८. जम्बुगामियपुत्तत्थेरगाथावण्णना
कच्चि नो वत्थपसुतोति आयस्मतो जम्बुगामियपुत्तत्थेरस्स गाथा. का उप्पत्ति? सो किर पुरिमबुद्धेसु कताधिकारो हुत्वा तत्थ तत्थ विवट्टूपनिस्सयं कुसलं आचिनन्तो इतो एकतिंसे कप्पे वेस्सभुस्स भगवतो काले एकदिवसं किंसुकानि पुप्फानि दिस्वा तानि पुप्फानि गहेत्वा बुद्धगुणे अनुस्सरन्तो भगवन्तं उद्दिस्स आकासे खिपन्तो पूजेसि. सो तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तो. ततो परं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं जम्बुगामियस्स नाम उपासकस्स पुत्तो हुत्वा निब्बत्ति. तेन पुञ्ञकम्मेन तावतिंसेसु निब्बत्तो. ततो परं पुञ्ञानि कत्वा अपरापरं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे चम्पायं जम्बुगामियस्स नाम उपासकस्स पुत्वा निब्बत्ति. तेनस्स जम्बुगामियपुत्तोत्वेव समञ्ञा अहोसि. सो वयप्पत्तो भगवतो सन्तिके धम्मं सुत्वा पटिलद्धसंवेगो पब्बजित्वा कतपुब्बकिच्चो कम्मट्ठानं गहेत्वा साकेते अञ्जनवने वसति. अथस्स पिता ‘‘किं नु खो मम पुत्तो सासने अभिरतो विहरति, उदाहु नो’’ति वीमंसनत्थं ‘‘कच्चि नो वत्थपसुतो’’ति गाथं लिखित्वा पेसेसि. सो तं वाचेत्वा, ‘‘पिता मे पमादविहारं आसङ्कति, अहञ्च अज्जापि पुथुज्जनभूमिं नातिवत्तो’’ति संवेगजातो घटेन्तो वायमन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर २.५०.२५-३०) –
‘‘किंसुकं पुप्फितं दिस्वा, पग्गहेत्वान अञ्जलिं;
बुद्धसेट्ठं सरित्वान, आकासे अभिपूजयिं.
‘‘तेन कम्मेन सुकतेन, चेतनापणिधीहि च;
जहित्वा मानुसं देहं, तावतिंसमगच्छहं.
‘‘एकतिंसे इतो कप्पे, यं कम्ममकरिं तदा;
दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा ञातीनं वसननगरं गन्त्वा सासनस्स निय्यानिकभावं पकासेन्तो इद्धिपाटिहारियं दस्सेसि. तं दिस्वा ञातका पसन्नमानसा बहू सङ्घारामे कारेसुं. थेरोपि सकपितरा पेसितं गाथं अङ्कुसं कत्वा घटेन्तो वायमन्तो अरहत्तं सच्छाकासि. अञ्ञं ब्याकरोन्तोपि पितुपूजनत्थं ‘‘कच्चि नो वत्थपसुतो’’ति तमेव गाथं अभासि.
२८. तत्थ कच्चीति पुच्छायं निपातो. नोति पटिसेधे. वत्थपसुतोति वत्थे पसुतो वत्थपसुतो, चीवरमण्डनाभिरतो. निदस्सनमत्तञ्चेतं पत्तमण्डनादिचापल्लपटिक्खेपस्सापि अधिप्पेतत्ता. ‘‘कच्चि न वत्थपसुतो’’तिपि पाठो, सो एवत्थो. भूसनारतोति अत्तभावविभूसनाय रतो अभिरतो, यथेकच्चे पब्बजित्वापि चपला कायदळ्हिबहुला चीवरादिपरिक्खारस्स अत्तनो सरीरस्स च मण्डनविभूसनट्ठानाय युत्ता होन्ति. किमेव परिक्खारपसुतो भूसनारतो च नाहोसीति अयमेत्थ पदद्वयस्सापि अत्थो. सीलमयं गन्धन्ति अखण्डादिभावापादनेन सुपरिसुद्धस्स चतुब्बिधस्सपि सीलस्स वसेन य्वायं ‘‘यो च सीलवतं पजाति न इतरा दुस्सीलपजा, दुस्सीलत्तायेव दुस्सिल्यमयं दुग्गन्धं वायति, एवं त्वं दुग्गन्धं अवायित्वा कच्चि सीलमयं गन्धं वायसीति अत्थो. अथ वा नेतरा पजाति न इतरा दुस्सीलपजा, तं कच्चि न होति, यतो सीलमयं गन्धं वायसीति ब्यतिरेकेन सीलगन्धवायनमेव विभावेति.
जम्बुगामियपुत्तत्थेरगाथावण्णना निट्ठिता.