५५. आसवक्खयञाणनिद्देसवण्णना

१०७. आसवक्खयञाणनिद्देसे अनञ्ञातञ्ञस्सामीतिन्द्रियादीनि वुत्तत्थानि. कति ठानानि गच्छतीति एकेकस्स उप्पत्तिट्ठाननियमनत्थं पुच्छा. एकं ठानं गच्छतीति एकस्मिं ठाने उप्पज्जतीति वुत्तं होति. उप्पत्तिओकासट्ठानञ्हि तिट्ठति एत्थाति ठानन्ति वुच्चति. छ ठानानीति छ मग्गफलक्खणे. इन्द्रियानं अनञ्ञातञ्ञस्सामीतिन्द्रियादीसु तीसु एकेकमेव अधिकं होतीति दस्सनत्थं सद्धिन्द्रियं अधिमोक्खपरिवारं होतीतिआदि वुत्तं. यथा ‘‘सद्धिन्द्रियस्स अधिमोक्खट्ठो’’तिआदीसु (पटि. म. १.१२) अधिमोक्खादयो सद्धिन्द्रियादीनं किच्चवसेन वुत्ता, एवमिधापि ‘‘अधिमोक्खपरिवारं होती’’ति सद्धिन्द्रियं अधिमोक्खत्थेन परिवारं होतीति वुत्तं होति. एस नयो सेसेसुपि. परिवारन्ति च लिङ्गविपल्लासो कतो. पञ्ञिन्द्रियन्ति अनञ्ञातञ्ञस्सामीतिन्द्रियमेव पजाननसभावदस्सनत्थं विसुं कत्वा वुत्तं. अभिधम्मेपि (विभ. २१९) हि पञ्ञाय किच्चविसेसदस्सनत्थं मग्गक्खणे च फलक्खणे च एकाव पञ्ञा अट्ठधा विभत्ता. अभिसन्दनपरिवारन्ति न्हानियचुण्णानं उदकं विय चित्तचेतसिकानं सिनेहनकिच्चेन परिवारं होति. इदं सोमनस्ससम्पयुत्तमग्गवसेनेव वुत्तं. उपेक्खासम्पयुत्तमग्गे पन सोमनस्सिन्द्रियट्ठाने उपेक्खिन्द्रियं दट्ठब्बं. तं पन सम्पयुत्तानं नातिउपब्रूहनपरिवारन्ति गहेतब्बं. पवत्तसन्तताधिपतेय्यपरिवारन्ति पवत्ता सन्तति पवत्तसन्तति, वत्तमानसन्तानन्ति अत्थो. अधिपतिभावो आधिपतेय्यं, पवत्तसन्ततिया आधिपतेय्यं पवत्तसन्तताधिपतेय्यं. वत्तमानजीवितिन्द्रियस्स उपरिपवत्तिया च पच्चयत्ता पुब्बापरवसेन पवत्तसन्ततिया अधिपतिभावेन अनञ्ञातञ्ञस्सामीतिन्द्रियस्स परिवारं होति.

सोतापत्तिमग्गक्खणे जाता धम्मातिआदि सब्बेसं मग्गसम्पयुत्तकानं वण्णभणनत्थं वुत्तं. तत्थ मग्गक्खणे जाताति मग्गसमुट्ठिता एव, न अञ्ञे. यस्मा पन मग्गसमुट्ठितम्पि रूपं कुसलादिनामं न लभति, तस्मा तं अपनेन्तो ठपेत्वा चित्तसमुट्ठानं रूपन्ति आह. सब्बेव हि ते धम्मा कुच्छितानं सलनादीहि अत्थेहि कुसला. ते आरम्मणं कत्वा पवत्तमाना नत्थि एतेसं आसवाति अनासवा. वट्टमूलं छिन्दन्ता निब्बानं आरम्मणं कत्वा वट्टतो निय्यन्तीति निय्यानिका. कुसलाकुसलसङ्खाता चया अपेतत्ता अपचयसङ्खातं निब्बानं आरम्मणं कत्वा पवत्तनतो अपचयं गच्छन्तीति अपचयगामिनो, पवत्तं अपचिनन्ता विद्धंसेन्ता गच्छन्तीतिपि अपचयगामिनो. लोके अपरियापन्नभावेन लोकतो उत्तरा उत्तिण्णाति लोकुत्तरा. निब्बानं आरम्मणं एतेसन्ति निब्बानारम्मणा.

इमानि अट्ठिन्द्रियानीतिआदि पुब्बे वुत्तपरिवारभावस्स च तेन सहगतादिभावस्स च आदिवुत्तआकारानञ्च दीपनत्थं वुत्तं. तत्थ अट्ठिन्द्रियानीति पुब्बे वुत्तनयेन पञ्ञिन्द्रियेन सह अट्ठ. सहजातपरिवाराति अट्ठसु एकेकेन सह इतरे इतरे सत्त सहजाता हुत्वा तस्स सहजातपरिवारा होन्ति. तथेव अञ्ञं अञ्ञस्स अञ्ञं अञ्ञस्साति एवं अञ्ञमञ्ञपरिवारा होन्ति. तथेव अञ्ञमञ्ञं निस्सयपरिवारा सम्पयुत्तपरिवारा च होन्ति. सहगताति तेन अनञ्ञातञ्ञस्सामीतिन्द्रियेन सह एकुप्पादादिभावं गता. सहजाताति तेनेव सह जाता. संसट्ठाति तेनेव सह मिस्सिता. सम्पयुत्ताति तेनेव समं एकुप्पादादिपकारेहि युत्ता. तेवाति ते एव अट्ठ इन्द्रियधम्मा. तस्साति अनञ्ञातञ्ञस्सामीतिन्द्रियस्स. आकाराति परिवारकोट्ठासा.

फलक्खणे जाता धम्मा सब्बेव अब्याकता होन्तीति रूपस्सपि अब्याकतत्ता चित्तसमुट्ठानरूपेन सह वुत्ता. मग्गस्सेव कुसलत्ता निय्यानिकत्ता अपचयगामित्ता च फलक्खणे ‘‘कुसला’’ति च ‘‘निय्यानिका’’ति च ‘‘अपचयगामिनो’’ति च न वुत्तं. इतीतिआदि वुत्तप्पकारनिगमनं. तत्थ अट्ठट्ठकानीति अट्ठसु मग्गफलेसु एकेकस्स अट्ठकस्स वसेन अट्ठ इन्द्रियअट्ठकानि. चतुसट्ठि होन्तीति चतुसट्ठि आकारा होन्ति. आसवातिआदि हेट्ठा वुत्तत्थमेव. इध अरहत्तमग्गवज्झेयेव आसवे अवत्वा सेसमग्गत्तयवज्झानम्पि वचनं आसवक्खयवचनसामञ्ञमत्तेन वुत्तन्ति वेदितब्बं. अरहत्तमग्गञाणमेव हि केचि आसवे असेसेत्वा आसवानं खेपनतो ‘‘खये ञाण’’न्ति वुच्चति. तस्मायेव च अरहायेव खीणासवोति वुच्चतीति.

आसवक्खयञाणनिद्देसवण्णना निट्ठिता.