४. पिट्ठधीतलिकपेतवत्थुवण्णना
यं किञ्चारम्मणं कत्वाति इदं सत्था सावत्थियं जेतवने विहरन्तो अनाथपिण्डिकस्स गहपतिनो दानं आरब्भ कथेसि. अनाथपिण्डिकस्स किर गहपतिनो धीतु धीताय दारिकाय धाति पिट्ठधीतलिकं अदासि ‘‘अयं ते धीता, इमं गहेत्वा कीळस्सू’’ति. सा तत्थ धीतुसञ्ञं उप्पादेसि. अथस्सा एकदिवसं तं गहेत्वा कीळन्तिया पमादेन पतित्वा भिज्जि. ततो दारिका ‘‘मम धीता मता’’ति परोदि. तं रोदन्तिं कोचिपि गेहजनो सञ्ञापेतुं नासक्खि. तस्मिञ्च समये सत्था अनाथपिण्डिकस्स गहपतिनो गेहे पञ्ञत्ते आसने निसिन्नो होति, महासेट्ठि च भगवतो समीपे निसिन्नो अहोसि. धाति तं दारिकं गहेत्वा सेट्ठिस्स सन्तिकं अगमासि. सेट्ठि तं दिस्वा ‘‘किस्सायं दारिका रोदती’’ति आह. धाति तं पवत्तिं सेट्ठिस्स आरोचेसि. सेट्ठि तं दारिकं अङ्के निसीदापेत्वा ‘‘तव धीतुदानं दस्सामी’’ति सञ्ञापेत्वा सत्थु आरोचेसि – ‘‘भन्ते, मम नत्तुधीतरं पिट्ठधीतलिकं उद्दिस्स दानं दातुकामो, तं मे पञ्चहि भिक्खुसतेहि सद्धिं स्वातनाय अधिवासेथा’’ति. अधिवासेसि भगवा तुण्हीभावेन.
अथ भगवा दुतियदिवसे पञ्चहि भिक्खुसतेहि सद्धिं सेट्ठिस्स घरं गन्त्वा भत्तकिच्चं कत्वा अनुमोदनं करोन्तो –
१०. ‘‘यं किञ्चारम्मणं कत्वा, दज्जा दानं अमच्छरी;
पुब्बपेते च आरब्भ, अथ वा वत्थुदेवता.
११. ‘‘चत्तारो च महाराजे, लोकपाले यसस्सिने;
कुवेरं धतरट्ठञ्च, विरूपक्खं विरूळ्हकं;
ते चेव पूजिता होन्ति, दायका च अनिप्फला.
१२. ‘‘न हि रुण्णं वा सोको वा, या चञ्ञा परिदेवना;
न तं पेतस्स अत्थाय, एवं तिट्ठन्ति ञातयो.
१३. ‘‘अयञ्च खो दक्खिणा दिन्ना, सङ्घम्हि सुप्पतिट्ठिता;
दीघरत्तं हितायस्स, ठानसो उपकप्पती’’ति. – इमा गाथा अभासि;
१०. तत्थ यं किञ्चारम्मणं कत्वाति मङ्गलादीसु अञ्ञतरं यं किञ्चि आरब्भ उद्दिस्स. दज्जाति ददेय्य. अमच्छरीति अत्तनो सम्पत्तिया परेहि साधारणभावासहनलक्खणस्स मच्छेरस्स अभावतो अमच्छरी, परिच्चागसीलो मच्छरियलोभादिचित्तमलं दूरतो कत्वा दानं ददेय्याति अधिप्पायो. पुब्बपेते च आरब्भाति पुब्बकेपि पेते उद्दिस्स. वत्थुदेवताति घरवत्थुआदीसु अधिवत्था देवता आरब्भाति योजना. अथ वाति इमिना अञ्ञेपि देवमनुस्सादिके ये केचि आरब्भ दानं ददेय्याति दस्सेति.
११. तत्थ देवेसु ताव एकच्चे पाकटे देवे दस्सेन्तो ‘‘चत्तारो च महाराजे’’ति वत्वा पुन ते नामतो गण्हन्तो ‘‘कुवेर’’न्तिआदिमाह. तत्थ कुवेरन्ति वेस्सवणं. धतरट्ठन्तिआदीनि सेसानं तिण्णं लोकपालानं नामानि. ते चेव पूजिता होन्तीति ते च महाराजानो पुब्बपेतवत्थुदेवतायो च उद्दिसनकिरियाय पटिमानिका होन्ति. दायका च अनिप्फलाति ये दानं देन्ति, ते दायका च परेसं उद्दिसनमत्तेन न निप्फला, अत्तनो दानफलस्स भागिनो एव होन्ति.
१२. इदानि ‘‘ये अत्तनो ञातीनं मरणेन रोदन्ति परिदेवन्ति सोचन्ति, तेसं तं निरत्थकं, अत्तपरितापनमत्तमेवा’’ति दस्सेतुं ‘‘न हि रुण्णं वा’’ति गाथमाह. तत्थ रुण्णन्ति रुदितं अस्सुमोचनं न हि कातब्बन्ति वचनसेसो. सोकोति सोचनं चित्तसन्तापो, अन्तोनिज्झानन्ति अत्थो. या चञ्ञा परिदेवनाति या च रुण्णसोकतो अञ्ञा परिदेवना, ‘‘कहं एकपुत्तका’’तिआदिवाचाविप्पलापो, सोपि न कातब्बोति अत्थो. सब्बत्थ वा-सद्दो विकप्पनत्थो. न तं पेतस्स अत्थायाति यस्मा रुण्णं वा सोको वा परिदेवना वाति सब्बम्पि तं पेतस्स कालकतस्स अत्थाय उपकाराय न होति, तस्मा न हि तं कातब्बं, तथापि एवं तिट्ठन्ति ञातयो अविद्दसुनोति अधिप्पायो.
१३. एवं रुण्णादीनं निरत्थकभावं दस्सेत्वा इदानि या पुब्बपेतादिके आरब्भ दायकेन सङ्घस्स दक्खिणा दिन्ना, तस्सा सात्थकभावं दस्सेन्तो ‘‘अयञ्च खो दक्खिणा’’ति गाथमाह. तत्थ अयन्ति दायकेन तं दिन्नं दानं पच्चक्खतो दस्सेन्तो वदति. च-सद्दो ब्यतिरेकत्थो, तेन यथा रुण्णादि पेतस्स न कस्सचि अत्थाय होति, न एवमयं, अयं पन दक्खिणा दीघरत्तं हितायस्स होतीति वक्खमानमेव विसेसं जोतेति. खोति अवधारणे. दक्खिणाति दानं. सङ्घम्हि सुप्पतिट्ठिताति अनुत्तरे पुञ्ञक्खेत्ते सङ्घे सुट्ठु पतिट्ठिता. दीघरत्तं हितायस्साति अस्स पेतस्स चिरकालं हिताय अत्थाय. ठानसो उपकप्पतीति तङ्खणञ्ञेव निप्फज्जति, न कालन्तरेति अत्थो. अयञ्हि तत्थ धम्मता – यं पेते उद्दिस्स दाने दिन्ने पेता चे अनुमोदन्ति, तावदेव तस्स फलेन पेता परिमुच्चन्तीति.
एवं भगवा धम्मं देसेत्वा महाजनं पेते उद्दिस्स दानाभिरतमानसं कत्वा उट्ठायासना पक्कामि. पुनदिवसे सेट्ठिभरिया अवसेसा च ञातका सेट्ठिं अनुवत्तन्ता एवं तेमासमत्तं महादानं पवत्तेसुं. अथ राजा पसेनदि कोसलो भगवन्तं उपसङ्कमित्वा ‘‘कस्मा, भन्ते, भिक्खू मासमत्तं मम घरं नागमिंसू’’ति पुच्छि. सत्थारा तस्मिं कारणे कथिते राजापि सेट्ठिं अनुवत्तन्तो बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं पवत्तेसि, तं दिस्वा नागरा राजानं अनुवत्तन्ता मासमत्तं महादानं पवत्तेसुं. एवं मासद्वयं पिट्ठधीतलिकमूलकं महादानं पवत्तेसुन्ति.
पिट्ठधीतलिकपेतवत्थुवण्णना निट्ठिता.