४३. पदेसविहारञाणनिद्देसवण्णना

९४. पदेसविहारञाणनिद्देसे येनाकारेन मातिकाय उद्दिट्ठो पदेसो पच्चवेक्खितब्बो, तं दस्सेन्तो मिच्छादिट्ठिपच्चयापि वेदयितन्तिआदिमाह. तत्थ मिच्छादिट्ठिपच्चयाति दिट्ठिसम्पयुत्तवेदनापि वट्टति दिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि विपाकवेदनापि. तत्थ मिच्छादिट्ठिसम्पयुत्ता अकुसलाव होति, दिट्ठिं पन उपनिस्साय कुसलापि उप्पज्जन्ति अकुसलापि. मिच्छादिट्ठिका हि दिट्ठिं उपनिस्साय पक्खदिवसेसु यागुभत्तादीनि देन्ति, अन्धकुट्ठिआदीनं वत्तं पट्ठपेन्ति, चतुमहापथे सालं करोन्ति, पोक्खरणिं खणापेन्ति, पुप्फारामं फलारामं रोपेन्ति, नदीविदुग्गेसु सेतुं अत्थरन्ति, विसमं समं करोन्ति. इति तेसं कुसला वेदना उप्पज्जति. मिच्छादिट्ठिं पन निस्साय सम्मादिट्ठिके अक्कोसन्ति परिभासन्ति वधबन्धादीनि करोन्ति, पाणं वधित्वा देवतानं उपहरन्ति. इति नेसं अकुसला वेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानं होति. सा पन मिच्छादिट्ठि सहजाताय वेदनाय सहजातअञ्ञमञ्ञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो होति, समनन्तरनिरुद्धा मिच्छादिट्ठि पच्चुप्पन्नमिच्छादिट्ठिसम्पयुत्ताय वेदनाय अनन्तरसमनन्तरूपनिस्सयआसेवननत्थिविगतपच्चयेहि पच्चयो होति, मिच्छादिट्ठिं गरुं कत्वा अभिनन्दन्तस्स लोभसहगतवेदनाय आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयेहि पच्चयो होति, सब्बाकुसलेहि मिच्छादिट्ठिं आरम्मणमत्तं करोन्तस्स सब्बाकुसलवेदनाय मिच्छादिट्ठिं पच्चवेक्खन्तस्स विपस्सन्तस्स कुसलाब्याकतवेदनाय आरम्मणपच्चयेन पच्चयो होति, मिच्छादिट्ठिपच्चयेन उप्पज्जमानानं कुसलाकुसलवेदनानं भवन्तरे विपाकवेदनानञ्च उपनिस्सयपच्चयेन पच्चयो होति.

मिच्छादिट्ठिवूपसमपच्चयाति मिच्छादिट्ठिवूपसमो नाम सम्मादिट्ठि, तस्मा यं सम्मादिट्ठिपच्चया वेदयितं वुत्तं, तदेव ‘‘मिच्छादिट्ठिवूपसमपच्चया’’ति वेदितब्बं. केचि पन ‘‘मिच्छादिट्ठिवूपसमो नाम विपस्सनाक्खणे सोतापत्तिमग्गक्खणे चा’’ति वदन्ति.

सम्मादिट्ठिपच्चयापि वेदयितन्ति एत्थापि सम्मादिट्ठिसम्पयुत्तवेदनापि वट्टति सम्मादिट्ठिं उपनिस्सयं कत्वा उप्पन्ना कुसलाकुसलवेदनापि विपाकवेदनापि. तत्थ सम्मादिट्ठिसम्पयुत्ता कुसलाव होति, सम्मादिट्ठिं पन उपनिस्साय बुद्धपूजा दीपमालारोपनं महाधम्मस्सवनं अप्पतिट्ठिते दिसाभागे चेतियपतिट्ठापनन्ति एवमादीनि पुञ्ञानि करोन्ति. इति नेसं कुसला वेदना उप्पज्जति. सम्मादिट्ठिमेव निस्साय मिच्छादिट्ठिके अक्कोसन्ति परिभासन्ति, अत्तानं उक्कंसन्ति, परं वम्भेन्ति. इति नेसं अकुसला वेदना उप्पज्जति. विपाकवेदना पन भवन्तरगतानंयेव होति. सा पन सम्मादिट्ठि सहजाताय समनन्तरनिरुद्धाय पच्चुप्पन्नाय वेदनाय मिच्छादिट्ठिया वुत्तपच्चयेहेव पच्चयो होति, लोकिकसम्मादिट्ठि पच्चवेक्खणसम्पयुत्ताय विपस्सनासम्पयुत्ताय निकन्तिसम्पयुत्ताय च वेदनाय आरम्मणपच्चयेन पच्चयो होति, मिच्छादिट्ठिया वुत्तनयेनेव उपनिस्सयपच्चयेन पच्चयो होति, मग्गफलसम्मादिट्ठि पच्चवेक्खणसम्पयुत्ताय वेदनाय आरम्मणआरम्मणाधिपतिआरम्मणूपनिस्सयपच्चयवसेन पच्चयो होति.

सम्मादिट्ठिवूपसमपच्चयापि वेदयितन्ति सम्मादिट्ठिवूपसमो नाम मिच्छादिट्ठि, तस्मा यं मिच्छादिट्ठिपच्चया वेदयितं वुत्तं, तदेव ‘‘सम्मादिट्ठिवूपसमपच्चया’’ति वेदितब्बं. मिच्छासङ्कप्पपच्चया मिच्छासङ्कप्पवूपसमपच्चयातिआदीसुपि एसेव नयो. यस्स यस्स हि ‘‘वूपसमपच्चया’’ति वुच्चति, तस्स तस्स पटिपक्खधम्मपच्चयाव तं तं वेदयितं अधिप्पेतं. मिच्छाञाणादीसु पन मिच्छाञाणं नाम पापकिरियासु उपायचिन्ता. अथ वा मिच्छाञाणं मिच्छापच्चवेक्खणञाणं. सम्माञाणं नाम विपस्सनासम्मादिट्ठिं लोकुत्तरसम्मादिट्ठिञ्च ठपेत्वा अवसेसकुसलाब्याकतं ञाणं. मिच्छाविमुत्ति नाम पापाधिमुत्तिता. अथ वा अयाथावविमुत्ति अनिय्यानिकविमुत्ति अविमुत्तस्सेव सतो विमुत्तिसञ्ञीति. सम्माविमुत्ति नाम कल्याणाधिमुत्तिता फलविमुत्ति च. सम्मादिट्ठिआदयो हेट्ठा वुत्तत्थायेव.

छन्दपच्चयापीतिआदीसु पन छन्दो नाम लोभो, छन्दपच्चया अट्ठलोभसहगतचित्तसम्पयुत्तवेदना वेदितब्बा. छन्दवूपसमपच्चया पठमज्झानवेदनाव. वितक्कपच्चया पठमज्झानवेदना. वितक्कवूपसमपच्चया दुतियज्झानवेदना. सञ्ञापच्चया ठपेत्वा पठमज्झानं सेसा छ समापत्तिवेदना. सञ्ञावूपसमपच्चया नेवसञ्ञानासञ्ञायतनवेदना.

छन्दो च अवूपसन्तो होतीतिआदीसु सचे छन्दवितक्कसञ्ञा अवूपसन्ता होन्तीति अत्थो. तप्पच्चयाति सो छन्दवितक्कसञ्ञानं अवूपसमो एव पच्चयो तप्पच्चयो, तस्मा तप्पच्चया. छन्दवितक्कसञ्ञाअवूपसमपच्चया वेदना होतीति अत्थो. सा अट्ठलोभसहगतचित्तसम्पयुत्तवेदना होति. सचे छन्दो वूपसन्तो वितक्कसञ्ञा अवूपसन्ता. तप्पच्चयाति सो छन्दस्स वूपसमो वितक्कसञ्ञानं अवूपसमो एव पच्चयो तप्पच्चयो, तस्मा तप्पच्चया. सा पठमज्झानवेदनाव. सचे छन्दवितक्का वूपसन्ता सञ्ञा अवूपसन्ता. तप्पच्चयाति सो छन्दवितक्कानं वूपसमो सञ्ञाय अवूपसमो एव पच्चयो तप्पच्चयो, तस्मा तप्पच्चया. सा दुतियज्झानवेदनाव. सचे छन्दवितक्कसञ्ञा वूपसन्ता. तप्पच्चयाति सो छन्दवितक्कसञ्ञानं वूपसमो एव पच्चयो तप्पच्चयो, तस्मा तप्पच्चया. सा नेवसञ्ञानासञ्ञायतनवेदनाव. केचि पन ‘‘छन्दो नाम अप्पनं पापुणिस्सामीति पुब्बभागे धम्मच्छन्दो, अप्पनाप्पत्तस्स सो छन्दो वूपसन्तो होति. पठमज्झाने वितक्को होति, दुतियज्झानप्पत्तस्स वितक्को वूपसन्तो होति. सत्तसु समापत्तीसु सञ्ञा होति, नेवसञ्ञानासञ्ञायतनं समापन्नस्स च निरोधं समापन्नस्स च सञ्ञा वूपसन्ता होती’’ति एवं वण्णयन्ति. इध पन निरोधसमापत्ति न युज्जति. अप्पत्तस्स पत्तियाति अरहत्तफलस्स पत्तत्थाय. अत्थि आयवन्ति अत्थि वीरियं. आयावन्तिपि पाठो. तस्मिम्पि ठाने अनुप्पत्तेति तस्स वीरियारम्भस्स वसेन तस्मिं अरहत्तफलस्स कारणे अरियमग्गे अनुप्पत्ते. तप्पच्चयापि वेदयितन्ति अरहत्तस्स ठानपच्चया वेदयितं. एतेन चतुमग्गसहजाता निब्बत्तितलोकुत्तरवेदना गहिता. केचि पन ‘‘आयवन्ति पटिपत्ति. तस्मिम्पि ठाने अनुप्पत्तेति तस्सा भूमिया पत्तिया’’ति वण्णयन्ति.

पदेसविहारञाणनिद्देसवण्णना निट्ठिता.