३४. निरोधसमापत्तिञाणनिद्देसवण्णना

८३. निरोधसमापत्तिञाणनिद्देसे समथबलन्ति कामच्छन्दादयो पच्चनीकधम्मे समेतीति समथो, सोयेव अकम्पनीयट्ठेन बलं. अनागामिअरहन्तानंयेव समाधिपटिपक्खस्स कामच्छन्दस्स पहानेन समाधिस्मिं परिपूरकारिभावप्पत्तत्ता तेसंयेव समाधि बलप्पत्तोति कत्वा ‘‘समथबल’’न्ति वुच्चति, न अञ्ञेसं. समाधिबलन्तिपि पाठो. विपस्सनाबलन्ति अनिच्चादिवसेन विविधेहि आकारेहि धम्मे पस्सतीति विपस्सना, सायेव अकम्पनीयट्ठेन बलं. तेसंयेव उभिन्नं बलप्पत्तं विपस्सनाञाणं. तत्थ समथबलं अनुपुब्बेन चित्तसन्तानवूपसमनत्थं निरोधे च पटिपादनत्थं, विपस्सनाबलं पवत्ते आदीनवदस्सनत्थं निरोधे च आनिसंसदस्सनत्थं.

नीवरणेति निमित्तत्थे भुम्मवचनं, नीवरणनिमित्तं नीवरणपच्चयाति अत्थो. करणत्थे वा भुम्मवचनं, नीवरणेनाति अत्थो. न कम्पतीति झानसमङ्गीपुग्गलो. अथ वा झानन्ति झानङ्गानं अधिप्पेतत्ता पठमेन झानेन तंसम्पयुत्तसमाधि नीवरणे न कम्पति. अयमेव चेत्थ योजना गहेतब्बा. उद्धच्चे चाति उद्धच्चसहगतचित्तुप्पादे उद्धच्चे च. उद्धच्चन्ति च उद्धतभावो, तं अवूपसमलक्खणं. उद्धच्चसहगतकिलेसे चाति उद्धच्चेन सहगते एकुप्पादादिभावं गते उद्धच्चसम्पयुत्ते मोहअहिरिकअनोत्तप्पकिलेसे च. खन्धे चाति उद्धच्चसम्पयुत्तचतुक्खन्धे च. न कम्पति न चलति न वेधतीति अञ्ञमञ्ञवेवचनानि. उद्धच्चे न कम्पति, उद्धच्चसहगतकिलेसे न चलति, उद्धच्चसहगतक्खन्धे न वेधतीति योजेतब्बं. विपस्सनाबलं सत्तन्नंयेव अनुपस्सनानं वुत्तत्ता तासंयेव वसेन विपस्सनाबलं परिपुण्णं होतीति वेदितब्बं. अविज्जाय चाति द्वादससुपि अकुसलचित्तुप्पादेसु अविज्जाय च. अविज्जासहगतकिलेसे चाति यथायोगं अविज्जाय सम्पयुत्तलोभदोसमानदिट्ठिविचिकिच्छाथिनउद्धच्चअहिरिकअनोत्तप्पकिलेसे च.

वचीसङ्खाराति वितक्कविचारा. ‘‘पुब्बे खो, आवुसो विसाख, वितक्केत्वा विचारेत्वा पच्छा वाचं भिन्दति, तस्मा वितक्कविचारा वचीसङ्खारो’’ति (म. नि. १.४६३) वचनतो वाचं सङ्खरोन्ति उप्पादेन्तीति वचीसङ्खारा. कायसङ्खाराति अस्सासपस्सासा. ‘‘अस्सासपस्सासा खो, आवुसो विसाख, कायिका एते धम्मा कायपटिबद्धा, तस्मा अस्सासपस्सासा कायसङ्खारो’’ति (म. नि. १.४६३) वचनतो कायेन सङ्खरीयन्तीति कायसङ्खारा. सञ्ञावेदयितनिरोधन्ति सञ्ञाय वेदनाय च निरोधं. चित्तसङ्खाराति सञ्ञा च वेदना च. ‘‘चेतसिका एते धम्मा चित्तपटिबद्धा, तस्मा सञ्ञा च वेदना च चित्तसङ्खारो’’ति (म. नि. १.४६३) वचनतो चित्तेन सङ्खरीयन्तीति चित्तसङ्खारा.

८४. ञाणचरियासु अनुपस्सनावसाने, विवट्टनानुपस्सनागहणेन वा तस्सा आदिभूता चरियाकथाय ञाणचरियाति वुत्ता सेसानुपस्सनापि गहिता होन्तीति वेदितब्बं. सोळसहि ञाणचरियाहीति च उक्कट्ठपरिच्छेदो, अनागामिस्स पन अरहत्तमग्गफलवज्जाहि चुद्दसहिपि होति परिपुण्णबलत्ता.

८५. नवहि समाधिचरियाहीति एत्थ पठमज्झानादीहि अट्ठ, पठमज्झानादीनं पटिलाभत्थाय सब्बत्थ उपचारज्झानवसेन एकाति नव समाधिचरिया. बलचरियानं किं नानत्तं? समथबलेनपि हि ‘‘नेक्खम्मवसेना’’तिआदीहि सत्तहि परियायेहि उपचारसमाधि वुत्तो, पेय्यालवित्थारतो ‘‘पठमज्झानवसेना’’तिआदीहि समसत्ततिया वारेहि यथायोगं अप्पनूपचारसमाधि वुत्तो, समाधिचरियायपि ‘‘पठमं झान’’न्तिआदीहि अट्ठहि परियायेहि अप्पनासमाधि वुत्तो. पठमं झानं पटिलाभत्थायातिआदीहि अट्ठहि परियायेहि उपचारसमाधि वुत्तोति उभयत्थापि अप्पनूपचारसमाधियेव वुत्तो. एवं सन्तेपि अकम्पियट्ठेन बलानि वसीभावट्ठेन चरियाति वेदितब्बा. विपस्सनाबले पन सत्त अनुपस्सनाव ‘‘विपस्सनाबल’’न्ति वुत्ता, ञाणचरियाय सत्त च अनुपस्सना वुत्ता, विवट्टनानुपस्सनादयो नव च विसेसेत्वा वुत्ता. इदं नेसं नानत्तं. सत्त अनुपस्सना पन अकम्पियट्ठेन बलानि वसीभावट्ठेन चरियाति वेदितब्बा.

‘‘वसीभावता पञ्ञा’’ति (पटि. म. १.३४ मातिका) एत्थ वुत्तवसियो विस्सज्जेतुं वसीति पञ्च वसियोति इत्थिलिङ्गवोहारेन वुत्तं. वसो एव वसीति वुत्तं होति. पुन पुग्गलाधिट्ठानाय देसनाय ता वसियो विस्सज्जेन्तो आवज्जनवसीतिआदिमाह. आवज्जनाय वसो आवज्जनवसो, सो अस्स अत्थीति आवज्जनवसी. एसेव नयो सेसेसु. पठमं झानं यत्थिच्छकन्ति यत्थ यत्थ पदेसे इच्छति गामे वा अरञ्ञे वा, तत्थ तत्थ आवज्जति. यदिच्छकन्ति यदा यदा काले सीतकाले वा उण्हकाले वा, तदा तदा आवज्जति. अथ वा यं यं पठमं झानं इच्छति पथवीकसिणारम्मणं वा सेसारम्मणं वा, तं तं आवज्जति. एकेककसिणारम्मणस्सापि झानस्स वसितानं वुत्तत्ता पुरिमयोजनायेव सुन्दरतरा. यावतिच्छकन्ति यावतकं कालं इच्छति अच्छरासङ्घातमत्तं सत्ताहं वा, तावतकं कालं आवज्जति. आवज्जनायाति मनोद्वारावज्जनाय. दन्धायितत्तन्ति अवसवत्तिभावो, अलसभावो वा. समापज्जतीति पटिपज्जति, अप्पेतीति अत्थो. अधिट्ठातीति अन्तोसमापत्तियं अधिकं कत्वा तिट्ठति. वुट्ठानवसियंपठमं झानन्ति निस्सक्कत्थे उपयोगवचनं, पठमज्झानाति अत्थो. पच्चवेक्खतीति पच्चवेक्खणजवनेहि निवत्तित्वा पस्सति. अयमेत्थ पाळिवण्णना.

अयं पन अत्थप्पकासना – पठमज्झानतो वुट्ठाय वितक्कं आवज्जयतो भवङ्गं उपच्छिन्दित्वा पवत्तावज्जनानन्तरं वितक्कारम्मणानेव चत्तारि पञ्च वा जवनानि जवन्ति, ततो द्वे भवङ्गानि, ततो पुन विचारारम्मणं आवज्जनं वुत्तनयेनेव जवनानीति एवं पञ्चसु झानङ्गेसु यदा निरन्तरं चित्तं पेसेतुं सक्कोति, अथस्स आवज्जनवसी सिद्धाव होति. अयं पन मत्थकप्पत्ता वसी भगवतो यमकपाटिहारियेव लब्भति. इतो परं सीघतरा आवज्जनवसी नाम नत्थि. अञ्ञेसं पन अन्तरन्तरा भवङ्गवारे गणना नत्थि. महामोग्गल्लानत्थेरस्स नन्दोपनन्ददमने विय सीघं समापत्तिसमापज्जनसमत्थता समापज्जनवसी नाम. अच्छरामत्तं वा दसच्छरामत्तं वा खणं समापत्तिं ठपेतुं समत्थता अधिट्ठानवसी नाम. तथेव ततो लहुं वुट्ठानसमत्थता वुट्ठानवसी नाम. पच्चवेक्खणवसी पन आवज्जनवसिया एव वुत्ता. पच्चवेक्खणजवनानेव हि तत्थ आवज्जनानन्तरानीति. इति आवज्जनवसिया सिद्धाय पच्चवेक्खणवसी सिद्धा होति, अधिट्ठानवसिया च सिद्धाय वुट्ठानवसी सिद्धा होति. एवं सन्तेपि ‘‘अयं पन मत्थकप्पत्ता वसी भगवतो यमकपाटिहारियेव लब्भती’’ति वुत्तत्ता पाटिहारियकाले झानङ्गपच्चवेक्खणानं अभावतो नानाविधवण्णादिनिम्मानस्स नानाकसिणवसेन इज्झनतो तंतंकसिणारम्मणं झानं समापज्जितुकामस्स यथारुचि लहुं तस्मिं कसिणे वुत्तनयेन आवज्जनपवत्तनसमत्थता आवज्जनवसी, तदावज्जनवीथियंयेव तस्स झानस्स अप्पनासमत्थतासमापज्जनसमत्थता समापज्जनवसी. एवञ्हि वुच्चमाने युत्ति च न विरुज्झति, वसीपटिपाटि च यथाक्कमेनेव युज्जति. झानङ्गपच्चवेक्खणायं पन ‘‘मत्थकप्पत्तायेव पञ्च जवनानी’’ति वुत्तत्ता वुत्तनयेन सत्तसुपि जवनेसु जवन्तेसु पच्चवेक्खणवसीयेव होति. एवं सन्ते ‘‘पठमज्झानं आवज्जती’’ति वचनं न युज्जतीति चे? यथा कसिणे पवत्तं झानं कारणोपचारेन कसिणन्ति वुत्तं, तथा झानपच्चयं कसिणं ‘‘सुखो बुद्धानमुप्पादो’’तिआदीसु (ध. प. १९४) विय फलोपचारेन झानन्ति वुत्तं. यथापरिच्छिन्ने काले ठत्वा वुट्ठितस्स निद्दाय पबुद्धस्स पुन निद्दोक्कमने विय पुन झानोक्कमने सतिपि अधिट्ठानवसीयेव नाम, यथापरिच्छेदेन वुट्ठितस्स पन वुट्ठानेयेव अधिट्ठाने सतिपि वुट्ठानवसी नाम होतीति अयं तेसं विसेसो.

निरोधसमापत्तिया विभावनत्थं पन इदं पञ्हकम्मं – का निरोधसमापत्ति, के तं समापज्जन्ति, के न समापज्जन्ति, कत्थ समापज्जन्ति, कस्मा समापज्जन्ति, कथञ्चस्सा समापज्जनं होति, कथं ठानं, कथं वुट्ठानं, वुट्ठितस्स किन्निन्नं चित्तं होति, मतस्स च समापन्नस्स च को विसेसो, निरोधसमापत्ति किं सङ्खता असङ्खता लोकिया लोकुत्तरा निप्फन्ना अनिप्फन्नाति?

तत्थ का निरोधसमापत्तीति? या अनुपुब्बनिरोधवसेन चित्तचेतसिकानं धम्मानं अप्पवत्ति.

के तं समापज्जन्ति, के न समापज्जन्तीति? सब्बेपि पुथुज्जना सोतापन्ना सकदागामिनो सुक्खविपस्सका च अनागामी अरहन्तो न समापज्जन्ति, अट्ठसमापत्तिलाभिनो पन अनागामिनो च खीणासवा च समापज्जन्ति.

कत्थ समापज्जन्तीति? पञ्चवोकारभवे. कस्मा? अनुपुब्बसमापत्तिसब्भावतो. चतुवोकारभवे पन पठमज्झानादीनं उप्पत्तियेव नत्थि, तस्मा न सक्का तत्थ समापज्जितुं.

कस्मा समापज्जन्तीति? सङ्खारानं पवत्तिभेदे उक्कण्ठित्वा दिट्ठेव धम्मे अचित्तका हुत्वा ‘‘निरोधं निब्बानं पत्वा सुखं विहरिस्सामा’’ति समापज्जन्ति.

कथं चस्सा समापज्जनं होतीति? समथविपस्सनावसेन उस्सक्कित्वा कतपुब्बकिच्चस्स नेवसञ्ञानासञ्ञायतनं निरोधयतो एवमस्सा समापज्जनं होति. यो हि समथवसेनेव उस्सक्कति, सो नेवसञ्ञानासञ्ञायतनसमापत्तिं पत्वा तिट्ठति. यो विपस्सनावसेनेव उस्सक्कति, सो फलसमापत्तिं पत्वा तिट्ठति. यो पन उभयवसेन उस्सक्कित्वा नेवसञ्ञानासञ्ञायतनं निरोधेति, सो तं समापज्जतीति अयमेत्थ सङ्खेपो.

अयं पन वित्थारो – इध भिक्खु निरोधं समापज्जितुकामो कतभत्तकिच्चो सुधोतहत्थपादो विवित्ते ओकासे सुपञ्ञत्ते आसने निसीदति पल्लङ्कं आभुजित्वा उजुं कायं पणिधाय परिमुखं सतिं उपट्ठपेत्वा. सो पठमज्झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे अनिच्चतो दुक्खतो अनत्ततो विपस्सति. विपस्सना पनेसा तिविधा होति – सङ्खारपरिग्गण्हनकविपस्सना, फलसमापत्तिविपस्सना, निरोधसमापत्तिविपस्सनाति. तत्थ सङ्खारपरिग्गण्हनकविपस्सना मन्दा वा होतु तिक्खा वा, मग्गस्स पदट्ठानं होतियेव. फलसमापत्तिविपस्सना तिक्खाव वट्टति मग्गभावनासदिसा. निरोधसमापत्तिविपस्सना पन नातिमन्दा नातितिक्खा वट्टति. तस्मा एस नातिमन्दाय नातितिक्खाय विपस्सनाय ते सङ्खारे विपस्सति. ततो दुतियज्झानं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति. ततो ततियज्झानं…पे… ततो विञ्ञाणञ्चायतनं समापज्जित्वा वुट्ठाय तत्थ सङ्खारे तथेव विपस्सति. अथ आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय चतुब्बिधं पुब्बकिच्चं करोति – नानाबद्धअविकोपनं, सङ्घपटिमाननं, सत्थुपक्कोसनं, अद्धानपरिच्छेदन्ति.

तत्थ नानाबद्धअविकोपनन्ति यं इमिना भिक्खुना सद्धिं एकाबद्धं न होति, नानाबद्धं हुत्वा ठितं पत्तचीवरं वा मञ्चपीठं वा निवासगेहं वा अञ्ञं वा पन किञ्चि परिक्खारजातं, तं यथा न विकुप्पति, अग्गिउदकवातचोरउन्दूरादीनं वसेन न विनस्सति, एवं अधिट्ठातब्बं. तत्रिदं अधिट्ठानविधानं – ‘‘इदञ्चिदञ्च इमस्मिं सत्ताहब्भन्तरे मा अग्गिना झायतु, मा उदकेन वुय्हतु, मा वातेन विद्धंसतु, मा चोरेहि हरीयतु, मा उन्दूरादीहि खज्जतू’’ति. एवं अधिट्ठिते तं सत्ताहं तस्स न कोचि परिस्सयो होति, अनधिट्ठहतो पन अग्गिआदीहि विनस्सति. इदं नानाबद्धअविकोपनं नाम. यं पन एकाबद्धं होति निवासनपारुपनं वा निसिन्नासनं वा, तत्थ विसुं अधिट्ठानकिच्चं नत्थि, समापत्तियेव नं रक्खति.

सङ्घपटिमाननन्ति भिक्खुसङ्घस्स पटिमाननं उदिक्खनं. याव एसो भिक्खु आगच्छति, ताव सङ्घकम्मस्स अकरणन्ति अत्थो. एत्थ च न पटिमाननं एतस्स पुब्बकिच्चं, पटिमाननावज्जनं पन पुब्बकिच्चं. तस्मा एवं आवज्जितब्बं – ‘‘सचे मयि सत्ताहं निरोधं समापज्जित्वा निसिन्ने सङ्घो अपलोकनकम्मादीसु किञ्चिदेव कम्मं कत्तुकामो होति, याव मं कोचि भिक्खु आगन्त्वा न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति. एवं कत्वा समापन्नो हि तस्मिं समये वुट्ठातियेव. यो पन एवं न करोति, सङ्घो च सन्निपतित्वा तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति पुच्छित्वा ‘‘निरोधं समापन्नो’’ति वुत्ते कञ्चि भिक्खुं पेसेति ‘‘गच्छ तं सङ्घस्स वचनेन पक्कोसा’’ति. अथस्स तेन भिक्खुना सवनूपचारे ठत्वा ‘‘सङ्घो तं आवुसो पटिमानेती’’ति वुत्तमत्तेयेव वुट्ठानं होति. एवंगरुका हि सङ्घस्स आणा नाम. तस्मा तं आवज्जित्वा यथा सयमेव वुट्ठाति, एवं समापज्जितब्बं.

सत्थुपक्कोसनन्ति इधापि सत्थुपक्कोसनावज्जनमेव इमस्स पुब्बकिच्चं. तस्मा तम्पि एवं आवज्जितब्बं – ‘‘सचे मयि सत्ताहं निरोधं समापज्जित्वा निसिन्ने सत्था ओतिण्णे वत्थुस्मिं सिक्खापदं वा पञ्ञपेति, तथारूपाय वा अट्ठुप्पत्तिया धम्मं देसेति. याव मं कोचि आगन्त्वा न पक्कोसति, तावदेव वुट्ठहिस्सामी’’ति. एवं कत्वा निसिन्नो हि तस्मिं समये वुट्ठातियेव. यो पन एवं न करोति, सत्था च सङ्घे सन्निपतिते तं अपस्सन्तो ‘‘असुको भिक्खु कुहि’’न्ति पुच्छित्वा ‘‘निरोधं समापन्नो’’ति वुत्ते कञ्चि भिक्खुं पेसेति ‘‘गच्छ तं मम वचनेन पक्कोसा’’ति. अथस्स तेन भिक्खुना सवनूपचारे ठत्वा सत्था आयस्मन्तं आमन्तेती’’ति वुत्तमत्तेयेव वुट्ठानं होति. एवंगरुकञ्हि सत्थुपक्कोसनं. तस्मा तं आवज्जित्वा यथा सयमेव वुट्ठाति, एवं समापज्जितब्बं.

अद्धानपरिच्छेदोति जीवितद्धानस्स परिच्छेदो. इमिना हि भिक्खुना अद्धानपरिच्छेदे कुसलेन भवितब्बं. ‘‘अत्तनो आयुसङ्खारा सत्ताहं पवत्तिस्सन्ति, न पवत्तिस्सन्ती’’ति आवज्जित्वाव समापज्जितब्बं. सचे हि सत्ताहब्भन्तरे निरुज्झनके आयुसङ्खारे अनावज्जित्वाव समापज्जति, तस्स निरोधसमापत्ति मरणं पटिबाहितुं न सक्कोति. अन्तोनिरोधे मरणस्स नत्थिताय अन्तराव समापत्तितो वुट्ठाति, तस्मा एतं आवज्जित्वाव समापज्जितब्बं. अवसेसञ्हि अनावज्जितुम्पि वट्टति, इदं पन आवज्जितब्बमेवाति वुत्तं. सो एवं आकिञ्चञ्ञायतनं समापज्जित्वा वुट्ठाय इमं पुब्बकिच्चं कत्वा नेवसञ्ञानासञ्ञायतनं समापज्जति. अथेकं वा द्वे वा चित्तवारे अतिक्कमित्वा अचित्तको होति, निरोधं फुसति. कस्मा पनस्स द्विन्नं चित्तानं उपरि चित्तानि नप्पवत्तन्तीति? निरोधस्स पयोगत्ता. इदञ्हि इमस्स भिक्खुनो द्वे समथविपस्सनाधम्मे युगनद्धे कत्वा अट्ठसमापत्तिआरोहनं अनुपुब्बनिरोधस्स पयोगो, न नेवसञ्ञानासञ्ञायतनसमापत्तियाति निरोधस्स पयोगत्ता द्विन्नं चित्तानं उपरि नप्पवत्तन्ति.

कथं ठानन्ति? एवं समापन्नाय पनस्सा कालपरिच्छेदवसेन चेव अन्तरा आयुक्खयसङ्घपटिमाननसत्थुपक्कोसनाभावेन च ठानं होति.

कथं वुट्ठानन्ति? अनागामिस्स अनागामिफलसमापत्तिया अरहतो अरहत्तफलसमापत्तियाति एवं द्वेधा वुट्ठानं होति.

वुट्ठितस्स किन्निन्नं चित्तं होतीति? निब्बाननिन्नं. वुत्तञ्हेतं – ‘‘सञ्ञावेदयितनिरोधसमापत्तिया वुट्ठितस्स खो, आवुसो विसाख, भिक्खुनो विवेकनिन्नं चित्तं होति विवेकपोणं विवेकपब्भार’’न्ति (म. नि. १.४६४).

मतस्स च समापन्नस्स च को विसेसोति? अयम्पि अत्थो सुत्ते वुत्तोयेव. यथाह – ‘‘यो चायं, आवुसो, मतो कालङ्कतो, तस्स कायसङ्खारा निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु परिक्खीणो, उस्मा वूपसन्ता, इन्द्रियानि परिभिन्नानि. य्वायं भिक्खु सञ्ञावेदयितनिरोधं समापन्नो, तस्सपि कायसङ्खारा निरुद्धा पटिप्पस्सद्धा, वचीसङ्खारा, चित्तसङ्खारा निरुद्धा पटिप्पस्सद्धा, आयु अपरिक्खीणो, उस्मा अवूपसन्ता, इन्द्रियानि अपरिभिन्नानी’’ति (म. नि. १.४५७).

निरोधसमापत्ति किं सङ्खतातिआदिपुच्छायं पन ‘‘सङ्खता’’तिपि ‘‘असङ्खता’’तिपि ‘‘लोकिया’’तिपि ‘‘लोकुत्तरा’’तिपि न वत्तब्बा. कस्मा? सभावतो नत्थिताय. यस्मा पन समापज्जन्तस्स वसेन समापन्नो नाम होति, तस्मा निप्फन्नाति वत्तुं वट्टति, नो अनिप्फन्नाति.

‘‘इति सन्ता समापत्ति, अयं अरियनिसेविता;

दिट्ठेव धम्मे निब्बानमिति सङ्खमुपागता’’ति.

निरोधसमापत्तिञाणनिद्देसवण्णना निट्ठिता.