९. अङ्कुरपेतवत्थुवण्णना
यस्स अत्थाय गच्छामाति इदं सत्था सावत्थियं विहरन्तो अङ्कुरपेतं आरब्भ कथेसि. कामञ्चेत्थ अङ्कुरो पेतो न होति, तस्स पन चरितं यस्मा पेतसम्बन्धं, तस्मा तं ‘‘अङ्कुरपेतवत्थू’’ति वुत्तं.
तत्रायं सङ्खेपकथा – ये ते उत्तरमधुराधिपतिनो रञ्ञो महासागरस्स पुत्तं उपसागरं पटिच्च उत्तरापथे कंसभोगे असितञ्जननगरे महाकंसस्स धीतुया देवगब्भाय कुच्छियं उप्पन्ना अञ्जनदेवी वासुदेवो बलदेवो चन्ददेवो सूरियदेवो अग्गिदेवो वरुणदेवो अज्जुनो पज्जुनो घटपण्डितो अङ्कुरो चाति वासुदेवादयो दस भातिकाति एकादस खत्तिया अहेसुं, तेसु वासुदेवादयो भातरो असितञ्जननगरं आदिं कत्वा द्वारवतीपरियोसानेसु सकलजम्बुदीपे तेसट्ठिया नगरसहस्सेसु सब्बे राजानो चक्केन जीवितक्खयं पापेत्वा द्वारवतियं वसमाना रज्जं दस कोट्ठासे कत्वा विभजिंसु. भगिनिं पन अञ्जनदेविं न सरिंसु. पुन सरित्वा ‘‘एकादस कोट्ठासे करोमा’’ति वुत्ते तेसं सब्बकनिट्ठो अङ्कुरो ‘‘मम कोट्ठासं तस्सा देथ, अहं वोहारं कत्वा जीविस्सामि, तुम्हे अत्तनो अत्तनो जनपदेसु सुङ्कं मय्हं विस्सज्जेथा’’ति आह. ते ‘‘साधू’’ति सम्पटिच्छित्वा तस्स कोट्ठायं भगिनिया दत्वा नव राजानो द्वारवतियं वसिंसु.
अङ्कुरो पन वणिज्जं करोन्तो निच्चकालं महादानं देति. तस्स पनेको दासो भण्डागारिको अत्थकामो अहोसि. अङ्कुरो पसन्नमानसो तस्स एकं कुलधीतरं गहेत्वा अदासि. सो पुत्ते गब्भगतेयेव कालमकासि. अङ्कुरो तस्मिं जाते तस्स पितुनो दिन्नं भत्तवेतनं तस्स अदासि. अथ तस्मिं दारके वयप्पत्ते ‘‘दासो न दासो’’ति राजकुले विनिच्छयो उप्पज्जि. तं सुत्वा अञ्जनदेवी धेनूपमं वत्वा ‘‘मातु भुजिस्साय पुत्तोपि भुजिस्सो एवा’’ति दासब्यतो मोचेसि.
दारको पन लज्जाय तत्थ वसितुं अविसहन्तो रोरुवनगरं गन्त्वा तत्थ अञ्ञतरस्स तुन्नवायस्स धीतरं गहेत्वा तुन्नवायसिप्पेन जीविकं कप्पेसि. तेन समयेन रोरुवनगरे असय्हमहासेट्ठि नाम अहोसि. सो समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं महादानं देति. सो तुन्नवायो सेट्ठिनो घरं अजानन्तानं पीतिसोमनस्सजातो हुत्वा असय्हसेट्ठिनो निवेसनं दक्खिणबाहुं पसारेत्वा दस्सेसि ‘‘एत्थ गन्त्वा लद्धब्बं लभन्तू’’ति. तस्स कम्मं पाळियंयेव आगतं.
सो अपरेन समयेन कालं कत्वा मरुभूमियं अञ्ञतरस्मिं निग्रोधरुक्खे भुम्मदेवता हुत्वा निब्बत्ति, तस्स दक्खिणहत्थो सब्बकामददो अहोसि. तस्मिंयेव च रोरुवे अञ्ञतरो पुरिसो असय्हसेट्ठिनो दाने ब्यावटो अस्सद्धो अप्पसन्नो मिच्छादिट्ठिको पुञ्ञकिरियाय अनादरो कालं कत्वा तस्स देवपुत्तस्स वसनट्ठानस्स अविदूरे पेतो हुत्वा निब्बत्ति. तेन च कतकम्मं पाळियंयेव आगतं. असय्हमहासेट्ठि पन कालं कत्वा तावतिंसभवने सक्कस्स देवरञ्ञो सहब्यतं उपगतो.
अथ अपरेन समयेन अङ्कुरो पञ्चहि सकटसतेहि, अञ्ञतरो च ब्राह्मणो पञ्चहि सकटसतेहीति द्वेपि जना सकटसहस्सेन भण्डं आदाय मरुकन्तारमग्गं पटिपन्ना मग्गमूळ्हा हुत्वा बहुं दिवसं तत्थेव विचरन्ता परिक्खीणतिणोदकाहारा अहेसुं. अङ्कुरो अस्सदूतेहि चतूसु दिसासु पानियं मग्गापेसि. अथ सो कामददहत्थो यक्खो तं तेसं ब्यसनप्पत्तिं दिस्वा अङ्कुरेन पुब्बे अत्तनो कतं उपकारं चिन्तेत्वा ‘‘हन्द दानि इमस्स मया अवस्सयेन भवितब्ब’’न्ति अत्तनो वसनवटरुक्खं दस्सेसि. सो किर वटरुक्खो साखाविटपसम्पन्नो घनपलासो सन्दच्छायो अनेकसहस्सपारोहो आयामेन वित्थारेन उब्बेधेन च योजनपरिमाणो अहोसि. तं दिस्वा अङ्कुरो हट्ठतुट्ठो तस्स हेट्ठा खन्धावारं बन्धापेसि. यक्खो अत्तनो दक्खिणहत्थं पसारेत्वा पठमं ताव पानीयेन सब्बं जनं सन्तप्पेसि. ततो यो यो यं यं इच्छति, तस्स तस्स तं तं अदासि.
एवं तस्मिं महाजने नानाविधेन अन्नपानादिना यथाकामं सन्तप्पिते पच्छा वूपसन्ते मग्गपरिस्समे सो ब्राह्मणवाणिजो अयोनिसो मनसिकरोन्तो एवं चिन्तेसि – ‘‘धनलाभाय इतो कम्बोजं गन्त्वा मयं किं करिस्साम, इममेव पन यक्खं येन केनचि उपायेन गहेत्वा यानं आरोपेत्वा अम्हाकं नगरमेव गमिस्सामा’’ति. एवं चिन्तेत्वा तमत्थं अङ्कुरस्स कथेन्तो –
२५७. ‘‘यस्स अत्थाय गच्छाम, कम्बोजं धनहारका;
अयं कामददो यक्खो, इमं यक्खं नयामसे.
२५८. ‘‘इमं यक्खं गहेत्वान, साधुकेन पसय्ह वा;
यानं आरोपयित्वान, खिप्पं गच्छाम द्वारक’’न्ति. –
गाथाद्वयमाह. तत्थ यस्स अत्थायाति यस्स कारणा. कम्बोजन्ति कम्बोजरट्ठं. धनहारकाति भण्डविक्कयेन लद्धधनहारिनो. कामददोति इच्छितिच्छितदायको. यक्खोति देवपुत्तो. नयामसेति नयिस्साम. साधुकेनाति याचनेन. पसय्हाति अभिभवित्वा बलक्कारेन, यानन्ति सुखयानं. द्वारकन्ति द्वारवतीनगरं. अयं हेत्थाधिप्पायो – यदत्थं मयं इतो कम्बोजं गन्तुकामा, तेन गमनेन साधेतब्बो अत्थो इधेव सिज्झति. अयञ्हि यक्खो कामददो, तस्मा इमं यक्खं याचित्वा तस्स अनुमतिया वा, सचे सञ्ञत्तिं न गच्छति, बलक्कारेन वा यानं आरोपेत्वा याने पच्छाबाहं बन्धित्वा तं गहेत्वा इतोयेव खिप्पं द्वारवतीनगरं गच्छामाति.
एवं पन ब्राह्मणेन वुत्तो अङ्कुरो सप्पुरिसधम्मे ठत्वा तस्स वचनं पटिक्खिपन्तो –
२५९. ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स साखं भञ्जेय्य, मित्तदुब्भो हि पापको’’ति. –
गाथमाह. तत्थ न भञ्जेय्याति न छिन्देय्य. मित्तदुब्भोति मित्तेसु दुब्भनं तेसं अनत्थुप्पादनं. पापकोति अभद्दको मित्तदुब्भो. यो हि सीतच्छायो रुक्खो घम्माभितत्तस्स पुरिसस्स परिस्समविनोदको, तस्सापि नाम पापकं न चिन्तेतब्बं, किमङ्कं पन सत्तभूतेसु. अयं देवपुत्तो सप्पुरिसो पुब्बकारी अम्हाकं दुक्खपनूदको बहूपकारो, न तस्स किञ्चि अनत्थं चिन्तेतब्बं, अञ्ञदत्थु सो पूजेतब्बो एवाति दस्सेति.
तं सुत्वा ब्राह्मणा ‘‘अत्थस्स मूलं निकतिविनयो’’ति नीतिमग्गं निस्साय अङ्कुरस्स पटिलोमपक्खे ठत्वा –
२६०. ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
खन्धम्पि तस्स छिन्देय्य, अत्थो चे तादिसो सिया’’ति. –
गाथमाह. तत्थ अत्थो चे तादिसो सियाति तादिसेन दब्बसम्भारेन सचे अत्थो भवेय्य, तस्स रुक्खस्स खन्धम्पि छिन्देय्य, किमङ्गं पन साखादयोति अधिप्पायो.
एवं ब्राह्मणेन वुत्ते अङ्कुरो सप्पुरिसधम्मंयेव पग्गण्हन्तो –
२६१. ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
न तस्स पत्तं भिन्देय्य, मित्तदुब्भो हि पापको’’ति. –
इमं गाथमाह. तत्थ न तस्स पत्तं भिन्देय्याति तस्स रुक्खस्स एकपण्णमत्तम्पि न पातेय्य, पगेव साखादिकेति अधिप्पायो.
पुनपि ब्राह्मणो अत्तनो वादं पग्गण्हन्तो –
२६२. ‘‘यस्स रुक्खस्स छायाय, निसीदेय्य सयेय्य वा;
समूलम्पि तं अब्बुहे, अत्थो चे तादिसो सिया’’ति. –
गाथमाह. तत्थ समूलम्पि तं अब्बुहेति तं तत्थ समूलम्पि सह मूलेनपि अब्बुहेय्य, उद्धरेय्याति अत्थो.
एवं ब्राह्मणेन वुत्ते पुन अङ्कुरो तं नीतिं निरत्थकं कातुकामो –
२६३. ‘‘यस्सेकरत्तिम्पि घरे वसेय्य, यत्थन्नपानं पुरिसो लभेथ;
न तस्स पापं मनसापि चिन्तये, कतञ्ञुता सप्पुरिसेहि वण्णिता.
२६४. ‘‘यस्सेकरत्तिम्पि घरे वसेय्य, अन्नेन पानेन उपट्ठितो सिया;
न तस्स पापं मनसापि चिन्तये, अदुब्भपाणी दहते मित्तदुब्भिं.
२६५. ‘‘यो पुब्बे कतकल्याणो, पच्छा पापेन हिंसति;
अल्लपाणिहतो पोसो, न सो भद्रानि पस्सती’’ति. –
इमा तिस्सो गाथा अभासि.
२६३. तत्थ यस्साति यस्स पुग्गलस्स. एकरत्तिम्पीति एकरत्तिमत्तम्पि केवलं गेहे वसेय्य. यत्थन्नपानं पुरिसो लभेथाति यस्स सन्तिके कोचि पुरिसो अन्नपानं वा यंकिञ्चि भोजनं वा लभेय्य. न तस्स पापं मनसापि चिन्तयेति तस्स पुग्गलस्स अभद्दकं अनत्थं मनसापि न चिन्तेय्य न पिहेय्य, पगेव कायवाचाहि. कस्माति चे? कतञ्ञुता सप्पुरिसेहि वण्णिताति कतञ्ञुता नाम बुद्धादीहि उत्तमपुरिसेहि पसंसिता.
२६४. उपट्ठितोति पयिरुपासितो ‘‘इदं गण्ह इदं भुञ्जा’’ति अन्नपानादिना उपट्ठितो. अदुब्भपाणीति अहिंसकहत्थो हत्थसंयतो. दहते मित्तदुब्भिन्ति तं मित्तदुब्भिं पुग्गलं दहति विनासेति, अप्पदुट्ठे हितज्झासयसम्पन्ने पुग्गले परेन कतो अपराधो अविसेसेन तस्सेव अनत्थावहो, अप्पदुट्ठो पुग्गलो अत्थतो तं दहति नाम. तेनाह भगवा –
‘‘यो अप्पदुट्ठस्स नरस्स दुस्सति, सुद्धस्स पोसस्स अनङ्गणस्स;
तमेव बालं पच्चेति पापं, सुखुमो रजो पटिवातंव खित्तो’’ति. (ध. प. १२५; जा. १.५.९४; सं. नि. १.२२);
२६५. यो पुब्बे कतकल्याणोति यो पुग्गलो केनचि साधुना कतभद्दको कतूपकारो. पच्छा पापेन हिंसतीति तं पुब्बकारिनं अपरभागे पापेन अभद्दकेन अनत्थकेन बाधति. अल्लपाणिहतो पोसोति अल्लपाणिना उपकारकिरियाय अल्लपाणिना धोतहत्थेन पुब्बकारिना हेट्ठा वुत्तनयेन हतो बाधितो, तस्स वा पुब्बकारिनो बाधनेन हतो अल्लपाणिहतो नाम, अकतञ्ञुपुग्गलो. न सो भद्रानि पस्सतीति सो यथावुत्तपुग्गलो इधलोके च परलोके च इट्ठानि न पस्सति, न विन्दति, न लभतीति अत्थो.
एवं सप्पुरिसधम्मं पग्गण्हन्तेन अङ्कुरेन अभिभवित्वा वुत्तो सो ब्राह्मणो निरुत्तरो तुण्ही अहोसि. यक्खो पन तेसं द्विन्नं वचनपटिवचनानि सुत्वा ब्राह्मणस्स कुज्झित्वापि ‘‘होतु इमस्स दुट्ठब्राह्मणस्स कत्तब्बं पच्छा जानिस्सामी’’ति अत्तनो केनचि अनभिभवनीयतमेव ताव दस्सेन्तो –
२६६. ‘‘नाहं देवेन वा मनुस्सेन वा, इस्सरियेन वा हं सुप्पसय्हो;
यक्खोहमस्मि परमिद्धिपत्तो, दूरङ्गमो वण्णबलूपपन्नो’’ति. –
गाथमाह. तत्थ देवेन वाति येन केनचि देवेन वा. मनुस्सेन वाति एत्थापि एसेव नयो. इस्सरियेन वाति देविस्सरियेन वा मनुस्सिस्सरियेन वा. तत्थ देविस्सरियं नाम चतुमहाराजिकसक्कसुयामादीनं देविद्धि, मनुस्सिस्सरियं नाम चक्कवत्तिआदीनं पुञ्ञिद्धि. तस्मा इस्सरियग्गहणेन महानुभावे देवमनुस्से सङ्गण्हाति. महानुभावापि हि देवा अत्तनो पुञ्ञफलूपत्थम्भिते मनुस्सेपि असति पयोगविपत्तियं अभिभवितुं न सक्कोन्ति, पगेव इतरे. हन्ति असहने निपातो. न सुप्पसय्होति अप्पधंसियो. यक्खोहमस्मि परमिद्धिपत्तोति अत्तनो पुञ्ञफलेन अहं यक्खत्तं उपगतो अस्मि, यक्खोव समानो न यो वा सो वा, अथ खो परमिद्धिपत्तो परमाय उत्तमाय यक्खिद्धिया समन्नागतो. दूरङ्गमोति खणेनेव दूरम्पि ठानं गन्तुं समत्थो. वण्णबलूपपन्नोति रूपसम्पत्तिया सरीरबलेन च उपपन्नो समन्नागतोति तीहिपि पदेहि मन्तप्पयोगादीहि अत्तनो अनभिभवनीयतंयेव दस्सेति. रूपसम्पन्नो हि परेसं बहुमानितो होति, रूपसम्पदं निस्साय विसभागवत्थुनापि अनाकड्ढनियोवाति वण्णसम्पदा अनभिभवनीयकारणन्ति वुत्ता.
इतो परं अङ्कुरस्स च देवपुत्तस्स च वचनपटिवचनकथा होति –
२६७. ‘‘पाणि ते सब्बसोवण्णो, पञ्चधारो मधुस्सवो;
नानारसा पग्घरन्ति, मञ्ञेहं तं पुरिन्ददं.
२६८. ‘‘नाम्हि देवो न गन्धब्बो, नापि सक्को पुरिन्ददो;
पेतं मं अङ्कुर जानाहि, रोरुवम्हा इधागतं.
२६९. ‘‘किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवं;
केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
२७०. ‘‘तुन्नवायो पुरे आसिं, रोरुवस्मिं तदा अहं;
सुकिच्छवुत्ति कपणो, न मे विज्जति दातवे.
२७१. ‘‘निवेसनञ्च मे आसि, असय्हस्स उपन्तिके;
सद्धस्स दानपतिनो, कतपुञ्ञस्स लज्जिनो.
२७२. ‘‘तत्थ याचनकायन्ति, नानागोत्ता वनिब्बका;
ते च मं तत्थ पुच्छन्ति, असय्हस्स निवेसनं.
२७३. ‘‘कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयति;
तेसाहं पुट्ठो अक्खामि, असय्हस्स निवेसनं.
२७४. ‘‘पग्गय्ह दक्खिणं बाहुं, एत्थ गच्छथ भद्दं वो;
एत्थ दानं पदीयति, असय्हस्स निवेसने.
२७५. ‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन मे ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
२७६. ‘‘न किर त्वं अदा दानं, सकपाणीहि कस्सचि;
परस्स दानं अनुमोदमानो, पाणिं पग्गय्ह पावदि.
२७७. ‘‘तेन पाणि कामददो, तेन पाणि मधुस्सवो;
तेन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झति.
२७८. ‘‘यो सो दानमदा भन्ते, पसन्नो सकपाणिभि;
सो हित्वा मानुसं देहं, किं नु सो दिसतं गतो.
२७९. ‘‘नाहं पजानामि असय्हसाहिनो, अङ्गीरसस्स गतिं आगतिं वा;
सुतञ्च मे वेस्सवणस्स सन्तिके, सक्कस्स सहब्यतं गतो असय्हो.
२८०. ‘‘अलमेव कातुं कल्याणं, दानं दातुं यथारहं;
पाणिं कामददं दिस्वा, को पुञ्ञं न करिस्सति.
२८१. ‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
२८२. ‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति. –
पन्नरस वचनपटिवचनगाथा होन्ति.
२६७. तत्थ पाणि तेति तव दक्खिणहत्थो. सब्बसोवण्णोति सब्बसो सुवण्णवण्णो. पञ्चधारोति पञ्चहि अङ्गुलीहि परेहि कामितवत्थूनं धारा एतस्स सन्तीति पञ्चधारो. मधुस्सवोति मधुररसविस्सन्दको. तेनाह ‘‘नानारसा पग्घरन्ती’’ति, मधुरकटुककसावादिभेदा नानाविधा रसा विस्सन्दन्तीति अत्थो. यक्खस्स हि कामददे मधुरादिरससम्पन्नानि विविधानि खादनीयभोजनीयानि हत्थे विस्सज्जन्ते मधुरादिरसा पग्घरन्तीति वुत्तं. मञ्ञेहं तं पुरिन्ददन्ति मञ्ञे अहं तं पुरिन्ददं सक्कं, ‘‘एवंमहानुभावो सक्को देवराजा’’ति तं अहं मञ्ञामीति अत्थो.
२६८. नाम्हि देवोति वेस्सवणादिको पाकटदेवो न होमि. न गन्धब्बोति गन्धब्बकायिकदेवोपि न होमि. नापि सक्को पुरिन्ददोति पुरिमत्तभावे पुरे दानस्स पट्ठपितत्ता ‘‘पुरिन्ददो’’ति लद्धनामो सक्को देवराजापि न होमि. कतरो पन अहोसीति आह ‘‘पेतं मं अङ्कुर जानाही’’तिआदि. अङ्कुरपेतूपपत्तिकं मं जानाहि, ‘‘अञ्ञतरो पेतमहिद्धिको’’ति मं उपधारेहि. रोरुवम्हा इधागतन्ति रोरुवनगरतो चवित्वा मरुकन्तारे इध इमस्मिं निग्रोधरुक्खे उपपज्जनवसेन आगतं, एत्थ निब्बत्तन्ति अत्थो.
२६९. किंसीलो किंसमाचारो, रोरुवस्मिं पुरे तुवन्ति पुब्बे पुरिमत्तभावे रोरुवनगरे वसन्तो त्वं किंसीलो किंसमाचारो अहोसि, पापतो निवत्तनलक्खणं कीदिसं सीलं समादाय संवत्तितपुञ्ञकिरियालक्खणेन समाचारेन किंसमाचारो, दानादीसु कुसलसमाचारेसु कीदिसो समाचारो अहोसीति अत्थो. केन ते ब्रह्मचरियेन, पुञ्ञं पाणिम्हि इज्झतीति कीदिसेन सेट्ठचरियेन इदं एवरूपं तव हत्थेसु पुञ्ञफलं इदानि समिज्झति निप्फज्जति, तं कथेहीति अत्थो. पुञ्ञफलञ्हि इध उत्तरपदलोपेन ‘‘पुञ्ञ’’न्ति अधिप्पेतं. तत्था हि तं ‘‘कुसलानं, भिक्खवे, धम्मानं समादानहेतु एवमिदं पुञ्ञं पवड्ढती’’तिआदीसु (दी. नि. ३.८०) पुञ्ञन्ति वुत्तं.
२७०. तुन्नवायोति तुन्नकारो. सुकिच्छवुत्तीति सुट्ठु किच्छपुत्तिको अतिविय दुक्खजीविको. कपणोति वराको, दीनोति अत्थो. न मे विज्जति दातवेति अद्धिकानं समणब्राह्मणानं दातुं किञ्चि दातब्बयुत्तकं मय्हं नत्थि, चित्तं पन मे दानं दिन्नन्ति अधिप्पायो.
२७१. निवेसनन्ति घरं, कम्मकरणसाला वा. असय्हस्स उपन्तिकेति असय्हस्स महासेट्ठिनो गेहस्स समीपे. सद्धस्साति कम्मफलसद्धाय समन्नागतस्स. दानपतिनोति दाने निरन्तरप्पवत्ताय परिच्चागसम्पत्तिया लोभस्स च अभिभवेन पतिभूतस्स. कतपुञ्ञस्साति पुब्बे कतसुचरितकम्मस्स. लज्जिनोति पापजिगुच्छनसभावस्स.
२७२. तत्थाति तस्मिं मम निवेसने. याचनकायन्तीति याचनका जना असय्हसेट्ठिं किञ्चि याचितुकामा आगच्छन्ति. नानागोत्ताति नानाविधगोत्तापदेसा. वनिब्बकाति वण्णदीपका, ये दायकस्स पुञ्ञफलादिञ्च गुणकित्तनादिमुखेन अत्तनो अत्थिकभावं पवेदेन्ता विचरन्ति. ते च मं तत्थ पुच्छन्तीति तत्थाति निपातमत्तं, ते याचकादयो मं असय्हसेट्ठिनो निवेसनं पुच्छन्ति. अक्खरचिन्तका हि ईदिसेसु ठानेसु कम्मद्वयं इच्छन्ति.
२७३. कत्थ गच्छाम भद्दं वो, कत्थ दानं पदीयतीति तेसं पुच्छनाकारदस्सनं. अयं पेत्थ अत्थो – भद्दं तुम्हाकं होतु, मयं ‘‘असय्हमहासेट्ठिना दानं पदीयती’’ति सुत्वा आगता, कत्थ दानं पदीयति, कत्थ वा मयं गच्छाम, कत्थ गतेन दानं सक्का लद्धुन्ति. तेसाहं पुट्ठो अक्खामीति एवं तेहि अद्धिकजनेहि लभनट्ठानं पुट्ठो ‘‘अहं पुब्बे अकतपुञ्ञताय इदानि ईदिसानं किञ्चि दातुं असमत्थो जातो, दानग्गं पन इमेसं दस्सेन्तो लाभस्स उपायाचिक्खणेन पीतिं उप्पादेन्तो एत्तकेनपि बहुं पुञ्ञं पसवामी’’ति गारवं उप्पादेत्वा दक्खिणं बाहुं पसारेत्वा तेसं असय्हसेट्ठिस्स निवेसनं अक्खामि. तेनाह ‘‘पग्गय्ह दक्खिणं बाहु’’न्तिआदि.
२७४. तेन पाणि कामददोति तेन परदानपकासनेन परेन कतस्स दानस्स सक्कच्चं अनुमोदनमत्तेन हेतुना इदानि मय्हं हत्थो कप्परुक्खो विय सन्तानकलता विय च कामदुहो इच्छितिच्छितदायी कामददो होति. कामददो च होन्तो तेन पाणि मधुस्सवो इट्ठवत्थुविस्सज्जनको जातो.
२७६. न किर त्वं अदा दानन्ति किराति अनुस्सवनत्थे निपातो, त्वं किर अत्तनो सन्तकं न परिच्चजि, सकपाणीहि सहत्थेहि यस्स कस्सचि समणस्स वा ब्राह्मणस्स वा किञ्चि दानं न अदासि. परस्स दानं अनुमोदमानोति केवलं पन परेन कतं परस्स दानं ‘‘अहो दानं पवत्तेसी’’ति अनुमोदमानोयेव विहासि.
२७७. तेन पाणि कामददोति तेन तुय्हं पाणि एवं कामददो, अहो अच्छरिया वत पुञ्ञानं गतीति अधिप्पायो.
२७८. यो सो दानमदा, भन्ते, पसन्नो सकपाणिभीति देवपुत्तं गारवेन आलपति. भन्ते, परेन कतस्स दानानुमोदकस्स ताव तुय्हं ईदिसं फलं एवरूपो आनुभावो, यो पन सो असय्हमहासेट्ठि महादानं अदासि, पसन्नचित्तो हुत्वा सहत्थेहि तदा महादानं पवत्तेसि. सो हित्वा मानुसं देहन्ति सो इध मनुस्सत्तभावं पहाय. किन्ति कतरं. नु सोति नूति निपातमत्तं. दिसतं गतोति दिसं ठानं गतो, कीदिसी तस्स गतो निप्फत्तीति असय्हसेट्ठिनो अभिसम्परायं पुच्छि.
२७९. असय्हसाहिनोति अञ्ञेहि मच्छरीहि लोभाभिभूतेहि सहितुं वहितुं असक्कुणेय्यस्स परिच्चागादिविभागस्स सप्पुरिसधुरस्स सहनतो असय्हसाहिनो. अङ्गीरसस्साति अङ्गतो निक्खमनकजुतिस्स. रसोति हि जुतिया अधिवचनं. तस्स किर याचके आगच्छन्ते दिस्वा उळारं पीतिसोमनस्सं उप्पज्जति, मुखवण्णो विप्पसीदति, तं अत्तनो पच्चक्खं कत्वा एवमाह. गतिं आगतिं वाति तस्स ‘‘असुकं नाम गतिं, इतो गतो’’ति गतिं वा ‘‘ततो वा पन असुकस्मिं काले इधागमिस्सती’’ति आगतिं वा नाहं जानामि, अविसयो एस मय्हं. सुतञ्च मे वेस्सवणस्स सन्तिकेति अपिच खो उपट्ठानं गतेन वेस्सवणस्स महाराजस्स सन्तिके सुतमेतं मया. सक्कस्स सहब्यतं गतो असय्होति असय्हसेट्ठि सक्कस्स देवानमिन्दस्स सहब्यतं गतो अहोसि, तावतिंसभवने निब्बत्तोति अत्थो.
२८०. अलमेव कातुं कल्याणन्ति यंकिञ्चि कल्याणं कुसलं पुञ्ञं कातुं युत्तमेव पतिरूपमेव. तत्थ पन यं सब्बसाधारणं सुकततरं, तं दस्सेतुं ‘‘दानं दातुं यथारह’’न्ति वुत्तं, अत्तनो विभवबलानुरूपं दानं दातुं अलमेव. तत्थ कारणमाह ‘‘पाणिं कामददं दिस्वा’’ति. यत्र हि नाम परकतपुञ्ञानुमोदनपुब्बकेन दानपतिनिवेसनमग्गाचिक्खणमत्तेन अयं हत्थो कामददो दिट्ठो, इमं दिस्वा. को पुञ्ञं न करिस्सतीति मादिसो को नाम अत्तनो पतिट्ठानभूतं पुञ्ञं न करिस्सतीति.
२८१. एवं अनियमवसेन पुञ्ञकिरियाय आदरं दस्सेत्वा इदानि अत्तनि तं नियमेत्वा दस्सेन्तो ‘‘सो हि नूना’’तिआदिगाथाद्वयमाह. तत्थ सोति सो अहं. हीति अवधारणे निपातो, नूनाति परिवितक्के. इतो गन्त्वाति इतो मरुभूमितो अपगन्त्वा. अनुप्पत्वान द्वारकन्ति द्वारवतीनगरं अनुपापुणित्वा. पट्ठपयिस्सामीति पवत्तयिस्सामि.
एवं अङ्कुरेन ‘‘दानं दस्सामी’’ति पटिञ्ञाय कताय यक्खो तुट्ठमानसो ‘‘मारिस, त्वं विस्सत्थो दानं देहि, अहं पन ते सहायकिच्चं करिस्सामि, येन ते देय्यधम्मो न परिक्खयं गमिस्सति, तेन पकारेन करिस्सामी’’ति तं दानकिरियाय समुत्तेजेत्वा ‘‘ब्राह्मण वाणिज, त्वं किर मादिसे बलक्कारेन नेतुकामो अत्तनो पमाणं न जानासी’’ति तस्स भण्डमन्तरधापेत्वा तं यक्खविभिंसकाय भिंसापेन्तो सन्तज्जेसि. अथ नं अङ्कुरो नानप्पकारं याचित्वा ब्राह्मणेन खमापेन्तो पसादेत्वा सब्बभण्डं पाकतिकं कारापेत्वा रत्तिया उपगताय यक्खं विस्सज्जेत्वा गच्छन्तो तस्स अविदूरे अञ्ञतरं अतिविय बीभच्छदस्सनं पेतं दिस्वा तेन कतकम्मं पुच्छन्तो –
२८३. ‘‘केन ते अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि च पग्घरन्ति, किं पापं पकतं तया’’ति. –
गाथमाह. तत्थ कुणाति कुणिका पटिकुणिका अनुजुभूता. कुणलीकतन्ति मुखविकारेन विकुणितं संकुणितं. पग्घरन्तीति असुचिं विस्सन्दन्ति.
अथस्स पेतो –
२८४. ‘‘अङ्गीरसस्स गहपतिनो, सद्धस्स घरमेसिनो;
तस्साहं दानविस्सग्गे, दाने अधिकतो अहुं.
२८५. ‘‘तत्थ याचनके दिस्वा, आगते भोजनत्थिके;
एकमन्तं अपक्कम्म, अकासिं कुणलिं मुखं.
२८६. ‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति. –
तिस्सो गाथा अभासि.
२८४. तत्थ ‘‘अङ्गीरसस्सा’’तिआदिना असय्हसेट्ठिं कित्तेति. घरमेसिनोति घरमावसन्तस्स गहट्ठस्स. दानविस्सग्गेति दानग्गे परिच्चागट्ठाने. दाने अधिकतो अहुन्ति देय्यधम्मस्स परिच्चजने दानाधिकारे अधिकतो ठपितो अहोसिं.
२८५. एकमन्तं अपक्कम्माति याचनके भोजनत्थिके आगते दिस्वा दानब्यावटेन दानग्गतो अनपक्कम्म यथाठानेयेव ठत्वा सञ्जातपीतिसोमनस्सेन विप्पसन्नमुखवण्णेन सहत्थेन दानं दातब्बं, परेहि वा पतिरूपेहि दापेतब्बं, अहं पन तथा अकत्वा याचनके आगच्छन्ते दूरतोव दिस्वा अत्तानं अदस्सेन्तो एकमन्तं अपक्कम्म अपक्कमित्वा. अकासिं कुणलिं मुखन्ति विकुणितं सङ्कुचितं मुखं अकासिं.
२८६. तेनाति यस्मा तदाहं सामिना दानाधिकारे नियुत्तो समानो दानकाले उपट्ठिते मच्छरियापकतो दानग्गतो अपक्कमन्तो पादेहि सङ्कोचं आपज्जिं, सहत्थेहि दातब्बे तथा अकत्वा हत्थसङ्कोचं आपज्जिं, पसन्नमुखेन भवितब्बे मुखसङ्कोचं आपज्जिं, पियचक्खूहि ओलोकेतब्बे चक्खुकालुसियं उप्पादेसिं, तस्मा हत्थङ्गुलियो च पादङ्गुलियो च कुणिता जाता, मुखञ्च कुणलीकतं विरूपरूपं सङ्कुचितं, अक्खीनि असुचीदुग्गन्धजेगुच्छानि अस्सूनि पग्घरन्तीति अत्थो. तेन वुत्तं –
‘‘तेन मे अङ्गुली कुणा, मुखञ्च कुणलीकतं;
अक्खीनि मे पग्घरन्ति, तं पापं पकतं मया’’ति.
तं सुत्वा अङ्कुरो पेतं गरहन्तो –
२८७. ‘‘धम्मेन ते कापुरिस, मुखञ्च कुणलीकतं;
अक्खीनि च पग्घरन्ति, यं तं परस्स दानस्स;
अकासि कुणलिं मुख’’न्ति. –
गाथमाह. तत्थ धम्मेनाति युत्तेनेव कारणेन. तेति तव. कापुरिसाति लामकपुरिस. यन्ति यस्मा. परस्स दानस्साति परस्स दानस्मिं. अयमेव वा पाठो.
पुन अङ्कुरो तं दानपतिं सेट्ठिं गरहन्तो –
२८८. ‘‘कथञ्हि दानं ददमानो, करेय्य परपत्तियं;
अन्नपानं खादनीयं, वत्थसेनासनानि चा’’ति. –
गाथमाह. तस्सत्थो – दानं ददन्तो पुरिसो कथञ्हि नाम तं परपत्तियं परेन पापेतब्बं साधेतब्बं करेय्य, अत्तपच्चक्खमेव कत्वा सहत्थेनेव ददेय्य, सयं वा तत्थ ब्यावटो भवेय्य, अञ्ञथा अत्तनो देय्यधम्मो अट्ठाने विद्धंसियेथ, दक्खिणेय्या च दानेन परिहायेय्युन्ति.
एवं तं गरहित्वा इदानि अत्तना पटिपज्जितब्बविधिं दस्सेन्तो –
२८९. ‘‘सो हि नून इतो गन्त्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयिस्सामि, यं ममस्स सुखावहं.
२९०. ‘‘दस्सामन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, दुग्गे सङ्कमनानि चा’’ति. –
गाथाद्वयमाह, तं वुत्तत्थमेव.
२९१. ‘‘ततो हि सो निवत्तित्वा, अनुप्पत्वान द्वारकं;
दानं पट्ठपयि अङ्कुरो, यंतुमस्स सुखावहं.
२९२. ‘‘अदा अन्नञ्च पानञ्च, वत्थसेनासनानि च;
पपञ्च उदपानञ्च, विप्पसन्नेन चेतसा.
२९३. ‘‘को छातो को च तसितो, को वत्थं परिदहिस्सति;
कस्स सन्तानि योग्गानि, इतो योजेन्तु वाहनं.
२९४. ‘‘को छत्तिच्छति गन्धञ्च, को मालं को उपाहनं;
इतिस्सु तत्थ घोसेन्ति, कप्पका सूदमागधा;
सदा सायञ्च पातो च, अङ्गुरस्स निवेसने’’ति. –
चतस्सो गाथा अङ्गुरस्स पटिपत्तिं दस्सेतुं सङ्गीतिकारेहि ठपिता.
२९१. तत्थ ततोति मरुकन्तारतो. निवत्तित्वाति पटिनिवत्तित्वा. अनुप्पत्वान द्वारकन्ति द्वारवतीनगरं अनुपापुणित्वा. दानं पट्ठपयि अङ्गुरोति यक्खेन परिपूरितसकलकोट्ठागारो सब्बपाथेय्यकं महादानं सो अङ्गुरो पट्ठपेसि. यंतुमस्स सुखावहन्ति यं अत्तनो सम्पति आयतिञ्च सुखनिब्बत्तकं.
२९३. को छातोति को जिघच्छितो, सो आगन्त्वा यथारुचि भुञ्जतूति अधिप्पायो. एसेव नयो सेसेसुपि. तसितोति पिपासितो. परिदहिस्सतीति निवासेस्सति पारुपिस्सति चाति अत्थो. सन्तानीति परिस्समप्पत्तानि. योग्गानीति रथवाहनानि. इतो योजेन्तु वाहनन्ति इतो योग्गसमूहतो यथारुचितं गहेत्वा वाहनं योजेन्तु.
२९४. को छत्तिच्छतीति को किलञ्जछत्तादिभेदं छत्तं इच्छति, सो गण्हातूति अधिप्पायो. सेसेसुपि एसेव नयो. गन्धन्ति चतुज्जातियगन्धादिकं गन्धं. मालन्ति गन्थितागन्थितभेदं पुप्फं. उपाहनन्ति खल्लबद्धादिभेदं उपाहनं. इतिस्सूति एत्थ सूति निपातमत्तं, इति एवं ‘‘को छातो, को तसितो’’तिआदिनाति अत्थो. कप्पकाति न्हापितका. सूदाति भत्तकारका. मागधाति गन्धिनो. सदाति सब्बकालं दिवसे दिवसे सायञ्च पातो च तत्थ अङ्गुरस्स निवेसने घोसेन्ति उग्घोसेन्तीति योजना.
एवं महादानं पवत्तेन्तस्स गच्छन्ते काले तित्तिभावतो अत्थिकजनेहि पविवित्तं विरळं दानग्गं अहोसि. तं दिस्वा अङ्कुरो दाने उळारज्झासयताय अतुट्ठमानसो हुत्वा अत्तनो दाने नियुत्तं सिन्धकं नाम माणवं आमन्तेत्वा –
२९५. ‘‘सुखं सुपति अङ्कुरो, इति जानाति मं जनो;
दुक्खं सुपामि सिन्धक, यं न पस्सामि याचके.
२९६. ‘‘सुखं सुपति अङ्कुरो, इति जानाति मं जनो;
दुक्खं सुपामि सिन्धक, अप्पके सु वनिब्बके’’ति. –
गाथाद्वयमाह. तत्थ सुखं सुपति अङ्कुरो, इति जानाति मं जनोति ‘‘अङ्कुरो राजा यसभोगसमप्पितो दानपति अत्तनो भोगसम्पत्तिया दानसम्पत्तिया च सुखं सुपति, सुखेनेव निद्दं उपगच्छति, सुखं पटिबुज्झती’’ति एवं मं जनो सम्भावेति. दुक्खं सुपामि सिन्धकाति अहं पन सिन्धक दुक्खमेव सुपामि. कस्मा? यं न पस्सामि याचकेति, यस्मा मम अज्झासयानुरूपं देय्यधम्मपटिग्गाहके बहू याचके न पस्सामि, तस्माति अत्थो. अप्पके सु वनिब्बकेति वनिब्बकजने अप्पके कतिपये जाते दुक्खं सुपामीति योजना. सूति च निपातमत्तं, अप्पके वनिब्बकजने सतीति अत्थो.
तं सुत्वा सिन्धको तस्स उळारं दानाधिमुत्तिं पाकटतरं कातुकामो –
२९७. ‘‘सक्को चे ते वरं दज्जा, तावतिंसानमिस्सरो;
किस्स सब्बस्स लोकस्स, वरमानो वरं वरे’’ति. –
गाथमाह. तस्सत्थो – तावतिंसानं देवानं सब्बस्स च लोकस्स इस्सरो सक्को ‘‘वरं वरस्सु, अङ्कुर, यंकिञ्चि मनसिच्छित’’न्ति तुय्हं वरं दज्जा ददेय्य चे, वरमानो पत्थयमानो किस्स कीदिसं वरं वरेय्यासीति अत्थो.
अथ अङ्कुरो अत्तनो अज्झासयं याथावतो पवेदेन्तो –