१. युगनद्धकथा

युगनद्धकथावण्णना

१. इदानि मण्डपेय्यगुणस्स अरियमग्गस्स युगनद्धगुणं दस्सेन्तेन कथिताय सुत्तन्तपुब्बङ्गमाय युगनद्धकथाय अपुब्बत्थानुवण्णना. यस्मा पन धम्मसेनापति धम्मराजे धरमानेयेव धम्मराजस्स परिनिब्बानसंवच्छरे परिनिब्बुतो, तस्मा धम्मराजे धरमानेयेव धम्मभण्डागारिकेन देसितं इदं सुत्तन्तं तस्सेव सम्मुखा सुत्वा एवं मे सुतन्तिआदिमाहाति वेदितब्बं. तत्थ आयस्माति पियवचनं गरुवचनं सगारवसप्पतिस्सवचनं, आयुमाति अत्थो. आनन्दोति तस्स थेरस्स नामं. सो हि जायमानोयेव कुले आनन्दं भुसं तुट्ठिं अकासि. तस्मास्स ‘‘आनन्दो’’ति नामं कतन्ति वेदितब्बं. कोसम्बियन्ति एवंनामके नगरे. तस्स हि नगरस्स आरामपोक्खरणीआदीसु तेसु तेसु ठानेसु कोसम्बरुक्खा उस्सन्ना अहेसुं, तस्मा तं कोसम्बीति सङ्खं अगमासि. ‘‘कुसम्बस्स इसिनो अस्समतो अविदूरे मापितत्ता’’ति एके.

घोसितारामेति घोसितसेट्ठिना कारिते आरामे. कोसम्बियञ्हि तयो सेट्ठिनो अहेसुं घोसितसेट्ठि कुक्कुटसेट्ठि पावारिकसेट्ठीति. ते तयोपि ‘‘लोके बुद्धो उप्पन्नो’’ति सुत्वा पञ्चहि पञ्चहि सकटसतेहि दानूपकरणानि गाहापेत्वा सावत्थिं गन्त्वा जेतवनसमीपे खन्धावारं बन्धित्वा सत्थु सन्तिकं गन्त्वा वन्दित्वा पटिसन्थारं कत्वा निसिन्ना सत्थु धम्मदेसनं सुत्वा सोतापत्तिफले पतिट्ठहित्वा सत्थारं निमन्तेत्वा बुद्धप्पमुखस्स भिक्खुसङ्घस्स अड्ढमासमत्तं महादानं दत्वा भगवतो पादमूले निपज्जित्वा सकजनपदगमनत्थं भगवन्तं याचित्वा ‘‘सुञ्ञागारे खो गहपतयो तथागता अभिरमन्ती’’ति भगवता वुत्ते ‘‘दिन्ना नो भगवता पटिञ्ञा’’ति ञत्वा अतिविय तुट्ठा दसबलं वन्दित्वा निक्खन्ता अन्तरामग्गे योजने योजने भगवतो निवासत्थं विहारं कारेन्ता अनुपुब्बेन कोसम्बिं पत्वा अत्तनो अत्तनो आरामे महन्तं धनपरिच्चागं कत्वा भगवतो विहारे कारापयिंसु. तत्थ घोसितसेट्ठिना कारितो घोसितारामो नाम अहोसि, कुक्कुटसेट्ठिना कारितो कुक्कुटारामो नाम, पावारिकसेट्ठिना अम्बवने कारितो पावारिकम्बवनं नाम. तं सन्धाय वुत्तं ‘‘घोसितसेट्ठिना कारिते आरामे’’ति.

आवुसो भिक्खवोति एत्थ बुद्धा भगवन्तो सावके आलपन्ता ‘‘भिक्खवो’’ति आलपन्ति. सावका पन ‘‘बुद्धेहि सदिसा मा होमा’’ति ‘‘आवुसो’’ति पठमं वत्वा पच्छा ‘‘भिक्खवो’’ति वदन्ति. बुद्धेहि च आलपिते भिक्खुसङ्घो ‘‘भदन्ते’’ति पटिवचनं देति, सावकेहि आलपिते ‘‘आवुसो’’ति.

यो हि कोचीति अनियमवचनं. एतेन तादिसानं सब्बभिक्खूनं परियादानं. मम सन्तिकेति मम समीपे. अरहत्तप्पत्तन्ति अत्तना अरहत्तस्स पत्तं. नपुंसके भावे सिद्धवचनं. अरहत्तं पत्तन्ति वा पदच्छेदो, अत्तना पत्तं अरहत्तन्ति अत्थो. अरहत्तप्पत्तं अत्तानन्ति वा पाठसेसो. चतूहि मग्गेहीति उपरि वुच्चमानेहि चतूहि पटिपदामग्गेहि, न अरियमग्गेहि. ‘‘चतूहि मग्गेही’’ति विसुञ्च वुत्तत्ता कस्सचि अरहतो पठमस्स अरियमग्गस्स धम्मुद्धच्चपुब्बङ्गमो मग्गो, एकस्स अरियमग्गस्स समथपुब्बङ्गमो, एकस्स विपस्सनापुब्बङ्गमो, एकस्स युगनद्धपुब्बङ्गमोति एवं चत्तारोपि पटिपदा मग्गा होन्तीति वेदितब्बं. एतेसं वा अञ्ञतरेनाति एतेसं चतुन्नं पटिपदानं मग्गानं एकेन वा, पटिपदामग्गेन अरहत्तप्पत्तं ब्याकरोतीति अत्थो. सुक्खविपस्सकस्स हि अरहतो धम्मुद्धच्चपुब्बङ्गमं सोतापत्तिमग्गं पत्वा सेसमग्गत्तयम्पि सुद्धविपस्सनाहियेव पत्तस्स अरहत्तप्पत्ति धम्मुद्धच्चपुब्बङ्गममग्गा होति. धम्मुद्धच्चविग्गहं पत्वा वा अप्पत्वा वा समथपुब्बङ्गमादीनं तिण्णं पटिपदानं मग्गानं एकेकस्स वसेन पत्तचतुमग्गस्स अरहतो अरहत्तप्पत्ति इतरएकेकमग्गपुब्बङ्गमा होति. तस्मा आह – ‘‘एतेसं वा अञ्ञतरेना’’ति.

समथपुब्बङ्गमं विपस्सनं भावेतीति समथं पुब्बङ्गमं पुरेचारिकं कत्वा विपस्सनं भावेति, पठमं समाधिं उप्पादेत्वा पच्छा विपस्सनं भावेतीति अत्थो. मग्गो सञ्जायतीति पठमो लोकुत्तरमग्गो निब्बत्तति. सो तं मग्गन्तिआदीसु एकचित्तक्खणिकस्स मग्गस्स आसेवनादीनि नाम नत्थि, दुतियमग्गादयो पन उप्पादेन्तो तमेव मग्गं ‘‘आसेवति भावेति बहुलीकरोती’’ति वुच्चति. सञ्ञोजनानि पहीयन्ति, अनुसया ब्यन्तीहोन्तीति याव अरहत्तमग्गा कमेन सब्बे सञ्ञोजना पहीयन्ति, अनुसया ब्यन्तीहोन्ति. अनुसया ब्यन्तीहोन्तीति च पुन अनुप्पत्तिया विगतन्ता होन्तीति अत्थो.

पुन चपरन्ति पुन च अपरं कारणं. विपस्सनापुब्बङ्गमं समथं भावेतीति विपस्सनं पुब्बङ्गमं पुरेचारिकं कत्वा समथं भावेति, पठमं विपस्सनं उप्पादेत्वा पच्छा समाधिं भावेतीति अत्थो. युगनद्धं भावेतीति युगनद्धं कत्वा भावेति. एत्थ तेनेव चित्तेन समापत्तिं समापज्जित्वा तेनेव सङ्खारे सम्मसितुं न सक्का. अयं पन यावता समापत्तियो समापज्जति, तावता सङ्खारे सम्मसति. यावता सङ्खारे सम्मसति, तावता समापत्तियो समापज्जति. कथं? पठमज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा दुतियज्झानं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. सङ्खारे सम्मसित्वा ततियज्झानं…पे… नेवसञ्ञानासञ्ञायतनसमापत्तिं समापज्जति, ततो वुट्ठाय सङ्खारे सम्मसति. एवं समथविपस्सनं युगनद्धं भावेति नाम.

धम्मुद्धच्चविग्गहितं मानसं होतीति एत्थ मन्दपञ्ञानं विपस्सकानं उपक्किलेसवत्थुत्ता विपस्सनुपक्किलेससञ्ञितेसु ओभासादीसु दससु धम्मेसु भन्ततावसेन उद्धच्चसहगतचित्तुप्पत्तिया विक्खेपसङ्खातं उद्धच्चं धम्मुद्धच्चं, तेन धम्मुद्धच्चेन विग्गहितं विरूपग्गहितं विरोधमापादितं मानसं चित्तं धम्मुद्धच्चविग्गहितं मानसं होति, तेन वा धम्मुद्धच्चेन कारणभूतेन तम्मूलकतण्हामानदिट्ठुप्पत्तिया विग्गहितं मानसं होति. धम्मुद्धच्चविग्गहितमानसन्ति वा पाठो. होति सो आवुसो समयोति इमिना मग्गामग्गववत्थानेन तं धम्मुद्धच्चं पटिबाहित्वा पुन विपस्सनावीथिं पटिपन्नकालं दस्सेति. यं तं चित्तन्ति यस्मिं समये तं विपस्सनावीथिं ओक्कमित्वा पवत्तं चित्तं. अज्झत्तमेव सन्तिट्ठतीति विपस्सनावीथिं पच्चोतरित्वा तस्मिं समये गोचरज्झत्तसङ्खाते आरम्मणे सन्तिट्ठति पतिट्ठाति. सन्निसीदतीति तत्थेव पवत्तिवसेन सम्मा निसीदति. एकोदि होतीति एकग्गं होति. समाधियतीति सम्मा आधियति सुट्ठु ठितं होतीति.

अयं सुत्तन्तवण्णना.

१. सुत्तन्तनिद्देसवण्णना

२. तस्स सुत्तन्तस्स निद्देसकथाय तत्थ जाते धम्मेति तस्मिं समाधिस्मिं जाते चित्तचेतसिके धम्मे. अनिच्चतो अनुपस्सनट्ठेनातिआदिना विपस्सनाय भेदं दस्सेति. सम्मादिट्ठि मग्गोति सम्मादिट्ठिसङ्खातो मग्गो. अट्ठसु मग्गङ्गेसु एकेकोपि हि मग्गोति वुच्चति.आसेवतीति सोतापत्तिमग्गवसेन. भावेतीति सकदागामिमग्गुप्पादनेन. बहुलीकरोतीति अनागामिअरहत्तमग्गुप्पादनेन. इमेसं तिण्णं अवत्थाभेदेपि सति आवज्जनादीनं साधारणत्ता सदिसमेव विस्सज्जनं कतं.

३. आलोकसञ्ञापटिनिस्सग्गानुपस्सनानं अन्तरापेय्याले अविक्खेपादीनि च झान समापत्तिकसिणानुस्सतिअसुभा च दीघं अस्सासादीनि च आनन्तरिकसमाधिञाणनिद्देसे (पटि. म. १.८०-८१) निद्दिट्ठत्ता सङ्खित्तानि. तत्थ च अविक्खेपवसेनाति पुब्बभागाविक्खेपवसेन गहेतब्बं. अनिच्चानुपस्सी अस्सासवसेनातिआदिके सुद्धविपस्सनावसेन वुत्तचतुक्के पन तरुणविपस्सनाकाले विपस्सनासम्पयुत्तसमाधिपुब्बङ्गमा बलवविपस्सना वेदितब्बा.

४. विपस्सनापुब्बङ्गमवारे पठमं अनिच्चतोतिआदिना आरम्मणं अनियमेत्वा विपस्सना वुत्ता, पच्छा रूपं अनिच्चतोतिआदिना आरम्मणं नियमेत्वा वुत्ता. तत्थ जातानन्ति तस्सा विपस्सनाय जातानं चित्तचेतसिकानं धम्मानं. वोसग्गारम्मणताति एत्थ वोसग्गो निब्बानं. निब्बानञ्हि सङ्खतवोसग्गतो परिच्चागतो ‘‘वोसग्गो’’ति वुत्तो. विपस्सना च तंसम्पयुत्तधम्मा च निब्बाननिन्नताय अज्झासयवसेन निब्बाने पतिट्ठितत्ता निब्बानपतिट्ठा निब्बानारम्मणा. पतिट्ठापि हि आलम्बीयतीति आरम्मणं नाम होति, निब्बाने पतिट्ठट्ठेनेव निब्बानारम्मणा. अञ्ञत्थ पाळियम्पि हि पतिट्ठा ‘‘आरम्मण’’न्ति वुच्चन्ति. यथाह – ‘‘सेय्यथापि, आवुसो, नळागारं वा तिणागारं वा सुक्खं कोळापं तेरोवस्सिकं पुरत्थिमाय चेपि दिसाय पुरिसो आदित्ताय तिणुक्काय उपसङ्कमेय्य, लभेथ अग्गि ओतारं, लभेथ अग्गि आरम्मण’’न्तिआदि (सं. नि. ४.२४३). तस्मा तत्थ जातानं धम्मानं वोसग्गारम्मणताय निब्बानपतिट्ठाभावेन हेतुभूतेन उप्पादितो यो चित्तस्स एकग्गतासङ्खातो उपचारप्पनाभेदो अविक्खेपो, सो समाधीति विपस्सनातो पच्छा उप्पादितो निब्बेधभागियो समाधि निद्दिट्ठो होति. तस्मायेव हि इति पठमं विपस्सना, पच्छा समथोति वुत्तं.

५. युगनद्धनिद्देसे यस्मा हेट्ठा सुत्तन्तवण्णनायं वुत्तो युगनद्धक्कमो पुरिमद्वयनिद्देसनयेनेव पाकटो, मग्गक्खणे युगनद्धक्कमो पन न पाकटो, तस्मा पुब्बभागे अनेकन्तिकं युगनद्धभावनं अवत्वा मग्गक्खणे एकन्तेन लब्भमानयुगनद्धभावनमेव दस्सेन्तो सोळसहि आकारेहीतिआदिमाह. तत्थ आरम्मणट्ठेनातिआदीसु सत्तरससु आकारेसु अन्ते उद्दिट्ठं युगनद्धं मूलपदेन एकट्ठत्ता तं विप्पहाय सेसानं वसेन ‘‘सोळसही’’ति वुत्तं. आरम्मणट्ठेनाति आलम्बनट्ठेन, आरम्मणवसेनाति अत्थो. एवं सेसेसुपि. गोचरट्ठेनाति आरम्मणट्ठेपि सति निस्सयितब्बट्ठानट्ठेन. पहानट्ठेनाति पजहनट्ठेन. परिच्चागट्ठेनाति पहानेपि सति पुन अनादियनेन परिच्चागट्ठेन. वुट्ठानट्ठेनाति उग्गमनट्ठेन. विवट्टनट्ठेनाति उग्गमनेपि सति अपुनरावट्टनेन निवत्तनट्ठेन. सन्तट्ठेनाति निब्बुतट्ठेन. पणीतट्ठेनाति निब्बुतट्ठेपि सति उत्तमट्ठेन, अतप्पकट्ठेन वा. विमुत्तट्ठेनाति बन्धनापगतट्ठेन. अनासवट्ठेनाति बन्धनमोक्खेपि सति आरम्मणं कत्वा पवत्तमानासवविरहितट्ठेन. तरणट्ठेनाति अनोसीदित्वा पिलवनट्ठेन, अतिक्कमनट्ठेन वा. अनिमित्तट्ठेनाति सङ्खारनिमित्तविरहितट्ठेन. अप्पणिहितट्ठेनाति पणिधिविरहितट्ठेन. सुञ्ञतट्ठेनाति अभिनिवेसविरहितट्ठेन. एकरसट्ठेनाति एककिच्चट्ठेन. अनतिवत्तनट्ठेनाति अञ्ञमञ्ञं अनतिक्कमनट्ठेन. युगनद्धट्ठेनाति युगलकट्ठेन.

उद्धच्चं पजहतो, अविज्जं पजहतोति योगिनो तस्स तस्स पटिपक्खप्पहानवसेन वुत्तं. निरोधो चेत्थ निब्बानमेव. अञ्ञमञ्ञं नातिवत्तन्तीति समथो चे विपस्सनं अतिवत्तेय्य, लीनपक्खिकत्ता समथस्स चित्तं कोसज्जाय संवत्तेय्य. विपस्सना चे समथं अतिवत्तेय्य, उद्धच्चपक्खिकत्ता विपस्सनाय चित्तं उद्धच्चाय संवत्तेय्य. तस्मा समथो च विपस्सनं अनतिवत्तमानो कोसज्जपातं न करोति, विपस्सना समथं अनतिवत्तमाना उद्धच्चपातं न करोति. समथो समं पवत्तमानो विपस्सनं उद्धच्चपाततो रक्खति, विपस्सना समं पवत्तमाना समथं कोसज्जपाततो रक्खति. एवमिमे उभो अञ्ञमञ्ञं अनतिवत्तनकिच्चेन एककिच्चा, समा हुत्वा पवत्तमानेन अञ्ञमञ्ञं अनतिवत्तमाना अत्थसिद्धिकरा होन्ति. तेसं मग्गक्खणे युगनद्धत्तं वुट्ठानगामिनिविपस्सनाक्खणे युगनद्धत्तायेव होति. पहानपरिच्चागवुट्ठानविवट्टनकरणानं मग्गकिच्चवसेन वुत्तत्ता सकलस्स मग्गकिच्चस्स दस्सनत्थं उद्धच्चसहगतकिलेसा च खन्धा च अविज्जासहगतकिलेसा च खन्धा च निद्दिट्ठा. सेसानं न तथा वुत्तत्ता पटिपक्खधम्ममत्तदस्सनवसेन उद्धच्चाविज्जा एव निद्दिट्ठा. विवट्टतोति निवत्तन्तस्स.

समाधि कामासवा विमुत्तो होतीति समाधिस्स कामच्छन्दपटिपक्खत्ता वुत्तं. रागविरागाति रागस्स विरागो समतिक्कमो एतिस्सा अत्थीति रागविरागा, ‘‘रागविरागतो’’ति निस्सक्कवचनं वा. तथा अविज्जाविरागा. चेतोविमुत्तीति मग्गसम्पयुत्तो समाधि. पञ्ञाविमुत्तीति मग्गसम्पयुत्ता पञ्ञा. तरतोति तरन्तस्स. सब्बपणिधीहीति रागदोसमोहपणिधीहि, सब्बपत्थनाहि वा. एवं चुद्दस आकारे विस्सज्जित्वा एकरसट्ठञ्च अनतिवत्तनट्ठञ्च अविभजित्वाव इमेहि सोळसहि आकारेहीति आह. कस्मा? तेसं चुद्दसन्नं आकारानं एकेकस्स अवसाने ‘‘एकरसा होन्ति, युगनद्धा होन्ति, अञ्ञमञ्ञं नातिवत्तन्ती’’ति निद्दिट्ठत्ता ते द्वेपि आकारा निद्दिट्ठाव होन्ति. तस्मा ‘‘सोळसही’’ति आह. युगनद्धट्ठो पन उद्देसेपि न भणितोयेवाति.

२. धम्मुद्धच्चवारनिद्देसवण्णना

६. धम्मुद्धच्चवारे अनिच्चतो मनसिकरोतो ओभासो उप्पज्जतीति उदयब्बयानुपस्सनाय ठितस्स तीहि अनुपस्सनाहि पुनप्पुनं सङ्खारे विपस्सन्तस्स विपस्सन्तस्स विपस्सनाञाणेसु परिपाकगतेसु तदङ्गवसेन किलेसप्पहानेन परिसुद्धचित्तस्स अनिच्चतो वा दुक्खतो वा अनत्ततो वा मनसिकारक्खणे विपस्सनाञाणानुभावेन पकतियाव ओभासो उप्पज्जतीति पठमं ताव अनिच्चतो मनसिकरोतो ओभासो कथितो. अकुसलो विपस्सको तस्मिं ओभासे उप्पन्ने ‘‘न च वत मे इतो पुब्बे एवरूपो ओभासो उप्पन्नपुब्बो, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गंयेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलं ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो विपस्सनावीथिं विस्सज्जेत्वा विक्खेपमापन्नो वा ओभासमेव तण्हादिट्ठिमञ्ञनाहि मञ्ञमानो वा निसीदति. सो खो पनायं ओभासो कस्सचि भिक्खुनो पल्लङ्कट्ठानमत्तमेव ओभासेन्तो उप्पज्जति, कस्सचि अन्तोगब्भं, कस्सचि बहिगब्भम्पि, कस्सचि सकलविहारं, गावुतं अड्ढयोजनं योजनं द्वियोजनं…पे… कस्सचि पथवितलतो याव अकनिट्ठब्रह्मलोका एकालोकं कुरुमानो. भगवतो पन दससहस्सिलोकधातुं ओभासेन्तो उदपादि. अयञ्हि ओभासो चतुरङ्गसमन्नागतेपि अन्धकारे तं तं ठानं ओभासेन्तो उप्पज्जति.

ओभासो धम्मोति ओभासं आवज्जतीति अयं ओभासो मग्गधम्मो फलधम्मोति वा तं तं ओभासं मनसि करोति. ततो विक्खेपो उद्धच्चन्ति ततो ओभासतो धम्मोति आवज्जनकरणतो वा यो उप्पज्जति विक्खेपो, सो उद्धच्चं नामाति अत्थो. तेन उद्धच्चेन विग्गहितमानसोति तेन एवं उप्पज्जमानेन उद्धच्चेन विरोधितचित्तो, तेन वा उद्धच्चेन कारणभूतेन तम्मूलककिलेसुप्पत्तिया विरोधितचित्तो विपस्सको विपस्सनावीथिं ओक्कमित्वा विक्खेपं वा तम्मूलककिलेसेसु वा ठितत्ता अनिच्चतो दुक्खतो अनत्ततो उपट्ठानानि यथाभूतं नप्पजानाति. ‘‘तेन वुच्चति धम्मुद्धच्चविग्गहितमानसो’’ति एवं इति-सद्दो योजेतब्बो. होति सो समयोति एवं अस्सादवसेन उपक्किलिट्ठचित्तस्सापि योगिनो सचे उपपरिक्खा उप्पज्जति, सो एवं पजानाति – ‘‘विपस्सना नाम सङ्खारारम्मणा, मग्गफलानि निब्बानारम्मणानि, इमानि च चित्तानि सङ्खारारम्मणानि, तस्मा नायमोभासो मग्गो, उदयब्बयानुपस्सनायेव निब्बानस्स लोकिको मग्गो’’ति मग्गामग्गं ववत्थपेत्वा तं विक्खेपं परिवज्जयित्वा उदयब्बयानुपस्सनाय ठत्वा साधुकं सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. एवं उपपरिक्खन्तस्स सो समयो होति. एवं अपस्सन्तो पन ‘‘मग्गफलप्पत्तोम्ही’’ति अधिमानिको होति.

यं तं चित्तन्ति यं तं विपस्सनाचित्तं. अज्झत्तमेवाति अनिच्चानुपस्सनाय आरम्मणे गोचरज्झत्तेयेव. ञाणं उप्पज्जतीति तस्सेव योगावचरस्स रूपारूपधम्मे तुलयन्तस्स तीरयन्तस्स विस्सट्ठइन्दवजिरमिव अविहतवेगं तिखिणं सूरमतिविसदं विपस्सनाञाणं उप्पज्जति. पीति उप्पज्जतीति तस्सेव तस्मिं समये खुद्दिका पीति, खणिका पीति, ओक्कन्तिका पीति, उब्बेगा पीति, फरणा पीतीति अयं पञ्चविधा विपस्सनासम्पयुत्ता पीति सकलसरीरं पूरयमाना उप्पज्जति. पस्सद्धि उप्पज्जतीति तस्सेव तस्मिं समये कायचित्तानं नेव दरथो, न गारवता, न कक्खळता, न अकम्मञ्ञता, न गेलञ्ञता, न वङ्कता होति. अथ खो पनस्स कायचित्तानि पस्सद्धानि लहूनि मुदूनि कम्मञ्ञानि पगुणानि सुविसदानि उजुकानियेव होन्ति. सो इमेहि पस्सद्धादीहि अनुग्गहितकायचित्तो तस्मिं समये अमानुसिं नाम रतिं अनुभवति. यं सन्धाय वुत्तं –

‘‘सुञ्ञागारं पविट्ठस्स, सन्तचित्तस्स भिक्खुनो;

अमानुसी रती होति, सम्मा धम्मं विपस्सतो.

‘‘यतो यतो सम्मसति, खन्धानं उदयब्बयं;

लभती पीतिपामोज्जं, अमतं तं विजानत’’न्ति. (ध. प. ३७३-४) –

एवमस्स इमं अमानुसिं रतिं साधयमाना लहुतादीहि सहिता विपस्सनासम्पयुत्ता कायचित्तपस्सद्धि उप्पज्जति. सुखं उप्पज्जतीति तस्सेव तस्मिं समये सकलसरीरं अभिसन्दयमानं विपस्सनासम्पयुत्तं सुखं उप्पज्जति. अधिमोक्खो उप्पज्जतीति तस्सेव तस्मिं समये चित्तचेतसिकानं अतिसयपसादभूता विपस्सनासम्पयुत्ता सद्धा उप्पज्जति. पग्गहो उप्पज्जतीति तस्सेव तस्मिं समये असिथिलमनच्चारद्धं सुपग्गहितं विपस्सनासम्पयुत्तं वीरियं उप्पज्जति. उपट्ठानं उप्पज्जतीति तस्सेव तस्मिं समये सूपट्ठिता सुप्पतिट्ठिता निखाता अचला पब्बतराजसदिसा विपस्सनासम्पयुत्ता सति उप्पज्जति. सो यं यं ठानं आवज्जति समन्नाहरति मनसि करोति पच्चवेक्खति, तं तं ठानमस्स ओक्कन्तित्वा पक्खन्दित्वा दिब्बचक्खुनो परलोको विय सतिया उपट्ठाति (विसुद्धि. २.७३४).

उपेक्खाति विपस्सनुपेक्खा चेव आवज्जनुपेक्खा च. तस्मिञ्हि समये सब्बसङ्खारेसु मज्झत्तभूता विपस्सनुपेक्खापि बलवती उप्पज्जति, मनोद्वारे आवज्जनुपेक्खापि. सा हिस्स तं तं ठानं आवज्जन्तस्स विस्सट्ठइन्दवजिरमिव पत्तपुटे पक्खन्दतत्तनाराचो विय च सूरा तिखिणा हुत्वा वहति. एवञ्हि विसुद्धिमग्गे (विसुद्धि. २.७३४) वुत्तं. विपस्सनुपेक्खाति चेत्थ ‘‘विपस्सनासम्पयुत्ता तत्रमज्झत्तुपेक्खा’’ति आचरिया वदन्ति. विपस्सनाञाणे हि गय्हमाने ‘‘ञाणं उप्पज्जती’’ति विपस्सनाञाणस्स आगतत्ता पुनरुत्तिदोसो होति. ततियज्झानवण्णनायञ्च ‘‘सङ्खारुपेक्खाविपस्सनुपेक्खानम्पि अत्थतो एकीभावो. पञ्ञा एव हि सा, किच्चवसेन द्विधा भिन्ना’’ति वुत्तं. तस्मा विपस्सनासम्पयुत्ताय तत्रमज्झत्तुपेक्खाय वुच्चमानाय पुनरुत्तिदोसो च न होति, ततियज्झानवण्णनाय च समेति. यस्मा च पञ्चसु इन्द्रियेसु ‘‘ञाणं अधिमोक्खो पग्गहो उपट्ठान’’न्ति पञ्ञिन्द्रियसद्धिन्द्रियवीरियिन्द्रियसतिन्द्रियानि निद्दिट्ठानि, समाधिन्द्रियं पन अनिद्दिट्ठं होति, युगनद्धवसेनापि च समाधिन्द्रियं निद्दिसितब्बमेव होति, तस्मा समप्पवत्तो समाधि पुन समाधाने ब्यापारप्पहानकरणेन ‘‘उपेक्खा’’ति वुत्तोति वेदितब्बं.

निकन्ति उप्पज्जतीति एवं ओभासादिपटिमण्डिताय विपस्सनाय आलयं कुरुमाना सुखुमा सन्ताकारा निकन्ति उप्पज्जति, या किलेसोति परिग्गहेतुम्पि न सक्का होति. यथा च ओभासे, एवं एतेसुपि अञ्ञतरस्मिं उप्पन्ने योगावचरो ‘‘न च वत मे इतो पुब्बे एवरूपं ञाणं उप्पन्नपुब्बं, एवरूपा पीति पस्सद्धि सुखं अधिमोक्खो पग्गहो उपट्ठानं उपेक्खा निकन्ति उप्पन्नपुब्बा, अद्धा मग्गं पत्तोम्हि, फलं पत्तोम्ही’’ति अमग्गमेव ‘‘मग्गो’’ति, अफलमेव ‘‘फल’’न्ति गण्हाति. तस्स अमग्गं ‘‘मग्गो’’ति, अफलञ्च ‘‘फल’’न्ति गण्हतो विपस्सनावीथि उक्कन्ता होति. सो अत्तनो मूलकम्मट्ठानं विस्सज्जेत्वा निकन्तिमेव अस्सादेन्तो निसीदति. एत्थ च ओभासादयो उपक्किलेसवत्थुताय उपक्किलेसाति वुत्ता, न अकुसलत्ता. निकन्ति पन उपक्किलेसो चेव उपक्किलेसवत्थु च. वत्थुवसेनेव चेते दस, गाहवसेन पन समतिंस होन्ति. कथं? ‘‘मम ओभासो उप्पन्नो’’ति गण्हतो हि दिट्ठिग्गाहो होति, ‘‘मनापो वत ओभासो उप्पन्नो’’ति गण्हतो मानग्गाहो, ओभासं अस्सादयतो तण्हाग्गाहो. इति ओभासे दिट्ठिमानतण्हावसेन तयो गाहा. तथा सेसेसुपीति एवं गाहवसेन समतिंस उपक्किलेसा होन्ति. दुक्खतो मनसिकरोतो, अनत्ततो मनसिकरोतोति वारेसुपि इमिनाव नयेन अत्थो वेदितब्बो. एकेकअनुपस्सनावसेन हेत्थ एकेकस्स विपस्सनुपक्किलेसुप्पत्ति वेदितब्बा, न एकस्सेव.

तीसु अनुपस्सनासु. एवं अभेदतो विपस्सनावसेन उपक्किलेसे दस्सेत्वा पुन भेदवसेन दस्सेन्तो रूपं अनिच्चतो मनसिकरोतोतिआदिमाह. तत्थ जरामरणं अनिच्चतो उपट्ठानन्ति जरामरणस्स अनिच्चतो उपट्ठानं.

७. यस्मा पुब्बे वुत्तानं समतिंसाय उपक्किलेसानं वसेन अकुसलो अब्यत्तो योगावचरो ओभासादीसु विकम्पति, ओभासादीसु एकेकं ‘‘एतं मम, एसोहमस्मि, एसो मे अत्ता’’ति समनुपस्सति, तस्मा तमत्थं दस्सेन्तो ओभासे चेव ञाणे चातिआदिगाथाद्वयमाह. तत्थ विकम्पतीति ओभासादिके आरम्मणे नानाकिलेसवसेन विविधा कम्पति वेधति. येहि चित्तं पवेधतीति येहि पस्सद्धिसुखेहि चित्तं नानाकिलेसवसेन नानप्पकारेन वेधति कम्पति. तस्मा पस्सद्धिया सुखे चेव योगावचरो विकम्पतीति सम्बन्धो वेदितब्बो. उपेक्खावज्जनाय चेवाति उपेक्खासङ्खाताय आवज्जनाय चेव विकम्पति, आवज्जनुपेक्खाय चेव विकम्पतीति अत्थो. विसुद्धिमग्गे (विसुद्धि. २.७३६) पन ‘‘उपेक्खावज्जनायञ्चा’’ति वुत्तं. उपेक्खाय चाति हेट्ठा वुत्तप्पकाराय उपेक्खाय च विकम्पति, निकन्तिया च विकम्पतीति अत्थो. एत्थ च द्विन्नं उपेक्खानं निद्दिट्ठत्ता हेट्ठा ‘‘उपेक्खा उप्पज्जती’’ति वुत्तट्ठाने च उभयथा अत्थो वुत्तो. अनिच्चानुपस्सनादीसु च एकेकिस्सायेव आवज्जनुपेक्खाय सब्भावतो एकेकायेव अनुपस्सना अनिच्चं अनिच्चं, दुक्खं दुक्खं, अनत्ता अनत्ताति पुनप्पुनं भावीयतीति वुत्तं होति. यस्मा पन कुसलो पण्डितो ब्यत्तो बुद्धिसम्पन्नो योगावचरो ओभासादीसु उप्पन्नेसु ‘‘अयं खो मे ओभासो उप्पन्नो, सो खो पनायं अनिच्चो सङ्खतो पटिच्चसमुप्पन्नो खयधम्मो वयधम्मो विरागधम्मो निरोधधम्मो’’ति इति वा नं पञ्ञाय परिच्छिन्दति उपपरिक्खति. अथ वा पनस्स एवं होति – सचे ओभासो अत्ता भवेय्य, ‘‘अत्ता’’ति गहेतुं वट्टेय्य. अनत्ताव पनायं ‘‘अत्ता’’ति गहितो. तस्मायं अवसवत्तनट्ठेन अनत्ताति पस्सन्तो दिट्ठिं उग्घाटेति. सचे ओभासो निच्चो भवेय्य, ‘‘निच्चो’’ति गहेतुं वट्टेय्य. अनिच्चोव पनायं ‘‘निच्चो’’ति गहितो. तस्मायं हुत्वा अभावट्ठेन अनिच्चोति पस्सन्तो मानं समुग्घाटेति. सचे ओभासो सुखो भवेय्य, ‘‘सुखो’’ति गहेतुं वट्टेय्य. दुक्खोव पनायं ‘‘सुखो’’ति गहितो. तस्मायं उप्पादवयपटिपीळनट्ठेन दुक्खोति पस्सन्तो निकन्तिं परियादियति. यथा च ओभासे, एवं सेसेसुपि.

एवं उपपरिक्खित्वा ओभासं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. ञाणं…पे… निकन्तिं ‘‘नेतं मम, नेसोहमस्मि, न मेसो अत्ता’’ति समनुपस्सति. एवं समनुपस्सन्तो ओभासादीसु न कम्पति न वेधति. तस्मा तमत्थं दस्सेन्तो इमानि दस ठानानीति गाथमाह. तत्थ दस ठानानीति ओभासादीनि. पञ्ञा यस्स परिच्चिताति यस्स उपक्किलेसविमुत्ताय पञ्ञाय परिचितानि पुनप्पुनं फुट्ठानि परिभावितानि. धम्मुद्धच्चकुसलो होतीति सो पञ्ञाय परिचितदसट्ठानो योगावचरो पुब्बे वुत्तप्पकारस्स धम्मुद्धच्चस्स यथासभावपटिवेधेन छेको होति. न च सम्मोह गच्छतीति धम्मुद्धच्चकुसलत्तायेव तण्हामानदिट्ठुग्घाटवसेन सम्मोहञ्च न गच्छति.

इदानि पुब्बे वुत्तमेव विधिं अपरेन परियायेन विभावेत्वा दस्सेन्तो विक्खिपति चेव किलिस्सति चातिआदिगाथमाह. तत्थ मन्दपञ्ञो योगावचरो ओभासादीसु विक्खेपञ्च अवसेसकिलेसुप्पत्तिञ्च पापुणाति. मज्झिमपञ्ञो विक्खेपमेव पापुणाति, नावसेसकिलेसुप्पत्तिं, सो अधिमानिको होति. तिक्खपञ्ञो विक्खेपं पापुणित्वापि तं अधिमानं पहाय विपस्सनं आरभति. अतितिक्खपञ्ञो न विक्खेपं पापुणाति, न चावसेसकिलेसुप्पत्तिं. विक्खिप्पति चेवाति तेसु मन्दपञ्ञो धम्मुद्धच्चसङ्खातं विक्खेपञ्चेव पापुणीयति. किलिस्सति चाति तण्हामानदिट्ठिकिलेसेहि किलेसीयति च, उपतापीयति विबाधीयतीति अत्थो. चवति चित्तभावनाति तस्स मन्दपञ्ञस्स विपस्सनाचित्तभावना किलेसेसुयेव ठानतो पटिपक्खाविहतत्ता चवति, परिपततीति अत्थो. विक्खिपति न किलिस्सतीति मज्झिमपञ्ञो विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना परिहायतीति तस्स मज्झिमपञ्ञस्स अधिमानिकत्ता विपस्सनारम्भाभावेन विपस्सना परिहायति, नप्पवत्ततीति अत्थो. विक्खिपति न किलिस्सतीति तिक्खपञ्ञोपि विक्खेपेन विक्खिपति, किलेसेहि न किलिस्सति. भावना न परिहायतीति तस्स तिक्खपञ्ञस्स सन्तेपि विक्खेपे तं अधिमानविक्खेपं पहाय विपस्सनारम्भसब्भावेन विपस्सनाभावना न परिहायति, पवत्ततीति अत्थो. न च विक्खिपते चित्तं न किलिस्सतीति अतितिक्खपञ्ञस्स चित्तं न विक्खेपेन विक्खिपति, न च किलेसेहि किलिस्सति. न चवति चित्तभावनाति तस्स विपस्सनाचित्तभावना न चवति, विक्खेपकिलेसाभावेन यथाठाने तिट्ठतीति अत्थो.

इमेहि चतूहि ठानेहीतिआदीसु इदानि वुत्तेहि इमेहि चतूहि ठानेहि हेतुभूतेहि, करणभूतेहि वा ओभासादिके दस ठाने चित्तस्स सङ्खेपेन च विक्खेपेन च विग्गहितं मानसं विक्खेपकिलेसुप्पत्तिविरहितो चतुत्थो कुसलो महापञ्ञो योगावचरो मन्दपञ्ञादीनं तिण्णं योगावचरानं मानसं एवञ्च एवञ्च होतीति नानप्पकारतो जानातीति सम्बन्धतो अत्थवण्णना वेदितब्बा. सङ्खेपोति चेत्थ विक्खेपस्स चेव किलेसानञ्च उप्पत्तिवसेन चित्तस्स लीनभावो वेदितब्बो. विक्खेपोति ‘‘विक्खिपति न किलिस्सती’’ति द्वीसु ठानेसु वुत्तविक्खेपवसेन चित्तस्स उद्धतभावो वेदितब्बोति.

युगनद्धकथावण्णना निट्ठिता.