५. महानामत्थेरगाथावण्णना

एसावहिय्यसे पब्बतेनाति आयस्मतो महानामत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणविज्जासु निप्फत्तिं गतो घरावासं पहाय अञ्ञतराय नदिया तीरे अस्समं कारेत्वा सम्बहुले ब्राह्मणे मन्ते वाचेन्तो विहरति. अथेकदिवसं भगवा तं अनुग्गण्हितुं तस्स असमपदं उपगच्छि. सो भगवन्तं दिस्वा पसन्नचित्तो आसनं पञ्ञापेत्वा अदासि. निसिन्ने भगवति सुमधुरं मधुं उपनामेसि. तं भगवा परिभुञ्जित्वा हेट्ठा अधिमुत्तत्थेरवत्थुम्हि वुत्तनयेन अनागतं ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा महानामोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिकं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा नेसादके नाम पब्बते विहरन्तो किलेसपरियुट्ठानं विक्खम्भेतुं असक्कोन्तो ‘‘किं मे इमिना संकिलिट्ठचित्तस्स जीवितेना’’ति अत्तभावं निब्बिन्दन्तो उच्चं पब्बतसिखरं अभिरुहित्वा ‘‘इतो पातेत्वा तं मारेस्सामी’’ति अत्तानं परं विय निद्दिसन्तो –

११५. ‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्लकिकेन;

नेसादकेन गिरिना, यसस्सिना परिच्छदेना’’ति. – गाथं अभासि;

तत्थ एसावहिय्यसेति एसो त्वं महानाम अवहिय्यसे परिहायसि. पब्बतेनाति निवासट्ठानभूतेन इमिना पब्बतेन. बहुकुटजसल्लकिकेनाति बहूहि कुटजेहि इन्दसालरुक्खेहि सल्लकीहि इन्दसालरुक्खेहि वा समन्नागतेन. नेसादकेनाति एवंनामकेन. गिरिनाति सेलेन. सेलो हि सन्धिसङ्खातेहि पब्बेहि ठितत्ता ‘‘पब्बतो’’ति, पसवनादिवसेन जलस्स, सारभूतानं भेसज्जादिवत्थूनञ्च गिरणतो ‘‘गिरी’’ति वुच्चति. तदुभयत्थसम्भवतो पनेत्थ ‘‘पब्बतेना’’ति वत्वा ‘‘गिरिना’’ति च वुत्तं. यसस्सिनाति सब्बगुणेहि विस्सुतेन पकासेन. परिच्छदेनाति नानाविधरुक्खगच्छलताहि समन्ततो छन्नेन, वसनट्ठानताय वा तुय्हं परिच्छदभूतेन. अयञ्हेत्थ अधिप्पायो – महानाम, यदि कम्मट्ठानं विस्सज्जेत्वा वितक्कबहुलो होसि, एवं त्वं इमिना छायूदकसम्पन्नेन सप्पायेन निवासनट्ठानभूतेन नेसादकगिरिना परिहायसि, इदानिहं तं इतो पातेत्वा मारेस्सामि, तस्मा न लब्भा वितक्कवसिकेन भवितुन्ति. एवं थेरो अत्तानं सन्तज्जेन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३३३-३५२) –

‘‘सिन्धुया नदिया तीरे, सुकतो अस्समो मम;

तत्थ वाचेमहं सिस्से, इतिहासं सलक्खणं.

‘‘धम्मकामा विनीता ते, सोतुकामा सुसासनं;

छळङ्गे पारमिप्पत्ता, सिन्धुकूले वसन्ति ते.

‘‘उप्पातगमने चेव, लक्खणेसु च कोविदा;

उत्तमत्थं गवेसन्ता, वसन्ति विपिने तदा.

‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

अम्हाकं अनुकम्पन्तो, उपागच्छि विनायको.

‘‘उपागतं महावीरं, सुमेधं लोकनायकं;

तिणसन्थारकं कत्वा, लोकजेट्ठस्सदासहं.

‘‘विपिनातो मधुं गय्ह, बुद्धसेट्ठस्सदासहं;

सम्बुद्धो परिभुञ्जित्वा, इदं वचनमब्रवि.

‘‘यो तं अदासि मधुं मे, पसन्नो सेहि पाणिभि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘इमिना मधुदानेन, तिणसन्थारकेन च;

तिंस कप्पसहस्सानि, देवलोके रमिस्सति.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘देवलोका इधागन्त्वा, मातुकुच्छिं उपागते;

मधुवस्सं पवस्सित्थ, छादयं मधुना महिं.

‘‘मयि निक्खन्तमत्तम्हि, कुच्छिया च सुदुत्तरा;

तत्रापि मधुवस्सं मे, वस्सते निच्चकालिकं.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

लाभी अन्नस्स पानस्स, मधुदानस्सिदं फलं.

‘‘सब्बकामसमिद्धोहं, भवित्वा देवमानुसे;

तेनेव मधुदानेन, पत्तोम्हि आसवक्खयं.

‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, सम्पुप्फिते धरणीरुहे सञ्छन्ने;

सुञ्ञे घरे मण्डपरुक्खमूलके, वसामि निच्चं सुखितो अनासवो.

‘‘मज्झे महन्ते हीने च, भवे सब्बे अतिक्कमिं;

अज्ज मे आसवा खीणा, नत्थि दानि पुनब्भवो.

‘‘तिंसकप्पसहस्सम्हि, यं दानमददिं तदा;

दुग्गतिं नाभिजानामि, मधुदानस्सिदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

महानामत्थेरगाथावण्णना निट्ठिता.