा, एतस्मिं वा अधिगते पुग्गलस्स सा नत्थीति जराभावहेतुतोपि अजरं नाम. जीरमानेनाति जीरन्तेन, खणे खणे जरं पापुणन्तेन. तप्पमानेनाति सन्तप्पमानेन, रागादीहि एकादसहि अग्गीहि दय्हमानेन. निब्बुतिन्ति यथावुत्तसन्तापाभावतो निब्बुतसभावं निब्बानं. निमियन्ति परिवत्तेय्यं चेतापेय्यं. परमं सन्तिन्ति अनवसेसकिलेसाभिसङ्खारपरिळाहवूपसमधम्मताय उत्तमं सन्तिं. चतूहि योगेहि अननुबन्धत्ता योगक्खेमं. अत्तनो उत्तरितरस्स कस्सचि अभावतो अनुत्तरं. अयञ्हेत्थ सङ्खेपत्थो – खणे खणे जराय अभिभुय्यमानत्ता जीरमानेन, तथा रागग्गिआदीहि सन्तप्पमानेन गतो एवं अनिच्चेन दुक्खेन असारेन सब्बथापि अनुपसन्तसभावेन सउपद्दवेन, तप्पटिपक्खभावतो अजरं परमुपसमभूतं केनचि अनुपद्दुतं अनुत्तरं निब्बानं निमियं परिवत्तेय्यं ‘‘महा वत मे लाभो महा उदयो हत्थगतो’’ति. यथा हि मनुस्सा यं किञ्चि भण्डं परिवत्तेन्ता निरपेक्खा गय्हमानेन सम्बहुमाना होन्ति, एवमयं थेरो पहितत्तो विहरन्तो अत्तनो काये च जीविते च निरपेक्खतं, निब्बानं पटिपेसितत्तञ्च पकासेन्तो ‘‘निमियं परमं सन्तिं, योगक्खेमं अनुत्तर’’न्ति वत्वा तमेव पटिपत्तिं परिब्रूहयन्तो विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५२.५१-७७) –

‘‘वरुणो नाम नामेन, ब्राह्मणो मन्तपारगू;

छड्डेत्वा दस पुत्तानि, वनमज्झोगहिं तदा.

‘‘अस्समं सुकतं कत्वा, सुविभत्तं मनोरमं;

पण्णसालं करित्वान, वसामि विपिने अहं.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

ममुद्धरितुकामो सो, आगच्छि मम अस्समं.

‘‘यावता वनसण्डम्हि, ओभासो विपुलो अहु;

बुद्धस्स आनुभावेन, पज्जली विपिनं तदा.

‘‘दिस्वान तं पाटिहीरं, बुद्धसेट्ठस्स तादिनो;

पत्तपुटं गहेत्वान, फलेन पूजयिं अहं.

‘‘उपगन्त्वान सम्बुद्धं, सहखारिमदासहं;

अनुकम्पाय मे बुद्धो, इदं वचनमब्रवि.

‘‘खारिभारं गहेत्वान, पच्छतो एहि मे तुवं;

परिभुत्ते च सङ्घम्हि, पुञ्ञं तव भविस्सति.

‘‘पुटकं तं गहेत्वान, भिक्खुसङ्घस्सदासहं;

तत्थ चित्तं पसादेत्वा, तुसितं उपपज्जहं.

‘‘तत्थ दिब्बेहि नच्चेहि, गीतेहि वादितेहि च;

पुञ्ञकम्मेन संयुत्तं, अनुभोमि सदा सुखं.

‘‘यं यं योनुपपज्जामि, देवत्तं अथ मानुसं;

भोगे मे ऊनता नत्थि, फलदानस्सिदं फलं.

‘‘यावता चतुरो दीपा, ससमुद्दा सपब्बता;

फलं बुद्धस्स दत्वान, इस्सरं कारयामहं.

‘‘यावता ये पक्खिगणा, आकासे उप्पतन्ति चे;

तेपि मे वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘यावता वनसण्डम्हि, यक्खा भूता च रक्खसा;

कुम्भण्डा गरुळा चापि, पारिचरियं उपेन्ति मे.

‘‘कुम्मा सोणा मधुकारा, डंसा च मकसा उभो;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘सुपण्णा नाम सकुणा, पक्खिजाता महब्बला;

तेपि मं सरणं यन्ति, फलदानस्सिदं फलं.

‘‘येपि दीघायुका नागा, इद्धिमन्तो महायसा;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘सीहा ब्यग्घा च दीपी च, अच्छकोकतरच्छका;

तेपि मं वसमन्वेन्ति, फलदानस्सिदं फलं.

‘‘ओसधी तिणवासी च, ये च आकासवासिनो;

सब्बे मं सरणं यन्ति, फलदानस्सिदं फलं.

‘‘सुदुद्दसं सुनिपुणं, गम्भीरं सुप्पकासितं;

फस्सयित्वा विहरामि, फलदानस्सिदं फलं.

‘‘विमोक्खे अट्ठ फुसित्वा, विहरामि अनासवो;

आतापी निपको चाहं, फलदानस्सिदं फलं.

‘‘ये फलट्ठा बुद्धपुत्ता, खीणदोसा महायसा;

अहमञ्ञतरो तेसं, फलदानस्सिदं फलं.

‘‘अभिञ्ञापारमिं गन्त्वा, सुक्कमूलेन चोदितो;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘तेविज्जा इद्धिपत्ता च, बुद्धपुत्ता महायसा;

दिब्बसोतं समापन्ना, तेसं अञ्ञतरो अहं.

‘‘सतसहस्सितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वापि तमेव गाथं अञ्ञाब्याकरणवसेन अभासि.

सुप्पियत्थेरगाथावण्णना निट्ठिता.

३. सोपाकत्थेरगाथावण्णना

यथापि एकपुत्तस्मिन्ति आयस्मतो सोपाकत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो ककुसन्धस्स भगवतो काले अञ्ञतरस्स कुटुम्बिकस्स पुत्तो हुत्वा निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो बीजपूरफलानि सत्थु उपनेसि. पटिग्गहेसि भगवा अनुकम्पं उपादाय. सो भिक्खुसङ्घे च अभिप्पसन्नो सलाकभत्तं पट्ठपेत्वा सङ्घुद्देसवसेन तिण्णं भिक्खूनं यावतायुकं खीरभत्तं अदासि. सो तेहि पुञ्ञकम्मेहि अपरापरं देवमनुस्सेसु सम्पत्तिं अनुभवन्तो एकदा मनुस्सयोनियं निब्बत्तो एकस्स पच्चेकबुद्धस्स खीरभत्तं अदासि. एवं तत्थ तत्थ पुञ्ञानि कत्वा सुगतीसु एव परिब्भमन्तो इमस्मिं बुद्धुप्पादे पुरिमकम्मनिस्सन्देन सावत्थियं अञ्ञतराय दुग्गतित्थिया कुच्छिम्हि पटिसन्धिं गण्हि. तस्स माता दस मासे कुच्छिना परिहरित्वा परिपक्के गब्भे विजायनकाले विजायितुं असक्कोन्ती मुच्छं आपज्जित्वा बहुवेलं मता विय निपज्जि. तं ञातका ‘‘मता’’ति सञ्ञाय सुसानं नेत्वा चितकं आरोपेत्वा देवतानुभावेन वातवुट्ठिया उट्ठिताय अग्गिं अदत्वा पक्कमिंसु. दारको पच्छिमभाविकत्ता देवतानुभावेन मातुकुच्छितो अरोगो निक्खमि. माता पन कालमकासि. देवता तं गहेत्वा मनुस्सरूपेन सुसानगोपकस्स गेहे ठपेत्वा कतिपयकालं पतिरूपेन आहारेन पोसेसि. ततो परं सुसानगोपको च नं अत्तनो पुत्तं कत्वा वड्ढेति. सो तथा वड्ढेन्तो तस्स पुत्तेन सुपियेन नाम दारकेन सद्धिं कीळन्तो विचरति. तस्स सुसाने जातसंवड्ढभावतो सोपाकोति समञ्ञा अहोसि.

अथेकदिवसं सत्तवस्सिकं तं भगवा पच्चूसवेलाय ञाणजालं पत्थरित्वा वेनेय्यबन्धवे ओलोकेत्वा ञाणजलन्तोगधं दिस्वा सुसानट्ठानं अगमासि. दारको पुब्बहेतुना चोदियमानो पसन्नमानसो सत्थारं उपसङ्कमित्वा वन्दित्वा अट्ठासि. सत्था तस्स धम्मं कथेसि. सो धम्मं सुत्वा पब्बज्जं याचित्वा ‘‘पितरा अनुञ्ञातोसी’’ति वुत्तो पितरं सत्थु सन्तिकं नेसि. तस्स पिता सत्थारं उपसङ्कमित्वा वन्दित्वा ‘‘भन्ते, इमं दारकं पब्बाजेथा’’ति अनुजानि. सत्था तं पब्बाजेत्वा मेत्ताभावनाय नियोजेसि. सो मेत्ताकम्मट्ठानं गहेत्वा सुसाने विहरन्तो च चिरस्सेव मेत्ताझानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.४५.१-७) –

‘‘ककुसन्धो महावीरो, सब्बधम्मान पारगू;

गणम्हा वूपकट्ठो सो, अगमासि वनन्तरं.

‘‘बीजमिञ्जं गहेत्वान, लताय आवुणिं अहं;

भगवा तम्हि समये, झायते पब्बतन्तरे.

‘‘दिस्वानहं देवदेवं, विप्पसन्नेन चेतसा;

दक्खिणेय्यस्स वीरस्स, बीजमिञ्जमदासहं.

‘‘इमस्मिंयेव कप्पम्हि, यं मिञ्जमददिं तदा;

दुग्गतिं नाभिजानामि, बीजमिञ्जस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहा हुत्वा पन अञ्ञेसं सोसानिकभिक्खूनं मेत्ताभावनाविधिं दस्सेन्तो ‘‘यथापि एकपुत्तस्मि’’न्ति गाथं अभासि.

३३. तत्थ यथाति ओपम्मत्थे निपातो. एकपुत्तस्मिन्ति पुनाति च कुलवंसं तायति चाति पुत्तो, अत्रजादिभेदो पुत्तो. एको पुत्तो एकपुत्तो, तस्मिं एकपुत्तस्मिं. विसये चेतं भुम्मवचनं. पियस्मिन्ति पियायितब्बताय चेव एकपुत्तताय च रूपसीलाचारादीहि च पेमकरणट्ठानभूते. कुसलीति कुसलं वुच्चति खेमं सोत्थिभावो, तं लभितब्बं एतस्स अत्थीति कुसली, सत्तानं हितेसी मेत्तज्झासयो. सब्बेसु पाणेसूति सब्बेसु सत्तेसु. सब्बत्थाति सब्बासु दिसासु सब्बेसु वा भवादीसु, सब्बासु वा अवत्थासु. इदं वुत्तं होति – यथा एकपुत्तके पिये मनापे मातापिता कुसली एकन्तहितेसी भवेय्य, एवं पुरत्थिमादिभेदासु सब्बासु दिसासु, कामभवादिभेदेसु सब्बेसु भवेसु दहरादिभेदासु सब्बासु अवत्थासु च ठितेसु सब्बेसु सत्तेसु एकन्तहितेसिताय कुसली भवेय्य, ‘‘मित्तो उदासीनो पञ्चत्थिको’’ति सीमं अकत्वा सीमासम्भेदवसेन सब्बत्थ एकरसं मेत्तं भावेय्याति. इमं पन गाथं वत्वा ‘‘सचे तुम्हे आयस्मन्तो एवं मेत्ताभावनं अनुयुञ्जेय्याथ, ये ते भगवता ‘सुखं सुपती’तिआदिना (अ. नि. ११.१५) एकादस मेत्तानिसंसा वुत्ता, एकंसेन तेसं भागिनो भवथा’’ति ओवादमदासि.

सोपाकत्थेरगाथावण्णना निट्ठिता.

४. पोसियत्थेरगाथावण्णना

अनासन्नवराति आयस्मतो पोसियत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा सुगतीसु एव संसरन्तो इतो द्वेनवुते कप्पे तिस्सस्स भगवतो काले मिगलुद्दो हुत्वा अरञ्ञे विचरति. अथ भगवा तस्स अनुग्गहं कातुं अरञ्ञं गन्त्वा तस्स चक्खुपथे अत्तानं दस्सेसि. सो भगवन्तं दिस्वा पसन्नचित्तो आवुधं निक्खिपित्वा उपसङ्कमित्वा अञ्जलिं पग्गय्ह अट्ठासि. भगवा निसीदितुकामतं दस्सेसि. सो तावदेव तिणमुट्ठियो गहेत्वा समे भूमिभागे सक्कच्चं सन्थरित्वा अदासि. निसीदि तत्थ भगवा अनुकम्पं उपादाय. निसिन्ने पन भगवति अनप्पकं पीतिसोमनस्सं पटिसंवेदेन्तो भगवन्तं वन्दित्वा सयम्पि एकमन्तं निसीदि. अथ भगवा ‘‘एत्तकं वट्टति इमस्स कुसलबीज’’न्ति उट्ठायासना पक्कामि. अचिरपक्कन्ते भगवति तं सीहो मिगराजा घातेसि. सो कालङ्कतो देवलोके निब्बत्ति. ‘‘सो किर भगवति अनुपगच्छन्ते सीहेन घातितो निरये निब्बत्तिस्सती’’ति तं दिस्वा भगवा सुगतियं निब्बत्तनत्थं कुसलबीजरोपनत्थञ्च उपसङ्कमि.

सो तत्थ यावतायुकं ठत्वा ततो देवलोकतो चवित्वा सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं अञ्ञतरस्स महाविभवस्स सेट्ठिनो पुत्तो सङ्गामजितत्थेरस्स कनिट्ठभाता हुत्वा निब्बत्ति. पोसियोतिस्स नामं अहोसि. सो वयप्पत्तो दारपरिग्गहं कत्वा एकं पुत्तं लभित्वा अन्तिमभविकताय धम्मताय चोदियमानो जातिआदिं पटिच्च उप्पन्नसंवेगो पब्बजित्वा अरञ्ञं पविसित्वा वूपकट्ठो हुत्वा चतुसच्चकम्मट्ठानभावनं अनुयुञ्जन्तो नचिरस्सेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५३.१-१२) –

‘‘हिमवन्तस्साविदूरे, लम्बको नाम पब्बतो;

तत्थेव तिस्सो सम्बुद्धो, अब्भोकासम्हि चङ्कमि.

‘‘मिगलुद्दो तदा आसिं, अरञ्ञे कानने अहं;

दिस्वान तं देवदेवं, तिणमुट्ठिमदासहं.

‘‘निसीदनत्थं बुद्धस्स, दत्वा चित्तं पसादयिं;

सम्बुद्धं अभिवादेत्वा, पक्कामिं उत्तरामुखो.

‘‘अचिरं गतमत्तस्स, मिगराजा अपोथयि;

सोहेन पोथितो, सन्तो तत्थ कालङ्कतो अहं.

‘‘आसन्ने मे कतं कम्मं, बुद्धसेट्ठे अनासवे;

सुमुत्तो सरवेगोव, देवलोकमगच्छहं.

‘‘यूपो तत्थ सुभो आसि, पुञ्ञकम्माभिनिम्मितो;

सहस्सकण्डो सतभेण्डु, धजालु हरितामयो.

‘‘पभा निद्धावते तस्स, सतरंसीव उग्गतो;

आकिण्णो देवकञ्ञाहि, आमोदिं कामकामिहं.

‘‘देवलोका चवित्वान, सुक्कमूलेन चोदितो;

आगन्त्वान मनुस्सत्तं, पत्तोम्हि आसवक्खयं.

‘‘चतुन्नवुतितो कप्पे, निसीदनमदासहं;

दुग्गतिं नाभिजानामि, तिणमुट्ठे इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा भगवन्तं वन्दितुं सावत्थिं आगतो ञातिं अनुकम्पाय ञातिगेहं अगमासि. तत्थ नं पुराणदुतियिका वन्दित्वा आसनदानादिना पठमं उपासिका विय वत्तं दस्सेत्वा थेरस्स अज्झासयं अजानन्ती पच्छा इत्थिकुत्तादीहि पलोभेतुकामा अहोसि. थेरो ‘‘अहो अन्धबाला मादिसेपि नाम एवं पटिपज्जती’’ति चिन्तेत्वा किञ्चि अवत्वा उट्ठायासना अरञ्ञमेव गतो. तं आरञ्ञका भिक्खू ‘‘किं, आवुसो, अतिलहुं, निवत्तोसि, ञातकेहि न दिट्ठोसी’’ति पुच्छिंसु. थेरो तत्थ पवत्तिं आचिक्खन्तो ‘‘अनासन्नवरा एता’’ति गाथं अभासि.

३४. तत्थ अनासन्नवराति एता इत्थियो न आसन्ना अनुपगता, दूरे एव वा ठिता हुत्वा वरा पुरिसस्स सेट्ठा हितावहा, तञ्च खो निच्चमेव सब्बकालमेव, न रत्तिमेव, न दिवापि, न रहोवेलायपि. विजानताति विजानन्तेन. ‘‘अनासन्नपरा’’तिपि पाळि, सो एवत्थो. अयञ्हेत्थ अधिप्पायो – चण्डहत्थिअस्समहिंससीहब्यग्घयक्खरक्खसपिसाचापि मनुस्सानं अनुपसङ्कमन्तो वरा सेट्ठा, न अनत्थावहा, ते पन उपसङ्कमन्ता दिट्ठधम्मिकंयेव अनत्थं करेय्युं. इत्थियो पन उपसङ्कमित्वा दिट्ठधम्मिकं सम्परायिकं विमोक्खनिस्सितम्पि अत्थं विनासेत्वा महन्तं अनत्थं आपादेन्ति, तस्मा अनासन्नवरा एता निच्चमेव विजानताति. इदानि तमत्थं अत्तूपनायिकं कत्वा दस्सेन्तो ‘‘गामा’’तिआदिमाह. तत्थ गामाति गामं. उपयोगत्थे हि एतं निस्सक्कवचनं. अरञ्ञमागम्माति अरञ्ञतो आगन्त्वा. म-कारो पदसन्धिकरो, निस्सक्के चेतं उपयोगवचनं. ततोति मञ्चकतो. अनामन्तेत्वाति अनालपित्वा पुराणदुतियिकं ‘‘अप्पमत्ता होही’’ति एत्तकम्पि अवत्वा. पोसियोति अत्तानमेव परं विय वदति. ये पन ‘‘पक्कामि’’न्ति पठन्ति, तेसं अहं पोसियो पक्कामिन्ति योजना. ये पन ‘‘सा इत्थी थेरं घरं उपगतं भोजेत्वा पलोभेतुकामा जाता, तं दिस्वा थेरो तावदेव गेहतो निक्खमित्वा विहारं गन्त्वा अत्तनो वसनट्ठाने मञ्चके निसीदि. सापि खो इत्थी पच्छाभत्तं अलङ्कतपटियत्ता विहारे थेरस्स वसनट्ठानं उपसङ्कमि. तं दिस्वा थेरो किञ्चि अवत्वा उट्ठाय दिवाट्ठानमेव गतो’’ति वदन्ति, तेसं ‘‘गामा अरञ्ञमागम्मा’’ति गाथापदस्स अत्थो यथारुतवसेनेव निय्यति. विहारो हि इध ‘‘अरञ्ञ’’न्ति अधिप्पेतो.

पोसियत्थेरगाथावण्णना निट्ठिता.

५. सामञ्ञकानित्थेरगाथावण्णना

सुखं सुखत्थोति आयस्मतो सामञ्ञकानित्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ भवे कुसलं उपचिनन्तो इतो एकनवुते कप्पे विपस्सिस्स भगवतो काले मनुस्सयोनियं निब्बत्तो विपस्सिं भगवन्तं दिस्वा पसन्नमानसो एकं मञ्चं अदासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे अञ्ञतरस्स परिब्बाजकस्स पुत्तो हुत्वा निब्बत्ति. सामञ्ञकानीतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो सत्थु यमकपाटिहारियं दिस्वा पसन्नमानसो सासने पब्बजित्वा चरियानुकूलं कम्मट्ठानं गहेत्वा झानं निब्बत्तेत्वा झानं पादकं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.३६.३०-३३) –

‘‘विपस्सिनो भगवतो, लोकजेट्ठस्स तादिनो;

एकं मञ्चं मया दिन्नं, पसन्नेन सपाणिना.

‘‘हत्थियानं अस्सयानं, दिब्बयानं समज्झगं;

तेन मञ्चक दानेन, पत्तोम्हि आसवक्खयं.

‘‘एकनवुतितो कप्पे, यं मञ्चमददिं तदा;

दुग्गतिं नाभिजानामि, मञ्चदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

थेरस्स पन गिहिसहायको कातियानो नाम परिब्बाजको बुद्धुप्पादतो पट्ठाय तित्थियानं हतलाभसक्कारताय घासच्छादनमत्तम्पि अलभन्तो आजीवकापकतो थेरं उपसङ्कमित्वा ‘‘तुम्हे साकियपुत्तिया नाम महालाभग्गयसग्गप्पत्ता सुखेन जीवथ, मयं पन दुक्खिता किच्छजीविका, कथं नु खो पटिपज्जमानस्स दिट्ठधम्मिकञ्चेव सम्परायिकञ्च सुखं सम्पज्जती’’ति पुच्छि. अथस्स थेरो ‘‘निप्परियायतो सुखं नाम लोकुत्तरसुखमेव, तञ्च तदनुरूपं पटिपत्तिं पटिपज्जन्तस्सेवा’’ति अत्तना तस्स अधिगतभावं परियायेन विभावेन्तो ‘‘सुखं सुखत्थो लभते तदाचर’’न्ति गाथं अभासि.

३५. तत्थ सुखन्ति निरामिसं सुखं इधाधिप्पेतं. तञ्च फलसमापत्ति चेव निब्बानञ्च. तथा हि ‘‘अयं समाधि पच्चुप्पन्नसुखो चेव आयतिञ्च सुखविपाको’’ (दी. नि. ३.३५५; अ. नि. ५.२७; विभ. ८०४) ‘‘निब्बानं परमं सुख’’न्ति (ध. प. २०३-२०४) च वुत्तं. सुखत्थोति सुखप्पयोजनो, यथावुत्तेन सुखेन अत्थिको. लभतेति पापुणाति, अत्थिकस्सेवेदं सुखं, न इतरस्स. को पन अत्थिकोति आह ‘‘तदाचर’’न्ति तदत्थं आचरन्तो, याय पटिपत्तिया तं पटिपत्तिं पटिपज्जन्तोति अत्थो. न केवलं तदाचरं सुखमेव लभते, अथ खो कित्तिञ्च पप्पोति ‘‘इतिपि सीलवा सुपरिसुद्धकायवचीकम्मन्तो सुपरिसुद्धाजीवो झायी झानयुत्तो’’तिआदिना कित्तिं परम्मुखा पत्थटयसतं पापुणाति. यसस्स वड्ढतीति सम्मुखे गुणाभित्थवसङ्खातो परिवारसम्पदासङ्खातो च यसो अस्स परिब्रूहति. इदानि ‘‘तदाचर’’न्ति सामञ्ञतो वुत्तमत्थं सरूपतो दस्सेन्तो – ‘‘यो अरियमट्ठङ्गिकमञ्जसं उजुं, भावेति मग्गं अमतस्स पत्तिया’’ति आह. तस्सत्थो यो पुग्गलो किलेसेहि आरकत्ता परिसुद्धट्ठेन पटिपज्जन्तानं अरियभावकरणट्ठेन अरियं, सम्मादिट्ठिआदिअट्ठङ्गसमुदायताय अट्ठङ्गिकं, अन्तद्वयरहितमज्झिमपटिपत्तिभावतो अकुटिलट्ठेन अञ्जसं, कायवङ्कादिप्पहानतो उजुं, निब्बानत्थिकेहि मग्गनियट्ठेन किलेसे मारेन्तो गमनट्ठेन च ‘‘मग्ग’’न्ति लद्धनामं दुक्खनिरोधगामिनिपटिपदं अमतस्स असङ्खताय धातुया पत्तिया अधिगमाय भावेति अत्तनो सन्ताने उप्पादेति वड्ढेति च, सो निप्परियायेन ‘‘सुखत्थो तदाचर’’न्ति वुच्चति, तस्मा यथावुत्तं सुखं लभति. तं सुत्वा परिब्बाजको पसन्नमानसो पब्बजित्वा सम्मा पटिपज्जन्तो नचिरस्सेव विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. इदमेव थेरस्स अञ्ञाब्याकरणं अहोसि.

सामञ्ञकानित्थेरगाथावण्णना निट्ठिता.

६. कुमापुत्तत्थेरगाथावण्णना

साधु सुतन्ति आयस्मतो कुमापुत्तत्थेरस्स गाथा. का उप्पति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकनवुते कप्पे अजिनचम्मवसनो तापसो हुत्वा बन्धुमतीनगरे राजुय्याने वसन्तो विपस्सिं भगवन्तं पस्सित्वा पसन्नमानसो पादब्भञ्जनतेलं अदासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तो. ततो पट्ठाय सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे अवन्तिरट्ठे वेळुकण्टकनगरे गहपतिकुले निब्बत्तो. ‘‘नन्दो’’तिस्स नामं अकंसु. माता पनस्स कुमा नाम, तेन कुमापुत्तोति पञ्ञायित्थ. सो आयस्मतो सारिपुत्तस्स सन्तिके धम्मं सुत्वा लद्धप्पसादो पब्बजित्वा कतपुब्बकिच्चो परियन्तपब्बतपस्से समणधम्मं करोन्तो विसेसं निब्बत्तेतुं असक्कोन्तो भगवन्तं उपसङ्कमित्वा धम्मं सुत्वा कम्मट्ठानं सोधेत्वा सप्पायट्ठाने वसन्तो विपस्सनं वड्ढेत्वा अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर २.५३.२४-३०) –

‘‘नगरे बन्धुमतिया, राजुय्याने वसामहं;

चम्मवासी तदा आसिं, कमण्डलुधरो अहं.

‘‘अद्दसं विमलं बुद्धं, सयम्भुं अपराजितं;

पधानं पहितत्तं तं, झायिं झानरतं वसिं.

‘‘सब्बकामसमिद्धञ्च, ओघतिण्णमनासवं;

दिस्वा पसन्नसुमनो, अब्भञ्जनमदासहं.

‘‘एकनवुतितो कप्पे, अब्भञ्जनमदासहं;

दुग्गतिं नाभिजानामि, अब्भञ्जनस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अरञ्ञे कायदळ्हिबहुले भिक्खू, दिस्वा ते ओवदन्तो सासनस्स निय्यानिकभावं पकासेन्तो ‘‘साधु सुतं साधु चरितक’’न्ति गाथं अभासि.

३६. तत्थ साधूति सुन्दरं. सुतन्ति सवनं. तञ्च खो विवट्टूपनिस्सितं विसेसतो अप्पिच्छतादिपटिसंयुत्तं दसकथावत्थुसवनं इधाधिप्पेतं. साधु चरितकन्ति तदेव अप्पिच्छतादिचरितं चिण्णं, साधुचरितमेव हि ‘‘चरितक’’न्ति वुत्तं. पदद्वयेनापि बाहुसच्चं तदनुरूपं पटिपत्तिञ्च ‘‘सुन्दर’’न्ति दस्सेति. सदाति सब्बकाले नवकमज्झिमथेरकाले, सब्बेसु वा इरियापथक्खणेसु. अनिकेतविहारोति किलेसानं निवासनट्ठानट्ठेन पञ्चकामगुणा निकेता नाम, लोकिया वा छळारम्मणधम्मा. यथाह – ‘‘रूपनिमित्तनिकेतविसारविनिबन्धा खो, गहपति, ‘निकेतसारी’ति वुच्चती’’तिआदि (सं. नि. ३.३). तेसं निकेतानं पहानत्थाय पटिपदा अनिकेतविहारो. अत्थपुच्छनन्ति तं आजानितुकामस्स कल्याणमित्तं उपसङ्कमित्वा दिट्ठधम्मिकसम्परायिकपरमत्थपभेदस्स पुच्छनं, कुसलादिभेदस्स वा अत्थस्स सभावधम्मस्स ‘‘किं, भन्ते, कुसलं, किं अकुसलं, किं सावज्जं, किं अनवज्ज’’न्तिआदिना (म. नि. ३.२९६) पुच्छनं अत्थपुच्छनं. पदक्खिणकम्मन्ति तं पन पुच्छित्वा पदक्खिणग्गाहिभावेन तस्स ओवादे अधिट्ठानं सम्मापटिपत्ति. इधापि ‘‘साधू’’ति पदं आनेत्वा योजेतब्बं. एतं सामञ्ञन्ति ‘‘साधु सुत’’न्तिआदिना वुत्तं यं सुतं, यञ्च चरितं, यो च अनिकेतविहारो, यञ्च अत्थपुच्छनं, यञ्च पदक्खिणकम्मं, एतं सामञ्ञं एसो समणभावो. यस्मा इमाय एव पटिपदाय समणभावो, न अञ्ञथा, तस्मा ‘‘सामञ्ञ’’न्ति निप्परियायतो मग्गफलस्स अधिवचनं. तस्स वा पन अयं अपण्णकपटिपदा, तं पनेतं सामञ्ञं यादिसस्स सम्भवाति, तं दस्सेतुं ‘‘अकिञ्चनस्सा’’ति वुत्तं. अपरिग्गाहकस्स, खेत्तवत्थुहिरञ्ञसुवण्णदासिदासादिपरिग्गहपटिग्गहणरहितस्साति अत्थो.

कुमापुत्तत्थेरगाथावण्णना निट्ठिता.

७. कुमापुत्तसहायत्थेरगाथावण्णना

नानाजनपदं यन्तीति आयस्मतो कुमापुत्तसहायत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ विवट्टूपनिस्सयं कुसलं उपचिनन्तो इतो चतुनवुते कप्पे सिद्धत्थस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो अरञ्ञं पविसित्वा बहुं रुक्खदण्डं छिन्दित्वा कत्तरयट्ठिं कत्वा सङ्घस्स अदासि. अञ्ञञ्च यथाविभवं पुञ्ञं कत्वा देवेसु निब्बत्तित्वा ततो पट्ठाय सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे वेळुकण्टकनगरे इद्धे कुले निब्बत्ति. सुदन्तोतिस्स नामं अहोसि. ‘‘वासुलो’’ति केचि वदन्ति. सो कुमापुत्तस्स पियसहायो हुत्वा विचरन्तो ‘‘कुमापुत्तो पब्बजितो’’ति सुत्वा ‘‘न हि नून सो ओरको धम्मविनयो, यत्थ कुमापुत्तो पब्बजितो’’ति तदनुबन्धेन सयम्पि पब्बजितुकामो हुत्वा सत्थु सन्तिकं उपसङ्कमि. तस्स सत्था धम्मं देसेसि. सो भिय्योसोमत्ताय पब्बज्जाय सञ्जातछन्दो पब्बजित्वा कुमापुत्तेनेव सद्धिं परियन्तपब्बते भावनानुयुत्तो विहरति. तेन च समयेन सम्बहुला भिक्खू नानाजनपदेसु जनपदचारिकं चरन्तापि गच्छन्तापि आगच्छन्तापि तं ठानं उपगच्छन्ति. तेन तत्थ कोलाहलं होति. तं दिस्वा सुदन्तत्थेरो ‘‘इमे भिक्खू निय्यानिकसासने पब्बजित्वा जनपदवितक्कं अनुवत्तेन्ता चित्तसमाधिं विराधेन्ती’’ति संवेगजातो तमेव संवेगं अत्तनो चित्तदमनस्स अङ्कुसं करोन्तो ‘‘नानाजनपदं यन्ती’’ति गाथं अभासि.

३७. तत्थ नानाजनपदन्ति विसुं विसुं नानाविधं जनपदं, कासिकोसलादिअनेकरट्ठन्ति अत्थो. यन्तीति गच्छन्ति. विचरन्ताति ‘‘असुको जनपदो सुभिक्खो सुलभपिण्डो, असुको खेमो अरोगो’’तिआदिवितक्कवसेन जनपदचारिकं चरन्ता. असञ्ञताति तस्सेव जनपदवितक्कस्स अप्पहीनताय चित्तेन असंयता. समाधिञ्च विराधेन्तीति सब्बस्सपि उत्तरिमनुस्सधम्मस्स मूलभूतं उपचारप्पनाभेदं समाधिञ्च नाम विराधेन्ति. च-सद्दो सम्भावने. देसन्तरचरणेन झायितुं ओकासाभावेन अनधिगतं समाधिं नाधिगच्छन्ता, अधिगतञ्च वसीभावानापादनेन जीरन्ता वीराधेन्ति नाम. किंसु रट्ठचरिया करिस्सतीति सूति निपातमत्तं. ‘‘एवंभूतानं रट्ठचरिया जनपदचारिका किं करिस्सति, किं नाम अत्थं साधेस्सति, निरत्थकावा’’ति गरहन्तो वदति. तस्माति यस्मा ईदिसी देसन्तरचरिया भिक्खुस्स न अत्थावहा, अपि च खो अनत्थावहा सम्पत्तीनं विराधनतो, तस्मा. विनेय्य सारम्भन्ति वसनपदेसे अरतिवसेन उप्पन्नं सारम्भं चित्तसंकिलेसं तदनुरूपेन पटिसङ्खानेन विनेत्वा वूपसमेत्वा. झायेय्याति आरम्मणूपनिज्झानेन लक्खणूपनिज्झानेन चाति दुविधेनपि झानेन झायेय्य. अपुरक्खतोति मिच्छावितक्केहि तण्हादीहि वा न पुरक्खतोति तेसं वसं अनुपगच्छन्तो कम्मट्ठानमेव मनसि करेय्याति अत्थो. एवं पन वत्वा थेरो तमेव संवेगं अङ्कुसं कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५३.३६-४१) –

‘‘काननं वनमोग्गय्ह, वेळुं छेत्वानहं तदा;

आलम्बनं करित्वान, सङ्घस्स अददिं बहुं.

‘‘तेन चित्तप्पसादेन, सुब्बते अभिवादिय;

आलम्बदण्डं दत्वान, पक्कामिं उत्तरामुखो.

‘‘चतुन्नवुतितो कप्पे, यं दण्डमददिं तदा;

दुग्गतिं नाभिजानामि, दण्डदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

यं पनत्थं अङ्कुसं कत्वा अयं थेरो अरहत्तं पत्तो, तमेवत्थं हदये ठपेत्वा अरहत्तं पत्तोपि ‘‘नानाजनपदं यन्ति’’ति इदमेव गाथं अभासि. तस्मा तदेवस्स अञ्ञाब्याकरणं अहोसीति.

कुमापुत्तसहायत्थेरगाथावण्णना निट्ठिता.

८. गवम्पतित्थेरगाथावण्णना

यो इद्धिया सरभुन्ति आयस्मतो गवम्पतित्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो इतो एकतिंसे कप्पे सिखिं भगवन्तं पस्सित्वा पसन्नमानसो पुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके उप्पन्नो अपरापरं पुञ्ञानि करोन्तो कोणागमनस्स भगवतो चेतिये छत्तञ्च वेदिकञ्च कारेसि. कस्सपस्स पन भगवतो काले अञ्ञतरस्मिं कुलगेहे निब्बत्तो. तस्मिञ्च कुले बहुं गोमण्डलं अहोसि. तं गोपालका रक्खन्ति. अयं तत्थ अन्तरन्तरा युत्तप्पयुत्तं विचारेन्तो विचरति. सो एकं खीणासवत्थेरं गामे पिण्डाय चरित्वा बहिगामे देवसिकं एकस्मिं पदेसे भत्तकिच्चं करोन्तं दिस्वा ‘‘अय्यो सूरियातपेन किलमिस्सती’’ति चिन्तेत्वा चत्तारो सिरीसदण्डे उस्सापेत्वा तेसं उपरि सिरीससाखायो ठपेत्वा साखामण्डपं कत्वा अदासि. ‘‘मण्डपस्स समीपे सिरीसरुक्खं रोपेसी’’ति च वदन्ति. तस्स अनुकम्पाय देवसिकं थेरो तत्थ निसीदि. सो तेन पुञ्ञकम्मेन ततो चवित्वा चातुमहाराजिकेसु निब्बत्ति. तस्स पुरिमकम्मसंसूचकं विमानद्वारे महन्तं सिरीसवनं निब्बत्ति वण्णगन्धसम्पन्नेहि अञ्ञेहि पुप्फेहि सब्बकाले उपसोभयमानं, तेन तं विमानं ‘‘सेरीसक’’न्ति पञ्ञायित्थ. सो देवपुत्तो एकं बुद्धन्तरं देवेसु च मनुस्सेसु च संसरित्वा इमस्मिं बुद्धुप्पादे यसत्थेरस्स चतूसु गिहिसहायेसु गवम्पति नाम हुत्वा आयस्मतो यसस्स पब्बजितभावं सुत्वा अत्तनो सहायेहि सद्धिं भगवतो सन्तिकं अगमासि. सत्था तस्स धम्मं देसेसि. सो देसनावसाने सहायेहि सद्धिं अरहत्ते पतिट्ठासि. तेन वुत्तं अपदाने (अप. थेर २.५३.४२-४७) –

‘‘मिगलुद्दो पुरे आसिं, विपिने विचरं अहं;