३. युत्तिहारविभङ्गवण्णना

१८. तत्थ कतमो युत्तिहारोतिआदि युत्तिहारविभङ्गो. तत्थ किं योजयतीति युत्तिहारस्स विसयं पुच्छति. को पनेतस्स विसयो? अतथाकारेन गय्हमाना सुत्तत्था विसयो, ते हि तेन सातिसयं याथावतो युत्तिनिद्धारणेन योजेतब्बा. इतरेसुपि अयं हारो इच्छितो एव. तं पन भूतकथनमत्तं होति. यस्मा पनायं युत्तिगवेसना नाम न महापदेसेन विना, तस्मा युत्तिहारं विभजन्तो तस्स लक्खणं ताव उपदिसितुं ‘‘चत्तारो महापदेसा’’तिआदिमाह.

तत्थ महापदेसाति महाअपदेसा, बुद्धादयो महन्ते अपदिसित्वा वुत्तानि महाकारणानीति अत्थो. अथ वा महापदेसाति महाओकासा, महन्तानि धम्मस्स पतिट्ठानानीति वुत्तं होति. तत्रायं वचनत्थो – अपदिस्सतीति अपदेसो, बुद्धो अपदेसो एतस्साति बुद्धापदेसो. एस नयो सेसेसुपि. ‘‘सम्मुखा मेतं भगवतो सुत’’न्तिआदिना केनचि आभतस्स गन्थस्स धम्मोति वा अधम्मोति वा विनिच्छयने कारणं. किं पन तन्ति? तस्स तथा आभतस्स सुत्तोतरणादि एव. यदि एवं कथं चत्तारोति? अपदिसितप्पभेदतो. धम्मस्स हि द्वे सम्पदायो भगवा सावका च. तेसु सावका सङ्घगणपुग्गलवसेन तिविधा. ‘‘एवममुम्हा मयायं धम्मो पटिग्गहितो’’ति अपदिसितब्बानं भेदेन चत्तारो. तेनाह – ‘‘बुद्धापदेसो…पे… एकत्थेरापदेसो’’ति. तानि पदब्यञ्जनानीति केनचि आभतसुत्तस्स पदानि ब्यञ्जनानि च, अत्थपदानि चेव ब्यञ्जनपदानि चाति अत्थो. संवण्णकेन वा संवण्णनावसेन आहरियमानानि पदब्यञ्जनानि. सुत्ते ओतारयितब्बानीति सुत्ते अनुप्पवेसितब्बानि. सन्दस्सयितब्बानीति संसन्देतब्बानि. उपनिक्खिपितब्बानीति पक्खिपितब्बानि.

सुत्तादीनि दस्सेतुं ‘‘कतमस्मि’’न्तिआदि वुत्तं. तत्थ यस्मा भगवतो वचनं एकगाथामत्तम्पि सच्चविनिमुत्तं नत्थि, तस्मा सुत्तेति पदस्स अत्थं दस्सेतुं ‘‘चतूसु अरियसच्चेसू’’ति वुत्तं. अट्ठकथायं पन तीणि पिटकानि सुत्तन्ति वुत्तं, तं इमिना नेत्तिवचनेन अञ्ञदत्थु संसन्दति चेव समेति चाति दट्ठब्बं. यावदेव अनुपादापरिनिब्बानत्था भगवतो देसना, सा एकन्तेन रागादिकिलेसवूपसमं वदतीति विनयेतिपदस्स अत्थं दस्सेन्तो ‘‘रागविनये’’तिआदिमाह. विनयोति हि कारणं रागादिवूपसमनिमित्तं इधाधिप्पेतं. यथाह –

‘‘ये खो त्वं, गोतमि, धम्मे जानेय्यासि, इमे धम्मा सरागाय संवत्तन्ति नो विरागाय, सञ्ञोगाय संवत्तन्ति नो विसञ्ञोगाय, आचयाय संवत्तन्ति नो अपचयाय, महिच्छताय संवत्तन्ति नो अप्पिच्छताय, असन्तुट्ठिया संवत्तन्ति नो सन्तुट्ठिया, सङ्गणिकाय संवत्तन्ति नो पविवेकाय, कोसज्जाय संवत्तन्ति नो वीरियारम्भाय, दुब्भरताय संवत्तन्ति नो सुभरताय, एकंसेन गोतमि धारेय्यासि ‘नेसो धम्मो, नेसो विनयो, नेतं सत्थुसासन’न्ति. ये च खो त्वं, गोतमि, धम्मे जानेय्यासि इमे धम्मा विरागाय संवत्तन्ति नो सरागाय, विसञ्ञोगाय संवत्तन्ति नो सञ्ञोगाय, अपचयाय संवत्तन्ति नो आचयाय, अप्पिच्छताय संवत्तन्ति नो महिच्छताय, सन्तुट्ठिया संवत्तन्ति नो असन्तुट्ठिया पविवेकाय संवत्तन्ति नो सङ्गणिकाय, वीरियारम्भाय संवत्तन्ति नो कोसज्जाय, सुभरताय संवत्तन्ति नो दुब्भरताय, एकंसेन गोतमि धारेय्यासि ‘एसो धम्मो, एसो विनयो, एतं सत्थुसासन’’’न्ति (चूळव. ४०६).

धम्मतायन्तिपदस्स अत्थं दस्सेतुं ‘‘पटिच्चसमुप्पादे’’ति वुत्तं. पटिच्चसमुप्पादो हि ठिताव सा धातु धम्मट्ठितता धम्मनियामताति (अ. नि. ३.१३७) वुत्तो. ‘‘धम्मतायं उपनिक्खिपितब्बानी’’ति इदं पाळियं नत्थि, अत्थदस्सनवसेन पन इध वुत्तन्ति दट्ठब्बं. एत्थ च पवत्तिं निवत्तिं तदुपायञ्च बाधकादिभावे नियतं परिदीपेन्तो सुत्ते ओतरति नाम. एकन्तेन रागादिकिलेसविनयं वदन्तो विनये सन्दिस्सति नाम. तथा सस्सतं उच्छेदञ्च वज्जेत्वा एकत्तनयादिपरिदीपनेन सभावधम्मानं पच्चयपच्चयुप्पन्नभावं विभावेन्तो धम्मतं न विलोमेति नाम.

एवंविधो च कामासवादिकं आसवं न उप्पादेतीति इममत्थं दस्सेन्तो ‘‘यदि चतूसु अरियसच्चेसू’’तिआदिमाह. ननु च अनुलोमतो पटिच्चसमुप्पादो पवत्ति, पटिलोमतो निवत्तीति सो चत्तारि अरियसच्चानि अनुपविट्ठो कस्मा इध विसुं गहितोति? सच्चमेतं. इध पन विसुं गहणं धम्मानं पच्चयायत्तवुत्तिदस्सनेन अनिच्चपच्चयलक्खणं असमत्थपच्चयलक्खणं निरीहपच्चयलक्खणञ्च विभावेत्वा तेसं उदयवन्तता ततो एव वयवन्तता तदुभयेन अनिच्चता उदयब्बयपटिपीळनेन दुक्खता अनत्तताति तिलक्खणसमायोगपरिदीपनी सब्बदिट्ठिगतकुमतिविद्धंसनी अनञ्ञसाधारणा सासनसम्पत्ति पकासिता होतीति दस्सनत्थं.

एत्थ च सुत्तं सुत्तानुलोमं आचरियवादो अत्तनोमतीति इदं चतुक्कं वेदितब्बं – तत्थ सुत्तं नाम तिस्सो सङ्गीतियो आरुळ्हानि तीणि पिटकानि. सुत्तानुलोमं नाम महापदेसा, यं ‘‘अनुलोमकप्पिय’’न्ति वुच्चति. आचरियवादो नाम अट्ठकथा. अत्तनोमति नाम नयग्गाहेन अनुबुद्धिया अत्तनो पटिभानं. तत्थ सुत्तं अप्पटिबाहियं, तं पटिबाहन्तेन सत्थाव पटिबाहितो होति. अनुलोमकप्पियं पन सुत्तेन समेन्तमेव गहेतब्बं, न इतरं. आचरियवादोपि सुत्तेन समेन्तो एव गहेतब्बो, न इतरो. तथा अत्तनोमति, सा पन सब्बदुब्बलाति.

इदानि यदत्थं इध चत्तारो महापदेसा आभता, तं दस्सेतुं ‘‘चतूहि महापदेसेही’’तिआदि वुत्तं. तत्थ यं यन्ति यं यं अत्थजातञ्च धम्मजातञ्च. युज्जतीति यथावुत्तेहि चतूहि महापदेसेहि युज्जति. येन येनाति येन येन कारणेन. यथा यथाति येन येन पकारेन. तं तं गहेतब्बन्ति संवण्णियमाने सुत्ते आभतेन कारणेन पसङ्गेन पकारेन च सुत्ततो उद्धरित्वा संवण्णनावसेन गहेतब्बन्ति अत्थो. तेन चतुमहापदेसाविरुद्धाय युत्तिया सुत्ततो अत्थे निद्धारेत्वा युत्तिहारयोजना कातब्बाति दस्सेति.

१९. इदानि तं युत्तिनिद्धारणं दस्सेतुं ‘‘पञ्हं पुच्छितेना’’तिआदि आरद्धं. तत्थ कति पदानीति कित्तकानि पदानि. परियोगाहितब्बन्ति पदस्स अत्थं दस्सेतुं ‘‘विचेतब्ब’’न्ति वुत्तं. यत्तकानि पदानि यथाधिप्पेतं अत्थं अभिवदन्ति, तत्तकानि पदानि तदत्थस्सेकस्स ञातुं इच्छितत्ता ‘‘एको पञ्हो’’ति वुच्चति, तानि पन एकगाथायं यदि वा सब्बानि पदानि याव यदि वा एकं पदं एकं अत्थं अभिवदति, एकोयेव सो पञ्होति इममत्थं दस्सेति ‘‘यदि सब्बानी’’तिआदिना. तन्ति तं पञ्हं. अञ्ञातब्बन्ति आजानितब्बं. किं इमे धम्मातिआदि आजाननाकारदस्सनं. तत्थ धम्माति परियत्तिधम्मा. नानत्थाति नाना अत्था.

पुच्छागाथायं अयं पदत्थो – केनस्सुब्भाहतो लोकोति अयं सत्तलोको चोरो विय चोरघातकेन केन अभिहतो वधीयतीति अत्थो. केनस्सु परिवारितोति मालुवलताय विय निस्सितरुक्खो केन लोको अज्झोत्थटो. केन सल्लेन ओतिण्णोति केन विसपीतखुरप्पेन विय सरीरब्भन्तरनिमुग्गेन सल्लेन अनुपविट्ठो. किस्स धूपायितोति किस्स केन कारणेन धूपायितो सन्तापितो लोको. सदाति पदं सब्बत्थ योजेतब्बं. तेति चत्तारि पदानि. पञ्हसद्दापेक्खाय पुल्लिङ्गनिद्देसो. ‘‘विस्सज्जेती’’ति एतेन विस्सज्जनतो तयो पञ्हाति ञायतीति दस्सेति.

२०. तत्थाति विस्सज्जनगाथायं दुतियपादे वुत्ता जरा च पठमपादे वुत्तं मरणञ्चाति इमानि द्वे सङ्खतस्स पञ्चक्खन्धस्स ‘‘सङ्खतो’’ति लक्खीयति एतेहीति सङ्खतलक्खणानि. वुत्तञ्हेतं भगवता – ‘‘तीणिमानि, भिक्खवे, सङ्खतस्स सङ्खतलक्खणानि. कतमानि तीणि? उप्पादो पञ्ञायति, वयो पञ्ञायति, ठितस्स अञ्ञथत्तं पञ्ञायती’’ति (अ. नि. ३.४७; कथा. २१४). तेन वुत्तं – ‘‘जरायं ठितस्स अञ्ञथत्तं, मरणं वयो’’ति. एत्थ च ‘‘ठितस्स अञ्ञथत्त’’न्ति एतेन खन्धप्पबन्धस्स पुब्बापरविसेसो इध जरा, न खणट्ठितीति दस्सेति. ‘‘मरणं वयो’’ति इमिना च ‘‘तिस्सो मतो, फुस्सो मतो’’ति एवं लोके वुत्तं सम्मुतिमरणं दस्सेति, न खणिकमरणं, समुच्छेदमरणं वा.

इदानि ‘‘ते तयो पञ्हा’’ति वुत्तमत्थं युत्तिवसेन दस्सेतुं ‘‘जराय चा’’तिआदि वुत्तं. तत्थ येभुय्येन जिण्णस्स मरणदस्सनतो जरामरणानं नानत्तं असम्पटिच्छमानं पति तेसं नानत्तदस्सनत्थं ‘‘गब्भगतापि हि मीयन्ती’’ति वुत्तं. इदं वुत्तं होति – यथाधिप्पेतजराविरहितस्स मरणस्स दस्सनतो अञ्ञा जरा अञ्ञं मरणन्ति. तेनेवाह – ‘‘न च ते जिण्णा भवन्ती’’ति. किञ्च भिय्यो? केवलस्स मरणस्स दिट्ठत्ता अञ्ञाव जरा अञ्ञं मरणं, यथा तं देवानन्ति इममत्थं दस्सेति ‘‘अत्थि च देवान’’न्तिआदिना. अनुत्तरिमनुस्सधम्मेन च तिकिच्छनेन सक्का जराय पटिकारं कातुं, न तथा मरणस्साति एवम्पि जरामरणानं अत्थतो नानत्तं सम्पटिच्छितब्बन्ति दस्सेतुं ‘‘सक्कतेवा’’तिआदि वुत्तं. तत्थ सक्कतेति सक्यते, सक्काति अत्थो. पटिकम्मन्ति पटिकरणं. ननु च मरणस्सापि पटिकारं कातुं सक्का इद्धिपादभावनाय वसिभावे सतीति चोदनं मनसि कत्वा आह – ‘‘अञ्ञत्रेव इद्धिमन्तानं इद्धिविसया’’ति. वुत्तञ्हेतं भगवता –

‘‘यस्स कस्सचि, आनन्द, चत्तारो इद्धिपादा भाविता बहुलीकता यानीकता वत्थुकता अनुट्ठिता परिचिता सुसमारद्धा, सो आकङ्खमानो कप्पं वा तिट्ठेय्य कप्पावसेसं वा’’ति (दी. नि. २.१६६, १८२; सं. नि. ५.८२२; कथा. ६२३; उदा. ५१).

को पनेत्थ कप्पो, को वा कप्पावसेसोति? कप्पोति आयुकप्पो, यस्मिं तस्मिञ्हि काले यं मनुस्सानं आयुप्पमाणं, तं परिपुण्णं करोन्तो कप्पं तिट्ठति नाम. ‘‘अप्पं वा भिय्यो’’ति (दी. नि. २.७; अ. नि. ७.७४) वुत्तं पन वस्ससतादितो अतिरेकं तिट्ठन्तो कप्पावसेसं तिट्ठति नाम. यदि एवं कस्मा इद्धिमन्तो चेतोवसिप्पत्ता खीणासवा लोकहितत्थं तथा न तिट्ठन्तीति? खन्धसङ्खातस्स दुक्खभारस्स परिञ्ञातत्ता अनुस्सुक्कताय च. पटिप्पस्सद्धसब्बुस्सुक्का हि ते उत्तमपुरिसाति. वुत्तञ्हेतं धम्मसेनापतिना –

‘‘नाभिनन्दामि मरणं, नाभिकङ्खामि जीवितं;

कालञ्च पटिकङ्खामि, वेतनं भतको यथा’’ति. (थेरगा. ६५४; मि. प. २.२.४);

यथा जरामरणानं अञ्ञमञ्ञं अत्थतो नानत्तं, एवं तेहि तण्हाय च नानत्ते दस्सिते ‘‘तयो पञ्हा’’ति इदं सिज्झतीति तं दस्सेतुं ‘‘यं पना’’तिआदिमाह.

तत्थ यस्मा तण्हाय अभावेपि सति जरामरणं लब्भति खीणासवसन्ताने, तस्मा अञ्ञं जरामरणं अञ्ञा तण्हाति इममत्थमाह ‘‘दिस्सन्ति वीतरागा जीरन्तापि मीयन्तापी’’ति. ननु च तण्हापि जीरणभिज्जनसभावाति? सच्चं, न इदं जरामरणं इधाधिप्पेतन्ति वुत्तोवायमत्थो. ‘‘यदि चा’’तिआदिना जरामरणतो तण्हाय अनञ्ञत्ते दोसं दस्सेति. योब्बनट्ठापि विगततण्हा सियुं, न इदं युत्तन्ति अधिप्पायो. जरामरणम्पि सिया दुक्खस्स समुदयो तण्हाय अनञ्ञत्ते सतीति अधिप्पायो. न च सिया तण्हा दुक्खस्स समुदयो जरामरणतो अनञ्ञत्ते सतीति भावो. न हि जरामरणं दुक्खस्स समुदयो, तण्हा दुक्खस्स समुदयो, तस्मा वेदितब्बं एतेसमत्थतो नानत्तन्ति अधिप्पायो. यथा च तण्हा मग्गवज्झा, एवं जरामरणम्पि सिया मग्गवज्झं तण्हाय अनञ्ञत्ते सति. यथा च जरामरणं न मग्गवज्झं, तथा तण्हापि सियाति अयम्पि नयो वुत्तो एवाति दट्ठब्बं. इमाय युत्तियाति इमाय यथावुत्ताय उपपत्तिया. अञ्ञमञ्ञेहीति अञ्ञाहि अञ्ञाहि कारणूपपत्तीहि अत्थतो चे अञ्ञत्तं, तदञ्ञम्पि ब्यञ्जनतो गवेसितब्बन्ति अत्थो.

इमेसं धम्मानं अत्थतो एकत्तन्ति इममेवत्थं ‘‘न हि युज्जती’’तिआदिना विवरति. तण्हाय अधिप्पाये अपरिपूरमानेति इच्छितालाभमाह. तेन इच्छातण्हानं अत्थतो एकत्तं वुत्तं होतीति. एतेन न हि युज्जति इच्छाय च तण्हाय च अत्थतो अञ्ञत्तन्ति. यथा इदं वचनं समत्थनं होति, एवं इच्छाविपरियाये आघातवत्थूसु कोधो च उपनाहो च उप्पज्जतीति इदम्पि समत्थनं होति, न तथा जरामरणविपरियायेति जरामरणतण्हानं अत्थतो अञ्ञत्तम्पि समत्थितं होतीति एतमत्थं दस्सेति ‘‘इमाय युत्तिया’’तिआदिना.

यदि इच्छातण्हानं अत्थतो अनञ्ञत्तं, अथ कस्मा भगवता इमिस्सा गाथाय द्विधा वुत्ताति? तत्थ परिहारमाह ‘‘यं पनिद’’न्तिआदिना. तत्थ यन्ति किरियापरामसनं. अभिलपितन्ति वुत्तं यं इदं अभिलपनं, इदं बाहिरानं रूपादीनं वत्थूनं आरम्मणवसेन, आरम्मणकरणवसेन वा योजेतब्बं. द्वीहि धम्मेहीति द्वीहि पकतीहि. का पन ता पकतियोति? अप्पत्तस्स विसयस्स एसनवसेन इच्छा, पत्तस्स अप्पत्तस्स वा पातुकामतावसेन तण्हा, अयमेतासं विसेसो. यदिपि एवं, तथापि सब्बा तण्हा रूपादिविसयं गिलित्वा परिनिट्ठपेत्वा गहणेन एकसभावा एवाति दस्सेन्तो ‘‘सब्बा हि तण्हा अज्झोसानलक्खणेन एकलक्खणा’’ति आह. इदानि तमत्थं उपमाय पकासेन्तो ‘‘सब्बो अग्गी’’तिआदिमाह, तं सुविञ्ञेय्यमेव.

अयं पन न केवलं तण्हा आरम्मणे पवत्तिविसेसेन द्वीहि एव नामेहि वुत्ता, अथ खो अनेकेहिपि परियायेहीति दस्सनत्थं ‘‘इच्छाइतिपी’’तिआदि वुत्तं.

तत्थ इच्छन्ति ताय आरम्मणानीति इच्छा. तण्हायनट्ठेन तण्हा. पीळाजननतो दुरुद्धारणतो च विसपीतं सल्लं वियाति सल्लं. सन्तापनट्ठेन धूपायना. आकड्ढनट्ठेन सीघसोता सरिता वियाति सरिता, अल्लट्ठेन वा सरिता, ‘‘सरितानि सिनेहितानि च, सोमनस्सानि भवन्ति जन्तुनो’’ति (ध. प. ३४१) हि वुत्तं. अल्लानि चेव सिनिद्धानि चाति अयमेत्थ अत्थो. विसत्तिकाति विसताति विसत्तिका. विसटाति विसत्तिका. विसमाति विसत्तिका. विसालाति विसत्तिका. विसक्कतीति विसत्तिका. विसंवादिकाति विसत्तिका. विसंहरतीति विसत्तिका. विसमूलाति विसत्तिका. विसफलाति विसत्तिका. विसपरिभोगाति विसत्तिका. विसता वा पन सा तण्हा रूपे सद्दे गन्धे रसे फोट्ठब्बे धम्मे कुले गणे विसता वित्थताति विसत्तिका.

सिनेहनवसेन सिनेहो. नानागतीसु किलमथुप्पादनेन किलमथो. पलिवेठनट्ठेन लता वियाति लता. ‘‘लता उप्पज्ज तिट्ठती’’ति (ध. प. ३४०) हि वुत्तं. ममन्ति मञ्ञनवसेन मञ्ञना. दूरगतम्पि आकड्ढित्वा बन्धनट्ठेन बन्धो. आसीसनट्ठेन आसा. आरम्मणरसं पातुकामतावसेन पिपासा. अभिनन्दनट्ठेन अभिनन्दना. इतीति एवं आरम्मणे पवत्तिविसेसेन अनेकेहि नामेहि गय्हमानापि सब्बा तण्हा अज्झोसानलक्खणेन एकलक्खणाति यथावुत्तमत्थं निगमेति.

पुन तण्हाय अनेकेहि नामेहि गहितभावमेव ‘‘यथा चा’’तिआदिना उपचयेन दस्सेति. तत्थ वेवचनेति वेवचनहारविभङ्गे. ‘‘आसा च पिहा’’ति गाथाय (नेत्ति. ३७; पेटको. ११) अत्थं तत्थेव वण्णयिस्साम. अविगतरागस्सातिआदीसु रञ्जनट्ठेन रागो, छन्दनट्ठेन छन्दो, पियायनट्ठेन पेमं, परिदहनट्ठेन परिदाहोति तण्हाव वुत्ता. तेनेवाह – ‘‘तण्हायेतं वेवचन’’न्ति. एवं युज्जतीति एवं इच्छातण्हानं अत्थतो अनञ्ञत्ता ‘‘तयो पञ्हा’’ति यं वुत्तं, तं युज्जति युत्तिया सङ्गच्छतीति अत्थो.

२१. एवं ‘‘केनस्सुब्भाहतो लोको’’ति (सं. नि. १.६६) गाथाय ‘‘तयो पञ्हा’’ति पञ्हत्तयभावे युत्तिं दस्सेत्वा इदानि अञ्ञेहि पकारेहि युत्तिगवेसनं दस्सेन्तो ‘‘सब्बो दुक्खूपचारो’’तिआदिमाह. तत्थ दुक्खूपचारोति दुक्खप्पवत्ति. कामतण्हासङ्खारमूलकोति कामतण्हापच्चयसङ्खारहेतुकोति युज्जतीति अधिप्पायो. निब्बिदूपचारोति निब्बिदापवत्ति कामानं विपरिणामञ्ञथाभावा उप्पज्जमाना अनभिरति ञाणनिब्बिदा च. कामतण्हापरिक्खारमूलकोति कामतण्हाय परिक्खारभूतवत्थुकामहेतुको. तत्थ अनभिरतिसङ्खाता निब्बिदा कामतण्हापरिक्खारमूलिका, न ञाणनिब्बिदाति सब्बो निब्बिदूपचारो कामतण्हापरिक्खारमूलकोति न पन युज्जतीति वुत्तं. इमाय युत्तियाति नयं दस्सेति. इदं वुत्तं होति – यथा पञ्हत्तयभावे युत्ति वुत्ता, यथा च दुक्खूपचारनिब्बिदूपचारेसु, एवं इमाय युत्तिया इमिना योगेन नयेन अञ्ञमञ्ञेहि कारणेहि तंतंपाळिप्पदेसे अनुरूपेहि अञ्ञथा अञ्ञेहि हेतूहि युत्ति गवेसितब्बाति.

इदानि तं नयदस्सनं संखित्तन्ति वित्थारतो विभजित्वा दस्सेतुं ‘‘यथा हि भगवा’’तिआदि आरद्धं. तत्थायं सङ्खेपत्थो – रागदोसमोहचरितानं यथाक्कमं असुभमेत्तापच्चयाकारकथा रागादिविनयनतो सप्पायाति अयं सासनयुत्ति. एवमवट्ठिते यदि रागचरितस्स मेत्ताचेतोविमुत्तिं देसेय्य, सा देसना न युज्जति असप्पायभावतो. तथा सुखापटिपदादयोति. ननु च सुखापटिपदादयो पटिपत्तिया सम्भवन्ति, न देसनायाति? सच्चमेतं, इध पन रागचरितोति तिब्बकिलेसो रागचरितोति अधिप्पेतो. तस्स दुक्खाय पटिपदाय भावना समिज्झति. यस्स च दुक्खाय पटिपदाय भावना समिज्झति, तस्स गरुतरा असुभदेसना सप्पाया, यस्स गरुतरा असुभदेसना सप्पाया, न तस्स मन्दकिलेसस्स विय लहुकतराति इममत्थं दस्सेन्तो आह – ‘‘सुखं वा पटिपदं…पे… देसेय्य न युज्जति देसना’’ति. इमिना नयेन सेसपदेसुपि यथासम्भवं अत्थो वत्तब्बो. एत्थ च अयुत्तपरिहारेन युत्तिसमधिगमोति युत्तिविचारणाय अयुत्तिपि गवेसितब्बाति वुत्तं – ‘‘यदि हि…पे… न युज्जति देसना’’ति. सेसेसुपि एसेव नयो. एवं यं किञ्चीतिआदि युत्तिहारयोजनाय नयदस्सनमेव.

तत्थ एवन्ति इमिना नयेन. यं किञ्चीति अञ्ञम्पि यं किञ्चि. अनुलोमप्पहानन्ति पहानस्स अनुरूपं, पहानसमत्थन्ति अत्थो. सुत्ते अनवसेसानं पदत्थानं अनुपदविचारणा विचयो हारो, विचयहारसंवण्णनाय निद्धारितेसु अत्थेसु युत्तिगवेसनं सुकरन्ति आह – ‘‘सब्बं तं विचयेन हारेन विचिनित्वा युत्तिहारेन योजेतब्ब’’न्ति. यावतिका ञाणस्स भूमीति संवण्णेन्तस्स आचरियस्स यं ञाणं यं पटिभानं, तस्स यत्तको विसयो, तत्तको युत्तिहारविचारोति अत्थो. तं किस्स हेतु? अनन्तनयो समन्तभद्दको विमद्दक्खमो विचित्तदेसनो च सद्धम्मोति.

एवं नयदस्सनवसेनेव युत्तिहारयोजना दस्सिताति तं ब्रह्मविहारफलसमापत्तिनवानुपुब्बसमापत्तिवसिभावेहि विभजित्वा दस्सेतुं ‘‘मेत्ताविहारिस्स सतो’’तिआदि आरद्धं. तत्थ मेत्ताविहारिस्साति मेत्ताविहारलाभिनो. सतोति समानस्स, तथाभूतस्साति अत्थो. ब्यापादोति पदोसो. चित्तं परियादाय ठस्सतीति चित्तं अभिभविस्सति. यस्मा पन कुसलाकुसलानं धम्मानं अपुब्बं अचरिमं पवत्ति नाम नत्थि, तस्मा समापत्तितो वुट्ठानस्स अपरभागेति दस्सनत्थं ‘‘ठस्सती’’ति वुत्तं. न युज्जति देसनाति ब्यापादपटिपक्खत्ता मेत्ताय तादिसी कथा न युत्ताति अत्थो. ब्यापादो पहानं अब्भत्थं गच्छतीति युज्जति देसनाति यथावुत्तकारणतो एव अयं कथा युत्ताति. सेसवारेसुपि इमिनाव नयेन अत्थो वेदितब्बो. अनुत्तानं एव वण्णयिस्साम.

अनिमित्तविहारिस्साति अनिच्चानुपस्सनामुखेन पटिलद्धफलसमापत्तिविहारस्स. निमित्तानुसारीति सङ्खारनिमित्तानुसारी. तेन तेनेवाति निच्चादीसु यं यं पहीनं, तेन तेनेव निमित्तेन. अस्मीति विगतन्ति पञ्चसु उपादानक्खन्धेसु दिट्ठिमानवसेन यं अस्मीति मञ्ञितं, तं विगतं. तमेवत्थं विवरति ‘‘अयमहमस्मीति न समनुपस्सामी’’ति. विचिकिच्छाकथंकथासल्लन्ति विनयकुक्कुच्चस्सापि कथं कथन्ति पवत्तिसब्भावतो विचिकिच्छापदेन विसेसितं. न युज्जति देसनाति विचिकिच्छाय पहानेकट्ठभावतो न युत्तायं कथा.

पठमं झानं समापन्नस्साति पठमज्झानसमङ्गिनो. कामरागब्यापादा विसेसाय संवत्तन्तीति न युज्जतीति यस्मा नीवरणेसु अप्पहीनेसु पठमज्झानस्स उपचारम्पि न सम्पज्जति, पगेव झानं, तस्मा कामरागब्यापादा विसेसाय दुतियज्झानाय संवत्तन्तीति न युत्तायं कथा. यथालद्धस्स पन पठमज्झानस्स कामरागब्यापादा परियुट्ठानप्पत्ता हानाय संवत्तन्तीति युज्जति देसना युत्ता कथाति, एवं सब्बत्थ योजेतब्बं. अवितक्कसहगता सञ्ञामनसिकारा नाम सह उपचारेन दुतियज्झानधम्मा, आरम्मणकरणत्थो हेत्थ सहगत-सद्दो. हानायाति पठमज्झानतो परिहानाय. विसेसायाति दुतियज्झानाय. इमिना नयेन तत्थ तत्थ हानन्ति, विसेसोति च वुत्तधम्मा वेदितब्बा. वितक्कविचारसहगताति पठमज्झानधम्मा, कामावचरधम्मा एव वा. उपेक्खासुखसहगताति उपचारेन सद्धिं दुतियज्झानधम्मा, तत्रमज्झत्तुपेक्खा हि इध उपेक्खाति अधिप्पेता. पीतिसुखसहगताति सह उपचारेन ततियज्झानधम्मा. उपेक्खासतिपारिसुद्धिसहगताति चतुत्थज्झानधम्मा.

सञ्ञूपचाराति पटुसञ्ञाकिच्चं करोन्ता एव ये केचि चित्तुप्पादा, ‘‘आकिञ्चञ्ञायतनधम्मा’’तिपि वदन्ति. सञ्ञावेदयितनिरोधसहगताति ‘‘सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरिस्सामी’’ति तस्स परिकम्मवसेन पवत्तधम्मा. ते पन यस्मा नेवसञ्ञानासञ्ञायतनसमापत्तियं ठितेनेव सक्का सञ्ञावेदयितनिरोधं उपसम्पज्ज विहरितुं, न ततो परिहीनेन, तस्मा नेवसञ्ञानासञ्ञायतनसमापत्तिया हानाय संवत्तन्तीति न युत्ता कथा. विसेसाय संवत्तन्तीति पन युत्ता कथाति आह – ‘‘हानाय…पे… देसना’’ति. कल्लतापरिचितन्ति समत्थभावेन परिचितं, यथावुत्तसमापत्तीसु वसिभावेन परिचितन्ति अत्थो. तेनेवाह – ‘‘अभिनीहारं खमती’’ति. सेसं सब्बं उत्तानमेव.

अपि चेत्थ अप्पटिक्कूलसञ्ञामुखेन कामच्छन्दो वञ्चेतीति युज्जति. पटिक्कूलसञ्ञापतिरूपताय ब्यापादो वञ्चेतीति युज्जति. समाधिमुखेन थिनमिद्धं वञ्चेतीति युज्जति. वीरियारम्भमुखेन उद्धच्चं वञ्चेतीति युज्जति. सिक्खाकामतामुखेन कुक्कुच्चं वञ्चेतीति युज्जति. उभयपक्खसन्तीरणमुखेन विचिकिच्छा वञ्चेतीति युज्जति. इट्ठानिट्ठसमुपेक्खनमुखेन सम्मोहो वञ्चेतीति युज्जति. अत्तञ्ञुतामुखेन अत्तनि अपरिभवने मानो वञ्चेतीति युज्जति. वीमंसामुखेन हेतुपतिरूपकपरिग्गहेन मिच्छादिट्ठि वञ्चेतीति युज्जति. विरत्ततापतिरूपकेन सत्तेसु अदयापन्नता वञ्चेतीति युज्जति. अनुञ्ञातपटिसेवनपतिरूपताय कामसुखल्लिकानुयोगो वञ्चेतीति युज्जति. आजीवपारिसुद्धिपतिरूपताय असंविभागसीलता वञ्चेतीति युज्जति. संविभागसीलतापतिरूपताय मिच्छाजीवो वञ्चेतीति युज्जति. असंसग्गविहारितापतिरूपताय असङ्गहसीलता वञ्चेतीति युज्जति. सङ्गहसीलतापतिरूपताय अननुलोमिकसंसग्गो वञ्चेतीति युज्जति. सच्चवादितापतिरूपताय पिसुणवाचा वञ्चेतीति युज्जति. अपिसुणवादितापतिरूपताय अनत्थकामता वञ्चेतीति युज्जति. पियवादितापतिरूपताय चाटुकम्यता वञ्चेतीति युज्जति. मितभाणितापतिरूपताय असम्मोदनसीलता वञ्चेतीति युज्जति. सम्मोदनसीलतापतिरूपताय माया साठेय्यञ्च वञ्चेतीति युज्जति. निग्गय्हवादितापतिरूपताय फरुसवाचता वञ्चेतीति युज्जति. पापगरहितापतिरूपताय परवज्जानुपस्सिता वञ्चेतीति युज्जति. कुलानुद्धयतापतिरूपताय कुलमच्छरियं वञ्चेतीति युज्जति. आवासचिरट्ठितिकामतामुखेन आवासमच्छरियं वञ्चेतीति युज्जति. धम्मपरिबन्धपरिहरणमुखेन धम्ममच्छरियं वञ्चेतीति युज्जति. धम्मदेसनाभिरतिमुखेन भस्सारामता वञ्चेतीति युज्जति. अफरुसवाचतागणानुग्गहकरणमुखेन सङ्गणिकारामता वञ्चेतीति युज्जति. पुञ्ञकामतापतिरूपताय कम्मारामता वञ्चेतीति युज्जति. संवेगपतिरूपेन चित्तसन्तापो वञ्चेतीति युज्जति. सद्धालुतापतिरूपताय अपरिक्खता वञ्चेतीति युज्जति. वीमंसनापतिरूपेन अस्सद्धियं वञ्चेतीति युज्जति. अत्ताधिपतेय्यपतिरूपेन गरूनं अनुसासनिया अप्पदक्खिणग्गाहिता वञ्चेतीति युज्जति. धम्माधिपतेय्यपतिरूपेन सब्रह्मचारीसु अगारवं वञ्चेतीति युज्जति. लोकाधिपतेय्यपतिरूपेन अत्तनि धम्मे च परिभवो वञ्चेतीति युज्जति. मेत्तायनामुखेन रागो वञ्चेतीति युज्जति. करुणायनापतिरूपेन सोको वञ्चेतीति युज्जति. मुदिताविहारपतिरूपेन पहासो वञ्चेतीति युज्जति. उपेक्खाविहारपतिरूपेन कुसलेसु धम्मेसु निक्खित्तछन्दता वञ्चेतीति युज्जति. एवं आगमपतिरूपकअधिगमपतिरूपकादीनम्पि तथा तथा वञ्चनसभावो युत्तितो वेदितब्बो. एवं आगमानुसारेन युत्तिगवेसना कातब्बाति.

युत्तिहारविभङ्गवण्णना निट्ठिता.