६. पञ्चपुत्तखादकपेतिवत्थुवण्णना

नग्गा दुब्बण्णरूपासीति इदं सत्थरि सावत्थियं विहरन्ते पञ्चपुत्तखादकपेतिं आरब्भ वुत्तं. सावत्थिया किर अविदूरे गामके अञ्ञतरस्स कुटुम्बिकस्स भरिया वञ्झा अहोसि. तस्स ञातका एतदवोचुं – ‘‘तव पजापति वञ्झा, अञ्ञं ते कञ्ञं आनेमा’’ति. सो तस्सो भरियाय सिनेहेन न इच्छि. अथस्स भरिया तं पवत्तिं सुत्वा सामिकं एवमाह – ‘‘सामि, अहं वञ्झा, अञ्ञा कञ्ञा आनेतब्बा, मा ते कुलवंसो उपच्छिज्जी’’ति. सो ताय निप्पीळियमानो अञ्ञं कञ्ञं आनेसि. सा अपरेन समयेन गब्भिनी अहोसि. वञ्झित्थी – ‘‘अयं पुत्तं लभित्वा इमस्स गेहस्स इस्सरा भविस्सती’’ति इस्सापकता तस्सा गब्भपातनूपायं परियेसन्ती अञ्ञतरं परिब्बाजिकं अन्नपानादीहि सङ्गण्हित्वा ताय तस्सा गब्भपातनं दापेसि. सा गब्भे पतिते अत्तनो मातुया आरोचेसि, माता अत्तनो ञातके समोधानेत्वा तमत्थं निवेदेसि. ते वञ्झित्थिं एतदवोचुं – ‘‘तया इमिस्सा गब्भो पातितो’’ति? ‘‘नाहं पातेमी’’ति. ‘‘सचे तया गब्भो न पातितो, सपथं करोही’’ति. ‘‘सचे मया गब्भो पातितो, दुग्गतिपरायणा खुप्पिपासाभिभूता सायं पातं पञ्च पञ्च पुत्ते विजायित्वा खादित्वा तित्तिं न गच्छेय्यं, निच्चं दुग्गन्धा मक्खिकापरिकिण्णा च भवेय्य’’न्ति मुसा वत्वा सपथं अकासि. सा नचिरस्सेव कालं कत्वा तस्सेव गामस्स अविदूरे दुब्बण्णरूपा पेती हुत्वा निब्बत्ति.

तदा जनपदे वुत्थवस्सा अट्ठ थेरा सत्थु दस्सनत्थं सावत्थिं आगच्छन्ता तस्स गामस्स अविदूरे छायूदकसम्पन्ने अरञ्ञट्ठाने वासं उपगच्छिंसु. अथ सा पेती थेरानं अत्तानं दस्सेसि. तेसु सङ्घत्थेरो तं पेतिं –

२६. ‘‘नग्गा दुब्बण्णरूपासि, दुग्गन्धा पूति वायसि;

मक्खिकाहि परिकिण्णा, का नु त्वं इध तिट्ठसी’’ति. –

गाथाय पटिपुच्छि. तत्थ नग्गाति निच्चोळा. दुब्बण्णरूपासीति णविरूपा अतिविय बीभच्छरूपेन समन्नागता असि. दुग्गन्धाति अनिट्ठगन्धा. पूति वायसीति सरीरतो कुणपगन्धं वायसि. मक्खिकाहि परिकिण्णाति नीलमक्खिकाहि समन्ततो आकिण्णा. का नु त्वं इध तिट्ठसीति का नाम एवरूपा इमस्मिं ठाने तिट्ठसि, इतो चितो च विचरसीति अत्थो.

अथ सा पेती महाथेरेन एवं पुट्ठा अत्तानं पकासेन्ती सत्तानं संवेगं जनेन्ती –

२७. ‘‘अहं भदन्ते पेतीम्हि, दुग्गता यमलोकिका;

पापकम्मं करित्वान, पेतलोकं इतो गता.

२८. ‘‘कालेन पञ्च पुत्तानि, सायं पञ्च पुनापरे;

विजायित्वान खादामि, तेपि ना होन्ति मे अलं.

२९. ‘‘परिडय्हति धूमायति, खुदाय हदयं मम;

पानीयं न लभे पातुं, पस्स मं ब्यसनं गत’’न्ति. –

इमा तिस्सो गाथा अभासि.

२७. तत्थ भदन्तेति थेरं गारवेन आलपति. दुग्गताति दुग्गतिं गता. यमलोकिकाति ‘‘यमलोको’’ति लद्धनामे पेतलोके तत्थ परियापन्नभावेन विदिता. इतो गताति इतो मनुस्सलोकतो पेतलोकं उपपज्जनवसेन गता, उपपन्नाति अत्थो.

२८. कालेनाति रत्तिया विभातकाले. भुम्मत्थे हि एतं करणवचनं. पञ्च पुत्तानीति पञ्च पुत्ते. लिङ्गविपल्लासेन हेतं वुत्तं. सायं पञ्च पुनापरेति सायन्हकाले पुन अपरे पञ्च पुत्ते खादामीति योजना. विजायित्वानाति दिवसे दिवसे दस दस पुत्ते विजायित्वा. तेपि ना होन्ति मे अलन्ति तेपि दसपुत्ता एकदिवसं मय्हं खुदाय पटिघाताय अहं परियत्ता न होन्ति. गाथासुखत्थञ्हेत्थ ना-इति दीघं कत्वा वुत्तं.

२९. परिडय्हति धूमायति खुदाय हदयं ममाति खुदाय जिघच्छाय बाधियमानाय मम हदयपदेसो उदरग्गिना परिसमन्ततो झायति धूमायति सन्तप्पति. पानीयं न लभे पातुन्ति पिपासाभिभूता तत्थ तत्थ विचरन्ती पानीयम्पि पातुं न लभामि. पस्स मं ब्यसनं गतन्ति पेतूपपत्तिया साधारणं असाधारणञ्च इमं ईदिसं ब्यसनं उपगतं मं पस्स, भन्तेति अत्तना अनुभवियमानं दुक्खं थेरस्स पवेदेसि.

तं सुत्वा थेरो ताय कतकम्मं पुच्छन्तो –

३०. ‘‘किं नु कायेन वाचाय, मनसा दुक्कटं कतं;

किस्स कम्मविपाकेन, पुत्तमंसानि खादसी’’ति. –

गाथमाह. तत्थ दुक्कटन्ति दुच्चरितं. किस्स कम्मविपाकेनाति कीदिसस्स कम्मस्स विपाकेन, किं पाणातिपातस्स, उदाहु अदिन्नादानादीसु अञ्ञतरस्साति अत्थो. ‘‘केन कम्मविपाकेना’’ति केचि पठन्ति.

अथ सा पेती अत्तना कतकम्मं थेरस्स कथेन्ती –

३१. ‘‘सपती मे गब्भिनी आसि, तस्सा पापं अचेतयिं;

साहं पदुट्ठमनसा, अकरिं गब्भपातनं.

३२. ‘‘तस्स द्वेमासिको गब्भो, लोहितञ्ञेव पग्घरि;

तदस्सा माता कुपिता, मय्हं ञाती समानयि;

सपथञ्च मं अकारेसि, परिभासापयी च मं.

३३. ‘‘साहं घोरञ्च सपथं, मुसावादं अभासिसं;

‘पुत्तमंसानि खादामि, सचे तं पकतं मया’.

३४. ‘‘तस्स कम्मस्स विपाकेन, मुसावादस्स चूभयं;

पुत्तमंसानि खादामि, पुब्बलोहितमक्खिता’’ति. – गाथायो अभासि;

३१-३२. तत्थ सपतीति समानपतिका इत्थी वुच्चति. तस्सा पापं अचेतयिन्ति तस्स सपतिया पापं लुद्दकं कम्मं अचेतयिं. पदुट्ठमनसाति पदुट्ठचित्ता, पदुट्ठेन वा मनसा. द्वेमासिकोति द्वेमासजातो पतिट्ठितो हुत्वा द्वेमासिका. लोहितञ्ञेव पग्घरीति विपज्जमानो रुहिरञ्ञेव हुत्वा विस्सन्दि. तदस्सा माता कुपिता, मय्हं ञाती समानयीति तदा अस्सा सपतिया माता मय्हं कुपिता अत्तनो ञातके समोधानेसि. ‘‘ततस्सा’’ति वा पाठो, ततो अस्साति पदविभागो.

३३-३४. सपथन्ति सपनं. परिभासापयीति भयेन तज्जापेसि. सपथं मुसावादं अभासिसन्ति ‘‘सचे तं मया कतं, ईदिसी भवेय्य’’न्ति कतमेव पापं अकतं कत्वा दस्सेन्ती मुसावादं अभूतं सपथं अभासिं. मुत्तमंसानि खादामि, सचेतं पकतं मयाति इदं तदा सपथस्स कताकारदस्सनं. यदि एतं गब्भपातनपापं मया कतं, आयतिं पुनब्भवाभिनिब्बत्तियं मय्हं पुत्तमंसानियेव खादेय्यन्ति अत्थो. तस्स कम्मस्साति तस्स गब्भपातनवसेन पकतस्स पाणातिपातकम्मस्स. मुसावादस्स चाति मुसावादकम्मस्स च. उभयन्ति उभयस्सपि कम्मस्स उभयेन विपाकेन. करणत्थे हि इदं पच्चत्तवचनं. पुब्बलोहितमक्खिताति पसवनवसेन परिभिज्जनवसेन च पुब्बेन च लोहितेन च मक्खिता हुत्वा पुत्तमंसानि खादामीति योजना.

एवं सा पेती अत्तनो कम्मविपाकं पवेदेत्वा पुन थेरे एवमाह – ‘‘अहं, भन्ते, इमस्मिंयेव गामे असुकस्स कुटुम्बिकस्स भरिया इस्सापकता हुत्वा पापकम्मं कत्वा एवं पेतयोनियं निब्बत्ता. साधु, भन्ते, तस्स कुटुम्बिकस्स गेहं गच्छथ, सो तुम्हाकं दानं दस्सति, तं दक्खिणं मय्हं उद्दिसापेय्याथ, एवं मे इतो पेतलोकतो मुत्ति भविस्सती’’ति. थेरा तं सुत्वा तं अनुकम्पमाना उल्लुम्पनसभावसण्ठिता तस्स कुटुम्बिकस्स गेहं पिण्डाय पविसिंसु. कुटम्बिको थेरे दिस्वा सञ्जातप्पसादो पच्चुग्गन्त्वा पत्तानि गहेत्वा थेरे आसनेसु निसीदापेत्वा पणीतेन आहारेन भोजेतुं आरभि. थेरा तं पवत्तिं कुटुम्बिकस्स आरोचेत्वा तं दानं तस्सा पेतिया उद्दिसापेसुं. तङ्खणञ्ञेव च सा पेती ततो दुक्खतो अपेता उळारसम्पत्तिं पटिलभित्वा रत्तियं कुटुम्बिकस्स अत्तानं दस्सेसि. अथ थेरा अनुक्कमेन सावत्थिं गन्त्वा भगवतो तमत्थं आरोचेसुं. भगवा च तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय धम्मं देसेसि. देसनावसाने महाजनो पटिलद्धसंवेगो इस्सामच्छेरतो पटिविरमि. एवं सा देसना महाजनस्स सात्थिका अहोसीति.

पञ्चपुत्तखादकपेतिवत्थुवण्णना निट्ठिता.