६. ञाणरासिछक्कनिद्देसवण्णना
१८३. इदानि छहि रासीहि उद्दिट्ठञाणेसु चतुवीसतिसमाधिञाणनिद्देसे ताव कायानुपस्सनादीनं तिण्णं चतुक्कानं वसेन द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एको, पस्सासवसेन एकोति द्वे द्वे समाधीति द्वादससु वत्थूसु चतुवीसति समाधयो होन्ति. झानक्खणे तेहि सम्पयुत्तानि चतुवीसतिसमाधिवसेन ञाणानि.
द्वासत्ततिविपस्सनाञाणनिद्देसे दीघं अस्सासाति ‘‘दीघ’’न्तिवुत्तअस्सासतो. किं वुत्तं होति? दीघं अस्सासहेतु झानं पटिलभित्वा समाहितेन चित्तेन विपस्सनाक्खणे अनिच्चतो अनुपस्सनट्ठेन विपस्सनाति वुत्तं होति. एस नयो उत्तरत्रापि. तेसंयेव द्वादसन्नं वत्थूनं एकेकस्मिं अस्सासवसेन तिस्सो, पस्सासवसेन तिस्सोति छ छ अनुपस्सनाति द्वादससु वत्थूसु द्वासत्तति अनुपस्सना होन्ति. ता एव द्वासत्तति अनुपस्सना द्वासत्ततिविपस्सनावसेन ञाणानि.
निब्बिदाञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सी हुत्वा अस्ससन्तो, अनिच्चानुपस्सी हुत्वा वत्तेन्तोति अत्थो. ‘‘अस्सस’’न्ति च इदं वचनं हेतुअत्थे दट्ठब्बं. यथाभूतं जानाति पस्सतीति निब्बिदाञाणन्ति कलापसम्मसनतो पट्ठाय याव भङ्गानुपस्सना पवत्तविपस्सनाञाणेन सङ्खारानं यथासभावं जानाति, चक्खुना दिट्ठमिव च तेनेव ञाणचक्खुना पस्सति. तस्मा निब्बिदाञाणं नामाति अत्थो, सङ्खारेसु निब्बिन्दञाणं नामाति वुत्तं होति. उपरि भयतूपट्ठानादीनं मुञ्चितुकम्यतादीनञ्च ञाणानं विसुं आगतत्ता इध यथावुत्तानेव विपस्सनाञाणानि निब्बिदाञाणानीति वेदितब्बानि.
निब्बिदानुलोमञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनिच्चानुपस्सिनो अस्ससन्तस्स. सामिअत्थे पच्चत्तवचनं. भयतुपट्ठाने पञ्ञातिवचनेनेव भयतुपट्ठानआदीनवानुपस्सनानिब्बिदानुपस्सनाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. इमानि तीणि ञाणानि अनन्तरा वुत्तानं निब्बिदाञाणानं अनुकूलभावेन अनुलोमतो निब्बिदानुलोमञाणानीति वुत्तानि.
निब्बिदापटिप्पस्सद्धिञाणनिद्देसे अनिच्चानुपस्सी अस्ससन्ति अनन्तरसदिसमेव. पटिसङ्खा सन्तिट्ठना पञ्ञातिवचनेनेव मुञ्चितुकम्यतापटिसङ्खानुपस्सनासङ्खारुपेक्खाञाणानि वुत्तानि होन्ति तिण्णं एकलक्खणत्ता. ‘‘पटिसङ्खा सन्तिट्ठना’’तिवचनेनेव अनुलोमञाणमग्गञाणानिपि गहितानि होन्ति. सङ्खारुपेक्खाञाणअनुलोमञाणानिपि हि निब्बिदाय सिखाप्पत्तत्ता निब्बिदाजननब्यापारप्पहानेन निब्बिदापटिप्पस्सद्धिञाणानि नाम होन्ति. मग्गञाणं पन निब्बिदापटिप्पस्सद्धन्ते उप्पज्जनतो निब्बिदापटिप्पस्सद्धिञाणं नाम होतीति अतिविय युज्जतीति. निब्बिदानुलोमञाणेसु विय आदिभूतं मुञ्चितुकम्यताञाणं अग्गहेत्वा ‘‘पटिसङ्खा सन्तिट्ठना’’ति अन्ते ञाणद्वयग्गहणं मग्गञाणसङ्गहणत्थं. मुञ्चितुकम्यताति हि वुत्ते अनुलोमञाणं सङ्गय्हति, न मग्गञाणं. मग्गञाणञ्हि मुञ्चितुकम्यता नाम न होति, किच्चसिद्धियं सन्तिट्ठनतो पन सन्तिट्ठना नाम होति. अट्ठकथायम्पि च ‘‘फुसनाति अप्पना’’ति वुत्तं. इदञ्च मग्गञाणं निब्बाने अप्पनाति कत्वा सन्तिट्ठना नाम होतीति ‘‘सन्तिट्ठना’’तिवचनेन मग्गञाणम्पि सङ्गय्हति. निब्बिदानुलोमञाणानिपि अत्थतो निब्बिदाञाणानेव होन्तीति तानिपि निब्बिदाञाणेहि सङ्गहेत्वा निब्बिदापटिप्पस्सद्धिञाणानीति निब्बिदागहणमेव कतं, न निब्बिदानुलोमग्गहणं. तीसुपि चेतेसु ञाणट्ठकनिद्देसेसु चतुत्थस्स धम्मानुपस्सनाचतुक्कस्स वसेन वुत्तानं चतुन्नं वत्थूनं एकेकस्मिं अस्सासवसेन एकं, पस्सासवसेन एकन्ति द्वे द्वे ञाणानीति चतूसु वत्थूसु अट्ठ ञाणानि होन्ति.
विमुत्तिसुखञाणनिद्देसे पहीनत्ताति पहानं दस्सेत्वा तस्स पहानस्स समुच्छेदप्पहानत्तं दस्सेन्तो समुच्छिन्नत्ताति आह. विमुत्तिसुखे ञाणन्ति फलविमुत्तिसुखसम्पयुत्तञाणञ्च फलविमुत्तिसुखारम्मणपच्चवेक्खणञाणञ्च. अनुसयवत्थुस्स किलेसस्स पहानेन परियुट्ठानदुच्चरितवत्थुप्पहानं होतीति दस्सनत्थं पुन अनुसयानं पहानं वुत्तं. एकवीसतिफलञाणं सन्धाय पहीनकिलेसगणनायपि ञाणगणना कता होति, पच्चवेक्खणञाणञ्च सन्धाय पहीनकिलेसपच्चवेक्खणगणनाय फलपच्चवेक्खणञाणगणना कता होतीति.
ञाणरासिछक्कनिद्देसवण्णना निट्ठिता.
सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय
आनापानस्सतिकथावण्णना निट्ठिता.