७. अन्तग्गाहिकादिट्ठिनिद्देसवण्णना
१४०. अन्तग्गाहिकाय दिट्ठिया पठमवारे आकारपुच्छा. दुतिये आकारगहणं. ततिये आकारविस्सज्जनं. तत्थ लोकोति अत्ता. सो अन्तोति अञ्ञमञ्ञपटिपक्खेसु सस्सतुच्छेदन्तेसु सस्सतग्गाहे सस्सतन्तो, असस्सतग्गाहे उच्छेदन्तो. परित्तं ओकासन्ति सुप्पमत्तं वा सरावमत्तं वा खुद्दकं ठानं. नीलकतो फरतीति नीलन्ति आरम्मणं करोति. अयं लोकोति अत्तानं सन्धाय वुत्तं. परिवटुमोति समन्ततो परिच्छेदवा. अन्तसञ्ञीति अन्तवातिसञ्ञी. अन्तो अस्स अत्थीति अन्तोति गहेतब्बं. यं फरतीति यं कसिणरूपं फरति. तं वत्थु चेव लोको चाति तं कसिणरूपं आरम्मणञ्चेव आलोकियट्ठेन लोको च. येन फरतीति येन चित्तेन फरति. सो अत्ता चेव लोको चाति अत्तानमपेक्खित्वा पुल्लिङ्गं कतं, तं चित्तं अत्ता चेव आलोकनट्ठेन लोको चाति वुत्तं होति. अन्तवाति अन्तो. ओकासकतो फरतीति आलोककसिणवसेन तेजोकसिणवसेन ओदातकसिणवसेन वा ओभासोति फरति. नीलादीनं पञ्चन्नं पभस्सरकसिणानंयेव गहितत्ता पथवीआपोवायोकसिणवसेन अत्ताभिनिवेसो न होतीति गहेतब्बं.
विपुलं ओकासन्ति खलमण्डलमत्तादिवसेन महन्तं ठानं. अनन्तवाति वुद्धअनन्तवा. अपरियन्तोति वुद्धअपरियन्तो. अनन्तसञ्ञीति अनन्तोतिसञ्ञी. तं जीवन्ति सो जीवो. लिङ्गविपल्लासो कतो. जीवोति च अत्ता एव. रूपादीनि पञ्चपि परिवटुमट्ठेन सरीरं. जीवं न सरीरन्ति अत्तसङ्खातो जीवो रूपसङ्खातं सरीरं न होति. एस नयो वेदनादीसु. तथागतोति सत्तो. अरहन्ति एके. परं मरणाति मरणतो उद्धं, परलोकेति अत्थो. रूपं इधेव मरणधम्मन्ति अत्तनो पाकटक्खन्धसीसेन पञ्चक्खन्धग्गहणं, तं इमस्मिंयेव लोके नस्सनपकतिकन्ति अत्थो. सेसक्खन्धेसुपि एसेव नयो. कायस्स भेदाति खन्धपञ्चकसङ्खातस्स कायस्स भेदतो परं. इमिना वचनेन ‘‘परं मरणा’’ति एतस्स उद्देसस्स अत्थो वुत्तो. होतिपीतिआदीसु होतीति मूलपदं. चतूसुपि अपि-सद्दो समुच्चयत्थो. तिट्ठतीति सस्सतत्ता तिट्ठति, न चवतीति अत्थो. ‘‘होती’’ति पदस्स वा अत्थविसेसनत्थं ‘‘तिट्ठती’’ति पदं वुत्तन्ति वेदितब्बं. उप्पज्जतीति अण्डजजलाबुजयोनिपवेसवसेन उप्पज्जति नाम, निब्बत्ततीति संसेदजओपपातिकयोनिपवेसवसेन निब्बत्तति नामाति अत्थयोजना वेदितब्बा. उच्छिज्जतीति पबन्धाभाववसेन. विनस्सतीति भङ्गवसेन. न होति परं मरणाति पुरिमपदानं अत्थविवरणं, चुतितो उद्धं न विज्जतीति अत्थो. होति च न च होतीति एकच्चसस्सतिकानं दिट्ठि, एकेन परियायेन होति, एकेन परियायेन न होतीति अत्थो. जीवभावेन होति, पुब्बजीवस्स अभावेन न होतीति वुत्तं होति. नेव होति न न होतीति अमराविक्खेपिकानं दिट्ठि, होतीति च नेव होति, न होतीति च न होतीति अत्थो. अनुवादभया मुसावादभया च मन्दत्ता मोमूहत्ता च पुब्बवुत्तनयस्स पटिक्खेपमत्तं करोति. इमेहि पञ्ञासाय आकारेहीति यथावुत्तानं दसन्नं पञ्चकानं वसेन पञ्ञासाय आकारेहीति.
अन्तग्गाहिकादिट्ठिनिद्देसवण्णना निट्ठिता.