२. उब्बरिवग्गो
१. संसारमोचकपेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि वेळुवने विहरन्ते मगधरट्ठे इट्ठकवतीनामके गामे अञ्ञतरं पेतिं आरब्भ वुत्तं. मगधरट्ठे किर इट्ठकवती च दीघराजि चाति द्वे गामका अहेसुं, तत्थ बहू संसारमोचका मिच्छादिट्ठिका पटिवसन्ति. अतीते च काले पञ्चन्नं वस्ससतानं मत्थके अञ्ञतरा इत्थी तत्थेव इट्ठकवतियं अञ्ञतरस्मिं संसारमोचककुले निब्बत्तित्वा मिच्छादिट्ठिवसेन बहू कीटपटङ्गे जीविता वोरोपेत्वा पेतेसु निब्बत्ति.
सा पञ्च वस्ससतानि खुप्पिपासादिदुक्खं अनुभवित्वा अम्हाकं भगवति लोके उप्पज्जित्वा पवत्तितवरधम्मचक्के अनुक्कमेन राजगहं उपनिस्साय वेळुवने विहरन्ते पुनपि इट्ठकवतियंयेव अञ्ञतरस्मिं संसारमोचककुलेयेव निब्बत्तित्वा यदा सत्तट्ठवस्सुद्देसिककाले अञ्ञाहि दारिकाहि सद्धिं रथिकाय कीळनसमत्था अहोसि, तदा आयस्मा सारिपुत्तत्थेरो तमेव गामं उपनिस्साय अरुणवतीविहारे विहरन्तो एकदिवसं द्वादसहि भिक्खूहि सद्धिं तस्स गामस्स द्वारसमीपेन मग्गेन अतिक्कमति. तस्मिं खणे बहू गामदारिका गामतो निक्खमित्वा द्वारसमीपे कीळन्तियो पसन्नमानसा मातापितूनं पटिपत्तिदस्सनेन वेगेनागन्त्वा थेरं अञ्ञे च भिक्खू पञ्चपतिट्ठितेन वन्दिंसु. सा पनेसा अस्सद्धकुलस्स धीता चिरकालं अपरिचितकुसलताय साधुजनाचारविरहिता अनादरा अलक्खिका विय अट्ठासि. थेरो तस्सा पुब्बचरितं इदानि च संसारमोचककुले निब्बत्तनं आयतिञ्च निरये निब्बत्तनारहतं दिस्वा ‘‘सचायं मं वन्दिस्सति, निरये न उप्पज्जिस्सति, पेतेसु निब्बत्तित्वापि ममंयेव निस्साय सम्पत्तिं पटिलभिस्सती’’ति ञत्वा करुणासञ्चोदितमानसो ता दारिकायो आह – ‘‘तुम्हे भिक्खू वन्दथ, अयं पन दारिका अलक्खिका विय ठिता’’ति. अथ नं ता दारिका हत्थेसु परिग्गहेत्वा आकड्ढित्वा बलक्कारेन थेरस्स पादे वन्दापेसुं.
सा अपरेन समयेन वयप्पत्ता दीघराजियं संसारमोचककुले अञ्ञतरस्स कुमारस्स दिन्ना परिपुण्णगब्भा हुत्वा कालकता पेतेसु उप्पज्जित्वा नग्गा दुब्बण्णरूपा खुप्पिपासाभिभूता अतिविय बीभच्छदस्सना विचरन्ती रत्तियं आयस्मतो सारिपुत्तत्थेरस्स अत्तानं दस्सेत्वा एकमन्तं अट्ठासि. तं दिस्वा थेरो –
९५. ‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पुच्छि. तत्थ धमनिसन्थताति निम्मंसलोहितताय सिराजालेहि पत्थतगत्ता. उप्फासुलिकेति उग्गतफासुलिके. किसिकेति किससरीरे. पुब्बेपि ‘‘किसा’’ति वत्वा पुन ‘‘किसिके’’ति वचनं अट्ठिचम्मन्हारुमत्तसरीरताय अतिविय किसभावदस्सनत्थं वुत्तं. तं सुत्वा पेती अत्तानं पवेदेन्ती –
९६. ‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. – गाथं वत्वा पुन थेरेन –
९७. ‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति. –
कतकम्मं पुट्ठा ‘‘अदानसीला मच्छरिनी हुत्वा पेतयोनियं निब्बत्तित्वा एवं महादुक्खं अनुभवामी’’ति दस्सेन्ती तिस्सो गाथा अभासि –
९८. ‘‘अनुकम्पका मय्हं नाहेसुं भन्ते, पिता च माता अथवापि ञातका;
ये मं नियोजेय्युं ददाहि दानं, पसन्नचित्ता समणब्राह्मणानं.
९९. ‘‘इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गा;
खुदाय तण्हाय च खज्जमाना, पापस्स कम्मस्स फलं ममेदं.
१००. ‘‘वन्दामि तं अय्य पसन्नचित्ता, अनुकम्प मं वीर महानुभाव;
दत्वा च मे आदिस यञ्हि किञ्चि, मोचेहि मं दुग्गतिया भदन्ते’’ति.
९८. तत्थ अनुकम्पकाति सम्परायिकेन अत्थेन अनुग्गण्हका. भन्तेति थेरं आलपति. ये मं नियोजेय्युन्ति माता वा पिता वा अथ वा ञातका एदिसा पसन्नचित्ता हुत्वा ‘‘समणब्राह्मणानं ददाहि दान’’न्ति ये मं नियोजेय्युं, तादिसा अनुकम्पका मय्हं नाहेसुन्ति योजना.
९९. इतो अहं वस्ससतानि पञ्च, यं एवरूपा विचरामि नग्गाति इदं सा पेती इतो ततियाय जातिया अत्तनो पेतत्तभावं अनुस्सरित्वा इदानिपि तथा पञ्चवस्ससतानि विचरामीति अधिप्पायेनाह. तत्थ यन्ति यस्मा, दानादीनं पुञ्ञानं अकतत्ता एवरूपा नग्गा पेती हुत्वा इतो पट्ठाय वस्ससतानि पञ्च विचरामीति योजना. तण्हायाति पिपासाय. खज्जमानाति खादियमाना, बाधियमानाति अत्थो.
१००. वन्दामि तं अय्य पसन्नचित्ताति अय्य, तमहं पसन्नचित्ता हुत्वा वन्दामि, एत्तकमेव पुञ्ञं इदानि मया कातुं सक्काति दस्सेति. अनुकम्प मन्ति अनुग्गण्ह ममं उद्दिस्स अनुद्दयं करोहि. दत्वा च मे आदिस यञ्हि किञ्चीति किञ्चिदेव देय्यधम्मं समणब्राह्मणानं दत्वा तं दक्खिणं मय्हं आदिस, तेन मे इतो पेतयोनितो मोक्खो भविस्सतीति अधिप्पायेन वदति. तेनेवाह ‘‘मोचेहि मं दुग्गतिया भदन्ते’’ति.
एवं पेतिया वुत्ते यथा सो थेरो पटिपज्जि, तं दस्सेतुं सङ्गीतिकारेहि तिस्सो गाथा वुत्ता –
१०१. ‘‘साधूति सो पटिस्सुत्वा, सारिपुत्तोनुकम्पको;
भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, तस्सा दक्खिणमादिसि.
१०२. ‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनच्छादनपानीयं, दक्खिणाय इदं फलं.
१०३. ‘‘ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, सारिपुत्तं उपसङ्कमी’’ति.
१०१-१०३. तत्थ भिक्खूनन्ति भिक्खुनो, वचनविपल्लासेन हेतं वुत्तं. ‘‘आलोपं भिक्खुनो दत्वा’’ति केचि पठन्ति. आलोपन्ति कबळं, एकालोपमत्तं भोजनन्ति अत्थो. पाणिमत्तञ्च चोळकन्ति एकहत्थप्पमाणं चोळखण्डन्ति अत्थो. थालकस्स च पानीयन्ति एकथालकपूरणमत्तं उदकं. सेसं खल्लाटियपेतवत्थुस्मिं वुत्तनयमेव.
अथायस्मा सारिपुत्तो तं पेतिं पीणिन्द्रियं परिसुद्धछविवण्णं दिब्बवत्थाभरणालङ्कारं समन्ततो अत्तनो पभाय ओभासेन्तिं अत्तनो सन्तिकं उपगन्त्वा ठितं दिस्वा पच्चक्खतो कम्मफलं ताय विभावेतुकामो हुत्वा तिस्सो गाथा अभासि –
१०४. ‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
१०५. ‘‘केन तेतादिसो वण्णो, केन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
१०६. ‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा, वण्णो च ते सब्बदिसा पभासती’’ति.
१०४. तत्थ अभिक्कन्तेनाति अतिमनापेन, अभिरूपेनाति अत्थो. वण्णेनाति छविवण्णेन. ओभासेन्ती दिसा सब्बाति सब्बापि दस दिसा जोतेन्ती एकालोकं करोन्ती. यथा किन्ति आह ‘‘ओसधी विय तारका’’ति. उस्सन्ना पभा एताय धीयति, ओसधानं वा अनुबलप्पदायिकाति कत्वा ‘‘ओसधी’’ति लद्धनामा तारका यथा समन्ततो आलोकं कुरुमाना तिट्ठति, एवमेव त्वं सब्बदिसा ओभासेन्तीति अत्थो.
१०५. केनाति किं-सद्दो पुच्छायं. हेतुअत्थे चेतं करणवचनं, केन हेतुनाति अत्थो. तेति तव. एतादिसोति एदिसो, एतरहि यथादिस्समानोति वुत्तं होति. केन ते इध मिज्झतीति केन पुञ्ञविसेसेन इध इमस्मिं ठाने इदानि तया लब्भमानं सुचरितफलं इज्झति निप्फज्जति. उप्पज्जन्तीति निब्बत्तन्ति. भोगाति परिभुञ्जितब्बट्ठेन ‘‘भोगा’’ति लद्धनामा वत्थाभरणादिवित्तूपकरणविसेसा. ये केचीति भोगे अनवसेसतो ब्यापेत्वा सङ्गण्हाति. अनवसेसब्यापको हि अयं निद्देसो यथा ‘‘ये केचि सङ्खारा’’ति. मनसो पियाति मनसा पियायितब्बा, मनापियाति अत्थो.
१०६. पुच्छामीति पुच्छं करोमि, ञातुं इच्छामीति अत्थो. तन्ति त्वं. देवीति दिब्बानभावसमङ्गिताय, देवि. तेनाह ‘‘महानुभावे’’ति. मनुस्सभूताति मनुस्सेसु जाता मनुस्सभावं पत्ता. इदं येभुय्येन सत्ता मनुस्सत्तभावे ठिता पुञ्ञानि करोन्तीति कत्वा वुत्तं. अयमेतायं गाथानं सङ्खेपतो अत्थो, वित्थारतो पन परमत्थदीपनियं विमानवत्थुअट्ठकथायं वुत्तनयेनेव वेदितब्बो.
एवं पुन थेरेन पुट्ठा पेती तस्सा सम्पत्तिया लद्धकारणं पकासेन्ती सेसगाथा अभासि –
१०७. ‘‘उप्पण्डुकिं किसं छातं, नग्गं सम्पतितच्छविं;
मुनि कारुणिको लोके, तं मं अद्दक्खि दुग्गतं.
१०८. ‘‘भिक्खूनं आलोपं दत्वा, पाणिमत्तञ्च चोळकं;
थालकस्स च पानीयं, मम दक्खिणमादिसि.
१०९. ‘‘आलोपस्स फलं पस्स, भत्तं वस्ससतं दस;
भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनं.
११०. ‘‘पाणिमत्तस्स चोळस्स, विपाकं पस्स यादिसं;
यावता नन्दराजस्स, विजितस्मिं पटिच्छदा.
१११. ‘‘ततो बहुतरा भन्ते, वत्थानच्छादनानि मे;
कोसेय्यकम्बलीयानि, खोमकप्पासिकानि च.
११२. ‘‘विपुला च महग्घा च, तेपाकासेवलम्बरे;
साहं तं परिदहामि, यं यञ्हि मनसो पियं.
११३. ‘‘थालकस्स च पानीयं, विपाकं पस्स यादिसं;
गम्भीरा चतुरस्सा च, पोक्खरञ्ञो सुनिम्मिता.
११४. ‘‘सेतोदका सुप्पतित्था, सीता अप्पटिगन्धिया;
पदुमुप्पलसञ्छन्ना, वारिकिञ्जक्खपूरिता.
११५. ‘‘साहं रमामि कीळामि, मोदामि अकुतोभया;
मुनिं कारुणिकं लोके, भन्ते वन्दितुमागता’’ति.
१०७. तत्थ उप्पण्डुकिन्ति उप्पण्डुकजातं. छातन्ति बुभुक्खितं खुदाय अभिभूतं. सम्पतितच्छविन्ति छिन्नभिन्नसरीरच्छविं. लोकेति इदं ‘‘कारुणिको’’ति एत्थ वुत्तकरुणाय विसयदस्सनं. तं मन्ति तादिसं ममं, वुत्तनयेन एकन्ततो करुणट्ठानियं मं. दुग्गतन्ति दुग्गतिं गतं.
१०८-१०९. भिक्खूनं आलोपं दत्वातिआदि थेरेन अत्तनो करुणाय कताकारदस्सनं. तत्थ भत्तन्ति ओदनं, दिब्बभोजनन्ति अत्थो. वस्ससतं दसाति दस वस्ससतानि, वस्ससहस्सन्ति वुत्तं होति. अच्चन्तसंयोगे चेतं उपयोगवचनं. भुञ्जामि कामकामिनी, अनेकरसब्यञ्जनन्ति अञ्ञेहिपि कामेतब्बकामेहि समन्नागता अनेकरसब्यञ्जनं भत्तं भुञ्जामीति योजना.
११०. चोळस्साति देय्यधम्मसीसेन तब्बिसयं दानमयं पुञ्ञमेव दस्सेति. विपाकं पस्स यादिसन्ति तस्स चोळदानस्स विपाकसङ्खातं फलं पस्स, भन्ते. तं पन यादिसं यथारूपं, किन्ति चेति आह ‘‘यावता नन्दराजस्सा’’तिआदि.
तत्थ कोयं नन्दराजा नाम? अतीते किर दसवस्ससहस्सायुकेसु मनुस्सेसु बाराणसिवासी एको कुटुम्बिको अरञ्ञे जङ्घाविहारं विचरन्तो अरञ्ञट्ठाने अञ्ञतरं पच्चेकबुद्धं अद्दस. सो पच्चेकबुद्धो तत्थ चीवरकम्मं करोन्तो अनुवाते अप्पहोन्ते संहरित्वाव ठपेतुं आरद्धो. सो कुटुम्बिको तं दिस्वा, ‘‘भन्ते, किं करोथा’’ति वत्वा तेन अप्पिच्छताय किञ्चि अवुत्तेपि ‘‘चीवरदुस्सं नप्पहोती’’ति ञत्वा अत्तनो उत्तरासङ्गं पच्चेकबुद्धस्स पादमूले ठपेत्वा अगमासि. पच्चेकबुद्धो तं गहेत्वा अनुवातं आरोपेन्तो चीवरं कत्वा पारुपि. सो कुटुम्बिका जीवितपरियोसाने कालं कत्वा तावतिंसभवने निब्बत्तित्वा तत्थ यावतायुकं दिब्बसम्पत्तिं अनुभवित्वा ततो चवित्वा बाराणसितो योजनमत्ते ठाने अञ्ञतरस्मिं गामे अमच्चकुले निब्बत्ति.
तस्स वयप्पत्तकाले तस्मिं गामे नक्खत्तं सङ्घुट्ठं अहोसि. सो मातरं आह – ‘‘अम्म, साटकं मे देहि, नक्खत्तं कीळिस्सामी’’ति. सा सुधोतवत्थं नीहरित्वा अदासि. ‘‘अम्म, थूलं इद’’न्ति. अञ्ञं नीहरित्वा अदासि, तम्पि पटिक्खिपि. अथ नं माता आह – ‘‘तात, यादिसे गेहे मयं जाता, नत्थि नो इतो सुखुमतरस्स वत्थस्स पटिलाभाय पुञ्ञ’’न्ति. ‘‘लभनट्ठानं गच्छामि, अम्मा’’ति. ‘‘गच्छ, पुत्त, अहं अज्जेव तुय्हं बाराणसिनगरे रज्जपटिलाभं इच्छामी’’ति. सो ‘‘साधु, अम्मा’’ति मातरं वन्दित्वा पदक्खिणं कत्वा आह – ‘‘गच्छामि, अम्मा’’ति. ‘‘गच्छ, ताता’’ति. एवं किरस्सा चित्तं अहोसि – ‘‘कहं गमिस्सति, इध वा एत्थ वा गेहे निसीदिस्सती’’ति. सो पन पुञ्ञनियामेन चोदियमानो गामतो निक्खमित्वा बाराणसिं गन्त्वा मङ्गलसिलापट्टे ससीसं पारुपित्वा निपज्जि. सो च बाराणसिरञ्ञो कालकतस्स सत्तमो दिवसो होति.
अमच्चा च पुरोहितो च रञ्ञो सरीरकिच्चं कत्वा राजङ्गणे निसीदित्वा मन्तयिंसु – ‘‘रञ्ञो एका धीता अत्थि, पुत्तो नत्थि, अराजकं रज्जं न तिट्ठति, फुस्सरथं विस्सज्जेमा’’ति. ते कुमुदवण्णे चत्तारो सिन्धवे योजेत्वा सेतच्छत्तप्पमुखं पञ्चविधं राजककुधभण्डं रथस्मिंयेव ठपेत्वा रथं विस्सज्जेत्वा पच्छतो तूरियानि पग्गण्हापेसुं. रथो पाचीनद्वारेन निक्खमित्वा उय्यानाभिमुक्खो अहोसि. ‘‘परिचयेन उय्यानाभिमुखो गच्छति, निवत्तेमा’’ति केचि आहंसु. पुरोहितो ‘‘मा निवत्तयित्था’’ति आह. रथो कुमारं पदक्खिणं कत्वा आरोहनसज्जो हुत्वा अट्ठासि, पुरोहितो पारुपनकण्णं अपनेत्वा पादतलानि ओलोकेन्तो ‘‘तिट्ठतु अयं दीपो, द्विसहस्सदीपपरिवारेसु चतूसु महादीपेसु एकरज्जं कारेतुं युत्तो’’ति वत्वा ‘‘तूरियानि पग्गण्हथ, पुनपि पग्गण्हथा’’ति तिक्खत्तुं तूरियानि पग्गण्हापेसि.
अथ कुमारो मुखं विवरित्वा ओलोकेत्वा ‘‘केन कम्मेन आगतत्थ, ताता’’ति आह. ‘‘देव, तुम्हाकं रज्जं पापुणाती’’ति. ‘‘तुम्हाकं राजा कह’’न्ति? ‘‘दिवङ्गतो, सामी’’ति. ‘‘कति दिवसा अतिक्कन्ता’’ति? ‘‘अज्ज सत्तमो दिवसो’’ति. ‘‘पुत्तो वा धीता वा नत्थी’’ति? ‘‘धीता अत्थि, देव, पुत्तो नत्थी’’ति. ‘‘तेन हि करिस्सामि रज्ज’’न्ति. ते तावदेव अभिसेकमण्डपं कत्वा राजधीतरं सब्बालङ्कारेहि अलङ्करित्वा उय्यानं आनेत्वा कुमारस्स अभिसेकं अकंसु.
अथस्स कताभिसेकस्स सतसहस्सग्घनिकं वत्थं उपनेसुं. सो ‘‘किमिदं, ताता’’ति आह. ‘‘निवासनवत्थं, देवा’’ति. ‘‘ननु, ताता, थूल’’न्ति? ‘‘मनुस्सानं परिभोगवत्थेसु इतो सुखुमतरं नत्थि, देवा’’ति. ‘‘तुम्हाकं राजा एवरूपं निवासेसी’’ति? ‘‘आम, देवा’’ति. ‘‘न मञ्ञे पुञ्ञवा तुम्हाकं राजा (अ. नि. अट्ठ. १.१.१९१) सुवण्णभिङ्कारं आहरथ, लभिस्सामि वत्थ’’न्ति. सुवण्णभिङ्कारं आहरिंसु. सो उट्ठाय हत्थे धोवित्वा मुखं विक्खालेत्वा हत्थेन उदकं आदाय पुरत्थिमदिसायं अब्भुक्किरि. तदा घनपथविं भिन्दित्वा अट्ठ कप्परुक्खा उट्ठहिंसु. पुन उदकं गहेत्वा दक्खिणाय पच्छिमाय उत्तरायाति एवं चतूसु दिसासु अब्भुक्किरि. सब्बदिसासु अट्ठ अट्ठ कत्वा द्वत्तिंस कप्परुक्खा उट्ठहिंसु. एकेकाय दिसाय सोळस सोळस कत्वा चतुसट्ठि कम्मरुक्खाति केचि वदन्ति. सो एकं दिब्बदुस्सं निवासेत्वा एकं पारुपित्वा ‘‘नन्दरञ्ञो विजिते सुत्तकन्तिका इत्थियो मा सुत्तं कन्तिंसूति भेरिं चरापेथा’’ति वत्वा छत्तं उस्सापेत्वा अलङ्कतपटियत्तो हत्थिक्खन्धवरगतो नगरं पविसित्वा पासादं आरुय्ह महासम्पत्तिं अनुभवि.
एवं गच्छन्ते काले एकदिवसं देवी रञ्ञो सम्पत्तिं दिस्वा ‘‘अहो तपस्सी’’ति कारुञ्ञाकारं दस्सेसि. ‘‘किमिदं, देवी’’ति च पुट्ठा ‘‘अतिमहती ते, देव, सम्पत्ति. अतीते अद्धनि कल्याणं अकत्थ, इदानि अनागतस्स अत्थाय कुसलं न करोथा’’ति आह. ‘‘कस्स देम? सीलवन्तो नत्थी’’ति. ‘‘असुञ्ञो, देव, जम्बुदीपो अरहन्तेहि, तुम्हे दानमेव सज्जेथ, अहं अरहन्ते लच्छामी’’ति आह. पुनदिवसे राजा महारहं दानं सज्जापेसि. देवी ‘‘सचे इमिस्साय दिसाय अरहन्तो अत्थि, इधागन्त्वा अम्हाकं भिक्खं गण्हन्तू’’ति अधिट्ठहित्वा उत्तरदिसाभिमुखा उरेन निपज्जि. निपन्नमत्ताय एव देविया हिमवन्ते वसन्तानं पदुमवतिया पुत्तानं पञ्चसतानं पच्चेकबुद्धानं जेट्ठको महापदुमपच्चेकबुद्धो भातिके आमन्तेसि – ‘‘मारिसा नन्दराजा तुम्हे निमन्तेति, अधिवासेथ तस्सा’’ति. ते अधिवासेत्वा तावदेव आकासेनागन्त्वा उत्तरद्वारे ओतरिंसु. मनुस्सा ‘‘पञ्चसता, देव, पच्चेकबुद्धा आगता’’ति रञ्ञो आरोचेसुं. राजा सद्धिं देविया आगन्त्वा वन्दित्वा पत्तं गहेत्वा पच्चेकबुद्धे पासादं आरोपेत्वा तत्थ तेसं दानं दत्वा भत्तकिच्चावसाने राजा सङ्घत्थेरस्स, देवी सङ्घनवकस्स पादमूले निपज्जित्वा ‘‘अय्या, पच्चयेहि न किलमिस्सन्ति, मयं पुञ्ञेन न हायिस्साम, अम्हाकं इध निवासाय पटिञ्ञं देथा’’ति पटिञ्ञं कारेत्वा उय्याने निवासट्ठानानि कारेत्वा यावजीवं पच्चेकबुद्धे उपट्ठहित्वा तेसु परिनिब्बुतेसु साधुकीळितं कारेत्वा गन्धदारुआदीहि सरीरकिच्चं कारेत्वा धातुयो गहेत्वा चेतियं पतिट्ठापेत्वा ‘‘एवरूपानम्पि नाम महानुभावानं महेसीनं मरणं भविस्सति, किमङ्गं पन मादिसान’’न्ति संवेगजातो जेट्ठपुत्तं रज्जे पतिट्ठापेत्वा सयं तापसपब्बज्जं पब्बजि. देवीपि ‘‘रञ्ञे पब्बजिते अहं किं करिस्सामी’’ति पब्बजि. द्वेपि उय्याने वसन्ता झानानि निब्बत्तेत्वा झानसुखेन वीतिनामेत्वा आयुपरियोसाने ब्रह्मलोके निब्बत्तिंसु. सो किर नन्दराजा अम्हाकं सत्थु महासावको महाकस्सपत्थेरो अहोसी, तस्स अग्गमहेसी भद्दा कापिलानी नाम.
अयं पन नन्दराजा दस वस्ससहस्सानि सयं दिब्बवत्थानि परिदहन्तो सब्बमेव अत्तनो विजितं उत्तरकुरुसदिसं करोन्तो आगतागतानं मनुस्सानं दिब्बदुस्सानि अदासि. तयिदं दिब्बवत्थसमिद्धिं सन्धाय सा पेती आह ‘‘यावता नन्दराजस्स, विजितस्मिं पटिच्छदा’’ति. तत्थ विजितस्मिन्ति रट्ठे. पटिच्छदाति वत्थानि. तानि हि पटिच्छादेन्ति एतेहीति ‘‘पटिच्छदा’’ति वुच्चन्ति.
१११. इदानि सा पेती ‘‘नन्दराजसमिद्धितोपि एतरहि मय्हं समिद्धि विपुलतरा’’ति दस्सेन्ती ‘‘ततो बहुतरा, भन्ते, वत्थानच्छादनानि मे’’तिआदिमाह. तत्थ ततोति नन्दराजस्स परिग्गहभूतवत्थतोपि बहुतरानि मय्हं वत्थच्छादनानीति अत्थो. वत्थानच्छादनानीति निवासनवत्थानि चेव पारुपनवत्थानि च. कोसेय्यकम्बलीयानीति कोसेय्यानि चेव कम्बलानि च. खोमकप्पासिकानीति खोमवत्थानि चेव कप्पासमयवत्थानि च.
११२. विपुलाति आयामतो च वित्थारतो च विपुला. महग्घाति महग्घवसेन महन्ता महारहा. आकासेवलम्बरेति आकासेयेव ओलम्बमाना तिट्ठन्ति. यं यञ्हि मनसो पियन्ति यं यं मय्हं मनसो पियं, तं तं गहेत्वा परिदहामि पारुपामि चाति योजना.
११३. थालकस्स च पानीयं, विपाकं पस्स यादिसन्ति थालकपूरणमत्तं पानीयं दिन्नं अनुमोदितं, तस्स पन विपाकं यादिसं याव महन्तं पस्साति दस्सेन्ती ‘‘गम्भीरा चतुरस्सा चा’’तिआदिमाह. तत्थ गम्भीराति अगाधा. चतुरस्साति चतुरस्ससण्ठाना. पोक्खरञ्ञोति पोक्खरणियो. सुनिम्मिताति कम्मानुभावेनेव सुट्ठु निम्मिता.
११४. सेतोदकाति सेतउदका सेतवालुकसम्परिकिण्णा. सुप्पतित्थाति सुन्दरतित्था. सीताति सीतलोदका. अप्पटिगन्धियाति पटिकूलगन्धरहिता सुरभिगन्धा. वारिकिञ्जक्खपूरिताति कमलकुवलयादीनं केसरसञ्छन्नेन वारिना परिपुण्णा.
११५. साहन्ति सा अहं. रमामीति रतिं विन्दामि. कीळामीति इन्द्रियानि परिचारेमि. मोदामीति भोगसम्पत्तिया पमुदिता होमि. अकुतोभयाति कुतोचिपि असञ्जातभया, सेरी सुखविहारिनी होमि. भन्ते, वन्दितुमागताति, भन्ते, इमिस्सा दिब्बसम्पत्तिया पटिलाभस्स कारणभूतं त्वं वन्दितुं आगता उपगताति अत्थो. यं पनेत्थ अत्थतो अविभत्तं, तं तत्थ तत्थ वुत्तमेव.
एवं ताय पेतिया वुत्ते आयस्मा सारिपुत्तो इट्ठकवतियं दीघराजियन्ति गामद्वयवासिकेसु अत्तनो सन्तिकं उपगतेसु मनुस्सेसु इममत्थं वित्थारतो कथेन्तो संवेजेत्वा संसारमोचनपापकम्मतो मोचेत्वा उपासकभावे पतिट्ठापेसि. सा पवत्ति भिक्खूसु पाकटा जाता. तं भिक्खू भगवतो आरोचेसुं. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.
संसारमोचकपेतिवत्थुवण्णना निट्ठिता.
२. सारिपुत्तत्थेरमातुपेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि वेळुवने विहरन्ते आयस्मतो सारिपुत्तत्थेरस्स इतो पञ्चमाय जातिया मातुभूतं पेतिं आरब्भ वुत्तं. एकदिवसं आयस्मा च सारिपुत्तो आयस्मा च महामोग्गल्लानो आयस्मा च अनुरुद्धो आयस्मा च कप्पिनो राजगहस्स अविदूरे अञ्ञतरस्मिं अरञ्ञायतने विहरन्ति. तेन च समयेन बाराणसियं अञ्ञतरो ब्राह्मणो अड्ढो महद्धनो महाभोगो समणब्राह्मणकपणद्धिकवनिब्बकयाचकानं ओपानभूतो अन्नपानवत्थसयनादीनि देति. देन्तो च आगतागतानं यथाकालं यथारहञ्च पादोदकपादब्भञ्जनादिदानानुपुब्बकं सब्बाभिदेय्यं पटिपन्नो होति, पुरेभत्तं भिक्खू अन्नपानादिना सक्कच्चं परिविसति. सो देसन्तरं गच्छन्तो भरियं आह – ‘‘भोति, यथापञ्ञत्तं इमं दानविधिं अपरिहापेन्ती सक्कच्चं अनुपतिट्ठाही’’ति. सा ‘‘साधू’’ति पटिस्सुणित्वा तस्मिं पक्कन्ते एव ताव भिक्खूनं पञ्ञत्तं दानविधिं पच्छिन्दि, अद्धिकानं पन निवासत्थाय उपगतानं गेहपिट्ठितो छड्डितं जरसालं दस्सेसि ‘‘एत्थ वसथा’’ति. अन्नपानादीनं अत्थाय तत्थ अद्धिकेसु आगतेसु ‘‘गूथं खादथ, मुत्तं पिवथ, लोहितं पिवथ, तुम्हाकं मातु मत्थलुङ्गं खादथा’’ति यं यं असुचि जेगुच्छं, तस्स तस्स नामं गहेत्वा निट्ठुरं वदति.
सा अपरेन समयेन कालं कत्वा कम्मानुभावुक्खित्ता पेतयोनियं निब्बत्तित्वा अत्तनो वचीदुच्चरितानुरूपं दुक्खं अनुभवन्ती पुरिमजातिसम्बन्धं अनुस्सरित्वा आयस्मतो सारिपुत्तस्स सन्तिकं उपसङ्कमितुकामा तस्स विहारद्वारं सम्पापुणि, तस्स विहारद्वारदेवतायो विहारप्पवेसनं निवारेसुं. सा किर इतो पञ्चमाय जातिया थेरस्स मातुभूतपुब्बा, तस्मा एवमाह – ‘‘अहं अय्यस्स सारिपुत्तत्थेरस्स इतो पञ्चमाय जातीया माता, देथ मे द्वारप्पवेसनं थेरं दट्ठु’’न्ति. तं सुत्वा देवता तस्सा पवेसनं अनुजानिंसु. सा पविसित्वा चङ्कमनकोटियं ठत्वा थेरस्स अत्तानं दस्सेसि. थेरो तं दिस्वा करुणाय सञ्चोदितमानसो हुत्वा –
११६. ‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पुच्छि. सा थेरेन पुट्ठा पटिवचनं देन्ती –
११७. ‘‘अहं ते सकिया माता, पुब्बे अञ्ञासु जातीसु;
उपपन्ना पेत्तिविसयं, खुप्पिपाससमप्पिता.
११८. ‘‘छड्डितं खिपितं खेळं, सिङ्घाणिकं सिलेसुमं;
वसञ्च डय्हमानानं, विजातानञ्च लोहितं.
११९. ‘‘वणिकानञ्च यं घान-सीसच्छिन्नान लोहितं;
खुदापरेता भुञ्जामि, इच्छिपुरिसनिस्सितं.
१२०. ‘‘पुब्बलोहितं भक्खामि, पसूनं मानुसान च;
अलेणा अनगारा च, नीलमञ्चपरायणा.
१२१. ‘‘देहि पुत्तक मे दानं, दत्वा अन्वादिसाहि मे;
अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजना’’ति. – पञ्चगाथा अभासि;
११७. तत्थ अहं ते सकिया माताति अहं तुय्हं जननिभावतो सकिया माता. पुब्बे अञ्ञासु जातीसूति माता होन्तीपि न इमिस्सं जातियं, अथ खो पुब्बे अञ्ञासु जातीसु, इतो पञ्चमियन्ति दट्ठब्बं. उपपन्ना पेत्तिविसयन्ति पटिसन्धिवसेन पेतलोकं उपगता. खुप्पिपाससमप्पिताति खुदाय च पिपासाय च अभिभूता, निरन्तरं जिघच्छापिपासाहि अभिभुय्यमानाति अत्थो.
११८-११९. छड्डितन्ति उच्छिट्ठकं, वन्तन्ति अत्थो. खिपितन्ति खिपितेन सद्धिं मुखतो निक्खन्तमलं. खेळन्ति निट्ठुभं. सिङ्घाणिकन्ति मत्थलुङ्गतो विस्सन्दित्वा नासिकाय निक्खन्तमलं. सिलेसुमन्ति सेम्हं. वसञ्च डय्हमानानन्ति चितकस्मिं डय्हमानानं कळेवरानं वसातेलञ्च. विजातानञ्च लोहितन्ति पसूतानं इत्थीनं लोहितं, गब्भमलं च-सद्देन सङ्गण्हाति. वणिकानन्ति सञ्जातवणानं. यन्ति यं लोहितन्ति सम्बन्धो. घानसीसच्छिन्नानन्ति घानच्छिन्नानं सीसच्छिन्नानञ्च यं लोहितं, तं भुञ्जामीति योजना. देसनासीसमेतं ‘‘घानसीसच्छिन्नान’’न्ति, यस्मा हत्थपादादिच्छिन्नानम्पि लोहितं भुञ्जामियेव. तथा ‘‘वणिकान’’न्ति इमिना तेसम्पि लोहितं सङ्गहितन्ति दट्ठब्बं. खुदापरेताति जिघच्छाभिभूता हुत्वा. इत्थिपुरिसनिस्सितन्ति इत्थिपुरिससरीरनिस्सितं यथावुत्तं अञ्ञञ्च चम्ममंसन्हारुपुब्बादिकं परिभुञ्जामीति दस्सेति.
१२०-१२१. पसूनन्ति अजगोमहिंसादीनं. अलेणाति असरणा. अनगाराति अनावासा. नीलमञ्चपरायणाति सुसाने छड्डितमलमञ्चसयना. अथ वा नीलाति छारिकङ्गारबहुला सुसानभूमि अधिप्पेता, तंयेव मञ्चं विय अधिसयनाति अत्थो. अन्वादिसाहि मेति यथा दिन्नं दक्खिणं मय्हं उपकप्पति, तथा उद्दिस पत्तिदानं देहि. अप्पेव नाम मुच्चेय्यं, पुब्बलोहितभोजनाति तव उद्दिसनेन एतस्मा पुब्बलोहितभोजना पेतजीविका अपि नाम मुच्चेय्यं.
तं सुत्वा आयस्मा सारिपुत्तत्थेरो दुतियदिवसे महामोग्गल्लानत्थेरादिके तयो थेरे आमन्तेत्वा तेहि सद्धिं राजगहे पिण्डाय चरन्तो रञ्ञो बिम्बिसारस्स निवेसनं अगमासि. राजा थेरे दिस्वा वन्दित्वा ‘‘किं, भन्ते, आगतत्था’’ति आगमनकारणं पुच्छि. आयस्मा महामोग्गल्लानो तं पवत्तिं रञ्ञो आरोचेसि. राजा ‘‘अञ्ञातं, भन्ते’’ति वत्वा थेरे विस्सज्जेत्वा सब्बकम्मिकं अमच्चं पक्कोसापेत्वा आणापेसि ‘‘नगरस्स अविदूरे विवित्ते छायूदकसम्पन्ने ठाने चतस्सो कुटियो कारेही’’ति. अन्तेपुरे च पहोनकविसेसवसेन तिधा विभजित्वा चतस्सो कुटियो पटिच्छापेसि, सयञ्च तत्थ गन्त्वा कातब्बयुत्तकं अकासि. निट्ठितासु कुटिकासु सब्बं बलिकरणं सज्जापेत्वा अन्नपानवत्थादीनि बुद्धप्पमुखस्स चातुद्दिसस्स भिक्खुसङ्घस्स अनुच्छविके सब्बपरिक्खारे च उपट्ठापेत्वा आयस्मतो सारिपुत्तत्थेरस्स तं सब्बं निय्यादेसि. अथ थेरो तं पेतिं उद्दिस्स तं सब्बं बुद्धप्पमुखस्स चातुद्दिसस्स भिक्खुसङ्घस्स अदासि. सा पेती तं अनुमोदित्वा देवलोके निब्बत्तित्वा सब्बकामसमिद्धा च हुत्वा अपरदिवसे आयस्मतो महामोग्गल्लानत्थेरस्स सन्तिकं उपगन्त्वा वन्दित्वा अट्ठासि. तं थेरो पटिपुच्छि, सा अत्तनो पेतूपपत्तिं पुन देवूपपत्तिञ्च वित्थारतो कथेसि. तेन वुत्तं –
१२२. ‘‘मातुया वचनं सुत्वा, उपतिस्सोनुकम्पको;
आमन्तयि मोग्गल्लानं, अनुरुद्धञ्च कप्पिनं.
१२३. ‘‘चतस्सो कुटियो कत्वा, सङ्घे चातुद्दिसे अदा;
कुटियो अन्नपानञ्च, मातु दक्खिणमादिसी.
१२४. ‘‘समनन्तरानुद्दिट्ठे, विपाको उदपज्जथ;
भोजनं पानीयं वत्थं, दक्खिणाय इदं फलं.
१२५. ‘‘ततो सुद्धा सुचिवसना, कासिकुत्तमधारिनी;
विचित्तवत्थाभरणा, कोलिकं उपसङ्कमी’’ति.
१२३. तत्थ सङ्घे चातुद्दिसे अदाति चातुद्दिसस्स सङ्घस्स अदासि, निय्यादेसीति अत्थो. सेसं वुत्तत्थमेव.
अथायस्मा महामोग्गल्लानो तं पेतिं –
१२६. ‘‘अभिक्कन्तेन वण्णेन, या त्वं तिट्ठसि देवते;
ओभासेन्ती दिसा सब्बा, ओसधी विय तारका.
१२७. ‘‘केन तेतादिसो वण्णो, तेन ते इध मिज्झति;
उप्पज्जन्ति च ते भोगा, ये केचि मनसो पिया.
१२८. ‘‘पुच्छामि तं देवि महानुभावे, मनुस्सभूता किमकासि पुञ्ञं;
केनासि एवं जलितानुभावा,
वण्णो च ते सब्बदिसा पभासती’’ति. – पुच्छि;
१२९-१३३. अथ सा ‘‘सारिपुत्तस्साहं माता’’तिआदिना विस्सज्जेसि. सेसं वुत्तत्थमेव. अथायस्मा महामोग्गल्लानो तं पवत्तिं भगवतो आरोचेसि. भगवा तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.
सारिपुत्तत्थेरमातुपेतिवत्थुवण्णना निट्ठिता.
३. मत्तापेतिवत्थुवण्णना
नग्गा दुब्बण्णरूपासीति इदं सत्थरि जेतवने विहरन्ते मत्तं नाम पेतिं आरब्भ वुत्तं. सावत्थियं किर अञ्ञतरो कुटुम्बिको सद्धो पसन्नो अहोसि. तस्स भरिया अस्सद्धा अप्पसन्ना कोधना वञ्झा च अहोसि नामेन मत्ता नाम. अथ सो कुटुम्बिको कुलवंसूपच्छेदनभयेन सदिसकुलतो तिस्सं नाम अञ्ञं कञ्ञं आनेसि. सा अहोसि सद्धा पसन्ना सामिनो च पिया मनापा, सा नचिरस्सेव गब्भिनी हुत्वा दसमासच्चयेन पुत्तं विजायि, ‘‘भूतो’’तिस्स नामं अहोसि. सा गेहस्सामिनी हुत्वा चत्तारो भिक्खू सक्कच्चं उपट्ठहि, वञ्झा पन तं उसूयति.
ता उभोपि एकस्मिं दिवसे सीसं न्हत्वा अल्लकेसा अट्ठंसु, कुटुम्बिको गुणवसेन तिस्साय आबद्धसिनेहो मनुञ्ञेन हदयेन ताय सद्धिं बहुं सल्लपन्तो अट्ठासि. तं असहमाना मत्ता इस्सापकता गेहे सम्मज्जित्वा ठपितं सङ्कारं तिस्साय मत्थके ओकिरि. सा अपरेन समयेन कालं कत्वा पेतयोनियं निब्बत्तित्वा अत्तनो कम्मबलेन पञ्चविधं दुक्खं अनुभवति. तं पन दुक्खं पाळितो एव विञ्ञायति. अथेकदिवसं सा पेती सञ्झाय वीतिवत्ताय गेहस्स पिट्ठिपस्से न्हायन्तिया तिस्साय अत्तानं दस्सेसि. तं दिस्वा तिस्सा –
१३४. ‘‘नग्गा दुब्बण्णरूपासि, किसा धमनिसन्थता;
उप्फासुलिके किसिके, का नु त्वं इध तिट्ठसी’’ति. –
गाथाय पटिपुच्छि. इतरा –
१३५. ‘‘अहं मत्ता तुवं तिस्सा, सपत्ती ते पुरे अहुं;
पापकम्मं करित्वान, पेतलोकं इतो गता’’ति. –
गाथाय पटिवचनं अदासि. तत्थ अहं मत्ता तुवं तिस्साति अहं मत्ता नाम, तुवं तिस्सा नाम. पुरेति पुरिमत्तभावे. तेति तुय्हं सपत्ती अहुं, अहोसिन्ति अत्थो. पुन तिस्सा –
१३६. ‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;
किस्सकम्मविपाकेन, पेतलोकं इतो गता’’ति. –
गाथाय कतकम्मं पुच्छि. पुन इतरा –
१३७. ‘‘चण्डी च फरुसा चासिं, इस्सुकी मच्छरी सठा;
ताहं दुरुत्तं वत्वान, पेतलोकं इतो गता’’ति. –
गाथाय अत्तना कतकम्मं आचिक्खि. तत्थ चण्डीति कोधना. फरुसाति फरुसवचना. आसिन्ति अहोसिं. ताहन्ति तं अहं. दुरुत्तन्ति दुब्भासितं निरत्थकवचनं. इतो परम्पि तासं वचनपटिवचनवसेनेव गाथा पवत्ता –
१३८. ‘‘सब्बं अहम्पि जानामि, यथा त्वं चण्डिका अहु;
अञ्ञञ्च खो तं पुच्छामि, केनासि पंसुकुन्थिता.
१३९. ‘‘सीसंन्हाता तुवं आसि, सुचिवत्था अलङ्कता;
अहञ्च खो अधिमत्तं, समलङ्कततरा तया.
१४०. ‘‘तस्सा मे पेक्खमानाय, सामिकेन समन्तयि;
ततो मे इस्सा विपुला, कोधो मे समजायथ.
१४१. ‘‘ततो पंसुं गहेत्वान, पंसुना तञ्हि ओकिरिं;
तस्सकम्मविपाकेन, तेनम्हि पंसुकुन्थिता.
१४२. ‘‘सब्बं अहम्पि जानामि, पंसुना मं त्वमोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केन खज्जसि कच्छुया.
१४३. ‘‘भेसज्जहारी उभयो, वनन्तं अगमिम्हसे;
त्वञ्च भेसज्जमाहरि, अहञ्च कपिकच्छुनो.
१४४. ‘‘तस्सा त्याजानमानाय, सेय्यं त्याहं समोकिरिं;
तस्सकम्मविपाकेन, तेन खज्जामि कच्छुया.
१४५. ‘‘सब्बं अहम्पि जानामि, सेय्यं मे त्वं समोकिरि;
अञ्ञञ्च खो तं पुच्छामि, केनासि नग्गिया तुवं.
१४६. ‘‘सहायानं समयो आसि, ञातीनं समिती अहु;
त्वञ्च आमन्तिता आसि, ससामिनी नो च खोहं.
१४७. ‘‘तस्सा त्याजानमानाय, दुस्सं त्याहं अपानुदिं;