१२. द्वादसमवग्गो

१. जेन्तत्थेरगाथावण्णना

दुप्पब्बज्जं वे दुरधिवासा गेहाति आयस्मतो जेन्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलं उपचिनन्तो सिखिस्स भगवतो काले देवपुत्तो हुत्वा निब्बत्ति. सो एकदिवसं सत्थारं दिस्वा पसन्नचित्तो किंकिरातपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे जेन्तगामे एकस्स मण्डलिकराजस्स पुत्तो हुत्वा निब्बत्ति, जेन्तोतिस्स नामं अहोसि. सो विञ्ञुतं पत्तो दहरकालेयेव हेतुसम्पत्तिया चोदियमानो पब्बज्जानिन्नमानसो हुत्वा पुन चिन्तेसि – ‘‘पब्बज्जा नाम दुक्करा, घरापि दुरावासा, धम्मो च गम्भीरो, भोगा च दुरधिगमा, किं नु खो कत्तब्ब’’न्ति एवं पन चिन्ताबहुलो हुत्वा विचरन्तो एकदिवसं सत्थु सन्तिकं गन्त्वा धम्मं सुणि. सुतकालतो पट्ठाय पब्बज्जाभिरतो हुत्वा सत्थु सन्तिके पब्बजित्वा कम्मट्ठानं गहेत्वा विपस्सनं वड्ढेत्वा सुखाय पटिपदाय खिप्पाभिञ्ञाय अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१६.२१-२४) –

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

कक्कारुपुप्फं पग्गय्ह, बुद्धस्स अभिरोपयिं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो च नवमे कप्पे, राजा सत्तुत्तमो अहुं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खन्तो, ‘‘असक्खिं वताहं आदितो मय्हं उप्पन्नवितक्कं छिन्दितु’’न्ति सोमनस्सजातो वितक्कस्स उप्पन्नाकारं तस्स च सम्मदेव छिन्नतं दस्सेन्तो –

१११. ‘‘दुप्पब्बज्जं वे दुरधिवासा गेहा, धम्मो गम्भीरो दुरधिगमा भोगा;

किच्छा वुत्ति नो इतरीतरेनेव, युत्तं चिन्तेतुं सततमनिच्चत’’न्ति. –

गाथं अभासि.

तत्थ दुप्पब्बज्जन्ति अप्पं वा महन्तं वा भोगक्खन्धञ्चेव ञातिपरिवट्टञ्च पहाय इमस्मिं सासने उरं दत्वा पब्बजनस्स दुक्करत्ता दुक्खं पब्बजनं, दुक्करा पब्बज्जाति दुप्पब्बज्जं. वेति निपातमत्तं, दळ्हत्थो वा ‘‘पब्बज्जा दुक्खा’’ति. गेहञ्चे आवसेय्यं, दुरधिवासा गेहा, यस्मा गेहं अधिवसन्तेन रञ्ञा राजकिच्चं, इस्सरेन इस्सरकिच्चं, गहपतिना गहपतिकिच्चं कत्तब्बं होति, परिजनो चेव समणब्राह्मणा च सङ्गहेतब्बा, तस्मिं तस्मिञ्च कत्तब्बे करियमानेपि घरावासो छिद्दघटो विय महासमुद्दो विय च दुप्पूरो, तस्मा गेहा नामेते अधिवसितुं आवसितुं दुक्खा दुक्कराति कत्वा दुरधिवासा दुरावासाति. पब्बज्जञ्चे अनुतिट्ठेय्यं धम्मो गम्भीरो, यदत्था पब्बज्जा, सो पब्बजितेन अधिगन्तब्बो पटिवेधसद्धम्मो गम्भीरो, गम्भीरञाणगोचरत्ता दुद्दसो, दुप्पटिविज्झो धम्मस्स गम्भीरभावेन दुप्पटिविज्झत्ता. गेहञ्चे आवसेय्यं, दुरधिगमा भोगा येहि विना न सक्का गेहं आवसितुं, ते भोगा दुक्खेन कसिरेन अधिगन्तब्बताय दुरधिगमा. एवं सन्ते घरावासं पहाय पब्बज्जंयेव अनुतिट्ठेय्यं, एवम्पि किच्छा वुत्ति नो इतरीतरेन इध इमस्मिं बुद्धसासने इतरीतरेन यथालद्धेन पच्चयेन अम्हाकं वुत्ति जीविका किच्छा दुक्खा, घरावासानं दुरधिवासताय भोगानञ्च दुरधिगमताय गेहे इतरीतरेन पच्चयेन यापेतब्बताय किच्छा कसिरा वुत्ति अम्हाकं, तत्थ किं कातुं वट्टतीति? युत्तं चिन्तेतुं सततमनिच्चतं सकलं दिवसं पुब्बरत्तापररत्तञ्च तेभूमकधम्मजातं अनिच्चतन्ति, ततो उप्पादवयवन्ततो आदिअन्तवन्ततो तावकालिकतो च न निच्चन्ति ‘‘अनिच्च’’न्ति चिन्तेतुं विपस्सितुं युत्तं. अनिच्चानुपस्सनाय सिद्धाय इतरानुपस्सना सुखेनेव सिज्झन्तीति अनिच्चानुपस्सनाव एत्थ वुत्ता, अनिच्चस्स दुक्खानत्ततानं अब्यभिचरणतो सासनिकस्स सुखग्गहणतो च. तेनाह – ‘‘यदनिच्चं तं दुक्खं, यं दुक्खं तदनत्ता’’ति (सं. नि. ३.१५), ‘‘यं किञ्चि समुदयधम्मं, सब्बं तं निरोधधम्मं’’ (महाव. १६; दी. नि. २.३७१; सं. नि. ५.१०८१), ‘‘वयधम्मा सङ्खारा’’ति (दी. नि. २.२१८) च तदमिना एवं अञ्ञमञ्ञं पटिपक्खवसेन अपरापरं उप्पन्ने वितक्के निग्गहेत्वा अनिच्चतामुखेन विपस्सनं आरभित्वा इदानि कतकिच्चो जातोति दस्सेति. तेन वुत्तं ‘‘अत्तनो पटिपत्ति’’न्तिआदि. इदमेव थेरस्स अञ्ञाब्याकरणं अहोसि.

जेन्तत्थेरगाथावण्णना निट्ठिता.

२. वच्छगोत्तत्थेरगाथावण्णना

तेविज्जोहं महाझायीति आयस्मतो वच्छगोत्तत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले बन्धुमतीनगरे कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो एकदिवसं रञ्ञा नागरेहि च सद्धिं बुद्धपूजं कत्वा ततो परं देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, तस्स वच्छगोत्तताय वच्छगोत्तोत्वेव समञ्ञा अहोसि. सो विञ्ञुतं पत्वा ब्राह्मणविज्जासु निप्फत्तिं गतो विमुत्तिं गवेसन्तो तत्थ सारं अदिस्वा परिब्बाजकपब्बज्जं पब्बजित्वा विचरन्तो सत्थारं उपसङ्कमित्वा पञ्हं पुच्छित्वा तस्मिं विस्सज्जिते पसन्नमानसो सत्थु सन्तिके पब्बजित्वा विपस्सनाय कम्मं करोन्तो नचिरस्सेव छळभिञ्ञो अहोसि. तेन वुत्तं अपदाने (अप. थेर १.१६.१५-२०) –

‘‘उदेन्तं सतरंसिंव, पीतरंसिंव भाणुमं;

पन्नरसे यथा चन्दं, निय्यन्तं लोकनायकं.

‘‘अट्ठसट्ठिसहस्सानि, सब्बे खीणासवा अहुं;

परिवारिंसु सम्बुद्धं, द्विपदिन्दं नरासभं.

‘‘सम्मज्जित्वान तं वीथिं, निय्यन्ते लोकनायके;

उस्सापेसिं धजं तत्थ, विप्पसन्नेन चेतसा.

‘‘एकनवुतितो कप्पे, यं धजं अभिरोपयिं;

दुग्गतिं नाभिजानामि, धजदानस्सिदं फलं.

‘‘इतो चतुत्थके कप्पे, राजाहोसिं महब्बलो;

सब्बाकारेन सम्पन्नो, सुधजो इति विस्सुतो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

छळभिञ्ञो पन हुत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सोमनस्सजातो उदानवसेन –

११२. ‘‘तेविज्जोहं महाझायी, चेतोसमथकोविदो;

सदत्थो मे अनुप्पत्तो, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;

तत्थ तेविज्जोहन्ति यदिपि मं पुब्बे तिण्णं वेदानं पारं गतत्ता ‘‘ब्राह्मणो तेविज्जो’’ति सञ्जानन्ति, तं पन समञ्ञामत्तं वेदेसु विज्जाकिच्चस्स अभावतो. इदानि पन पुब्बेनिवासञाणादीनं तिस्सन्नं विज्जानं अधिगतत्ता परमत्थतो तेविज्जो अहं, महन्तस्स अनवसेसस्स समुदयपक्खियस्स किलेसगणस्स झापनतो, महन्तेन मग्गफलझानेन महन्तस्स उळारस्स पणीतस्स निब्बानस्स झायनतो च महाझायी. चेतोसमथकोविदोति चित्तसङ्खोभकरानं संकिलेसधम्मानं वूपसमनेन चेतसो समादहने कुसलो. एतेन तेविज्जभावस्स कारणमाह. समाधिकोसल्लसहितेन हि आसवक्खयेन तेविज्जता, न केवलेन. सदत्थोति सकत्थो क-कारस्सायं द-कारो कतो ‘‘अनुप्पत्तसदत्थो’’तिआदीसु (म. नि. १.९; अ. नि. ३.३८) विय. ‘‘सदत्थो’’ति च अरहत्तं वेदितब्बं. तञ्हि अत्तपटिबन्धट्ठेन अत्तानं अविजहनट्ठेन अत्तनो परमत्थट्ठेन अत्तनो अत्थत्ता ‘‘सकत्थो’’ति वुच्चति. स्वायं सदत्थो मे मया अनुप्पत्तो अधिगतो. एतेन यथावुत्तं महाझायिभावं सिखापत्तं कत्वा दस्सेति. सेसं वुत्तनयमेव.

वच्छगोत्तत्थेरगाथावण्णना निट्ठिता.

३. वनवच्छत्थेरगाथावण्णना

अच्छोदिका पुथुसिलाति आयस्मतो वनवच्छत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयं कुसलबीजं रोपेन्तो विपस्सिस्स भगवतो काले कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो परस्स कम्मं कत्वा जीवन्तो कस्सचि अपराधं कत्वा मरणभयेन तज्जितो पलायन्तो अन्तरामग्गे बोधिरुक्खं दिस्वा पसन्नमानसो तस्स मूलं सम्मज्जित्वा पिण्डिबन्धेहि असोकपुप्फेहि पूजं कत्वा वन्दित्वा बोधिं अभिमुखो नमस्समानो पल्लङ्केन निसिन्नो मारेतुं आगते पच्चत्थिके दिस्वा तेसु चित्तं अकोपेत्वा बोधिं एव आवज्जेन्तो सतपोरिसे पपाते पपति. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं पुञ्ञानि कत्वा देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे राजगहे विभवसम्पन्नस्स ब्राह्मणस्स पुत्तो हुत्वा निब्बत्ति, ‘‘वच्छो’’तिस्स नामं अहोसि. सो वयप्पत्तो बिम्बिसारसमागमे पटिलद्धसद्धो पब्बजित्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.७-१४) –

‘‘परकम्मायने युत्तो, अपराधं अकासहं;

वनन्तं अभिधाविस्सं, भयवेरसमप्पितो.

‘‘पुप्फितं पादपं दिस्वा, पिण्डिबन्धं सुनिम्मितं;

तम्बपुप्फं गहेत्वान, बोधियं ओकिरिं अहं.

‘‘सम्मज्जित्वान तं बोधिं, पाटलिं पादपुत्तमं;

पल्लङ्कं आभुजित्वान, बोधिमूले उपाविसिं.

‘‘गतमग्गं गवेसन्ता, आगच्छुं मम सन्तिकं;

ते च दिस्वानहं तत्थ, आवज्जिं बोधिमुत्तमं.

‘‘वन्दित्वान अहं बोधिं, विप्पसन्नेन चेतसा;

अनेकताले पपतिं, गिरिदुग्गे भयानके.

‘‘एकनवुतितो कप्पे, यं पुप्फमभिरोपयिं;

दुग्गतिं नाभिजानामि, बोधिपूजायिदं फलं.

‘‘इतो च ततिये कप्पे, राजा सुसञ्ञतो अहं;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा विवेकाभिरतिया वनेयेव वसि, तेन वनवच्छोति समञ्ञा उदपादि. अथ कदाचि थेरो ञातिजनानुग्गहत्थं राजगहं गतो तत्थ ञातकेहि उपट्ठियमानो कतिपाहं वसित्वा गमनाकारं सन्दस्सेति. तं ञातका, ‘‘भन्ते, अम्हाकं अनुग्गहत्थं धुरविहारे वसथ, मयं उपट्ठहिस्सामा’’ति याचिंसु. थेरो तेसं पब्बतरामणेय्यकित्तनापदेसेन विवेकाभिरतिं निवेदेन्तो –

११३. ‘‘अच्छोदिका पुथुसिला, गोनङ्गुलमिगायुता;

अम्बुसेवालसञ्छन्ना, ते सेला रमयन्ति म’’न्ति. – गाथं अभासि;

तत्थ अच्छोदिकाति अच्छं अबहलं सुखुमं उदकं एतेसूति ‘‘अच्छोदका’’ति वत्तब्बे लिङ्गविपल्लासेन अच्छोदिका’’ति वुत्तं. एतेन तेसं उदकसम्पत्तिं दस्सेति. पुथुसिलाति पुथुला वित्थता मुदुसुखसम्फस्सा सिला एतेसूति पुथुसिला. एतेन निसज्जनट्ठानसम्पत्तिं दस्सेति. गुन्नं विय नङ्गुलं नङ्गुट्ठं एतेसन्ति गोनङ्गुला, काळमक्कटा, ‘‘पकतिमक्कटा’’तिपि वदन्तियेव. गोनङ्गुलेहि च पसदादिकेहि मिगेहि च तहं तहं विचरन्तेहि आयुता मिस्सिताति गोनङ्गुलमिगायुता. एतेन तेसं अमनुस्सूपचारिताय अरञ्ञलक्खणूपेततं दस्सेति. अम्बुसेवालसञ्छन्नाति पसवनतो सततं पग्घरमानसलिलताय तहं तहं उदकसेवालसञ्छादिता. ते सेला रमयन्ति मन्ति यत्थाहं वसामि; ते एदिसा सेला पब्बता विवेकाभिरतिया मं रमयन्ति, तस्मा तत्थेवाहं गच्छामीति अधिप्पायो. इदमेव च थेरस्स अञ्ञाब्याकरणं अहोसि.

वनवच्छत्थेरगाथावण्णना निट्ठिता.

४. अधिमुत्तत्थेरगाथावण्णना

कायदुट्ठुल्लगरुनोति आयस्मतो अधिमुत्तत्थेरस्स गाथा. का उप्पत्ति? सो किर पदुमुत्तरस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गतो कामेसु आदीनवं दिस्वा घरावासं पहाय तापसपब्बज्जं पब्बजित्वा अरञ्ञे विहरन्तो बुद्धुप्पादं सुत्वा मनुस्सूपचारं उपगन्त्वा सत्थारं भिक्खुसङ्घपरिवुतं गच्छन्तं दिस्वा पसन्नमानसो अत्तनो वाकचीरं सत्थु पादमूले पत्थरि. सत्था तस्स अज्झासयं ञत्वा तस्मिं अट्ठासि. तत्थ ठितं भगवन्तं काळानुसारेन गन्धेन पूजेत्वा ‘‘समुद्धरसिमं लोक’’न्तिआदिकाहि दसहि गाथाहि अभित्थवि. तं सत्था ‘‘अनागते इतो सतसहस्सकप्पमत्थके गोतमस्स नाम सम्मासम्बुद्धस्स सासने पब्बजित्वा छळभिञ्ञो भविस्सती’’ति ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा ततो यावायं बुद्धुप्पादो, ताव देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा अधिमुत्तोति लद्धनामो विञ्ञुतं पत्तो ब्राह्मणविज्जासु निप्फत्तिं गन्त्वा तत्थ सारं अपस्सन्तो पच्छिमभविकत्ता निस्सरणं गवेसन्तो जेतवनपटिग्गहणे बुद्धानुभावं दिस्वा पटिलद्धसद्धो सत्थु सन्तिके पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३०४-३३२) –

‘‘कणिकारंव जलितं, दीपरुक्खंव उज्जलं;

ओसधिंव विरोचन्तं, विज्जुतं गगने यथा.

‘‘असम्भीतं अनुत्तासिं, मिगराजंव केसरिं;

ञाणालोकं पकासेन्तं, मद्दन्तं तित्थिये गणे.

‘‘उद्धरन्तं इमं लोकं, छिन्दन्तं सब्बसंसयं;

गज्जन्तं मिगराजंव, अद्दसं लोकनायकं.

‘‘जटाजिनधरो आसिं, ब्रहा उजु पतापवा;

वाकचीरं गहेत्वान, पादमूले अपत्थरिं.

‘‘काळानुसारियं गय्हं, अनुलिम्पिं तथागतं;

सम्बुद्धमनुलिम्पेत्वा, सन्थविं लोकनायकं.

‘‘समुद्धरसिमं लोकं, ओघतिण्ण महामुनि;

ञाणालोकेन जोतेसि, नावटं ञाणमुत्तमं.

‘‘धम्मचक्कं पवत्तेसि, मद्दसे परतित्थिये;

उसभो जितसङ्गामो, सम्पकम्पेसि मेदनिं.

‘‘महासमुद्दे ऊमियो, वेलन्तम्हि पभिज्जरे;

तथेव तव ञाणम्हि, सब्बदिट्ठी पभिज्जरे.

‘‘सुखुमच्छिकजालेन, सरम्हि सम्पतानिते;

अन्तोजालीकता पाणा, पीळिता होन्ति तावदे.

‘‘तथेव तित्थिया लोके, पुथुपासण्डनिस्सिता;

अन्तोञाणवरे तुय्हं, परिवत्तन्ति मारिस.

‘‘पतिट्ठा वुय्हतं ओघे, त्वञ्हि नाथो अबन्धुनं;

भयट्टितानं सरणं, मुत्तित्थीनं परायणं.

‘‘एकवीरो असदिसो, मेत्ताकरुणसञ्चयो;

असमो सुसमो सन्तो, वसी तादी जितञ्जयो.

‘‘धीरो विगतसम्मोहो, अनेजो अकथंकथी;

तुसितो वन्तदोसोसि, निम्मलो संयतो सुचि.

‘‘सङ्गातिगो हतमदो, तेविज्जो तिभवन्तगो;

सीमातिगो धम्मगरु, गतत्थो हितवब्भुतो.

‘‘तारको त्वं यथा नावा, निधीवस्सासकारको;

असम्भीतो यथा सीहो, गजराजाव दप्पितो.

‘‘थोमेत्वा दसगाथाहि, पदुमुत्तरं महायसं;

वन्दित्वा सत्थुनो पादे, तुण्ही अट्ठासहं तदा.

‘‘पदुमुत्तरो लोकविदू, आहुतीनं पटिग्गहो;

भिक्खुसङ्घे ठितो सत्था, इमा गाथा अभासथ.

‘‘यो मे सीलञ्च ञाणञ्च, सद्धम्मञ्चापि वण्णयि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘सट्ठि कप्पसहस्सानि, देवलोके रमिस्सति;

अञ्ञे देवेभिभवित्वा, इस्सरं कारयिस्सति.

‘‘सो पच्छा पब्बजित्वान, सुक्कमूलेन चोदितो;

गोतमस्स भगवतो, सासने पब्बजिस्सति.

‘‘पब्बजित्वान कायेन, पापकम्मं विवज्जिय;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘यथापि मेघो थनयं, तप्पेति मेदनिं इमं;

तथेव त्वं महावीर, धम्मेन तप्पयी ममं.

‘‘सीलं पञ्ञञ्च धम्मञ्च, थवित्वा लोकनायकं;

पत्तोम्हि परमं सन्तिं, निब्बानं पदमच्चुतं.

‘‘अहो नून स भगवा, चिरं तिट्ठेय्य चक्खुमा;

अञ्ञातञ्च विजानेय्युं, फुसेय्युं अमतं पदं.

‘‘अयं मे पच्छिमा जाति, भवा सब्बे समूहता;

सब्बासवे परिञ्ञाय, विहरामि अनासवो.

‘‘सतसहस्सितो कप्पे, यं बुद्धमभिथोमयिं;

दुग्गतिं नाभिजानामि, कित्तनाय इदं फलं.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अरहत्तं पन पत्वा अत्तना सह वसन्ते कायदळ्हिबहुले भिक्खू ओवदन्तो –

११४. ‘‘कायदुट्ठुल्लगरुनो, हिय्यमानम्हि जीविते;

सरीरसुखगिद्धस्स, कुतो समणसाधुता’’ति. – गाथं अभासि;

तत्थ कायदुट्ठुल्लगरुनोति दुट्ठुल्लं असुभयोग्यता, कायस्स दुट्ठुल्लं कायदुट्ठुल्लं, कायदुट्ठुल्लं गरु सम्भावितं यस्स सो कायदुट्ठुल्लगरु, अनिस्सरणप्पञ्ञो हुत्वा कायपोसनप्पसुतो कायदळ्हिबहुलोति अत्थो, तस्स कायदुट्ठुल्लगरुनो. हिय्यमानम्हि जीवितेति कुन्नदीनं उदकं विय जीवितसङ्खारे लहुसो खीयमाने. सरीरसुखगिद्धस्साति पणीताहारादीहि अत्तनो कायस्स सुखेन गेधं आपन्नस्स. कुतो समणसाधुताति एवरूपस्स पुग्गलस्स समणभावेन साधुता सुसमणता कुतो केन कारणेन सिया, एकंसतो पन काये जीविते च निरपेक्खस्स इतरीतरसन्तोसेन सन्तुट्ठस्स आरद्धवीरियस्सेव समणसाधुताति अधिप्पायो.

अधिमुत्तत्थेरगाथावण्णना निट्ठिता.

५. महानामत्थेरगाथावण्णना

एसावहिय्यसे पब्बतेनाति आयस्मतो महानामत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे पुञ्ञानि उपचिनन्तो सुमेधस्स भगवतो काले ब्राह्मणकुले निब्बत्तित्वा ब्राह्मणविज्जासु निप्फत्तिं गतो घरावासं पहाय अञ्ञतराय नदिया तीरे अस्समं कारेत्वा सम्बहुले ब्राह्मणे मन्ते वाचेन्तो विहरति. अथेकदिवसं भगवा तं अनुग्गण्हितुं तस्स असमपदं उपगच्छि. सो भगवन्तं दिस्वा पसन्नचित्तो आसनं पञ्ञापेत्वा अदासि. निसिन्ने भगवति सुमधुरं मधुं उपनामेसि. तं भगवा परिभुञ्जित्वा हेट्ठा अधिमुत्तत्थेरवत्थुम्हि वुत्तनयेन अनागतं ब्याकरित्वा पक्कामि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव परिवत्तेन्तो इमस्मिं बुद्धुप्पादे सावत्थियं ब्राह्मणकुले निब्बत्तित्वा महानामोति लद्धनामो विञ्ञुतं पत्तो भगवतो सन्तिकं उपसङ्कमित्वा धम्मं सुत्वा पटिलद्धसद्धो पब्बजित्वा कम्मट्ठानं गहेत्वा नेसादके नाम पब्बते विहरन्तो किलेसपरियुट्ठानं विक्खम्भेतुं असक्कोन्तो ‘‘किं मे इमिना संकिलिट्ठचित्तस्स जीवितेना’’ति अत्तभावं निब्बिन्दन्तो उच्चं पब्बतसिखरं अभिरुहित्वा ‘‘इतो पातेत्वा तं मारेस्सामी’’ति अत्तानं परं विय निद्दिसन्तो –

११५. ‘‘एसावहिय्यसे पब्बतेन, बहुकुटजसल्लकिकेन;

नेसादकेन गिरिना, यसस्सिना परिच्छदेना’’ति. – गाथं अभासि;

तत्थ एसावहिय्यसेति एसो त्वं महानाम अवहिय्यसे परिहायसि. पब्बतेनाति निवासट्ठानभूतेन इमिना पब्बतेन. बहुकुटजसल्लकिकेनाति बहूहि कुटजेहि इन्दसालरुक्खेहि सल्लकीहि इन्दसालरुक्खेहि वा समन्नागतेन. नेसादकेनाति एवंनामकेन. गिरिनाति सेलेन. सेलो हि सन्धिसङ्खातेहि पब्बेहि ठितत्ता ‘‘पब्बतो’’ति, पसवनादिवसेन जलस्स, सारभूतानं भेसज्जादिवत्थूनञ्च गिरणतो ‘‘गिरी’’ति वुच्चति. तदुभयत्थसम्भवतो पनेत्थ ‘‘पब्बतेना’’ति वत्वा ‘‘गिरिना’’ति च वुत्तं. यसस्सिनाति सब्बगुणेहि विस्सुतेन पकासेन. परिच्छदेनाति नानाविधरुक्खगच्छलताहि समन्ततो छन्नेन, वसनट्ठानताय वा तुय्हं परिच्छदभूतेन. अयञ्हेत्थ अधिप्पायो – महानाम, यदि कम्मट्ठानं विस्सज्जेत्वा वितक्कबहुलो होसि, एवं त्वं इमिना छायूदकसम्पन्नेन सप्पायेन निवासनट्ठानभूतेन नेसादकगिरिना परिहायसि, इदानिहं तं इतो पातेत्वा मारेस्सामि, तस्मा न लब्भा वितक्कवसिकेन भवितुन्ति. एवं थेरो अत्तानं सन्तज्जेन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.४०.३३३-३५२) –

‘‘सिन्धुया नदिया तीरे, सुकतो अस्समो मम;

तत्थ वाचेमहं सिस्से, इतिहासं सलक्खणं.

‘‘धम्मकामा विनीता ते, सोतुकामा सुसासनं;

छळङ्गे पारमिप्पत्ता, सिन्धुकूले वसन्ति ते.

‘‘उप्पातगमने चेव, लक्खणेसु च कोविदा;

उत्तमत्थं गवेसन्ता, वसन्ति विपिने तदा.

‘‘सुमेधो नाम सम्बुद्धो, लोके उप्पज्जि तावदे;

अम्हाकं अनुकम्पन्तो, उपागच्छि विनायको.

‘‘उपागतं महावीरं, सुमेधं लोकनायकं;

तिणसन्थारकं कत्वा, लोकजेट्ठस्सदासहं.

‘‘विपिनातो मधुं गय्ह, बुद्धसेट्ठस्सदासहं;

सम्बुद्धो परिभुञ्जित्वा, इदं वचनमब्रवि.

‘‘यो तं अदासि मधुं मे, पसन्नो सेहि पाणिभि;

तमहं कित्तयिस्सामि, सुणाथ मम भासतो.

‘‘इमिना मधुदानेन, तिणसन्थारकेन च;

तिंस कप्पसहस्सानि, देवलोके रमिस्सति.

‘‘तिंसकप्पसहस्सम्हि, ओक्काककुलसम्भवो;

गोतमो नाम गोत्तेन, सत्था लोके भविस्सति.

‘‘तस्स धम्मेसु दायादो, ओरसो धम्मनिम्मितो;

सब्बासवे परिञ्ञाय, निब्बायिस्सतिनासवो.

‘‘देवलोका इधागन्त्वा, मातुकुच्छिं उपागते;

मधुवस्सं पवस्सित्थ, छादयं मधुना महिं.

‘‘मयि निक्खन्तमत्तम्हि, कुच्छिया च सुदुत्तरा;

तत्रापि मधुवस्सं मे, वस्सते निच्चकालिकं.

‘‘अगारा अभिनिक्खम्म, पब्बजिं अनगारियं;

लाभी अन्नस्स पानस्स, मधुदानस्सिदं फलं.

‘‘सब्बकामसमिद्धोहं, भवित्वा देवमानुसे;

तेनेव मधुदानेन, पत्तोम्हि आसवक्खयं.

‘‘वुट्ठम्हि देवे चतुरङ्गुले तिणे, सम्पुप्फिते धरणीरुहे सञ्छन्ने;