१५-१६. भवविभवदिट्ठिनिद्देसवण्णना

१४८. भवविभवदिट्ठीनं यथावुत्तदिट्ठितो विसुं अभिनिवेसाभावतो विसुं निद्देसं अकत्वा यथावुत्तदिट्ठीनंयेव वसेन ‘‘ओलीयनं अतिधावन’’न्ति एकेकं आकारं निद्दिसितुं पुच्छं अकत्वा च ओलीयनाभिनिवेसो भवदिट्ठि, अतिधावनाभिनिवेसो विभवदिट्ठीति आह. तत्थ ‘‘भवनिरोधाय धम्मे देसियमाने चित्तं न पक्खन्दती’’ति (इतिवु. ४९) वुत्तओलीयनाभिनिवेसो, सस्सतसञ्ञाय निब्बानतो सङ्कोचनाभिनिवेसोति अत्थो. ‘‘भवेनेव खो पनेके अट्टीयमाना हरायमाना जिगुच्छमाना विभवं अभिनन्दन्ती’’ति वुत्तअतिधावनाभिनिवेसो, उच्छेदसञ्ञाय निरोधगामिनिपटिपदातिक्कमनाभिनिवेसोति अत्थो.

इदानि ताव भवविभवदिट्ठियो सब्बदिट्ठीसु योजेत्वा दस्सेतुं अस्साददिट्ठियातिआदिमाह. तत्थ यस्मा अस्साददिट्ठिका सस्सतं वा उच्छेदं वा निस्साय ‘‘नत्थि कामेसु दोसो’’ति गण्हन्ति, तस्मा पञ्चतिंसाकारापि अस्साददिट्ठियो सिया भवदिट्ठियो, सिया विभवदिट्ठियोति वुत्ता. तत्थ यस्मा एकेकापि दिट्ठियो सस्सतग्गाहवसेन भवदिट्ठियो भवेय्युं, उच्छेदग्गाहवसेन विभवदिट्ठियो भवेय्युन्ति अत्थो. अत्तानुदिट्ठिया रूपं अत्ततो समनुपस्सति, वेदनं… सञ्ञं… सङ्खारे… विञ्ञाणं अत्ततो समनुपस्सतीति पञ्चसु रूपादितो अत्तनो अनञ्ञत्ता तेसु उच्छिन्नेसु अत्ता उच्छिन्नोति गहणतो पञ्च विभवदिट्ठियोति वुत्तं. सेसेसु पञ्चदससु ठानेसु रूपादितो अत्तनो अञ्ञत्ता तेसु उच्छिन्नेसुपि ‘‘अत्ता सस्सतोति गहणतो पन्नरस भवदिट्ठियोति वुत्तं.

मिच्छादिट्ठिया ‘‘सब्बाव ता विभवदिट्ठियो’’ति उच्छेदवसेन पवत्तत्ता अन्तवानन्तवादिट्ठीसु परित्तारम्मणअप्पमाणारम्मणझानलाभिनो दिब्बचक्खुना रूपधातुया चवित्वा सत्ते अञ्ञत्थ उपपन्ने पस्सित्वा भवदिट्ठिं अपस्सित्वा विभवदिट्ठिं गण्हन्ति. तस्मा तत्थ सिया भवदिट्ठियो, सियाविभवदिट्ठियोति वुत्तं. होति च न च होतीति एत्थ होति चाति भवदिट्ठि, न च होतीति विभवदिट्ठि. नेव होति न न होतीति एत्थ नेव होतीति विभवदिट्ठि, न न होतीति भवदिट्ठि. तस्मा तत्थ ‘‘सिया’’ति वुत्तं.

पुब्बन्तानुदिट्ठिया एकच्चसस्सतिका सस्सतञ्च पञ्ञपेन्ति, असस्सतञ्च पञ्ञपेन्ति. तस्मा सा भवदिट्ठि च विभवदिट्ठि च होति. चत्तारो अन्तानन्तिका अन्तानन्तं अत्तानं पञ्ञपेन्ति. तस्मा सा अत्तानुदिट्ठिसदिसा भवदिट्ठि च विभवदिट्ठि च. चत्तारो अमराविक्खेपिका भवदिट्ठिं वा विभवदिट्ठिं वा निस्साय वाचाविक्खेपं आपज्जन्ति, अवसेसा पन भवदिट्ठियोव. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. अपरन्तानुदिट्ठिया सत्त उच्छेदवादा विभवदिट्ठियो, अवसेसा भवदिट्ठियो. तस्मा ते ते सन्धाय ‘‘सिया’’ति वुत्तं. सञ्ञोजनिकदिट्ठिया सब्बदिट्ठीनं वसेन ‘‘सिया’’ति वुत्तं. अहन्ति मानविनिबन्धाय दिट्ठिया चक्खादीनं अहन्ति गहितत्ता तेसं विनासे अत्ता विनट्ठो होतीति सब्बाव ता विभवदिट्ठियोति वुत्तं. अत्तानुदिट्ठियो विय ममन्ति मानविनिबन्धाय दिट्ठिया चक्खादितो अत्तनो अञ्ञत्ता तेसं विनासेपि अत्ता न विनस्सतीति सब्बाव ता भवदिट्ठियोति वुत्तं. लोकवादपटिसंयुत्ताय दिट्ठिया ‘‘सस्सतो अत्ता च लोको चा’’तिआदिना (पटि. म. १.१४७) नयेन वुत्तत्ता भवविभवदिट्ठि पाकटायेव. एत्तावता अस्साददिट्ठादिका विभवदिट्ठिपरियोसाना सोळस दिट्ठियो तीणिसतञ्च दिट्ठाभिनिवेसा निद्दिट्ठा होन्ति. अत्तानुदिट्ठि च सक्कायदिट्ठि च अत्तवादपटिसञ्ञुत्ता दिट्ठि च अत्थतो एका परियायेन तिविधा वुत्ता. सञ्ञोजनिका पन दिट्ठि अवत्थाभेदेन सब्बापि दिट्ठियो होन्ति.

इदानि सब्बाव ता दिट्ठियो अस्साददिट्ठियोतिआदि अञ्ञेन परियायेन यथायोगं दिट्ठिसंसन्दना. तत्थ सब्बाव ता दिट्ठियोति यथावुत्ता अनवसेसा दिट्ठियो. दिट्ठिरागरत्तत्ता तण्हास्सादनिस्सितत्ता च अस्साददिट्ठियो, अत्तसिनेहानुगतत्ता अत्तानुदिट्ठियो, विपरीतदस्सनत्ता मिच्छादिट्ठियो, खन्धवत्थुकत्ता सक्कायदिट्ठियो, एकेकस्स अन्तस्स गहितत्ता अन्तग्गाहिका दिट्ठियो, अनत्थसंयोजनिकत्ता सञ्ञोजनिका दिट्ठियो, अत्तवादेन युत्तत्ता अत्तवादपटिसंयुत्ता दिट्ठियोति इमा सत्त दिट्ठियो सब्बदिट्ठिसङ्गाहिका, सेसा पन नव दिट्ठियो न सब्बदिट्ठिसङ्गाहिका.

इदानि वित्थारतो वुत्ता सब्बाव ता दिट्ठियो द्वीसुयेव दिट्ठीसु सङ्खिपित्वा सत्तानं दिट्ठिद्वयनिस्सयं दस्सेन्तो भवञ्च दिट्ठिन्तिगाथमाह. सब्बापि हि ता दिट्ठियो भवदिट्ठी वा होन्ति विभवदिट्ठी वा. भवञ्च दिट्ठिं विभवञ्च दिट्ठिन्ति एत्थ पन च-सद्दो दिट्ठिमेव समुच्चिनोति, न निस्सयं. न हि एको भवविभवदिट्ठिद्वयं निस्सयति. यथाह – ‘‘इति भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वा’’ति (पटि. म. १.११३). तक्किकाति तक्केन वदन्तीति तक्किका. ते हि दिट्ठिगतिका सभावपटिवेधपञ्ञाय अभावा केवलं तक्केन वत्तन्ति. येपि च झानलाभिनो अभिञ्ञालाभिनो वा दिट्ठिं गण्हन्ति, तेपि तक्केत्वा गहणतो तक्किका एव. निस्सितासेति निस्सिताति अत्थो. एकमेव पदं, ‘‘से’’ति निपातमत्तं वा. तेसं निरोधम्हि न हत्थि ञाणन्ति दिट्ठिनिस्सयस्स कारणवचनमेतं. सक्कायदिट्ठिनिरोधे निब्बाने यस्मा तेसं ञाणं नत्थि, तस्मा एतं दिट्ठिद्वयं निस्सिताति अत्थो. ‘‘न हि अत्थि ञाण’’न्ति एत्थ हि-कारो कारणोपदेसे निपातो. यत्थायं लोको विपरीतसञ्ञीति यत्थ सुखे निरोधम्हि अयं सदेवको लोको ‘‘दुक्ख’’मिति विपरीतसञ्ञी होति, तस्मिं निरोधम्हि न हत्थि ञाणन्ति सम्बन्धो. दुक्खमिति विपरीतसञ्ञिताय इदं सुत्तं –

‘‘रूपा सद्दा रसा गन्धा, फस्सा धम्मा च केवला;

इट्ठा कन्ता मनापा च, यावतत्थीति वुच्चति.

‘‘सदेवकस्स लोकस्स, एते वो सुखसम्मता;

यत्थ चेते निरुज्झन्ति, तं नेसं दुक्खसम्मतं.

‘‘सुखन्ति दिट्ठमरियेहि, सक्कायस्सुपरोधनं;

पच्चनीकमिदं होति, सब्बलोकेन पस्सतं.

‘‘यं परे सुखतो आहु, तदरिया आहु दुक्खतो;

यं परे दुक्खतो आहु, तदरिया सुखतो विदू.

‘‘पस्स धम्मं दुराजानं, सम्पमूळ्हेत्थविद्दसु;

निवुतानं तमो होति, अन्धकारो अपस्सतं.

‘‘सतञ्च विवटं होति, आलोको पस्सतामिव;

सन्तिके न विजानन्ति, मगा धम्मस्सकोविदा.

‘‘भवरागपरेतेहि, भवसोतानुसारिभि;

मारधेय्यानुपन्नेहि, नायं धम्मो सुसम्बुधो.

‘‘को नु अञ्ञत्र अरियेभि, पदं सम्बुद्धुमरहति;

यं पदं सम्मदञ्ञाय, परिनिब्बन्ति अनासवा’’ति. (सु. नि. ७६४-७७१);

१४९. इदानि सब्बासं दिट्ठीनं दिट्ठिद्वयभावं दिट्ठिसमुग्घातकञ्च सम्मादिट्ठिं सुत्ततो दस्सेतुकामो, द्वीहि भिक्खवेति सुत्तं आहरि. तत्थ देवाति ब्रह्मानोपि वुच्चन्ति. ओलीयन्तीति सङ्कुचन्ति. अतिधावन्तीति अतिक्कमित्वा गच्छन्ति. चक्खुमन्तोति पञ्ञवन्तो. च-सद्दो अतिरेकत्थो. भवारामाति भवो आरामो अभिरमट्ठानं एतेसन्ति भवारामा. भवरताति भवे अभिरता. भवसम्मुदिताति भवेन सन्तुट्ठा. देसियमानेति तथागतेन वा तथागतसावकेन वा देसियमाने. न पक्खन्दतीति धम्मदेसनं वा भवनिरोधं वा न पविसति. न पसीदतीति तत्थ पसादं न पापुणाति. न सन्तिट्ठतीति तत्थ न पतिट्ठाति. नाधिमुच्चतीति तत्थ घनभावं न पापुणाति. एत्तावता सस्सतदिट्ठि वुत्ता.

अट्टीयमानाति दुक्खं पापुणमाना. हरायमानाति लज्जं पापुणमाना. जिगुच्छमानाति जिगुच्छं पापुणमाना. विभवं अभिनन्दन्तीति उच्छेदं पटिच्च तुस्सन्ति, उच्छेदं पत्थयन्तीति वा अत्थो. किराति अनुस्सवनत्थे निपातो. भोति आलपनमेतं. सन्तन्ति निब्बुतं. पणीतन्ति दुक्खाभावतो पणीतं, पधानभावं नीतन्ति वा पणीतं. याथावन्ति यथासभावं. एत्तावता उच्छेददिट्ठि वुत्ता.

इधाति इमस्मिं सासने. भूतन्ति हेतुतो सञ्जातं खन्धपञ्चकसङ्खातं दुक्खं. भूततो पस्सतीति इदं भूतं दुक्खन्ति पस्सति. निब्बिदायाति विपस्सनत्थाय. विरागायाति अरियमग्गत्थाय. निरोधायाति निब्बानत्थाय. पटिपन्नो होतीति तदनुरूपं पटिपदं पटिपन्नो होति. एवं पस्सन्तीति इमिना पकारेन पुब्बभागे लोकियञाणेन, पटिवेधकाले लोकुत्तरञाणेन पस्सन्ति. एत्तावता सम्मादिट्ठि वुत्ता.

इदानि द्वीहि गाथाहि तस्सा सम्मादिट्ठिया आनिसंसं दस्सेति. तत्थ यो भूतं भूततो दिस्वाति दुक्खं परिञ्ञाभिसमयेन अभिसमेत्वाति अत्थो. भूतस्स च अतिक्कमन्ति निरोधं सच्छिकिरियाभिसमयेन अभिसमेत्वाति अत्थो. यथाभूतेधिमुच्चतीति मग्गभावनाभिसमयवसेन यथासभावे निरोधे ‘‘एतं सन्तं, एतं पणीत’’न्ति अधिमुच्चति. भवतण्हा परिक्खयाति समुदयस्स पहानेनाति अत्थो. असतिपि चेत्थ सच्चानं नानाभिसमयत्ते ‘‘दिस्वा’’ति पुब्बकालिकवचनं सद्धिं पुब्बभागपटिपदाय वोहारवसेन वुत्तन्ति वेदितब्बं. न हि पुब्बं पस्सित्वा पच्छा अधिमुच्चति. चतुसच्चाभिसमयो समानकालमेव होति. समानकालेपि वा पुब्बकालिकानि पदानि भवन्तीति न दोसो. स वेति एकंसेन सो अरहं. भूतपरिञ्ञातोति दुक्खं परिञ्ञातवा. वीततण्होति विगततण्हो. भवाभवेति खुद्दके च महन्ते च भवे. वुद्धिअत्थेपि हि अ-कारस्स सम्भवतो अभवोति महाभवो. सो पन खुद्दकमहन्तभावो उपादायुपादाय वेदितब्बो. अथ वा भवेति सस्सते. अभवेति उच्छेदे. तदुभयेपि दिट्ठिरागाभावेन वीततण्हो. भूतस्स विभवाति वट्टदुक्खस्स समुच्छेदा. नागच्छति पुनब्भवन्ति अरहतो परिनिब्बानं वुत्तं.

१५०. तयो पुग्गलातिआदि मिच्छादिट्ठिकगरहणत्थं सम्मादिट्ठिकपसंसनत्थं वुत्तं. तत्थ विरूपभावं पन्ना गता दिट्ठि एतेसन्ति विपन्नदिट्ठी. सुन्दरभावं पन्ना गता दिट्ठि एतेसन्ति सम्पन्नदिट्ठी. तित्थियोति तित्थं वुच्चति दिट्ठि, तं पटिपन्नत्ता तित्थे साधु, तित्थं यस्स अत्थीति वा तित्थियो. इतो बहिद्धा पब्बज्जूपगतो. तित्थियसावकोति तेसं दिट्ठानुगतिमापन्नो गहट्ठो. यो च मिच्छादिट्ठिकोति तदुभयभावं अनुपगन्त्वा याय कायचि दिट्ठिया मिच्छादिट्ठिको.

तथागतोति सम्मासम्बुद्धो. पच्चेकबुद्धोपि एत्थेव सङ्गहितो. तथागतसावकोति मग्गप्पत्तो फलप्पत्तो च. यो च सम्मादिट्ठिकोति तदुभयविनिमुत्तो लोकियसम्मादिट्ठिया सम्मादिट्ठिको.

गाथासु कोधनोति यो अभिण्हं कुज्झति, सो. उपनाहीति तमेव कोधं वड्ढेत्वा उपनन्धनसीलो. पापमक्खीति लामकभूतमक्खवा. मायावीति कतपापपटिच्छादनवा. वसलोति हीनजच्चो. विसुद्धोति ञाणदस्सनविसुद्धिया विसुद्धो. सुद्धतं गतोति मग्गफलसङ्खातं सुद्धभावं गतो. मेधावीति पञ्ञवा. इमाय गाथाय लोकुत्तरसम्मादिट्ठिसम्पन्नो एव थोमितो.

विपन्नदिट्ठियो सम्पन्नदिट्ठियोति पुग्गलवोहारं पहाय धम्ममेव गरहन्तो थोमेन्तो च आह. एतं ममाति तण्हामञ्ञनवसेन दिट्ठि. एसोहमस्मीति मानमञ्ञनमूलिका दिट्ठि. एसो मे अत्ताति दिट्ठिमञ्ञनमेव.

एतं ममाति का दिट्ठीतिआदीहि तिस्सन्नं विपन्नदिट्ठीनं विभागञ्च गणनञ्च कालसङ्गहञ्च पुच्छित्वा विस्सज्जनं कतं. तत्थ का दिट्ठीति अनेकासु दिट्ठीसु कतमा दिट्ठीति अत्थो. कतमन्तानुग्गहिताति पुब्बन्तापरन्तसङ्खातकालद्वये कतमेन कालेन अनुग्गहिता, अनुबद्धाति अत्थो. यस्मा ‘‘एतं ममा’’ति परामसन्तो ‘‘एतं मम अहोसि, एवं मम अहोसि, एत्तकं मम अहोसी’’ति अतीतं वत्थुं अपदिसित्वा परामसति, तस्मा पुब्बन्तानुदिट्ठि होति. पुब्बन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसोहमस्मी’’ति परामसन्तो ‘‘इमिनाहं सीलेन वा वतेन वा तपेन वा ब्रह्मचरियेन वा एसोस्मि विसुज्झिस्सामी’’ति अनागतफलं उपादाय परामसति, तस्मा अपरन्तानुदिट्ठि होति. अपरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा ‘‘एसो मे अत्ता’’ति परामसन्तो अतीतानागतं उपादिन्नसन्ततिं उपादाय ‘‘एसो मे अत्ता’’ति परामसति, सक्कायदिट्ठिवसेन च परामसति, तस्मा सक्कायदिट्ठि होति. पुब्बन्तापरन्तानुग्गहिता च ता दिट्ठियो होन्ति. यस्मा पन सक्कायदिट्ठिप्पमुखायेव द्वासट्ठि दिट्ठियो होन्ति, सक्कायदिट्ठिसमुग्घातेनेव च द्वासट्ठि दिट्ठियो समुग्घातं गच्छन्ति, तस्मा सक्कायदिट्ठिप्पमुखेन द्वासट्ठि दिट्ठिगतानीति वुत्ता, सक्कायदिट्ठिप्पमुखेन सक्कायदिट्ठिद्वारेन द्वासट्ठि दिट्ठिगतानि होन्तीति अत्थो. सक्कायदिट्ठिप्पमुखानीति पाठो सुन्दरतरो. सक्कायदिट्ठि पमुखा आदि एतेसन्ति सक्कायदिट्ठिप्पमुखानि. कानि तानि? द्वासट्ठि दिट्ठिगतानि.

‘‘का दिट्ठी’’ति पुच्छाय वीसतिवत्थुका अत्तानुदिट्ठि, वीसतिवत्थुका सक्कायदिट्ठीति विस्सज्जनं. ‘‘कति दिट्ठियो’’ति पुच्छाय सक्कायदिट्ठिप्पमुखानि द्वासट्ठि दिट्ठिगतानीति विस्सज्जनं. सायेव पन सक्कायदिट्ठि ‘‘एसो मे अत्ता’’ति वचनसामञ्ञेन अत्तानुदिट्ठीति वुत्ता. तस्सा वुत्ताय अत्तवादपटिसञ्ञुत्ता दिट्ठिपि वुत्तायेव होति.

१५१. ये केचि, भिक्खवेतिआदिसुत्ताहरणं सम्पन्नदिट्ठिपुग्गलसम्बन्धेन सम्पन्नदिट्ठिपुग्गलविभागदस्सनत्थं कतं. तत्थ निट्ठं गताति मग्गञाणवसेन सम्मासम्बुद्धो भगवाति निच्छयं गता, निब्बेमतिकाति अत्थो. निट्ठागताति पाठो समासपदं होति, अत्थो पन सोयेव. दिट्ठिसम्पन्नाति दिट्ठिया सुन्दरभावं गता. इध निट्ठाति इमिस्सा कामधातुया परिनिब्बानं. इध विहाय निट्ठाति इमं कामभवं विजहित्वा सुद्धावासब्रह्मलोके परिनिब्बानं. सत्तक्खत्तुपरमस्साति सत्तक्खत्तुंपरमा सत्तवारपरमा भवूपपत्ति अत्तभावग्गहणं अस्स, ततो परं अट्ठमं भवं नादियतीति सत्तक्खत्तुपरमो. तस्स सत्तक्खत्तुपरमस्स सोतापन्नस्स. कोलंकोलस्साति कुलतो कुलं गच्छतीति कोलंकोलो. सोतापत्तिफलसच्छिकिरियतो हि पट्ठाय नीचे कुले उपपत्ति नाम नत्थि, महाभोगकुलेसुयेव निब्बत्ततीति अत्थो. तस्स कोलंकोलस्स सोतापन्नस्स. एकबीजिस्साति खन्धबीजं नाम कथितं. यस्स हि सोतापन्नस्स एकंयेव खन्धबीजं अत्थि, एकं अत्तभावग्गहणं, सो एकबीजी नाम. तस्स एकबीजिस्स सोतापन्नस्स. भगवता गहितनामवसेनेवेतानि एतेसं नामानि. एत्तकञ्हि ठानं गतो सत्तक्खत्तुपरमो नाम होति, एत्तकं कोलंकोलो, एत्तकं एकबीजीति भगवता एतेसं नामं गहितं. भगवा हि ‘‘अयं एत्तकं ठानं गमिस्सति, अयं एत्तकं ठानं गमिस्सती’’ति ञत्वा तेसं तानि तानि नामानि अग्गहेसि. मुदुपञ्ञो हि सोतापन्नो सत्त भवे निब्बत्तेन्तो सत्तक्खत्तुपरमो नाम, मज्झिमपञ्ञो परं छट्ठं भवं निब्बत्तेन्तो कोलंकोलो नाम, तिक्खपञ्ञो एकं भवं निब्बत्तेन्तो एकबीजी नाम. तं पनेतं तेसं मुदुमज्झिमतिक्खपञ्ञतं पुब्बहेतु नियमेति. इमे तयोपि सोतापन्ना कामभववसेन वुत्ता, रूपारूपभवे पन बहुकापि पटिसन्धियो गण्हन्ति. सकदागामिस्साति पटिसन्धिवसेन सकिं कामभवं आगच्छतीति सकदागामी. तस्स सकदागामिस्स. दिट्ठेव धम्मे अरहाति इमस्मिंयेव अत्तभावे अरहा. अरहन्तिपि पाठो. इध निट्ठाति कामभवं संसरन्तेयेव सन्धाय वुत्तं. रूपारूपभवे उप्पन्ना पन अरिया कामभवे न उप्पज्जन्ति, तत्थेव परिनिब्बायन्ति.

अन्तरापरिनिब्बायिस्साति आयुवेमज्झस्स अन्तरायेव किलेसपरिनिब्बानेन परिनिब्बायनतो अन्तरापरिनिब्बायी. सो पन उप्पन्नसमनन्तरा परिनिब्बायी, आयुवेमज्झं अप्पत्वा परिनिब्बायी, आयुवेमज्झं पत्वा परिनिब्बायीति तिविधो होति. तस्स अन्तरापरिनिब्बायिस्स अनागामिनो. उपहच्चपरिनिब्बायिस्साति आयुवेमज्झं अतिक्कमित्वा वा कालकिरियं उपगन्त्वा वा किलेसपरिनिब्बानेन परिनिब्बायन्तस्स अनागामिनो. असङ्खारपरिनिब्बायिस्साति असङ्खारेन अप्पयोगेन अधिमत्तप्पयोगं अकत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. ससङ्खारपरिनिब्बायिस्साति ससङ्खारेन दुक्खेन कसिरेन अधिमत्तप्पयोगं कत्वाव किलेसपरिनिब्बानेन परिनिब्बायनधम्मस्स अनागामिनो. उद्धंसोतस्स अकनिट्ठगामिनोति उद्धंवाहिभावेन उद्धमस्स तण्हासोतं वट्टसोतं वाति उद्धंसोतो, उद्धं वा गन्त्वा पटिलभितब्बतो उद्धमस्स मग्गसोतन्ति उद्धंसोतो, अकनिट्ठं गच्छतीति अकनिट्ठगामी. तस्स उद्धंसोतस्स अकनिट्ठगामिनो अनागामिस्स. अयं पन अनागामी चतुप्पभेदो – यो अविहतो पट्ठाय चत्तारो ब्रह्मलोके सोधेत्वा अकनिट्ठं गन्त्वा परिनिब्बायति, अयं उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा तयो ब्रह्मलोके सोधेत्वा सुदस्सीब्रह्मलोके ठत्वा परिनिब्बायति, अयं उद्धंसोतो न अकनिट्ठगामी नाम. यो इतो अकनिट्ठमेव गन्त्वा परिनिब्बायति, अयं न उद्धंसोतो अकनिट्ठगामी नाम. यो हेट्ठा चतूसु ब्रह्मलोकेसु तत्थ तत्थेव परिनिब्बायति, अयं न उद्धंसोतो न अकनिट्ठगामी नामाति. इमे पञ्च अनागामिनो सुद्धावासं गहेत्वा वुत्ता. अनागामिनो पन रूपरागारूपरागानं अप्पहीनत्ता आकङ्खमाना सेसरूपारूपभवेसुपि निब्बत्तन्ति. सुद्धावासे निब्बत्ता पन अञ्ञत्थ न निब्बत्तन्ति. अवेच्चप्पसन्नाति अरियमग्गवसेन जानित्वा बुज्झित्वा अचलप्पसादेन पसन्ना. सोतापन्नाति अरियमग्गसोतं आपन्ना. इमिना सब्बेपि अरियफलट्ठा पुग्गला गहिताति.

भवविभवदिट्ठिनिद्देसवण्णना निट्ठिता.

सद्धम्मप्पकासिनिया पटिसम्भिदामग्गट्ठकथाय

दिट्ठिकथावण्णना निट्ठिता.