११. नागपेतवत्थुवण्णना

पुरतोव सेतेन पलेति हत्थिनाति इदं सत्थरि जेतवने विहरन्ते द्वे ब्राह्मणपेते आरम्भ वुत्तं. आयस्मा किर संकिच्चो सत्तवस्सिको खुरग्गेयेव अरहत्तं पत्वा सामणेरभूमियं ठितो तिंसमत्तेहि भिक्खूहि सद्धिं अरञ्ञायतने वसन्तो तेसं भिक्खूनं पञ्चन्नं चोरसतानं हत्थतो आगतं मरणम्पि बाहित्वा ते च चोरे दमेत्वा पब्बाजेत्वा सत्थु सन्तिकं अगमासि. सत्था तेसं भिक्खूनं धम्मं देसेसि, देसनावसाने ते भिक्खू अरहत्तं पापुणिंसु. अथायस्मा संकिच्चो परिपुण्णवस्सो लद्धूपसम्पदो तेहि पञ्चहि भिक्खुसतेहि सद्धिं बाराणसिं गन्त्वा इसिपतने विहासि. मनुस्सा थेरस्स सन्तिकं गन्त्वा धम्मं सुत्वा पसन्नमानसा वीथिपटिपाटिया वग्गवग्गा हुत्वा आगन्तुकदानं अदंसु. तत्थ अञ्ञतरो उपासको मनुस्से निच्चभत्ते समादपेसि, ते यथाबलं निच्चभत्तं पट्ठपेसुं.

तेन च समयेन बाराणसियं अञ्ञतरस्स मिच्छादिट्ठिकस्स ब्राह्मणस्स द्वे पुत्ता एका च धीता अहेसुं. तेसु जेट्ठपुत्तो तस्स उपासकस्स मित्तो अहोसि. सो तं गहेत्वा आयस्मतो संकिच्चस्स सन्तिकं अगमासि. आयस्मा संकिच्चो तस्स धम्मं देसेसि. सो मुदुचित्तो अहोसि. अथ नं सो उपासको आह – ‘‘त्वं एकस्स भिक्खुनो निच्चभत्तं देही’’ति. ‘‘अनाचिण्णं अम्हाकं ब्राह्मणानं समणानं सक्यपुत्तियानं निच्चभत्तदानं, तस्मा नाहं दस्सामी’’ति. ‘‘किं मय्हम्पि भत्तं न दस्ससी’’ति? ‘‘कथं न दस्सामी’’ति आह. ‘‘यदि एवं यं मय्हं देसि, तं एकस्स भिक्खुस्स देही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा दुतियदिवसे पातोव विहारं गन्त्वा एकं भिक्खुं आनेत्वा भोजेसि.

एवं गच्छन्ते काले भिक्खूनं पटिपत्तिं दिस्वा धम्मञ्च सुणित्वा तस्स कनिट्ठभाता च भगिनी च सासने अभिप्पसन्ना पुञ्ञकम्मरता च अहेसुं. एवं ते तयो जना यथाविभवं दानानि देन्ता समणब्राह्मणे सक्करिंसु गरुं करिंसु मानेसुं पूजेसुं. मातापितरो पन नेसं अस्सद्धा अप्पसन्ना समणब्राह्मणेसु अगारवा पुञ्ञकिरियाय अनादरा अच्छन्दिका अहेसुं. तेसं धीतरं दारिकं मातुलपुत्तस्सत्थाय ञातका वारेसुं. सो च आयस्मतो संकिच्चस्स सन्तिके धम्मं सुत्वा संवेगजातो पब्बजित्वा निच्चं अत्तनो मातु-गेहं भुञ्जितुं गच्छति. तं माता अत्तनो भातु-धीताय दारिकाय पलोभेति. तेन सो उक्कण्ठितो हुत्वा उपज्झायं उपसङ्गमित्वा आह – ‘‘उप्पब्बजिस्सामहं, भन्ते, अनुजानाथ म’’न्ति. उपज्झायो तस्स उपनिस्सयसम्पत्तिं दिस्वा आह – ‘‘सामणेर, मासमत्तं आगमेही’’ति. सो ‘‘साधू’’ति पटिस्सुणित्वा मासे अतिक्कन्ते तथेव आरोचेसि. उपज्झायो पुन ‘‘अड्ढमासं आगमेही’’ति आह. अड्ढमासे अतिक्कन्ते तथेव वुत्ते पुन ‘‘सत्ताहं आगमेही’’ति आह. सो ‘‘साधू’’ति पटिस्सुणि. अथ तस्मिं अन्तोसत्ताहे सामणेरस्स मातुलानिया गेहं विनट्ठच्छदनं जिण्णं दुब्बलकुट्टं वातवस्साभिहतं परिपति. तत्थ ब्राह्मणो ब्राह्मणी द्वे पुत्ता घीता च गेहेन अज्झोत्थटा कालमकंसु. तेसु ब्राह्मणो ब्राह्मणी च पेतयोनियं निब्बत्तिंसु, द्वे पुत्ता धीता च भुम्मदेवेसु. तेसु जेट्ठपुत्तस्स हत्थियानं निब्बत्ति, कनिट्ठस्स अस्सतरीरथो, धीताय सुवण्णसिविका. ब्राह्मणो च ब्राह्मणी च महन्ते महन्ते अयोमुग्गरे गहेत्वा अञ्ञमञ्ञं आकोटेन्ति, अभिहतट्ठानेसु महन्ता महन्ता घटप्पमाणा गण्डा उट्ठहित्वा मुहुत्तेनेव पचित्वा परिभेदप्पत्ता होन्ति. ते अञ्ञमञ्ञस्स गण्डे फालेत्वा कोधाभिभूता निक्करुणा फरुसवचनेहि तज्जेन्ता पुब्बलोहितं पिवन्ति, न च तित्तिं पटिलभन्ति.

अथ सामणेरो उक्कण्ठाभिभूतो उपज्झायं उपसङ्कमित्वा आह – ‘‘भन्ते, मया पटिञ्ञातदिवसा वीतिवत्ता, गेहं गमिस्सामि, अनुजानाथ म’’न्ति. अथ नं उपज्झायो ‘‘अत्थङ्गते सूरिये कालपक्खचातुद्दसिया पवत्तमानाय एही’’ति वत्वा इसिपतनविहारस्स पिट्ठिपस्सेन थोकं गन्त्वा अट्ठासि. तेन च समयेन ते द्वे देवपुत्ता सद्धिं भगिनिया तेनेव मग्गेन यक्खसमागमं सम्भावेतुं गच्छन्ति, तेसं पन मातापितरो मुग्गरहत्था फरुसवाचा काळरूपा आकुलाकुललूखपतितकेसभारा अग्गिदड्ढतालक्खन्धसदिसा विगलितपुब्बलोहिता वलितगत्ता अतिविय जेगुच्छबीभच्छदस्सना ते अनुबन्धन्ति.

अथायस्मा संकिच्चो यथा सो सामणेरो ते सब्बे गच्छन्ते पस्सति, तथारूपं इद्धाभिसङ्खारं अभिसङ्खरित्वा सामणेरं आह – ‘‘पस्ससि त्वं, सामणेर, इमे गच्छन्ते’’ति? ‘‘आम, भन्ते, पस्सामी’’ति. ‘‘तेन हि इमेहि कतकम्मं पटिपुच्छा’’ति. सो हत्थियानादीहि गच्छन्ते अनुक्कमेन पटिपुच्छि. ते आहंसु – ‘‘ये पच्छतो पेता आगच्छन्ति, ते पटिपुच्छा’’ति. सामणेरो ते पेते गाथाहि अज्झभासि –

७३. ‘‘पुरतोव सेतेन पलेति हत्थिना, मज्झे पन अस्सतरीरथेन;

पच्छा च कञ्ञा सिविकाय नीयति, ओभासयन्ती दस सब्बसो दिसा.

७४. ‘‘तुम्हे पन मुग्गरहत्थपाणिनो, रुदंमुखा छिन्नपभिन्नगत्ता;

मनुस्सभूता किमकत्थ पापं, येनञ्ञमञ्ञस्स पिवाथ लोहित’’न्ति.

तत्थ पुरतोति सब्बपठमं. सेतेनाति पण्डरेन. पलेतीति गच्छति. मज्झे पनाति हत्थिं आरुळ्हस्स सिविकं आरुळ्हाय च अन्तरे. अस्सतरीरथेनाति अस्सतरीयुत्तेन रथेन पलेतीति योजना. नीयतीति वहीयति. ओभासयन्ती दस सब्बसो दिसाति सब्बतो समन्ततो सब्बा दस दिसा अत्तनो सरीरप्पभाहि वत्थाभरणादिप्पभाहि च विज्जोतयमाना. मुग्गरहत्थपाणिनोति मुग्गरा हत्थसङ्खातेसु पाणीसु येसं ते मुग्गरहत्थपाणिनो, भूमिसण्हकरणीयादीसु पाणिवोहारस्स लब्भमानत्ता हत्थसद्देन पाणि एव विसेसितो. छिन्नपभिन्नगत्ताति मुग्गरप्पहारेन तत्थ तत्थ छिन्नपभिन्नसरीरा. पिवाथाति पिवथ.

एवं सामणेरेन पुट्ठा ते पेता सब्बं तं

पवत्तिं चतूहि गाथाहि पच्चभासिंसु –

७५. ‘‘पुरतोव यो गच्छति कुञ्जरेन, सेतेन नागेन चतुक्कमेन;

अम्हाक पुत्तो अहु जेट्ठको सो, दानानि दत्वान सुखी पमोदति.

७६. ‘‘यो यो मज्झे अस्सतरीरथेन, चतुब्भि युत्तेन सुवग्गितेन;

अम्हाक पुत्तो अहु मज्झिमो सो, अमच्छरी दानपती विरोचति.

७७. ‘‘या सा च पच्छा सिविकाय नीयति, नारी सपञ्ञा मिगमन्दलोचना;

अम्हाक धीता अहु सा कनिट्ठिका, भागड्ढभागेन सुखी पमोदति.

७८. ‘‘एते च दानानि अदंसु पुब्बे, पसन्नचित्ता समणब्राह्मणानं;

मयं पन मच्छरीनो अहुम्ह, परिभासका समणब्राह्मणानं;

एते च दत्वा परिचारयन्ति, मयञ्च सुस्साम नळोव छिन्नो’’ति.

७५. तत्थ पुरतोव यो गच्छतीति इमेसं गच्छन्तानं यो पुरतो गच्छति. ‘‘योसो पुरतो गच्छती’’ति वा पाठो, तस्स यो एसो पुरतो गच्छतीति अत्थो. कुञ्जरेनाति कुं पथविं जीरयति, कुञ्जेसु वा रमति चरतीति ‘‘कुञ्जरो’’ति लद्धनामेन हत्थिना. नागेनाति, नास्स अगमनीयं अनभिभवनीयं अत्थीति नागा, तेन नागेन. चतुक्कमेनाति चतुप्पदेन. जेट्ठकोति पुब्बजो.

७६-७७. चतुब्भीति चतूहि अस्सतरीहि. सुवग्गितेनाति सुन्दरगमनेन चातुरगमनेन. मिगमन्दलोचनाति मिगी विय मन्दक्खिका. भागड्ढभागेनाति भागस्स अड्ढभागेन, अत्तना लद्धकोट्ठासतो अड्ढभागदानेन हेतुभूतेन. सुखीति सुखिनी. लिङ्गविपल्लासेन हेतं वुत्तं.

७८. परिभासकाति अक्कोसका. परिचारयन्तीति दिब्बेसु कामगुणेसु अत्तनो इन्द्रियानि इतो चितो च यथासुखं चारेन्ति, परिजनेहि वा अत्तनो पुञ्ञानुभावनिस्सन्देन परिचरियं कारेन्ति. मयञ्च सुस्साम नळोव छिन्नोति मयं पन छिन्नो आतपे खित्तो नळो विय सुस्साम, खुप्पिपासाहि अञ्ञमञ्ञं दण्डाभिघातेहि च सुक्खा विसुक्खा भवामाति.

एवं अत्तनो पापं सम्पवेदेत्वा ‘‘मयं तुय्हं मातुलमातुलानियो’’ति आचिक्खिंसु. तं सुत्वा सामणेरो सञ्जातसंवेगो ‘‘एवरूपानं किब्बिसकारीनं कथं नु खो भोजनानि सिज्झन्ती’’ति पुच्छन्तो –

७९. ‘‘किं तुम्हाकं भोजनं किं सयानं, कथञ्च यापेथ सुपापधम्मिनो;

पहूतभोगेसु अनप्पकेसु, सुखं विराधाय दुक्खज्ज पत्ता’’ति. –

इमं गाथमाह. तत्थ किं तुम्हाकं भोजनन्ति कीदिसं तुम्हाकं भोजनं? किं सयानन्ति कीदिसं सयनं? ‘‘किं सयाना’’ति केचि पठन्ति, कीदिसा सयना, कीदिसे सयने सयथाति अत्थो. कथञ्च यापेथाति केन पकारेन यापेथ, ‘‘कथं वो यापेथा’’तिपि पाठो, कथं तुम्हे यापेथाति अत्थो. सुपापधम्मिनोति सुट्ठु अतिविय पापधम्मा. पहूतभोगेसूति अपरियन्तेसु उळारेसु भोगेसु सन्तेसु. अनप्पकेसूति न अप्पकेसु बहूसु. सुखं विराधायाति सुखहेतुनो पुञ्ञस्स अकरणेन सुखं विरज्झित्वा विराधेत्वा. ‘‘सुखस्स विराधेना’’ति केचि पठन्ति. दुक्खज्ज पत्ताति अज्ज इदानि इदं पेतयोनिपरियापन्नं दुक्खं अनुप्पत्ताति.

एवं सामणेरेन पुट्ठा पेता तेन पुच्छितमत्थं विस्सज्जेन्ता –

८०. ‘‘अञ्ञमञ्ञं वधित्वान, पिवाम पुब्बलोहितं;

बहुं वित्वा न धाता होम, नच्छादिम्हसे मयं.

८१. ‘‘इच्चेव मच्चा परिदेवयन्ति, अदायका पेच्च यमस्स ठायिनो;

ये ते विदिच्च अधिगम्म भोगे, न भुञ्जरे नापि करोन्ति पुञ्ञं.

८२. ‘‘ते खुप्पिपासूपगता परत्थ, पच्छा चिरं झायरे डय्हमाना;

कम्मानि कत्वान दुखुद्रानि, अनुभोन्ति दुक्खं कटुकप्फलानि.

८३. ‘‘इत्तरञ्हि धनं धञ्ञं, इत्तरं इध जीवितं;

इत्तरं इत्तरतो ञत्वा, दीपं कयिराथ पण्डितो.

८४. ‘‘ये ते एवं पजानन्ति, नरा धम्मस्स कोविदा;

ते दाने नप्पमज्जन्ति, सुत्वा अरहतं वचो’’ति. –

पञ्च गाथा अभासिंसु.

८०-८१. तत्थ न धाता होमाति धाता सुहिता तित्ता न होम. नच्छादिम्हसेति न रुच्चाम, न रुचिं उप्पादेम, न तं मयं अत्तनो रुचिया पिविस्सामाति अत्थो. इच्चेवाति एवमेव. मच्चा परिदेवयन्तीति मयं विय अञ्ञेपि मनुस्सा कतकिब्बिसा परिदेवन्ति कन्दन्ति. अदायकाति अदानसीला मच्छरिनो. यमस्स ठायिनोति यमलोकसञ्ञिते यमस्स ठाने पेत्तिविसये ठानसीला. ये ते विदिच्च अधिगम्मभोगेति ये ते सम्पति आयतिञ्च सुखविसेसविधायके भोगे विन्दित्वा पटिलभित्वा. न भुञ्जरे नापि करोन्ति पुञ्ञन्ति अम्हे विय सयम्पि न भुञ्जन्ति, परेसं देन्ता दानमयं पुञ्ञम्पि न करोन्ति.

८२. ते खुप्पिपासूपगता परत्थाति ते सत्ता परत्थ परलोके पेत्तिविसये जिघच्छापिपासाभिभूता हुत्वा. चिरं झायरे डय्हमानाति खुदादिहेतुकेन दुक्खग्गिना ‘‘अकतं वत अम्हेहि कुसलं, कतं पाप’’न्तिआदिना वत्तमानेन विप्पटिसारग्गिना परिडय्हमाना झायन्ति, अनुत्थुनन्तीति अत्थो. दुखुद्रानीति दुक्खविपाकानि. अनुभोन्ति दुक्खं कटुकप्फलानीति अनिट्ठफलानि पापकम्मानि कत्वा चिरकालं दुक्खं आपायिकदुक्खं अनुभवन्ति.

८३-८४. इत्तरन्ति न चिरकालट्ठायी, अनिच्चं विपरिणामधम्मं. इत्तरं इध जीवितन्ति इध मनुस्सलोके सत्तानं जीवितम्पि इत्तरं परित्तं अप्पकं. तेनाह भगवा – ‘‘यो चिरं जीवति, सो वस्ससतं अप्पं वा भिय्यो’’ति (दी. नि. २.९१; सं. नि. १.१४५; अ. नि. ७.७४). इत्तरं इत्तरतो ञत्वाति धनधञ्ञादिउपकरणं मनुस्सानं जीवितञ्च इत्तरं परित्तं खणिकं न चिरस्सन्ति पञ्ञाय उपपरिक्खित्वा. दीपं कयिराथ पण्डितोति सपञ्ञो पुरिसो दीपं अत्तनो पतिट्ठं परलोके हितसुखाधिट्ठानं करेय्य. ये ते एवं पजानन्तीति ये ते मनुस्सा मनुस्सानं भोगानं जीवितस्स च इत्तरभावं याथावतो जानन्ति, ते दाने सब्बकालं नप्पमज्जन्ति. सुत्वा अरहतं वचोति अरहतं बुद्धादीनं अरियानं वचनं सुत्वा, सुतत्ताति अत्थो. सेसं पाकटमेव.

एवं ते पेता सामणेरेन पुट्ठा तमत्थं आचिक्खित्वा ‘‘मयं तुय्हं मातुलमातुलानियो’’ति पवेदेसुं. तं सुत्वा सामणेरो सञ्जातसंवेगो उक्कण्ठं पटिविनोदेत्वा उपज्झायस्स पादेसु सिरसा निपतित्वा एवमाह – ‘‘यं, भन्ते, अनुकम्पकेन करणीयं अनुकम्पं उपादाय, तं मे तुम्हेहि कतं, महता वतम्हि अनत्थपाततो रक्खितो, न दानि मे घरावासेन अत्थो, अभिरमिस्सामि ब्रह्मचरियवासे’’ति. अथायस्मा संकिच्चो तस्स अज्झासयानुरूपं कम्मट्ठानं आचिक्खि. सो कम्मट्ठानं अनुयुञ्जन्तो नचिरस्सेव अरहत्तं पापुणि. आयस्मा पन संकिच्चो तं पवत्तिं भगवतो आरोचेसि. सत्था तमत्थं अट्ठुप्पत्तिं कत्वा सम्पत्तपरिसाय वित्थारेन धम्मं देसेसि, सा देसना महाजनस्स सात्थिका अहोसीति.

नागपेतवत्थुवणणना निट्ठिता.