८. सिङ्गालपितुत्थेरगाथावण्णना

अहु बुद्धस्स दायादोति सिङ्गालकपितुत्थेरस्स गाथा. का उप्पत्ति? सो किर इतो चतुनवुते कप्पे सतरंसिं नाम पच्चेकसम्बुद्धं पिण्डाय चरन्तं दिस्वा पसन्नमानसो वन्दित्वा अत्तनो हत्थगतं तालफलं अदासि. तेन पुञ्ञकम्मेन देवलोके निब्बत्तो अपरापरं पुञ्ञानि कत्वा सुगतीसुयेव संसरन्तो कस्सपस्स भगवतो काले मनुस्सयोनियं निब्बत्तो सासने पटिलद्धसद्धो हुत्वा पब्बजित्वा अट्ठिकसञ्ञं भावेसि. पुन इमस्मिं बुद्धुप्पादे सावत्थियं कुलगेहे निब्बत्तित्वा वयप्पत्तो दारपरिग्गहं कत्वा एकं पुत्तं लभित्वा तस्स ‘‘सिङ्गालको’’ति नामं अकासि. तेन नं सिङ्गालकपिताति वोहरन्ति. सो अपरभागे घरबन्धनं पहाय सासने पब्बजि. तस्स भगवा अज्झासयं ओलोकेन्तो अट्ठिकसञ्ञाकम्मट्ठानं अदासि. सो तं गहेत्वा भग्गेसु विहरति सुसुमारगिरे भेसकळावने, अथस्स तस्मिं वने अधिवत्था देवता उस्साहजननत्थं ‘‘भावनाफलं नचिरस्सेव हत्थगतं करिस्सती’’ति इममत्थं अञ्ञापदेसेन विभावेन्ती ‘‘अहु बुद्धस्स दायादो’’ति गाथं अभासि.

१८. तत्थ अहूति होति, वत्तमानत्थे हि इदं अतीतकालवचनं. बुद्धस्साति सब्बञ्ञुबुद्धस्स. दायादोति धम्मदायादो नवविधस्स लोकुत्तरधम्मदायस्स अत्तनो सम्मापटिपत्तिया आदायको गण्हनको. अथ वा अहूति अहोसि. एवंनामस्स बुद्धस्स दायादभावे कोचि विबन्धो इदानेव भविस्सतीति अधिप्पायो. तेनाह ‘‘मञ्ञेहं कामरागं सो, खिप्पमेव वहिस्सती’’ति. भेसकळावनेति भेसकेन नाम यक्खेन लभितत्ता परिग्गहितत्ता, भेसकळानं वा कट्ठादीनं बहुलताय ‘‘भेसकळावन’’न्ति लद्धनामे अरञ्ञे. तस्स भिक्खुनो बुद्धस्स दायादभावे कारणं वदन्तो ‘‘केवलं अट्ठिसञ्ञाय, अफरी पथविं इम’’न्ति आह. तत्थ केवलन्ति सकलं अनवसेसं. अट्ठिसञ्ञायाति अट्ठिकभावनाय. अफरीति ‘‘अट्ठी’’ति अधिमुच्चनवसेन पत्थरि. पथविन्ति अत्तभावपथविं. अत्तभावो हि इध ‘‘पथवी’’ति वुत्तो ‘‘को इमं पथविं विच्चेस्सती’’तिआदीसु विय. मञ्ञेहन्ति मञ्ञे अहं. ‘‘मञ्ञाह’’न्तिपि पाठो. सोति सो भिक्खु. खिप्पमेव नचिरस्सेव कामरागं पहिस्सति पजहिस्सतीति मञ्ञे. कस्मा? अट्ठिकसञ्ञाय कामरागस्स उजुपटिपक्खभावतो. इदं वुत्तं होति – यो एकस्मिं पदेसे लद्धाय अत्थिकसञ्ञाय सकलं अत्तनो सब्बेसं वा अत्तभावं ‘‘अट्ठी’’त्वेव फरित्वा ठितो, सो भिक्खु तं अट्ठिकझानं पादकं कत्वा विपस्सन्तो नचिरेनेव अनागामिमग्गेन कामरागं, सब्बं वा कामनट्ठेन ‘‘कामो’’, रञ्जनट्ठेन ‘‘रागो’’ति च लद्धनामं तण्हं अग्गमग्गेन पजहिस्सतीति. इमं गाथं सुत्वा सो थेरो ‘‘अयं देवता मय्हं उस्साहजननत्थं एवमाहा’’ति अप्पटिवानवीरियं अधिट्ठाय विपस्सनं वड्ढेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर २.५१.८५-९०) –

‘‘सतरंसी नाम भगवा, सयम्भू अपराजितो;

विवेका उट्ठहित्वान, गोचरायाभिनिक्खमि.

‘‘फलहत्थो अहं दिस्वा, उपगच्छिं नरासभं;

पसन्नचित्तो सुमनो, तालफलमदासहं.

‘‘चतुन्नवुतितो कप्पे, यं फलं अददिं तदा;

दुग्गतिं नाभिजानामि, फलदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा ताय देवताय वुत्तवचनं पतिमानेन्तो तमेव गाथं उदानवसेन अभासि. तदेवस्स थेरस्स अञ्ञाब्याकरणं अहोसीति.

सिङ्गालपितुत्थेरगाथावण्णना निट्ठिता.