६९. आसयानुसयञाणनिद्देसवण्णना

११३. आसयानुसयञाणनिद्देसे इध तथागतोतिआदि पञ्चधा ठपितो निद्देसो. तत्थ आसयानुसया वुत्तत्था एव. चरितन्ति पुब्बे कतं कुसलाकुसलं कम्मं. अधिमुत्तिन्ति सम्पति कुसले अकुसले वा चित्तवोसग्गो. भब्बाभब्बेति भब्बे च अभब्बे च. अरियाय जातिया सम्भवन्ति जायन्तीति भब्बा. वत्तमानसमीपे वत्तमानवचनं. भविस्सन्ति जायिस्सन्तीति वा भब्बा, भाजनभूताति अत्थो. ये अरियमग्गपटिवेधस्स अनुच्छविका उपनिस्सयसम्पन्ना, ते भब्बा. वुत्तपटिपक्खा अभब्बा.

कतमो सत्तानं आसयोतिआदि निद्देसस्स पटिनिद्देसो. तत्थ सस्सतोति निच्चो. लोकोति अत्ता. इध सरीरंयेव नस्सति, अत्ता पन इध परत्थ च सोयेवाति मञ्ञन्ति. सो हि सयंयेव आलोकेतीति कत्वा ‘‘लोको’’ति मञ्ञन्ति. असस्सतोति अनिच्चो. अत्ता सरीरेनेव सह नस्सतीति मञ्ञन्ति. अन्तवाति परित्ते कसिणे झानं उप्पादेत्वा तंपरित्तकसिणारम्मणं चित्तं सपरियन्तो अत्ताति मञ्ञन्ति. अनन्तवाति न अन्तवा अप्पमाणे कसिणे झानं उप्पादेत्वा तंअप्पमाणकसिणारम्मणं चित्तं अपरियन्तो अत्ताति मञ्ञन्ति. तं जीवं तं सरीरन्ति जीवो च सरीरञ्च तंयेव. जीवोति अत्ता, लिङ्गविपल्लासेन नपुंसकवचनं कतं. सरीरन्ति रासट्ठेन खन्धपञ्चकं. अञ्ञं जीवं अञ्ञं सरीरन्ति अञ्ञो जीवो अञ्ञं खन्धपञ्चकं. होति तथागतो परं मरणाति खन्धा इधेव विनस्सन्ति, सत्तो मरणतो परं होति विज्जति न नस्सति. ‘‘तथागतो’’ति चेत्थ सत्ताधिवचनन्ति वदन्ति. केचि पन ‘‘तथागतोति अरहा’’ति वदन्ति. इमे ‘‘न होती’’ति पक्खे दोसं दिस्वा एवं गण्हन्ति. न होति तथागतो परं मरणाति खन्धापि इधेव नस्सन्ति, तथागतो च मरणतो परं न होति उच्छिज्जति विनस्सति. इमे ‘‘होती’’ति पक्खे दोसं दिस्वा एवं गण्हन्ति. होति च न च होतीति इमे एकेकपक्खपरिग्गहे दोसं दिस्वा उभयपक्खं गण्हन्ति. नेव होति न न होतीति इमे उभयपक्खपरिग्गहे उभयदोसापत्तिं दिस्वा ‘‘होतीति च न होति, नेव होतीति च न होती’’ति अमराविक्खेपपक्खं गण्हन्ति.

अयं पनेत्थ अट्ठकथानयो – ‘‘सस्सतो लोकोति वा’’तिआदीहि दसहाकारेहि दिट्ठिपभेदोव वुत्तो. तत्थ सस्सतो लोकोति च खन्धपञ्चकं लोकोति गहेत्वा ‘‘अयं लोको निच्चो धुवो सब्बकालिको’’ति गण्हन्तस्स सस्सतन्ति गहणाकारप्पवत्ता दिट्ठि. असस्सतोति तमेव लोकं ‘‘उच्छिज्जति विनस्सती’’ति गण्हन्तस्स उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. अन्तवाति परित्तकसिणलाभिनो सुप्पमत्ते वा सरावमत्ते वा कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन ‘‘अन्तवा’’ति च गण्हन्तस्स ‘‘अन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. विपुलकसिणलाभिनो पन तस्मिं कसिणे समापन्नस्स अन्तोसमापत्तियं पवत्तितरूपारूपधम्मे ‘‘लोको’’ति च कसिणपरिच्छेदन्तेन ‘‘न अन्तवा’’ति च गण्हन्तस्स ‘‘अनन्तवा लोको’’ति गहणाकारप्पवत्ता दिट्ठि. सा सस्सतदिट्ठिपि होति उच्छेददिट्ठिपि. तं जीवं तं सरीरन्ति भेदनधम्मस्स सरीरस्सेव ‘‘जीव’’न्ति गहितत्ता ‘‘सरीरे उच्छिज्जमाने जीवम्पि उच्छिज्जती’’ति उच्छेदग्गहणाकारप्पवत्ता दिट्ठि. दुतियपदे सरीरतो अञ्ञस्स जीवस्स गहितत्ता ‘‘सरीरे उच्छिज्जमानेपि जीवं न उच्छिज्जती’’ति सस्सतग्गहणाकारप्पवत्ता दिट्ठि. होति तथागतोतिआदीसु ‘‘सत्तो तथागतो नाम, सो परं मरणा होती’’ति गण्हतो पठमा सस्सतदिट्ठि. ‘‘न होती’’ति गण्हतो दुतिया उच्छेददिट्ठि. ‘‘होति च न च होती’’ति गण्हतो ततिया एकच्चसस्सतदिट्ठि. ‘‘नेव होति न न होती’’ति गण्हतो चतुत्था अमराविक्खेपदिट्ठीति.

इतीति वुत्तप्पकारदिट्ठिनिस्सयनिदस्सनं. भवदिट्ठिसन्निस्सिता वा सत्ता होन्ति विभवदिट्ठिसन्निस्सिता वाति भवो वुच्चति सस्सतो, सस्सतवसेन उप्पज्जमानदिट्ठि भवदिट्ठि, भवोति दिट्ठीति वुत्तं होति. विभवो वुच्चति उच्छेदो, उच्छेदवसेन उप्पज्जमानदिट्ठि विभवदिट्ठि, विभवोति दिट्ठीति वुत्तं होति. वुत्तप्पकारा दसविधा दिट्ठि भवदिट्ठि च विभवदिट्ठि चाति द्विधाव होति. तासु द्वीसु एकेकं सन्निस्सिता अपस्सिता अल्लीना सत्ता होन्ति.

एते वा पन उभो अन्ते अनुपगम्माति एत्थ ‘‘अग्गितो वा उदकतो वा मिथुभेदा वा’’तिआदीसु (दी. नि. २.१५२) विय वा-सद्दो समुच्चयत्थो. एते वुत्तप्पकारे सस्सतुच्छेदवसेन द्वे पक्खे च न उपगन्त्वा अनल्लीयित्वा पहायाति अत्थो. ‘‘अनुलोमिका वा खन्ती’’ति विकप्पत्थोव. इदप्पच्चयतापटिच्चसमुप्पन्नेसूति इमेसं जरामरणादीनं पच्चया इदप्पच्चया, इदप्पच्चया एव इदप्पच्चयता, इदप्पच्चयानं वा समूहो इदप्पच्चयता. लक्खणं पनेत्थ सद्दसत्थतो परियेसितब्बं. ते ते पच्चये पटिच्च सह सम्मा च उप्पन्ना पटिच्चसमुप्पन्ना. तस्सा इदप्पच्चयताय च तेसु पटिच्चसमुप्पन्नेसु च धम्मेसु. अनुलोमिकाति लोकुत्तरधम्मानं अनुलोमतो अनुलोमिका. खन्तीति ञाणं. ञाणञ्हि खमनतो खन्ति. पटिलद्धा होतीति सत्तेहि अधिगता होति. इदप्पच्चयताय खन्तिया उच्छेदत्तानुपगमो होति पच्चयुप्पन्नधम्मानं पच्चयसामग्गियं आयत्तवुत्तित्ता पच्चयानुपरमदस्सनेन फलानुपरमदस्सनतो. पटिच्चसमुप्पन्नेसु धम्मेसु खन्तिया सस्सतत्तानुपगमो होति पच्चयसामग्गियं नवनवानं पच्चयुप्पन्नधम्मानं उप्पाददस्सनतो. एवमेते उभो अन्ते अनुपगम्म पटिच्चसमुप्पादपटिच्चसमुप्पन्नधम्मदस्सनेन न उच्छेदो न सस्सतोति पवत्तं सम्मादस्सनं ‘‘अनुलोमिका खन्ती’’ति वेदितब्बं. एवञ्हि तदुभयदिट्ठिपटिपक्खभूता सम्मादिट्ठि वुत्ता होति. यथाभूतं वा ञाणन्ति यथाभूतं यथासभावं नेय्यं. तत्थ पवत्तञाणम्पि विसयवोहारेन ‘‘यथाभूतञाण’’न्ति वुत्तं. तं पन सङ्खारुपेक्खापरियन्तं विपस्सनाञाणं इधाधिप्पेतं. हेट्ठा पन ‘‘यथाभूतञाणदस्सन’’न्ति भयतूपट्ठानञाणं वुत्तं. यथाभूतं वा ञाणं सत्तेहि पटिलद्धं होतीति सम्बन्धो.

इदानि ‘‘सस्सतो लोको’’तिआदीहि मिच्छादिट्ठिपरिभावितं ‘‘एते वा पना’’तिआदीहि सम्मादिट्ठिपरिभावितं सत्तसन्तानं दस्सेत्वा ‘‘कामं सेवन्तञ्ञेवा’’तिआदीहि सेसाकुसलेहि सेसकुसलेहि च परिभावितं सत्तसन्तानं दस्सेति. तत्थ कामं सेवन्तंयेव पुग्गलं तथागतो जानातीति योजना कातब्बा. सेवन्तन्ति च अभिण्हसमुदाचारवसेन सेवमानं. पुब्बे आसेवितवसेन किलेसकामो गरु अस्साति कामगरुको. तथेव कामो आसये सन्ताने अस्साति कामासयो. सन्तानवसेनेव कामे अधिमुत्तो लग्गोति कामाधिमुत्तो. सेसेसुपि एसेव नयो. नेक्खम्मादीनि वुत्तत्थानेव. कामादीहि च तीहि सेसाकुसला, नेक्खम्मादीहि तीहि सेसकुसला गहिताव होन्तीति वेदितब्बा. ‘‘अयं सत्तानं आसयो’’ति तिधा वुत्तं सन्तानमेव दस्सेति.

अयं पनेत्थ अट्ठकथानयो – ‘‘इति भवदिट्ठिसन्निस्सिता वा’’ति एवं सस्सतदिट्ठिं वा सन्निस्सिता. सस्सतदिट्ठि हि एत्थ भवदिट्ठीति वुत्ता, उच्छेददिट्ठि च विभवदिट्ठीति. सब्बदिट्ठीनञ्हि सस्सतुच्छेददिट्ठीहि सङ्गहितत्ता सब्बेपिमे दिट्ठिगतिका सत्ता इमाव द्वे दिट्ठियो सन्निस्सिता होन्ति. वुत्तम्पि चेतं ‘‘द्वयनिस्सितो ख्वायं, कच्चान, लोको येभुय्येन अत्थितञ्चेव नत्थितञ्चा’’ति (सं. नि. २.१५). एत्थ हि अत्थिताति सस्सतं. नत्थिताति उच्छेदो. अयं ताव वट्टनिस्सितानं पुथुज्जनानं सत्तानं आसयो. इदानि विवट्टनिस्सितानं सुद्धसत्तानं आसयं दस्सेतुं ‘‘एते वा पन उभो अन्ते अनुपगम्मा’’तिआदि वुत्तं. तत्थ ‘‘एते वा पना’’ति एतेयेव. ‘‘उभो अन्ते’’ति सस्सतुच्छेदसङ्खाते द्वे अन्ते. ‘‘अनुपगम्मा’’ति न अल्लीयित्वा. ‘‘इदप्पच्चयतापटिच्चसमुप्पन्नेसु धम्मेसू’’ति इदप्पच्चयताय चेव पटिच्चसमुप्पन्नधम्मेसु च. ‘‘अनुलोमिका खन्ती’’ति विपस्सनाञाणं. ‘‘यथाभूतं ञाण’’न्ति मग्गञाणं. इदं वुत्तं होति – या पटिच्चसमुप्पादे चेव पटिच्चसमुप्पन्नधम्मेसु च एते उभो सस्सतुच्छेदअन्ते अनुपगन्त्वा विपस्सना पटिलद्धा, यञ्च ततो उत्तरि मग्गञाणं, अयं सत्तानं आसयो. अयं वट्टनिस्सितानञ्च विवट्टनिस्सितानञ्च सब्बेसम्पि सत्तानं आसयो इदं वसनट्ठानन्ति. अयं आचरियानं समानट्ठकथा.

वितण्डवादी पनाह ‘‘मग्गो नाम वासं विद्धंसेन्तो गच्छति, त्वं मग्गो वासोति वदेसी’’ति? सो वत्तब्बो ‘‘त्वं अरियवासभाणको होसि न होसी’’ति? सचे ‘‘न होमी’’ति वदति, ‘‘त्वं अभाणकताय न जानासी’’ति वत्तब्बो. सचे ‘‘भाणकोस्मी’’ति वदति, ‘‘सुत्तं आहरा’’ति वत्तब्बो. सचे आहरति, इच्चेतं कुसलं. नो चे आहरति, सयं आहरितब्बं ‘‘दसयिमे, भिक्खवे, अरियावासा, यदरिया आवसिंसु वा आवसन्ति वा आवसिस्सन्ति वा’’ति (अ. नि. १०.१९). एतञ्हि सुत्तं मग्गस्स वासभावं दीपेति. तस्मा सुकथितमेवेतन्ति. इमं पन भगवा सत्तानं आसयं जानन्तो इमेसञ्च दिट्ठिगतानं इमेसञ्च विपस्सनाञाणमग्गञाणानं अप्पवत्तिक्खणेपि जानाति एव. तस्मायेव च ‘‘कामं सेवन्तंयेव जानाती’’तिआदि वुत्तन्ति.

अनुसयनिद्देसे अनुसयाति केनट्ठेन अनुसया? अनुसयनट्ठेन. को एस अनुसयनट्ठो नामाति? अप्पहीनट्ठो. एते हि अप्पहीनट्ठेन तस्स तस्स सन्ताने अनुसेन्ति नाम. तस्मा ‘‘अनुसया’’ति वुच्चन्ति. अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्तीति अत्थो. अथापि सिया – अनुसयनट्ठो नाम अप्पहीनाकारो, सो च उप्पज्जतीति वत्तुं न युज्जति, तस्मा न अनुसया उप्पज्जन्तीति. तत्रिदं पटिवचनं – न अप्पहीनाकारो, अनुसयोति पन अप्पहीनट्ठेन थामगतकिलेसो वुच्चति. सो चित्तसम्पयुत्तो सारम्मणो सप्पच्चयट्ठेन सहेतुको एकन्ताकुसलो अतीतोपि होति अनागतोपि पच्चुप्पन्नोपि, तस्मा उप्पज्जतीति वत्तुं युज्जतीति. तत्रिदं पमाणं – इधेव ताव अभिसमयकथाय (पटि. म. ३.२१) ‘‘पच्चुप्पन्ने किलेसे पजहती’’ति पुच्छं कत्वा अनुसयानं पच्चुप्पन्नभावस्स अत्थिताय ‘‘थामगतो अनुसयं पजहती’’ति वुत्तं. धम्मसङ्गणियं मोहस्स पदभाजने ‘‘अविज्जानुसयो अविज्जापरियुट्ठानं अविज्जालङ्गी मोहो अकुसलमूलं, अयं तस्मिं समये मोहो होती’’ति (ध. स. ३९०) अकुसलचित्तेन सद्धिं मोहस्स उप्पन्नभावो वुत्तो. कथावत्थुस्मिं ‘‘अनुसया अब्याकता अनुसया अहेतुका अनुसया चित्तविप्पयुत्ता’’ति सब्बे वादा पटिसेधिता. अनुसययमके सत्तन्नं महावारानं अञ्ञतरस्मिं उप्पज्जनवारे ‘‘यस्स कामरागानुसयो उप्पज्जति, तस्स पटिघानुसयो उप्पज्जती’’तिआदि (यम. २.अनुसययमक.३००) वुत्तं. तस्मा ‘‘अनुसेन्तीति अनुरूपं कारणं लभित्वा उप्पज्जन्ती’’ति यं वुत्तं, तं इमिना तन्तिप्पमाणेन युत्तन्ति वेदितब्बं. यम्पि ‘‘चित्तसम्पयुत्तो सारम्मणो’’तिआदि वुत्तं, तम्पि सुवुत्तमेव. अनुसयो हि नामेस परिनिप्फन्नो चित्तसम्पयुत्तो अकुसलधम्मोति निट्ठमेत्थ गन्तब्बं.

कामरागानुसयोतिआदीसु कामरागो च सो अप्पहीनट्ठेन अनुसयो चाति कामरागानुसयो. सेसपदेसुपि एसेव नयो. कामरागानुसयो चेत्थ लोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च मनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो लोभो. पटिघानुसयो च दोमनस्ससहगतचित्तेसु सहजातवसेन आरम्मणवसेन च अमनापेसु अवसेसकामावचरधम्मेसु आरम्मणवसेनेव उप्पज्जमानो दोसो. मानानुसयो दिट्ठिगतविप्पयुत्तलोभसहगतचित्तेसु सहजातवसेन आरम्मणवसेन च दुक्खवेदनावज्जेसु अवसेसकामावचरधम्मेसु रूपारूपावचरधम्मेसु च आरम्मणवसेनेव उप्पज्जमानो मानो. दिट्ठानुसयो चतूसु दिट्ठिगतसम्पयुत्तेसु. विचिकिच्छानुसयो विचिकिच्छासहगते. अविज्जानुसयो द्वादससु अकुसलचित्तेसु सहजातवसेन आरम्मणवसेन च. तयोपि अवसेसतेभूमकधम्मेसु आरम्मणवसेनेव उप्पज्जमाना दिट्ठिविचिकिच्छामोहा. भवरागानुसयो चतूसु दिट्ठिगतविप्पयुत्तेसु उप्पज्जमानोपि सहजातवसेन न वुत्तो, आरम्मणवसेनेव पन रूपारूपावचरधम्मेसु उप्पज्जमानो लोभो वुत्तो.

११४. इदानि यथावुत्तानं अनुसयानं अनुसयनट्ठानं दस्सेन्तो यं लोकेतिआदिमाह. तत्थ यं लोके पियरूपन्ति यं इमस्मिं लोके पियजातिकं पियसभावं. सातरूपन्ति सातजातिकं अस्सादपदट्ठानं इट्ठारम्मणं. एत्थ सत्तानं कामरागानुसयो अनुसेतीति एतस्मिं इट्ठारम्मणे सत्तानं अप्पहीनट्ठेन कामरागानुसयो अनुसेति. ‘‘पियरूपं सातरूप’’न्ति च इध कामावचरधम्मोयेव अधिप्पेतो. यथा नाम उदके निमुग्गस्स हेट्ठा च उपरि च समन्ता च उदकमेव होति, एवमेव इट्ठारम्मणे रागुप्पत्ति नाम सत्तानं आचिण्णसमाचिण्णा. तथा अनिट्ठारम्मणे पटिघुप्पत्ति. इति इमेसु द्वीसु धम्मेसूति एवं इमेसु द्वीसु इट्ठानिट्ठारम्मणधम्मेसु. अविज्जानुपतिताति कामरागपटिघसम्पयुत्ता हुत्वा आरम्मणकरणवसेन अविज्जा अनुपतिता अनुगता. विच्छेदं कत्वापि पाठो. तदेकट्ठोति ताय अविज्जाय सहजेकट्ठवसेन एकतो ठितो. मानो च दिट्ठि च विचिकिच्छा चाति नवविधमानो, द्वासट्ठिविधा दिट्ठि, अट्ठवत्थुका विचिकिच्छा, तदेकट्ठो मानो च तदेकट्ठा दिट्ठि च तदेकट्ठा विचिकिच्छा चाति योजना. दट्ठब्बाति पस्सितब्बा अवगन्तब्बा. तयो एकतो कत्वा बहुवचनं कतं. भवरागानुसयो पनेत्थ कामरागानुसयेनेव सङ्गहितोति वेदितब्बो.

चरितनिद्देसे तेरस चेतना पुञ्ञाभिसङ्खारो. द्वादस अपुञ्ञाभिसङ्खारो. चतस्सो आनेञ्जाभिसङ्खारो. तत्थ कामावचरो परित्तभूमको. इतरो महाभूमको. तीसुपि वा एतेसु यो कोचि अप्पविपाको परित्तभूमको, महाविपाको महाभूमकोति वेदितब्बो.

११५. अधिमुत्तिनिद्देसे सन्तीति संविज्जन्ति. हीनाधिमुत्तिकाति लामकज्झासया. पणीताधिमुत्तिकाति कल्याणज्झासया. सेवन्तीति निस्सयन्ति अल्लीयन्ति. भजन्तीति उपसङ्कमन्ति. पयिरुपासन्तीति पुनप्पुनं उपसङ्कमन्ति. सचे हि आचरियुपज्झाया न सीलवन्तो होन्ति, अन्तेवासिकसद्धिविहारिका सीलवन्तो, ते अत्तनो आचरियुपज्झायेपि न उपसङ्कमन्ति, अत्तनो सदिसे सारुप्पे भिक्खूयेव उपसङ्कमन्ति. सचेपि आचरियुपज्झाया सारुप्पा भिक्खू, इतरे असारुप्पा, तेपि न आचरियुपज्झाये उपसङ्कमन्ति, अत्तनो सदिसे हीनाधिमुत्तिकेयेव उपसङ्कमन्ति. एवं उपसङ्कमनं पन न केवलं एतरहियेव, अतीतानागतेपीति दस्सेतुं अतीतम्पि अद्धानन्तिआदिमाह. तत्थ अतीतम्पि अद्धानन्ति अतीतस्मिं काले, अच्चन्तसंयोगत्थे वा उपयोगवचनं. सेसं उत्तानत्थमेव. इदं पन दुस्सीलानं दुस्सीलसेवनमेव, सीलवन्तानं सीलवन्तसेवनमेव, दुप्पञ्ञानं दुप्पञ्ञसेवनमेव, पञ्ञवन्तानं पञ्ञवन्तसेवनमेव को नियमेतीति? अज्झासयधातु नियमेतीति.

भब्बाभब्बनिद्देसे छड्डेतब्बे पठमं निद्दिसित्वा गहेतब्बे पच्छा निद्दिसितुं उद्देसस्स उप्पटिपाटिया पठमं अभब्बा निद्दिट्ठा. उद्देसे पन द्वन्दसमासे अच्चितस्स च मन्दक्खरस्स च पदस्स पुब्बनिपातलक्खणवसेन भब्बसद्दो पुब्बं पयुत्तो. कम्मावरणेनाति पञ्चविधेन आनन्तरियकम्मेन. समन्नागताति समङ्गीभूता. किलेसावरणेनाति नियतमिच्छादिट्ठिया. इमानि द्वे सग्गमग्गानं आवरणतो आवरणानि. भिक्खुनीदूसकादीनि कम्मानिपि कम्मावरणेनेव सङ्गहितानि. विपाकावरणेनाति अहेतुकपटिसन्धिया. यस्मा पन दुहेतुकानम्पि अरियमग्गपटिवेधो नत्थि, तस्मा दुहेतुका पटिसन्धिपि विपाकावरणमेवाति वेदितब्बा, अस्सद्धाति बुद्धादीसु सद्धारहिता. अच्छन्दिकाति कत्तुकम्यताकुसलच्छन्दरहिता. उत्तरकुरुका मनुस्सा अच्छन्दिकट्ठानं पविट्ठा. दुप्पञ्ञाति भवङ्गपञ्ञाय परिहीना. भवङ्गपञ्ञाय पन परिपुण्णायपि यस्स भवङ्गं लोकुत्तरस्स पादकं न होति, सोपि दुप्पञ्ञोयेव नाम. अभब्बा नियामं ओक्कमितुं कुसलेसु धम्मेसु सम्मत्तन्ति कुसलेसु धम्मेसु सम्मत्तनियामसङ्खातं अरियमग्गं ओक्कमितुं अभब्बा. अरियमग्गो हि सम्मा सभावोति सम्मत्तं, सोयेव अनन्तरफलदाने, सयमेव वा अचलभावतो नियामो, तं ओक्कमितुं पविसितुं अभब्बा. न कम्मावरणेनातिआदीनि वुत्तविपरियायेनेव वेदितब्बानीति.

आसयानुसयञाणनिद्देसवण्णना निट्ठिता.