१२. भद्रावुधमाणवसुत्तनिद्देसवण्णना
७०. द्वादसमे भद्रावुधसुत्ते – ओकञ्जहन्ति आलयं जहं. तण्हच्छिदन्ति तण्हाकायच्छिदं. अनेजन्ति लोकधम्मेसु निक्कम्पं. नन्दिञ्जहन्ति अनागतरूपादिपत्थनाजहं. एका एव हि सा तण्हा, थुतिवसेन इध नानप्पकारतो वुत्ता. कप्पञ्जहन्ति दुविधं कप्पजहं. अभियाचेति अतिविय याचामि. सुत्वान नागस्स अपनमिस्सन्ति इतोति नागस्स तव भगवतो वचनं सुत्वा इतो पासाणकचेतियतो बहुजना पक्कमिस्सन्तीति अधिप्पायो.
ये उपयुपादानाति तण्हादिट्ठीहि उपगन्त्वा गहिता. चेतसो अधिट्ठानाति चित्ते पतिट्ठिता. अभिनिवेसानुसयाति पतिट्ठहित्वा आगन्त्वा सयिता.
७१. जनपदेहि सङ्गताति अङ्गादीहि जनपदेहि इध समागता. वियाकरोहीति धम्मं देसेहि.
सङ्गताति एते खत्तियादयो एकीभूता. समागताति वुत्तप्पकारेहि जनपदेहि आगता. समोहिताति रासीभूता. सन्निपतिताति अधियोगा.
७२. अथस्स आसयानुलोमेन धम्मं देसेन्तो भगवा उपरूपरिगाथायो अभासि. तत्थ आदानतण्हन्ति रूपादीनं आदायिकं गहणतण्हं, तण्हुपादानन्ति वुत्तं होति. यं यञ्हि लोकस्मिमुपादियन्तीति एतेसु उद्धादिभेदेसु यं यं गण्हन्ति. तेनेव मारो अन्वेतिजन्तुन्ति तेनेव उपादानपच्चयनिब्बत्तकम्माभिसङ्खारनिब्बत्तवसेन पटिसन्धिक्खन्धमारो तं सत्तं अनुगच्छति.
७३. तस्मा पजानन्ति तस्मा एतमादीनवं अनिच्चादिवसेन वा सङ्खारे पजानन्तो. आदानसत्ते इति पेक्खमानो, पजं इमं मच्चुधेय्ये विसत्तन्ति आदातब्बट्ठेन आदानेसु रूपादीसु सत्ते सब्बलोके इमं पजं मच्चुधेय्ये लग्गं पेक्खमानो, आदानसत्ते वा आदानाभिनिविट्ठे पुग्गले आदानसङ्गहेतुञ्च इमं पजं मच्चुधेय्ये लग्गं ततो वीतिक्कमितुं असमत्थं इति पेक्खमानो किञ्चनं सब्बलोके न उपादियेथाति. सेसं सब्बत्थ पाकटमेव.
एवं भगवा इदम्पि सुत्तं अरहत्तनिकूटेनेव देसेसि, देसनापरियोसाने च पुब्बसदिसो एव धम्माभिसमयो अहोसीति.
सद्धम्मप्पज्जोतिकाय चूळनिद्देस-अट्ठकथाय
भद्रावुधसुत्तनिद्देसवण्णना निट्ठिता.