१६. समारोपनहारविभङ्गवण्णना

५०. तत्थ कतमो समारोपनो हारोति समारोपनहारविभङ्गो. तत्थ एकस्मिं पदट्ठानेति यस्मिं किस्मिञ्चि एकस्मिं कारणभूते धम्मे सुत्तेन गहिते. यत्तकानि पदट्ठानानि ओतरन्तीति यत्तकानि अञ्ञेसं कारणभूतानि तस्मिं धम्मे समोसरन्ति. सब्बानि तानि समारोपयितब्बानीति सब्बानि तानि पदट्ठानानि पदट्ठानभूता धम्मा सम्मा निद्धारणवसेन आनेत्वा देसनाय आरोपेतब्बा, देसनारुळ्हे विय कत्वा कथेतब्बाति अत्थो. यथा आवट्टे हारे ‘‘एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठान’’न्ति (नेत्ति. ४ निद्देसवार) वचनतो अनेकेसं पदट्ठानानं परियेसना वुत्ता, एवमिधापि बहूनं पदट्ठानानं समारोपना कातब्बाति दस्सेन्तो ‘‘यथा आवट्टे हारे’’ति आह. न केवलं पदट्ठानवसेनेव समारोपना, अथ खो वेवचनभावनापहानवसेनपि समारोपना कातब्बाति दस्सेन्तो ‘‘तत्थ समारोपना चतुब्बिधा’’तिआदिमाह.

कस्मा पनेत्थ पदट्ठानवेवचनानि गहितानि, ननु पदट्ठानवेवचनहारे एव अयमत्थो विभावितोति? सच्चमेतं, इध पन पदट्ठानवेवचनग्गहणं भावनापहानानं अधिट्ठानविसयदस्सनत्थञ्चेव तेसं अधिवचनविभागदस्सनत्थञ्च. एवञ्हि भावनापहानानि सुविञ्ञेय्यानि होन्ति सुकरानि च पञ्ञापेतुं. इदं पदट्ठानन्ति इदं तिविधं सुचरितं बुद्धानं सासनस्स ओवादस्स विसयाधिट्ठानभावतो पदट्ठानं. तत्थ ‘‘कायिक’’न्तिआदिना तीहि सुचरितेहि सीलादयो तयो खन्धे समथविपस्सना ततियचतुत्थफलानि च निद्धारेत्वा दस्सेति, तं सुविञ्ञेय्यमेव. वनीयतीति वनं, वनति, वनुते इति वा वनं. तत्थ यस्मा पञ्च कामगुणा कामतण्हाय, निमित्तग्गाहो अनुब्यञ्जनग्गाहस्स, अज्झत्तिकबाहिरानि आयतनानि तप्पटिबन्धछन्दरागादीनं, अनुसया च परियुट्ठानानं कारणानि होन्ति, तस्मा तमत्थं दस्सेतुं ‘‘पञ्च कामगुणा’’तिआदि वुत्तं.

५१. अयं वेवचनेन समारोपनाति यो ‘‘रागविरागा चेतोविमुत्ति सेक्खफलं, अनागामिफलं, कामधातुसमतिक्कमन’’न्ति एतेहि परियायवचनेहि ततियफलस्स निद्देसो, तथा यो ‘‘अविज्जाविरागा पञ्ञाविमुत्ति असेक्खफलं, अग्गफलं अरहत्तं, तेधातुकसमतिक्कमन’’न्ति एतेहि परियायवचनेहि चतुत्थफलस्स निद्देसो, यो च ‘‘पञ्ञिन्द्रिय’’न्तिआदीहि परियायवचनेहि पञ्ञाय निद्देसो, अयं वेवचनेहि च समारोपना.

तस्मातिह त्वं, भिक्खु, काये कायानुपस्सी विहराहीतिआदि लक्खणहारविभङ्गवण्णनायं वुत्तनयेन वेदितब्बं. केवलं तत्थ एकलक्खणत्ता अवुत्तानम्पि वुत्तभावदस्सनवसेनेव आगतं, इध भावनासमारोपनवसेनाति अयमेव विसेसो. कायानुपस्सना विसेसतो असुभानुपस्सना एव कामरागतदेकट्ठकिलेसानं एकन्तपटिपक्खाति असुभसञ्ञा कबळीकाराहारपरिञ्ञाय परिबन्धकिलेसा कामुपादानं कामयोगो अभिज्झाकायगन्थो कामासवो कामोघो रागसल्लं रूपधम्मपरिञ्ञाय पटिपक्खकिलेसा रूपधम्मेसु रागो छन्दागतिगमनन्ति एतेसं पापधम्मानं पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘काये कायानुपस्सी विहरन्तो’’तिआदिना.

तथा वेदनानुपस्सना विसेसतो दुक्खानुपस्सनाति, सा –

‘‘यो सुखं दुक्खतो अद्द, दुक्खमद्दक्खि सल्लतो;

अदुक्खमसुखं सन्तं, अदक्खि नं अनिच्चतो’’ति. (सं. नि. ४.२५३; इतिवु. ५३) –

आदिवचनतो सब्बं वेदनं ‘‘दुक्ख’’न्ति पस्सन्ती सुखसञ्ञाय वेदनाहेतुपरिञ्ञाय परिबन्धकिलेसानं गोसीलादीहि भवसुद्धि होतीति वेदनास्सादेन पवत्तस्स भवुपादानसङ्खातस्स सीलब्बतुपादानस्स वेदनावसेन ‘‘अनत्थं मे अचरी’’तिआदिनयप्पवत्तस्स (दी. नि. ३.३४०; अ. नि. ९.२९; १०.७९; ध. स. १२३७; विभ. ९०९, ९६०) ब्यापादकायगन्थस्स दोससल्लस्स वेदनास्सादवसेनेव पवत्तस्स भवयोगभवाभवभवोघसङ्खातस्स भवरागस्स भवपरिञ्ञाय परिबन्धककिलेसानं वेदनाविसयस्स रागस्स दोसागतिगमनस्स च पहानाय संवत्ततीति एतमत्थं दस्सेति ‘‘वेदनासु वेदनानुपस्सी’’तिआदिना.

तथा चित्तानुपस्सना विसेसतो अनिच्चानुपस्सनाति, सा चित्तं ‘‘अनिच्च’’न्ति पस्सन्ती तत्थ येभुय्येन सत्ता निच्चसञ्ञिनोति निच्चसञ्ञाय विञ्ञाणाहारपरिञ्ञाय परिबन्धकिलेसानं निच्चाभिनिवेसपटिपक्खतो एव दिट्ठुपादानं दिट्ठियोगसीलब्बतपरामासकायगन्थदिट्ठासवदिट्ठोघसङ्खाताय दिट्ठिया निच्चसञ्ञानिमित्तस्स ‘‘सेय्योहमस्मी’’तिआदिनयप्पवत्तस्स (ध. स. १२३९; विभ. ८३२, ८६६, ९६२) मानसल्लस्स सञ्ञापरिञ्ञाय पटिपक्खकिलेसानं सञ्ञाय रागस्स दिट्ठाभिनिवेसस्स अप्पहीनत्ता उप्पज्जनकस्स भयागतिगमनस्स च पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘चित्ते चित्तानुपस्सी’’तिआदिना.

तथा धम्मानुपस्सना विसेसतो अनत्तसञ्ञाति, सा सङ्खारेसु अत्तसञ्ञाय मनोसञ्चेतनाहारपरिञ्ञाय पटिपक्खकिलेसानं सक्कायदिट्ठिया ‘‘इदमेव सच्च’’न्ति (म. नि. २.१८७, २०२-२०३; ३.२७) पवत्तस्स मिच्छाभिनिवेसस्स मिच्छाभिनिवेसहेतुकाय अविज्जायोगअविज्जासवअविज्जोघमोहसल्लसङ्खाताय अविज्जाय सङ्खारपरिञ्ञाय परिबन्धकिलेसानं सङ्खारेसु रागस्स मोहागतिगमनस्स च पहानाय संवत्ततीति इममत्थं दस्सेति ‘‘धम्मेसु धम्मानुपस्सी विहरन्तो’’तिआदिना. सेसं उत्तानमेव.

समारोपनहारविभङ्गवण्णना निट्ठिता.

निट्ठिता च हारविभङ्गवण्णना.