८. धम्मसवपितुत्थेरगाथावण्णना
स वीसवस्ससतिकोति आयस्मतो धम्मसवपितुत्थेरस्स गाथा. का उप्पत्ति? अयम्पि पुरिमबुद्धेसु कताधिकारो बुद्धसुञ्ञे लोके कुलगेहे निब्बत्तित्वा विञ्ञुतं पत्तो भूतगणे नाम पब्बते विहरन्तं पच्चेकसम्बुद्धं दिस्वा पसन्नमानसो तिणसूलपुप्फेहि पूजं अकासि. सो तेन पुञ्ञकम्मेन देवलोके निब्बत्तित्वा अपरापरं सुगतीसुयेव संसरन्तो इमस्मिं बुद्धुप्पादे मगधरट्ठे ब्राह्मणकुले निब्बत्तित्वा विञ्ञुतं पत्तो दारपरिग्गहं कत्वा धम्मसवं नाम पुत्तं लभित्वा तस्मिं पब्बजिते सयम्पि वीसवस्ससतिको हुत्वा, ‘‘मम पुत्तो ताव तरुणो पब्बजि, अथ कस्मा नाहं पब्बजिस्सामी’’ति सञ्जातसंवेगो सत्थु सन्तिकं गन्त्वा धम्मं सुत्वा पब्बजित्वा विपस्सनं पट्ठपेत्वा नचिरस्सेव अरहत्तं सच्छाकासि. तेन वुत्तं अपदाने (अप. थेर १.१६.३५-३८) –
‘‘हिमवन्तस्साविदूरे, भूतगणो नाम पब्बतो;
वसतेको जिनो तत्थ, सयम्भू लोकनिस्सटो.
‘‘तिणसूलं गहेत्वान, बुद्धस्स अभिरोपयिं;
एकूनसतसहस्सं, कप्पं न विनिपातिको.
‘‘इतो एकादसे कप्पे, एकोसिं धरणीरुहो;
सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.
‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.
अरहत्तं पन पत्वा अत्तनो पटिपत्तिं पच्चवेक्खित्वा सञ्जातसोमनस्सो उदानेन्तो –
१०८. ‘‘स वीसवस्ससतिको, पब्बजिं अनगारियं;
तिस्सो विज्जा अनुप्पत्ता, कतं बुद्धस्स सासन’’न्ति. – गाथं अभासि;
तत्थ स वीसवस्ससतिकोति सो वीसंवस्ससतिको, सो अहं जातिया वीसाधिकवस्ससतिको समानो. पब्बजिन्ति पब्बज्जं उपगच्छिं. सेसं वुत्तनयमेव. इदमेव च इमस्स थेरस्स अञ्ञाब्याकरणं अहोसि.
धम्मसवपितुत्थेरगाथावण्णना निट्ठिता.