१०. उसभत्थेरगाथावण्णना

नगा नगग्गेसु सुसंविरूळ्हाति आयस्मतो उसभत्थेरस्स गाथा. का उप्पति? अयम्पि पुरिमबुद्धेसु कताधिकारो तत्थ तत्थ भवे विवट्टूपनिस्सयानि पुञ्ञानि करोन्तो इतो एकतिंसे कप्पे सिखिस्स भगवतो काले देवपुत्तो हुत्वा निब्बत्तो एकदिवसं सत्थारं दिस्वा पसन्नमानसो दिब्बपुप्फेहि पूजं अकासि. सा पुप्फपूजा सत्ताहं पुप्फमण्डपाकारेन अट्ठासि. देवमनुस्सानं महासमागमो अहोसि. सो तेन पुञ्ञकम्मेन देवमनुस्सेसु संसरन्तो इमस्मिं बुद्धुप्पादे कोसलरट्ठे इब्भकुले निब्बत्ति, तस्स उसभोति नामं अहोसि. सो विञ्ञुतं पत्तो जेतवनपटिग्गहणे सत्थरि लद्धप्पसादो पब्बजित्वा कतपुब्बकिच्चो अरञ्ञे पब्बतपादे विहरति. तेन च समयेन पावुसकालमेघे अभिप्पवुट्ठे पब्बतसिखरेसु रुक्खगच्छलताय घनपण्णसण्डिनो होन्ति. अथेकदिवसं थेरो लेणतो निक्खमित्वा तं वनरामणेय्यकं पब्बतरामणेय्यकञ्च दिस्वा योनिसोमनसिकारवसेन ‘‘इमेपि नाम रुक्खादयो अचेतना उतुसम्पत्तिया वड्ढिं पापुणन्ति, अथ कस्मा नाहं उतुसप्पायं लभित्वा गुणेहि वड्ढिं पापुणिस्सामी’’ति चिन्तेन्तो –

११०. ‘‘नगा नगग्गेसु सुसंविरूळ्हा, उदग्गमेघेन नवेन सित्ता;

विवेककामस्स अरञ्ञसञ्ञिनो, जनेति भिय्यो उसभस्स कल्यत’’न्ति. –

गाथं अभासि.

तत्थ नगाति रुक्खा, ‘‘नागा’’ति केचि वदन्ति, नागरुक्खाति अत्थो. नगग्गेसूति पब्बतसिखरेसु. सुसंविरूळ्हाति सुट्ठु समन्ततो विरूळ्हमूला हुत्वा परितो उपरि च सम्मदेव सञ्जातसाखग्गपल्लवप्पसाखाति अत्थो. उदग्गमेघेन नवेन सित्ताति पठमुप्पन्नेन उळारेन महता पावुसमेघेन अभिप्पवुट्ठा. विवेककामस्साति किलेसविवित्तं चित्तविवेकं इच्छन्तस्स, अरञ्ञवासेन ताव कायविवेको लद्धो, इदानि उपधिविवेकाधिगमस्स निस्सयभूतो चित्तविवेको लद्धब्बोति तं पत्थयमानस्स, जागरियं अनुयुञ्जन्तस्साति अत्थो, तेनाह ‘‘अरञ्ञसञ्ञिनो’’ति. अरञ्ञवासो नाम सत्थारा वण्णितो थोमितो. सो च खो यावदेव समथविपस्सनाभावनापारिपूरिया, तस्मा सा मया हत्थगता कातब्बाति एवं अरञ्ञगतसञ्ञिनो नेक्खम्मसङ्कप्पबहुलस्साति अत्थो. जनेतीति उप्पादेन्ति, पुथुत्ते हि इदं एकवचनं. केचि पन ‘‘जनेन्ती’’ति पठन्ति. भिय्योति उपरूपरि. उसभस्साति अत्तानमेव परं विय वदति. कल्यतन्ति कल्यभावं चित्तस्स कम्मञ्ञतं भावनायोग्यतं. स्वायमत्थो हेट्ठा वुत्तोयेव. एवं थेरो इमं गाथं वदन्तोयेव विपस्सनं उस्सुक्कापेत्वा अरहत्तं पापुणि. तेन वुत्तं अपदाने (अप. थेर १.१६.२५-२९) –

‘‘देवपुत्तो अहं सन्तो, पूजयिं सिखिनायकं;

मन्दारवेन पुप्फेन, बुद्धस्स अभिरोपयिं.

‘‘सत्ताहं छदनं आसि, दिब्बं मालं तथागते;

सब्बे जना समागन्त्वा, नमस्सिंसु तथागतं.

‘‘एकतिंसे इतो कप्पे, यं पुप्फमभिपूजयिं;

दुग्गतिं नाभिजानामि, बुद्धपूजायिदं फलं.

‘‘इतो च दसमे कप्पे, राजाहोसिं जुतिन्धरो;

सत्तरतनसम्पन्नो, चक्कवत्ती महब्बलो.

‘‘किलेसा झापिता मय्हं…पे… कतं बुद्धस्स सासन’’न्ति.

अयमेव च थेरस्स अञ्ञाब्याकरणगाथा अहोसीति.

उसभत्थेरगाथावण्णना निट्ठिता.

एकादसमवग्गवण्णना निट्ठिता.