७. भङ्गानुपस्सनाञाणनिद्देसवण्णना

५१. सो उदयब्बयानुपस्सनायं ठितो योगावचरो मग्गामग्गववत्थापनेन उपक्किलेसविमुत्तं वीथिपटिपन्नं उदयब्बयानुपस्सनाञाणं ‘‘मग्गो’’ति ञत्वा तिलक्खणसल्लक्खणेन तस्सेव मग्गस्स सुविसदकरणत्थं पुन उदयब्बयानुपस्सनं आरभित्वा उदयब्बयेन परिच्छिन्ने सङ्खारे अनिच्चादितो विपस्सति. एवं तस्स तं ञाणं तिक्खं हुत्वा वहति, सङ्खारा लहुं उपट्ठहन्ति, ञाणे तिक्खे वहन्ते सङ्खारेसु लहुं उपट्ठहन्तेसु उप्पादं अतिक्कमित्वा भङ्गे एव सति सन्तिट्ठति. निरोधाधिमुत्तत्ता वा उदयं पहाय भङ्गेयेव सतिं उपट्ठपेति. एतस्मिं ठाने भङ्गानुपस्सनाञाणं उप्पज्जति. इदानि तस्स ञाणस्स निद्देसे रूपारम्मणता चित्तं उप्पज्जित्वा भिज्जतीति रूपारम्मणं चित्तं उप्पज्जित्वा भिज्जति. अथ वा रूपारम्मणभावे चित्तं उप्पज्जित्वा भिज्जतीति अत्थो. तं आरम्मणं पटिसङ्खाति तं रूपारम्मणं पटिसङ्खाय जानित्वा, खयतो वयतो दिस्वाति अत्थो. तस्स चित्तस्स भङ्गं अनुपस्सतीति येन चित्तेन तं रूपारम्मणं खयतो वयतो दिट्ठं, तस्स चित्तस्स अपरेन चित्तेन भङ्गं अनुपस्सतीति अत्थो. तेनाहु पोराणा – ‘‘ञातञ्च ञाणञ्च उभो विपस्सती’’ति. चित्तन्ति चेत्थ ससम्पयुत्तचित्तं अधिप्पेतं.

अनुपस्सतीति अनु अनु पस्सति, अनेकेहि आकारेहि पुनप्पुनं पस्सतीति अत्थो. तेनाह अनुपस्सतीति कथं अनुपस्सति, अनिच्चतो अनुपस्सतीतिआदि. तत्थ यस्मा भङ्गो नाम अनिच्चताय परमा कोटि, तस्मा भङ्गानुपस्सको योगावचरो सब्बं रूपगतं अनिच्चतो अनुपस्सति, नो निच्चतो. ततो अनिच्चस्स दुक्खत्ता, दुक्खस्स च अनत्तत्ता, तदेव दुक्खतो अनुपस्सति, नो सुखतो. अनत्ततो अनुपस्सति, नो अत्ततो. यस्मा पन यं अनिच्चं दुक्खमनत्ता, न तं अभिनन्दितब्बं. यञ्च न अभिनन्दितब्बं, न तत्थ रज्जितब्बं. तस्मा एस तस्मिं भङ्गानुपस्सनानुसारेन ‘‘अनिच्चं दुक्खमनत्ता’’ति दिट्ठे रूपगते निब्बिन्दति, नो नन्दति. विरज्जति, नो रज्जति. सो एवं विरज्जन्तो लोकिकेनेव ताव ञाणेन रागं निरोधेति, नो समुदेति, समुदयं न करोतीति अत्थो. अथ वा सो एवं विरत्तो यथा दिट्ठं रूपगतं, तथा अदिट्ठम्पि अन्वयञाणवसेन निरोधेति, नो समुदेति. निरोधतोव मनसि करोति, निरोधमेवस्स पस्सति, नो समुदयन्ति अत्थो. सो एवं पटिपन्नो पटिनिस्सज्जति, नो आदियति. किं वुत्तं होति? अयम्पि हि अनिच्चादिअनुपस्सना तदङ्गवसेन सद्धिं खन्धाभिसङ्खारेहि किलेसानं परिच्चजनतो, सङ्खतदोसदस्सनेन च तब्बिपरीते निब्बाने तन्निन्नताय पक्खन्दनतो परिच्चागपटिनिस्सग्गो चेव पक्खन्दनपटिनिस्सग्गो चाति वुच्चति. तस्मा ताय समन्नागतो भिक्खु यथावुत्तेन नयेन किलेसे च परिच्चजति, निब्बाने च पक्खन्दति. नापि निब्बत्तनवसेन किलेसे आदियति, न अदोसदस्सितावसेन सङ्खतारम्मणं. तेन वुच्चति पटिनिस्सज्जति, नो आदियतीति.

५२. इदानिस्स तेहि ञाणेहि येसं धम्मानं पहानं होति, तं दस्सेतुं अनिच्चतो अनुपस्सन्तो निच्चसञ्ञं पजहतीतिआदि वुत्तं. तत्थ नन्दिन्ति सप्पीतिकं तण्हं. रागन्ति सेसं तण्हं. समुदयन्ति रागस्स उप्पत्तिं. अथ वा रूपगतस्स उदयं. आदानन्ति निब्बत्तनवसेन किलेसानं आदानं. वेदनारम्मणतातिआदीनि इध च हेट्ठा च वुत्तनयेनेव वेदितब्बानि.

गाथासु पन वत्थुसङ्कमनाति रूपादीसु एकेकस्स भङ्गं दिस्वा पुन येन चित्तेन भङ्गो दिट्ठो, तस्सापि भङ्गदस्सनवसेन पुरिमवत्थुतो अञ्ञवत्थुसङ्कमना. पञ्ञाय च विवट्टनाति उदयं पहाय वये सन्तिट्ठना. आवज्जना बलञ्चेवाति रूपादीसु एकेकस्स भङ्गं दिस्वा पुन भङ्गारम्मणस्स चित्तस्स भङ्गदस्सनत्थं अनन्तरमेव आवज्जनसमत्थता. पटिसङ्खा विपस्सनाति एसा आरम्मणपटिसङ्खा भङ्गानुपस्सना नाम. आरम्मणअन्वयेन उभो एकववत्थनाति पच्चक्खतो दिट्ठस्स आरम्मणस्स अन्वयेन अनुगमनेन यथा इदं, तथा अतीतेपि सङ्खारगतं भिज्जि, अनागतेपि भिज्जिस्सतीति एवं उभिन्नं एकसभावेनेव ववत्थापनन्ति अत्थो. वुत्तम्पि चेतं पोराणेहि –

‘‘संविज्जमानम्हि विसुद्धदस्सनो, तदन्वयं नेति अतीतनागते;

सब्बेपि सङ्खारगता पलोकिनो, उस्सावबिन्दू सूरियेव उग्गते’’ति.

निरोधे अधिमुत्तताति एवं उभिन्नं भङ्गवसेन एकववत्थानं कत्वा तस्मिंयेव भङ्गसङ्खाते निरोधे अधिमुत्तता तग्गरुता तन्निन्नता तप्पोणता तप्पब्भारताति अत्थो. वयलक्खणविपस्सनाति एसा वयलक्खणविपस्सना नामाति वुत्तं होति. आरम्मणञ्च पटिसङ्खाति पुरिमञ्च रूपादिआरम्मणं जानित्वा. भङ्गञ्च अनुपस्सतीति तस्सारम्मणस्स भङ्गं दिस्वा तदारम्मणस्स चित्तस्स च भङ्गं अनुपस्सति. सुञ्ञतो च उपट्ठानन्ति तस्सेवं भङ्गमनुपस्सतो ‘‘सङ्खाराव भिज्जन्ति, तेसं भेदो मरणं, न अञ्ञो कोचि अत्थी’’ति सुञ्ञतो उपट्ठानं इज्झति. तेनाहु पोराणा –

‘‘खन्धा निरुज्झन्ति न चत्थि अञ्ञो, खन्धान भेदो मरणन्ति वुच्चति;

तेसं खयं पस्सति अप्पमत्तो, मणिंव विज्झं वजिरेन योनिसो’’ति.

अधिपञ्ञा विपस्सनाति या च आरम्मणपटिसङ्खा, या च भङ्गानुपस्सना, यञ्च सुञ्ञतो उपट्ठानं, अयं अधिपञ्ञा विपस्सना नामाति वुत्तं होति. कुसलो तीसु अनुपस्सनासूति अनिच्चानुपस्सनादीसु तीसु छेको भिक्खु. चतस्सो च विपस्सनासूति निब्बिदादीसु च चतूसु विपस्सनासु. तयो उपट्ठाने कुसलताति खयतो वयतो सुञ्ञतोति इमस्मिञ्च तिविधे उपट्ठाने कुसलताय. नानादिट्ठीसु न कम्पतीति सस्सतदिट्ठिआदीसु नानप्पकारासु दिट्ठीसु न वेधति. सो एवं अवेधमानो ‘‘अनिरुद्धमेव निरुज्झति, अभिन्नमेव भिज्जती’’ति पवत्तमनसिकारो दुब्बलभाजनस्स विय भिज्जमानस्स, सुखुमरजस्सेव विप्पकिरियमानस्स, तिलानं विय भज्जियमानानं सब्बसङ्खारानं उप्पादट्ठितिपवत्तनिमित्तं विस्सज्जेत्वा भेदमेव पस्सति. सो यथा नाम चक्खुमा पुरिसो पोक्खरणीतीरे वा नदीतीरे वा ठितो थूलफुसितके देवे वस्सन्ते उदकपिट्ठे महन्तमहन्तानि उदकपुब्बुळानि उप्पज्जित्वा उप्पज्जित्वा सीघं सीघं भिज्जमानानि पस्सेय्य, एवमेव सब्बे सङ्खारा भिज्जन्ति भिज्जन्तीति पस्सति. एवरूपञ्हि योगावचरं सन्धाय वुत्तं भगवता –

‘‘यथा पुब्बुळकं पस्से, यथा पस्से मरीचिकं;

एवं लोकं अवेक्खन्तं, मच्चुराजा न पस्सती’’ति. (ध. प. १७०);

तस्सेवं ‘‘सब्बे सङ्खारा भिज्जन्ति भिज्जन्ती’’ति अभिण्हं पस्सतो अट्ठानिसंसपरिवारं भङ्गानुपस्सनाञाणं बलप्पत्तं होति. तत्रिमे अट्ठानिसंसा – भवदिट्ठिप्पहानं, जीवितनिकन्तिपरिच्चागो, सदायुत्तपयुत्तता, विसुद्धाजीविता, उस्सुक्कप्पहानं, विगतभयता, खन्तिसोरच्चपटिलाभो, अरतिरतिसहनताति. तेनाहु पोराणा –

‘‘इमानि अट्ठग्गुणमुत्तमानि, दिस्वा तहिं सम्मसती पुनप्पुनं;

आदित्तचेलस्सिरसूपमो मुनि, भङ्गानुपस्सी अमतस्स पत्तिया’’ति.

भङ्गानुपस्सनाञाणनिद्देसवण्णना निट्ठिता.