९. कुलत्थेरगाथावण्णना

उदकञ्हि नयन्तीति आयस्मतो कुलत्थेरस्स गाथा. का उप्पत्ति? अयं किर थेरो पुब्बेपि विवट्टूपनिस्सयं बहुं कुसलं उपचिनित्वा अधिकारसम्पन्नो विपस्सिं भगवन्तं आकासे गच्छन्तं दिस्वा पसन्नमानसो नाळिकेरफलं दातुकामो अट्ठासि. सत्था तस्स चित्तं ञत्वा ओतरित्वा पटिग्गण्हि. सो अतिविय पसन्नचित्तो हुत्वा तेनेव सद्धापटिलाभेन सत्थारं उपसङ्कमित्वा पब्बज्जं याचि, सत्था अञ्ञतरं भिक्खुं आणापेसि – ‘‘इमं पुरिसं पब्बाजेही’’ति. सो पब्बजित्वा लद्धूपसम्पदो समणधम्मं कत्वा ततो चुतो छपि बुद्धन्तरानि देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्ति. कुलोतिस्स नामं अहोसि. सो वयप्पत्तो सासने लद्धप्पसादो भगवतो सन्तिके पब्बजित्वा विक्खेपबहुलताय विसेसं निब्बत्तेतुं नासक्खि. अथेकदिवसं गामं पिण्डाय पविसन्तो अन्तरामग्गे भूमिं खणित्वा उदकवाहकं कत्वा इच्छितिच्छितट्ठाने उदकं नेन्ते पुरिसे दिस्वा तं सल्लक्खेत्वा गामं पविट्ठो अञ्ञतरं उसुकारं उसुदण्डकं उसुयन्ते पक्खिपित्वा अक्खिकोटिया ओलोकेत्वा उजुं करोन्तं दिस्वा तम्पि सल्लक्खेत्वा गच्छन्तो पुरतो गन्त्वा अरनेमिनाभिआदिके रथचक्कावयवे तच्छन्ते तच्छके दिस्वा तम्पि सल्लक्खेत्वा विहारं पविसित्वा कतभत्तकिच्चो पत्तचीवरं पटिसामेत्वा दिवाविहारे निसिन्नो अत्तना दिट्ठनिमित्तानि उपमाभावेन गहेत्वा अत्तनो चित्तदमने उपनेन्तो ‘‘अचेतनं उदकम्पि मनुस्सा इच्छिकिच्छितट्ठानं नयन्ति तथा अचेतनं वङ्कम्पि सरदण्डं उपायेन नमेन्तो उजुं करोन्ति, तथा अचेतनं कट्ठकळिङ्गरादिं तच्छका नेमिआदिवसेन वङ्कं उजुञ्च करोन्ति. अथ कस्मा अहं सकचित्तं उजुं न करिस्सामी’’ति चिन्तेत्वा विपस्सनं पट्ठपेत्वा घटेन्तो वायमन्तो नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.९१-९९) –

‘‘नगरे बन्धुमतिया, आरामिको अहं तदा;

अद्दसं विरजं बुद्धं, गच्छन्तं अनिलञ्जसे.

‘‘नाळिकेरफलं गय्ह, बुद्धसेट्ठस्सदासहं;

आकासे ठितको सन्तो, पटिग्गण्हि महायसो.

‘‘वित्तिसञ्जननो मय्हं, दिट्ठधम्मसुखावहो;

फलं बुद्धस्स दत्वान, विप्पसन्नेन चेतसा.

‘‘अधिगच्छिं तदा पीतिं, विपुलञ्च सुखुत्तमं;

उप्पज्जतेव रतनं, निब्बत्तस्स तहिं तहिं.

‘‘एकनवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘दिब्बचक्खु विसुद्धं मे, समाधिकुसलो अहं;

अभिञ्ञापारमिप्पत्तो, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

एवं यानि निमित्तानि अङ्कुसे कत्वा विपस्सनं वड्ढेत्वा अरहत्तं पापुणि, तेहि सद्धिं अत्तनो चित्तदमनं संसन्दित्वा अञ्ञं ब्याकरोन्तो ‘‘उदकञ्हि नयन्ति नेत्तिका’’ति गाथं अभासि.

१९. तत्थ उदकं हीति हि-सद्दो निपातमत्तं. नयन्तीति पथविया तं तं थलट्ठानं खणित्वा निन्नट्ठानं पूरेत्वा मातिकं वा कत्वा रुक्खदोणिं वा ठपेत्वा अत्तनो इच्छितिच्छितट्ठानं नेन्ति. तथा ते नेन्तीति नेत्तिका. तेजनन्ति कण्डं. इदं वुत्तं होति – नेत्तिका अत्तनो रुचिया इच्छितिच्छितट्ठानं उदकं नयन्ति, उसुकारापि तापेत्वा तेजनं नमयन्ति उजुं करोन्ति. नमनवसेन तच्छका नेमिआदीनं अत्थाय तच्छन्ता दारुं नमयन्ति अत्तनो रुचिया उजुं वा वङ्कं वा करोन्ति. एवं एत्तकं आरम्मणं कत्वा सुब्बता यथासमादिन्नेन सीलादिना सुन्दरवता धीरा सोतापत्तिमग्गादीनं उप्पादेन्ता अत्तानं दमेन्ति, अरहत्तं पन पत्तेसु एकन्तदन्ता नाम होन्तीति.

कुलत्थेरगाथावण्णना निट्ठिता.