२. पदुमवग्गो
[२६१] १. पदुमजातकवण्णना
यथा केसा च मस्सू चाति इदं सत्था जेतवने विहरन्तो आनन्दबोधिम्हि मालापूजकारके भिक्खू आरब्भ कथेसि. वत्थु कालिङ्गबोधिजातके आविभविस्सति. सो पन आनन्दत्थेरेन रोपितत्ता ‘‘आनन्दबोधी’’ति जातो. थेरेन हि जेतवनद्वारकोट्ठके बोधिस्स रोपितभावो सकलजम्बुदीपे पत्थरि. अथेकच्चे जनपदवासिनो भिक्खू ‘‘आनन्दबोधिम्हि मालापूजं करिस्सामा’’ति जेतवनं आगन्त्वा सत्थारं वन्दित्वा पुनदिवसे सावत्थिं पविसित्वा उप्पलवीथिं गन्त्वा मालं अलभित्वा आगन्त्वा आनन्दत्थेरस्स आरोचेसुं – ‘‘आवुसो, मयं ‘बोधिम्हि मालापूजं करिस्सामा’ति उप्पलवीथिं गन्त्वा एकमालम्पि न लभिम्हा’’ति. थेरो ‘‘अहं वो, आवुसो, आहरिस्सामी’’ति उप्पलवीथिं गन्त्वा बहू नीलुप्पलकलापे उक्खिपापेत्वा आगम्म तेसं दापेसि, ते तानि गहेत्वा बोधिस्स पूजं करिंसु. तं पवत्तिं सुत्वा धम्मसभायं भिक्खू थेरस्स गुणकथं समुट्ठापेसुं – ‘‘आवुसो, जानपदा भिक्खू अप्पपुञ्ञा उप्पलवीथिं गन्त्वा मालं न लभिंसु, थेरो पन गन्त्वाव आहरापेसी’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव वत्तुछेका कथाकुसला मालं लभन्ति, पुब्बेपि लभिंसुयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सेट्ठिपुत्तो अहोसि. अन्तोनगरे च एकस्मिं सरे पदुमानि पुप्फन्ति. एको छिन्ननासो पुरिसो तं सरं रक्खति. अथेकदिवसं बाराणसियं उस्सवे घुट्ठे मालं पिळन्धित्वा उस्सवं कीळितुकामा तयो सेट्ठिपुत्ता ‘‘नासच्छिन्नस्स अभूतेन वण्णं वत्वा मालं याचिस्सामा’’ति तस्स पदुमानि भञ्जनकाले सरस्स सन्तिकं गन्त्वा एकमन्तं अट्ठंसु.
तेसु एको तं आमन्तेत्वा पठमं गाथमाह –
३१. ‘‘यथा केसा च मस्सू च, छिन्नं छिन्नं विरूहति;
एवं रुहतु ते नासा, पदुमं देहि याचितो’’ति.
सो तस्स कुज्झित्वा पदुमं न अदासि.
अथस्स दुतियो दुतियं गाथमाह –
३२. ‘‘यथा सारदिकं बीजं, खेत्ते वुत्तं विरूहति;
एवं रुहतु ते नासा, पदुमं देहि याचितो’’ति.
तत्थ सारदिकन्ति सरदसमये गहेत्वा निक्खित्तं सारसम्पन्नं बीजं. सो तस्सपि कुज्झित्वा पदुमं न अदासि.
अथस्स ततियो ततियं गाथमाह –
३३. ‘‘उभोपि पलपन्तेते, अपि पद्मानि दस्सति;
वज्जुं वा ते न वा वज्जुं, नत्थि नासाय रूहना;
देहि सम्म पदुमानि, अहं याचामि याचितो’’ति.
तत्थ उभोपि पलपन्तेतेति एते द्वेपि मुसा वदन्ति. अपि पद्मानीति ‘‘अपि नाम नो पदुमानि दस्सती’’ति चिन्तेत्वा एवं वदन्ति. वज्जुं वा ते न वा वज्जुन्ति ‘‘तव नासा रुहतू’’ति एवं वदेय्युं वा न वा वदेय्युं, एतेसं वचनं अप्पमाणं, सब्बत्थापि नत्थि नासाय रुहना, अहं पन ते नासं पटिच्च न किञ्चि वदामि, केवलं याचामि, तस्स मे देहि, सम्म, पदुमानि याचितोति.
तं सुत्वा पदुमसरगोपको ‘‘इमेहि द्वीहि मुसावादो कथितो, तुम्हेहि सभावो कथितो, तुम्हाकं अनुच्छविकानि पदुमानी’’ति महन्तं पदुमकलापं आदाय तस्स दत्वा अत्तनो पदुमसरमेव गतो.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पदुमलाभी सेट्ठिपुत्तो अहमेव अहोसि’’न्ति.
पदुमजातकवण्णना पठमा.
[२६२] २. मुदुपाणिजातकवण्णना
पाणि चे मुदुको चस्साति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुं आरब्भ कथेसि. तञ्हि सत्था धम्मसभं आनीतं ‘‘सच्चं किर त्वं, भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, इत्थियो नामेता किलेसवसेन गमनतो अरक्खिया, पोराणकपण्डितापि अत्तनो धीतरं रक्खितुं नासक्खिंसु, पितरा हत्थे गहेत्वा ठिताव पितरं अजानापेत्वा किलेसवसेन पुरिसेन सद्धिं पलायी’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तित्वा वयप्पत्तो तक्कसिलायं सब्बसिप्पानि उग्गण्हित्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. सो धीतरञ्च भागिनेय्यञ्च द्वेपि अन्तोनिवेसने पोसेन्तो एकदिवसं अमच्चेहि सद्धिं निसिन्नो ‘‘ममच्चयेन मय्हं भागिनेय्यो राजा भविस्सति, धीतापि मे तस्स अग्गमहेसी भविस्सती’’ति वत्वा अपरभागे भागिनेय्यस्स वयप्पत्तकाले पुन अमच्चेहि सद्धिं निसिन्नो ‘‘मय्हं भागिनेय्यस्स अञ्ञस्स रञ्ञो धीतरं आनेस्साम, मय्हं धीतरम्पि अञ्ञस्मिं राजकुले दस्साम, एवं नो ञातका बहुतरा भविस्सन्ती’’ति आह. अमच्चा सम्पटिच्छिंसु.
अथ राजा भागिनेय्यस्स बहिगेहं दापेसि, अन्तो पवेसनं निवारेसि. ते पन अञ्ञमञ्ञं पटिबद्धचित्ता अहेसुं. कुमारो ‘‘केन नु खो उपायेन राजधीतरं बहि नीहरापेय्य’’न्ति चिन्तेन्तो ‘‘अत्थि उपायो’’ति धातिया लञ्जं दत्वा ‘‘किं, अय्यपुत्त, किच्च’’न्ति वुत्ते ‘‘अम्म, कथं नु खो राजधीतरं बहि कातुं ओकासं लभेय्यामा’’ति आह. ‘‘राजधीताय सद्धिं कथेत्वा जानिस्सामी’’ति. ‘‘साधु, अम्मा’’ति. सा गन्त्वा ‘‘एहि, अम्म, सीसे ते ऊका गण्हिस्सामी’’ति तं नीचपीठके निसीदापेत्वा सयं उच्चे निसीदित्वा तस्सा सीसं अत्तनो ऊरूसु ठपेत्वा ऊका गण्हयमाना राजधीताय सीसं नखेहि विज्झि. राजधीता ‘‘नायं अत्तनो नखेहि विज्झति, पितुच्छापुत्तस्स मे कुमारस्स नखेहि विज्झती’’ति ञत्वा ‘‘अम्म, त्वं कुमारस्स सन्तिकं अगमासी’’ति पुच्छि. ‘‘आम, अम्मा’’ति. ‘‘किं तेन सासनं कथित’’न्ति? ‘‘तव बहिकरणूपायं पुच्छति, अम्मा’’ति. राजधीता ‘‘पण्डितो होन्तो जानिस्सती’’ति पठमं गाथं बन्धित्वा ‘‘अम्म, इमं उग्गहेत्वा कुमारस्स कथेही’’ति आह.
३४. ‘‘पाणि चे मुदुको चस्स, नागो चस्स सुकारितो;
अन्धकारो च वस्सेय्य, अथ नून तदा सिया’’ति.
सा तं उग्गण्हित्वा कुमारस्स सन्तिकं गन्त्वा ‘‘अम्म, राजधीता किमाहा’’ति वुत्ते ‘‘अय्यपुत्त, अञ्ञं किञ्चि अवत्वा इमं गाथं पहिणी’’ति तं गाथं उदाहासि. कुमारो च तस्सत्थं ञत्वा ‘‘गच्छ, अम्मा’’ति तं उय्योजेसि.
गाथायत्थो – सचे ते एकिस्सा चूळुपट्ठाकाय मम हत्थो विय हत्थो मुदु अस्स, यदि च ते आनेञ्जकारणं सुकारितो एको हत्थी अस्स, यदि च तं दिवसं चतुरङ्गसमन्नागतो अतिविय बहलो अन्धकारो अस्स, देवो च वस्सेय्य. अथ नून तदा सियाति तादिसे काले इमे चत्तारो पच्चये आगम्म एकंसेन ते मनोरथस्स मत्थकगमनं सियाति.
कुमारो एतमत्थं तथतो ञत्वा एकं अभिरूपं मुदुहत्थं चूळुपट्ठाकं सज्जं कत्वा मङ्गलहत्थिगोपकस्स लञ्जं दत्वा हत्थिं आनेञ्जकारणं कारेत्वा कालं आगमेन्तो अच्छि.
अथेकस्मिं काळपक्खुपोसथदिवसे मज्झिमयामसमनन्तरे घनकाळमेघो वस्सि. सो ‘‘अयं दानि राजधीताय वुत्तदिवसो’’ति वारणं अभिरुहित्वा मुदुहत्थकं चूळुपट्ठाकं हत्थिपिट्ठे निसीदापेत्वा गन्त्वा राजनिवेसनस्स आकासङ्गणाभिमुखे ठाने हत्थिं महाभित्तियं अल्लीयापेत्वा वातपानसमीपे तेमेन्तो अट्ठासि. राजापि धीतरं रक्खन्तो अञ्ञत्थ सयितुं न देति, अत्तनो सन्तिके चूळसयने सयापेति. सापि ‘‘अज्ज कुमारो आगमिस्सती’’ति ञत्वा निद्दं अनोक्कमित्वाव निपन्ना ‘‘तात न्हायितुकामाम्ही’’ति आह. राजा ‘‘एहि, अम्मा’’ति तं हत्थे गहेत्वा वातपानसमीपं नेत्वा ‘‘न्हायाहि, अम्मा’’ति उक्खिपित्वा वातपानस्स बहिपस्से पमुखे ठपेत्वा एकस्मिं हत्थे गहेत्वा अट्ठासि. सा न्हायमानाव कुमारस्स हत्थं पसारेसि, सो तस्सा हत्थतो आभरणानि ओमुञ्चित्वा उपट्ठाकाय हत्थे पिळन्धित्वा तं उक्खिपित्वा राजधीतरं निस्साय पमुखे ठपेसि. सा तस्सा हत्थं गहेत्वा पितु हत्थे ठपेसि, सो तस्सा हत्थं गहेत्वा धीतु हत्थं मुञ्चि, सा इतरस्मापि हत्था आभरणानि ओमुञ्चित्वा तस्सा दुतियहत्थे पिळन्धित्वा पितु हत्थे ठपेत्वा कुमारेन सद्धिं अगमासि. राजा ‘‘धीतायेव मे’’ति सञ्ञाय तं दारिकं न्हानपरियोसाने सिरिगब्भे सयापेत्वा द्वारं पिधाय लञ्छेत्वा आरक्खं दत्वा अत्तनो सयनं गन्त्वा निपज्जि.
सो पभाताय रत्तिया द्वारं विवरित्वा तं दारिकं दिस्वा ‘‘किमेत’’न्ति पुच्छि. सा तस्सा कुमारेन सद्धिं गतभावं कथेसि. राजा विप्पटिसारी हुत्वा ‘‘हत्थे गहेत्वा चरन्तेनपि मातुगामं रक्खितुं न सक्का, एवं अरक्खिया नामित्थियो’’ति चिन्तेत्वा इतरा द्वे गाथा अवोच –
३५. ‘‘अनला मुदुसम्भासा, दुप्पूरा ता नदीसमा;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
३६. ‘‘यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति न’’न्ति.
तत्थ अनला मुदुसम्भासाति मुदुवचनेनपि असक्कुणेय्या, नेव सक्का सण्हवाचाय सङ्गण्हितुन्ति अत्थो. पुरिसेहि वा एतासं न अलन्ति अनला. मुदुसम्भासाति हदये थद्धेपि सम्भासाव मुदु एतासन्ति मुदुसम्भासा. दुप्पूरा ता नदीसमाति यथा नदी आगतागतस्स उदकस्स सन्दनतो उदकेन दुप्पूरा, एवं अनुभूतानुभूतेहि मेथुनादीहि अपरितुस्सनतो दुप्पूरा. तेन वुत्तं –
‘‘तिण्णं, भिक्खवे, धम्मानं अतित्तो अप्पटिवानो मातुगामो कालं करोति. कतमेसं तिण्णं? मेथुनसमापत्तिया च विजायनस्स च अलङ्कारस्स च. इमेसं खो, भिक्खवे, तिण्णं धम्मानं अतित्तो अप्पटिवानो मातुगामो कालं करोती’’ति.
सीदन्तीति अट्ठसु महानिरयेसु सोळससु उस्सदनिरयेसु निमुज्जन्ति. नन्ति निपातमत्तं. विदित्वानाति एवं जानित्वा. आरका परिवज्जयेति ‘‘एता इत्थियो नाम मेथुनधम्मादीहि अतित्ता कालं कत्वा एतेसु निरयेसु सीदन्ति, एता एवं अत्तना सीदमाना कस्सञ्ञस्स सुखाय भविस्सन्ती’’ति एवं ञत्वा पण्डितो पुरिसो दूरतोव ता परिवज्जयेति दीपेति. छन्दसा वा धनेन वाति अत्तनो वा छन्देन रुचिया पेमेन, भतिवसेन लद्धधनेन वा यं पुरिसं एता इत्थियो उपसेवन्ति भजन्ति. जातवेदोति अग्गि. सो हि जातमत्तोव वेदियति, विदितो पाकटो होतीति जातवेदो. सो यथा अत्तनो ठानं कारणं ओकासं अनुदहति, एवमेतापि यं उपसेवन्ति, तं पुरिसं धनयससीलपञ्ञासमन्नागतम्पि तेसं सब्बेसं धनादीनं विनासनतो पुन ताय सम्पत्तिया अभब्बुप्पत्तिकं कुरुमाना खिप्पं अनुदहन्ति झापेन्ति. वुत्तम्पि चेतं –
‘‘बलवन्तो दुब्बला होन्ति, थामवन्तोपि हायरे;
चक्खुमा अन्धका होन्ति, मातुगामवसं गता.
‘‘गुणवन्तो निग्गुणा होन्ति, पञ्ञवन्तोपि हायरे;
पमत्ता बन्धने सेन्ति, मातुगामवसं गता.
‘‘अज्झेनञ्च तपं सीलं, सच्चं चागं सतिं मतिं;
अच्छिन्दन्ति पमत्तस्स, पन्थदूभीव तक्करा.
‘‘यसं कित्तिं धितिं सूरं, बाहुसच्चं पजाननं;
खेपयन्ति पमत्तस्स, कट्ठपुञ्जंव पावको’’ति.
एवं वत्वा महासत्तो ‘‘भागिनेय्योपि मयाव पोसेतब्बो’’ति महन्तेन सक्कारेन धीतरं तस्सेव दत्वा तं ओपरज्जे पतिट्ठपेसि. सोपि मातुलस्स अच्चयेन रज्जे पतिट्ठहि.
सत्था इमं धम्मदेसेनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा राजा अहमेव अहोसि’’न्ति.
मुदुपाणिजातकवण्णना दुतिया.
[२६३] ३. चूळपलोभनजातकवण्णना
अभिज्जमाने वारिस्मिन्ति इदं सत्था जेतवने विहरन्तो एकं उक्कण्ठितभिक्खुमेव आरब्भ कथेसि. तञ्हि सत्था धम्मसभं आनीतं ‘‘सच्चं किर, त्वं भिक्खु, उक्कण्ठितोसी’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, इत्थियो नामेता पोराणके सुद्धसत्तेपि संकिलेसेसु’’न्ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्तो राजा अपुत्तको हुत्वा अत्तनो इत्थियो ‘‘पुत्तपत्थनं करोथा’’ति आह. ता पुत्ते पत्थेन्ति. एवं अद्धाने गते बोधिसत्तो ब्रह्मलोका चवित्वा अग्गमहेसिया कुच्छिस्मिं निब्बत्ति. तं जातमत्तं न्हापेत्वा थञ्ञपायनत्थाय धातिया अदंसु. सो पायमानो रोदति, अथ नं अञ्ञिस्सा अदंसु. मातुगामहत्थगतो नेव तुण्ही होति. अथ नं एकस्स पादमूलिकस्स अदंसु, तेन गहितमत्तोयेव तुण्ही अहोसि. ततो पट्ठाय पुरिसाव तं गहेत्वा चरन्ति. थञ्ञं पायेन्ता दुहित्वा वा पायेन्ति, साणिअन्तरेन वा थनं मुखे ठपेन्ति. तेनस्स अनित्थिगन्धकुमारोति नामं करिंसु. तस्स अपरापरं वद्धमानस्सपि मातुगामं नाम दस्सेतुं न सक्का. तेनस्स राजा विसुंयेव निसज्जादिट्ठानानि झानागारञ्च कारेसि.
सो तस्स सोळसवस्सिककाले चिन्तेसि – ‘‘मय्हं अञ्ञो पुत्तो नत्थि, अयं पन कुमारो कामे न परिभुञ्जति, रज्जम्पि न इच्छिस्सति, दुल्लद्धो वत मे पुत्तो’’ति. अथ नं एका नच्चगीतवादितकुसला पुरिसे परिचरित्वा अत्तनो वसे कातुं पटिबला तरुणनाटकित्थी उपसङ्कमित्वा ‘‘देव, किं नु चिन्तेसी’’ति आह, राजा तं कारणं आचिक्खि. ‘‘होतु, देव, अहं तं पलोभेत्वा कामरसं जानापेस्सामी’’ति. ‘‘सचे मे पुत्तं अनित्थिगन्धकुमारं पलोभेतुं सक्किस्ससि, सो राजा भविस्सति, त्वं अग्गमहेसी’’ति. सा ‘‘ममेसो भारो, तुम्हे मा चिन्तयित्था’’ति वत्वा आरक्खमनुस्से उपसङ्कमित्वा आह – ‘‘अहं पच्चूससमये आगन्त्वा अय्यपुत्तस्स सयनट्ठाने बहिझानागारे ठत्वा गायिस्सामि. सचे सो कुज्झति, मय्हं कथेय्याथ, अहं अपगच्छिस्सामि. सचे सुणाति, वण्णं मे कथेय्याथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु.
सापि पच्चूसकाले तस्मिं पदेसे ठत्वा तन्तिस्सरेन गीतस्सरं, गीतस्सरेन तन्तिस्सरं अनतिक्कमित्वा मधुरेन सद्देन गायि, कुमारो सुणन्तोव निपज्जि, पुनदिवसे च आसन्नट्ठाने ठत्वा गायितुं आणापेसि, पुनदिवसे झानागारे ठत्वा गायितुं आणापेसि, पुनदिवसे अत्तनो समीपे ठत्वाति एवं अनुक्कमेनेव तण्हं उप्पादेत्वा लोकधम्मं सेवित्वा कामरसं ञत्वा ‘‘मातुगामं नाम अञ्ञेसं न दस्सामी’’ति असिं गहेत्वा अन्तरवीथिं ओतरित्वा पुरिसे अनुबन्धन्तो विचरि. अथ नं राजा गाहापेत्वा ताय कुमारिकाय सद्धिं नगरा नीहरापेसि. उभोपि अरञ्ञं पविसित्वा अधोगङ्गं गन्त्वा एकस्मिं पस्से गङ्गं, एकस्मिं समुद्दं कत्वा उभिन्नमन्तरे अस्समपदं मापेत्वा वासं कप्पयिंसु. कुमारिका पण्णसालायं निसीदित्वा कन्दमूलादीनि पचति, बोधिसत्तो अरञ्ञतो फलाफलं आहरति.
अथेकदिवसं तस्मिं फलाफलत्थाय गते समुद्ददीपका एको तापसो भिक्खाचारत्थाय आकासेन गच्छन्तो धूमं दिस्वा अस्समपदे ओतरि. अथ नं सा ‘‘निसीद, याव पच्चती’’ति निसीदापेत्वा इत्थिकुत्तेन पलोभेत्वा झाना चावेत्वा ब्रह्मचरियमस्स अन्तरधापेसि. सो पक्खच्छिन्नकाको विय हुत्वा तं जहितुं असक्कोन्तो सब्बदिवसं तत्थेव ठत्वा बोधिसत्तं आगच्छन्तं दिस्वा वेगेन समुद्दाभिमुखो पलायि. अथ नं सो ‘‘पच्चामित्तो मे अयं भविस्सती’’ति असिं गहेत्वा अनुबन्धि. तापसो आकासे उप्पतनाकारं दस्सेत्वा समुद्दे पति. बोधिसत्तो ‘‘एस तापसो आकासेनागतो भविस्सति, झानस्स परिहीनत्ता समुद्दे पतितो, मया दानिस्स अवस्सयेन भवितुं वट्टती’’ति चिन्तेत्वा वेलन्ते ठत्वा इमा गाथा अवोच –
३७. ‘‘अभिज्जमाने वारिस्मिं, सयं आगम्म इद्धिया;
मिस्सीभावित्थिया गन्त्वा, संसीदसि महण्णवे.
३८. ‘‘आवट्टनी महामाया, ब्रह्मचरियविकोपना;
सीदन्ति नं विदित्वान, आरका परिवज्जये.
३९. ‘‘यं एता उपसेवन्ति, छन्दसा वा धनेन वा;
जातवेदोव सं ठानं, खिप्पं अनुदहन्ति न’’न्ति.
तत्थ अभिज्जमाने वारिस्मिन्ति इमस्मिं उदके अचलमाने अकम्पमाने उदकं अनामसित्वा सयं आकासेनेव इद्धिया आगन्त्वा. मिस्सीभावित्थियाति लोकधम्मवसेन इत्थिया सद्धिं मिस्सीभावं. आवट्टनी महामायाति इत्थियो नामेता कामावट्टेन आवट्टनतो आवट्टनी, अनन्ताहि इत्थिमायाहि समन्नागतत्ता महामाया नाम. वुत्तञ्हेतं –
‘‘माया चेता मरीची च, सोको रोगो चुपद्दवो;
खरा च बन्धना चेता, मच्चुपासो गुहासयो;
तासु यो विस्ससे पोसो, सो नरेसु नराधमो’’ति. (जा. २.२१.११८);
ब्रह्मचरियविकोपनाति सेट्ठचरियस्स मेथुनविरतिब्रह्मचरियस्स विकोपना. सीदन्तीति इत्थियो नामेता इसीनं ब्रह्मचरियविकोपनेन अपायेसु सीदन्ति. सेसं पुरिमनयेनेव योजेतब्बं.
एतं पन बोधिसत्तस्स वचनं सुत्वा तापसो समुद्दमज्झे ठितोयेव नट्ठज्झानं पुन उप्पादेत्वा आकासेन अत्तनो वसनट्ठानमेव गतो. बोधिसत्तो चिन्तेसि – ‘‘अयं तापसो एवं भारिको समानो सिम्बलितूलं विय आकासेन गतो, मयापि इमिना विय झानं उप्पादेत्वा आकासेन चरितुं वट्टती’’ति. सो अस्समं गन्त्वा तं इत्थिं मनुस्सपथं नेत्वा ‘‘गच्छ, त्व’’न्ति उय्योजेत्वा अरञ्ञं पविसित्वा मनुञ्ञे भूमिभागे अस्समं मापेत्वा इसिपब्बज्जं पब्बजित्वा कसिणपरिकम्मं कत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेत्वा ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उक्कण्ठितभिक्खु सोतापत्तिफले पतिट्ठहि. ‘‘तदा अनित्थिगन्धकुमारो अहमेव अहोसि’’न्ति.
चूळपलोभनजातकवण्णना ततिया.
[२६४] ४. महापनादजातकवण्णना
पनादो नाम सो राजाति इदं सत्था गङ्गातीरे निसिन्नो भद्दजित्थेरस्सानुभावं आरब्भ कथेसि. एकस्मिञ्हि समये सत्था सावत्थियं वस्सं वसित्वा ‘‘भद्दजिकुमारस्स सङ्गहं करिस्सामी’’ति भिक्खुसङ्घपरिवुतो चारिकं चरमानो भद्दियनगरं पत्वा जातियावने तयो मासे वसि कुमारस्स ञाणपरिपाकं आगमयमानो. भद्दजिकुमारो महायसो असीतिकोटिविभवस्स भद्दियसेट्ठिनो एकपुत्तको. तस्स तिण्णं उतूनं अनुच्छविका तयो पासादा अहेसुं. एकेकस्मिं चत्तारो चत्तारो मासे वसति. एकस्मिं वसित्वा नाटकपरिवुतो महन्तेन यसेन अञ्ञं पासादं गच्छति. तस्मिं खणे ‘‘कुमारस्स यसं पस्सिस्सामा’’ति सकलनगरं सङ्खुभि, पासादन्तरे चक्कातिचक्कानि मञ्चातिमञ्चानि बन्धन्ति.
सत्था तयो मासे वसित्वा ‘‘मयं गच्छामा’’ति नगरवासीनं आरोचेसि. नागरा ‘‘भन्ते, स्वे गमिस्सथा’’ति सत्थारं निमन्तेत्वा दुतियदिवसे बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं सज्जेत्वा नगरमज्झे मण्डपं कत्वा अलङ्करित्वा आसनानि पञ्ञपेत्वा कालं आरोचेसुं. सत्था भिक्खुसङ्घपरिवुतो तत्थ गन्त्वा निसीदि, मनुस्सा महादानं अदंसु. सत्था निट्ठितभत्तकिच्चो मधुरस्सरेन अनुमोदनं आरभि. तस्मिं खणे भद्दजिकुमारोपि पासादतो पासादं गच्छति, तस्स सम्पत्तिदस्सनत्थाय तं दिवसं न कोचि अगमासि, अत्तनो मनुस्साव परिवारेसुं. सो मनुस्से पुच्छि – ‘‘अञ्ञस्मिं काले मयि पासादतो पासादं गच्छन्ते सकलनगरं सङ्खुभति, चक्कातिचक्कानि मञ्चातिमञ्चानि बन्धन्ति, अज्ज पन ठपेत्वा मय्हं मनुस्से अञ्ञो कोचि नत्थि, किं नु खो कारण’’न्ति. ‘‘सामि, सम्मासम्बुद्धो इमं भद्दियनगरं उपनिस्साय तयो मासे वसित्वा अज्जेव गमिस्सति, सो भत्तकिच्चं निट्ठापेत्वा महाजनस्स धम्मं देसेति, सकलनगरवासिनोपि तस्स धम्मकथं सुणन्ती’’ति. सो ‘‘तेन हि एथ, मयम्पि सुणिस्सामा’’ति सब्बाभरणपटिमण्डितोव महन्तेन परिवारेन उपसङ्कमित्वा परिसपरियन्ते ठितो धम्मं सुणन्तो ठितोव सब्बकिलेसे खेपेत्वा अग्गफलं अरहत्तं पापुणि.
सत्था भद्दियसेट्ठिं आमन्तेत्वा ‘‘महासेट्ठि, पुत्तो ते अलङ्कतपटियत्तोव धम्मकथं सुणन्तो अरहत्ते पतिट्ठितो, तेनस्स अज्जेव पब्बजितुं वा वट्टति परिनिब्बायितुं वा’’ति आह. ‘‘भन्ते, मय्हं पुत्तस्स परिनिब्बानेन किच्चं नत्थि, पब्बाजेथ नं, पब्बाजेत्वा च पन नं गहेत्वा स्वे अम्हाकं गेहं उपसङ्कमथा’’ति. भगवा निमन्तनं अधिवासेत्वा कुलपुत्तं आदाय विहारं गन्त्वा पब्बाजेत्वा उपसम्पदं दापेसि. तस्स मातापितरो सत्ताहं महासक्कारं करिंसु. सत्था सत्ताहं वसित्वा कुलपुत्तमादाय चारिकं चरन्तो कोटिगामं पापुणि. कोटिगामवासिनो मनुस्सा बुद्धप्पमुखस्स भिक्खुसङ्घस्स महादानं अदंसु. सत्था भत्तकिच्चावसाने अनुमोदनं आरभि. कुलपुत्तो अनुमोदनकरणकाले बहिगामं गन्त्वा ‘‘सत्थु आगतकालेयेव उट्ठहिस्सामी’’ति गङ्गातित्थसमीपे एकस्मिं रुक्खमूले झानं समापज्जित्वा निसीदि. महल्लकत्थेरेसु आगच्छन्तेसुपि अनुट्ठहित्वा सत्थु आगतकालेयेव उट्ठहि. पुथुज्जना भिक्खू ‘‘अयं पुरे विय पब्बजित्वा महाथेरे आगच्छन्तेपि दिस्वा न उट्ठहती’’ति कुज्झिंसु.
कोटिगामवासिनो मनुस्सा नावासङ्घाते बन्धिंसु. सत्था नावासङ्घाते ठत्वा ‘‘कहं, भद्दजी’’ति पुच्छि. ‘‘एस, भन्ते, इधेवा’’ति. ‘‘एहि, भद्दजि, अम्हेहि सद्धिं एकनावं अभिरुहा’’ति. थेरोपि उप्पतित्वा एकनावाय अट्ठासि. अथ नं गङ्गाय मज्झं गतकाले सत्था आह – ‘‘भद्दजि, तया महापनादराजकाले अज्झावुत्थपासादो कह’’न्ति. इमस्मिं ठाने निमुग्गो, भन्तेति. पुथुज्जना भिक्खू ‘‘भद्दजित्थेरो अञ्ञं ब्याकरोती’’ति आहंसु. सत्था ‘‘तेन हि, भद्दजि, सब्रह्मचारीनं कङ्खं छिन्दा’’ति आह. तस्मिं खणे थेरो सत्थारं वन्दित्वा इद्धिबलेन गन्त्वा पासादथूपिकं पादङ्गुलिया गहेत्वा पञ्चवीसतियोजनं पासादं गहेत्वा आकासे उप्पति. उप्पतितो च पन हेट्ठापासादे ठितानं पासादं भिन्दित्वा पञ्ञायि. सो एकयोजनं द्वियोजनं तियोजनन्ति याव वीसतियोजना उदकतो पासादं उक्खिपि. अथस्स पुरिमभवे ञातका पासादलोभेन मच्छकच्छपनागमण्डूका हुत्वा तस्मिंयेव पासादे निब्बत्ता पासादे उट्ठहन्ते परिवत्तित्वा परिवत्तित्वा उदकेयेव पतिंसु. सत्था ते पतन्ते दिस्वा ‘‘ञातका ते, भद्दजि, किलमन्ती’’ति आह. थेरो सत्थु वचनं सुत्वा पासादं विस्सज्जेसि, पासादो यथाठानेयेव पतिट्ठहि, सत्था पारगङ्गं गतो. अथस्स गङ्गातीरेयेव आसनं पञ्ञापयिंसु, सो पञ्ञत्ते वरबुद्धासने तरुणसूरियो विय रस्मियो मुञ्चन्तो निसीदि. अथ नं भिक्खू ‘‘कस्मिं काले, भन्ते, अयं पासादो भद्दजित्थेरेन अज्झावुत्थो’’ति पुच्छिंसु. सत्था ‘‘महापनादराजकाले’’ति वत्वा अतीतं आहरि.
अतीते विदेहरट्ठे मिथिलायं सुरुचि नाम राजा अहोसि, पुत्तोपि तस्स सुरुचियेव, तस्स पन पुत्तो महापनादो नाम अहोसि, ते इमं पासादं पटिलभिंसु. पटिलाभत्थाय पनस्स इदं पुब्बकम्मं – द्वे पितापुत्ता नळेहि च उदुम्बरदारूहि च पच्चेकबुद्धस्स वसनपण्णसालं करिंसु. इमस्मिं जातके सब्बं अतीतवत्थु पकिण्णकनिपाते सुरुचिजातके (जा. १.१४.१०२ आदयो) आविभविस्सति.
सत्था इमं अतीतं आहरित्वा सम्मासम्बुद्धो हुत्वा इमा गाथा अवोच –
४०. ‘‘पनादो नाम सो राजा, यस्स यूपो सुवण्णयो;
तिरियं सोळसुब्बेधो, उद्धमाहु सहस्सधा.
४१. ‘‘सहस्सकण्डो सतगेण्डु, धजालु हरितामयो;
अनच्चुं तत्थ गन्धब्बा, छ सहस्सानि सत्तधा.
४२. ‘‘एवमेतं तदा आसि, यथा भाससि भद्दजि;
सक्को अहं तदा आसिं, वेय्यावच्चकरो तवा’’ति.
तत्थ यूपोति पासादो. तिरियं सोळसुब्बेधोति वित्थारतो सोळसकण्डपातवित्थारो अहोसि. उद्धमाहु सहस्सधाति उब्बेधेन सहस्सकण्डगमनमत्तं उच्चो अहु, सहस्सकण्डगमनगणनाय पञ्चवीसतियोजनप्पमाणं होति. वित्थारो पनस्स अट्ठयोजनमत्तो.
सहस्सकण्डो सतगेण्डूति सो पनेस सहस्सकण्डुब्बेधो पासादो सतभूमिको अहोसि. धजालूति धजसम्पन्नो. हरितामयोति हरितमणिपरिक्खित्तो. अट्ठकथायं पन ‘‘समालुहरितामयो’’ति पाठो, हरितमणिमयेहि द्वारकवाटवातपानेहि समन्नागतोति अत्थो. समालूति किर द्वारकवाटवातपानानं नामं. गन्धब्बाति नटा, छ सहस्सानि सत्तधाति छ गन्धब्बसहस्सानि सत्तधा हुत्वा तस्स पासादस्स सत्तसु ठानेसु रञ्ञो रतिजननत्थाय नच्चिंसूति अत्थो. ते एवं नच्चन्तापि राजानं हासेतुं नासक्खिंसु, अथ सक्को देवराजा देवनटं पेसेत्वा समज्जं कारेसि, तदा महापनादो हसि.
यथा भाससि, भद्दजीति भद्दजित्थेरेन हि ‘‘भद्दजि, तया महापनादराजकाले अज्झावुत्थपासादो कह’’न्ति वुत्ते ‘‘इमस्मिं ठाने निमुग्गो, भन्ते’’ति वदन्तेन तस्मिं काले अत्तनो अत्थाय तस्स पासादस्स निब्बत्तभावो च महापनादराजभावो च भासितो होति. तं गहेत्वा सत्था ‘‘यथा त्वं, भद्दजि, भाससि, तदा एतं तथेव अहोसि, अहं तदा तव कायवेय्यावच्चकरो सक्को देवानमिन्दो अहोसि’’न्ति आह. तस्मिं खणे पुथुज्जनभिक्खू निक्कङ्खा अहेसुं.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा महापनादो राजा भद्दजि अहोसि, सक्को पन अहमेव अहोसि’’न्ति.
महापनादजातकवण्णना चतुत्था.
[२६५] ५. खुरप्पजातकवण्णना
दिस्वा खुरप्पेति इदं सत्था जेतवने विहरन्तो एकं ओस्सट्ठवीरियं भिक्खुं आरब्भ कथेसि. तञ्हि सत्था ‘‘सच्चं किर त्वं, भिक्खु, ओस्सट्ठवीरियो’’ति पुच्छित्वा ‘‘सच्चं, भन्ते’’ति वुत्ते ‘‘भिक्खु, कस्मा एवं त्वं निय्यानिकसासने पब्बजित्वा वीरियं ओस्सजि, पोराणकपण्डिता अनिय्यानिकट्ठानेपि वीरियं करिंसू’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो एकस्मिं अटविआरक्खककुले निब्बत्तित्वा वयप्पत्तो पञ्चपुरिससतपरिवारो अटविआरक्खकेसु सब्बजेट्ठको हुत्वा अटविमुखे एकस्मिं गामे वासं कप्पेसि. सो भतिं गहेत्वा मनुस्से अटविं अतिक्कामेति. अथेकस्मिं दिवसे बाराणसेय्यको सत्थवाहपुत्तो पञ्चहि सकटसतेहि तं गामं पत्वा तं पक्कोसापेत्वा ‘‘सम्म, सहस्सं गहेत्वा मं अटविं अतिक्कामेही’’ति आह. सो ‘‘साधू’’ति तस्स हत्थतो सहस्सं गण्हि, भतिं गण्हन्तोयेव तस्स जीवितं परिच्चजि. सो तं आदाय अटविं पाविसि, अटविमज्झे पञ्चसता चोरा उट्ठहिंसु, चोरे दिस्वाव सेसपुरिसा उरेन निपज्जिंसु, आरक्खकजेट्ठको एकोव नदन्तो वग्गन्तो पहरित्वा पञ्चसतेपि चोरे पलापेत्वा सत्थवाहपुत्तं सोत्थिना कन्तारं तारेसि.
सत्थवाहपुत्तो परकन्तारे सत्थं निवेसेत्वा आरक्खकजेट्ठकं नानग्गरसभोजनं भोजेत्वा सयम्पि भुत्तपातरासो सुखनिसिन्नो तेन सद्धिं सल्लपन्तो ‘‘सम्म, तथादारुणानं चोरानं आवुधानि गहेत्वा अवत्थरणकाले केन नु खो ते कारणेन चित्तुत्रासमत्तम्पि न उप्पन्न’’न्ति पुच्छन्तो पठमं गाथमाह –
४३. ‘‘दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;
तस्मिं भयस्मिं मरणे वियूळ्हे, कस्मा नु ते नाहु छम्भितत्त’’न्ति.
तत्थ धनुवेगनुन्नेति धनुवेगेन विस्सट्ठे. खग्गे गहीतेति थरुदण्डेहि सुगहिते खग्गे. मरणे वियूळ्हेति मरणे पच्चुपट्ठिते. कस्मा नु ते नाहूति केन नु खो कारणेन नाहोसि. छम्भितत्तन्ति सरीरचलनं.
तं सुत्वा आरक्खकजेट्ठको इतरा द्वे गाथा अभासि –
४४. ‘‘दिस्वा खुरप्पे धनुवेगनुन्ने, खग्गे गहीते तिखिणे तेलधोते;
तस्मिं भयस्मिं मरणे वियूळ्हे, वेदं अलत्थं विपुलं उळारं.
४५. ‘‘सो वेदजातो अज्झभविं अमित्ते, पुब्बेव मे जीवितमासि चत्तं;
न हि जीविते आलयं कुब्बमानो, सूरो कयिरा सूरकिच्चं कदाची’’ति.
तत्थ वेदं अलत्थन्ति तुट्ठिञ्चेव सोमनस्सञ्च पटिलभिं. विपुलन्ति बहुं. उळारन्ति उत्तमं. अज्झभविन्ति जीवितं परिच्चजित्वा अभिभविं. पुब्बेव मे जीवितमासि चत्तन्ति मया पुब्बेव तव हत्थतो भतिं गण्हन्तेनेव जीवितं चत्तमासि. न हि जीविते आलयं कुब्बमानोति जीवितस्मिञ्हि निकन्तिं कुरुमानो पुरिसकिच्चं कदाचिपि न करोति.
एवं सो सरवस्से वस्सन्ते जीवितनिकन्तिया विस्सट्ठत्ता अत्तना सूरकिच्चस्स कतभावं ञापेत्वा सत्थवाहपुत्तं उय्योजेत्वा सकगाममेव पच्चागन्त्वा दानादीनि पुञ्ञानि कत्वा यथाकम्मं गतो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ओस्सट्ठवीरियो भिक्खु अरहत्ते पतिट्ठहि. ‘‘तदा आरक्खकजेट्ठको अहमेव अहोसि’’न्ति.
खुरप्पजातकवण्णना पञ्चमा.
[२६६] ६. वातग्गसिन्धवजातकवण्णना
येनासि किसिया पण्डूति इदं सत्था जेतवने विहरन्तो सावत्थियं अञ्ञतरं कुटुम्बिकं आरब्भ कथेसि. सावत्थियं किरेका अभिरूपा इत्थी एकं अभिरूपं कुटुम्बिकं दिस्वा पटिबद्धचित्ता अहोसि, सकलसरीरं झायमानो वियस्सा अब्भन्तरे किलेसग्गि उप्पज्जि. सा नेव कायस्सादं लभि, न चित्तस्सादं, भत्तम्पिस्सा न रुच्चि, केवलं मञ्चकअटनिं गहेत्वा निपज्जि. अथ नं उपट्ठायिका च सहायिका च पुच्छिंसु – ‘‘किं नु खो त्वं कम्पमानचित्ता अटनिं गहेत्वा निपन्ना, किं ते अफासुक’’न्ति. सा एकं द्वे वारे अकथेत्वा पुनप्पुनं वुच्चमाना तमत्थं आरोचेसि. अथ नं ता समस्सासेत्वा ‘‘त्वं मा चिन्तयि, मयं तं आनेस्सामा’’ति वत्वा गन्त्वा कुटुम्बिकेन सद्धिं मन्तेसुं, सो पटिक्खिपित्वा पुनप्पुनं वुच्चमानो अधिवासेसि. ता ‘‘असुकदिवसे असुकवेलायं आगच्छा’’ति पटिञ्ञं गहेत्वा गन्त्वा तस्सा आरोचेसुं. सा अत्तनो सयनगब्भं सज्जेत्वा अत्तानं अलङ्करित्वा सयनपिट्ठे निसिन्ना तस्मिं आगन्त्वा सयनेकदेसे निसिन्ने चिन्तेसि – ‘‘सचाहं इमस्स गरुकं अकत्वा इदानेव ओकासं करिस्सामि, इस्सरियं मे परिहायिस्सति, आगतदिवसेयेव ओकासकरणं नाम अकारणं, अज्ज न मङ्कुं कत्वा अञ्ञस्मिं दिवसे ओकासं करिस्सामी’’ति. अथ नं हत्थगहणादिवसेन केळिं कातुं आरद्धं हत्थे गहेत्वा ‘‘अपेहि अपेहि, न मे तया अत्थो’’ति निब्भच्छेसि. सो ओसक्कित्वा लज्जितो उट्ठाय अत्तनो गेहमेव गतो.
इतरा इत्थियो ताय तथा कतभावं ञत्वा कुटुम्बिके निक्खन्ते तं उपसङ्कमित्वा एवमाहंसु – ‘‘त्वं एतस्मिं पटिबद्धचित्ता आहारं पटिक्खिपित्वा निपज्जि, अथ नं मयं पुनप्पुनं याचित्वा आनयिम्ह, तस्स कस्मा ओकासं न अकासी’’ति. सा तमत्थं आरोचेसि. इतरा ‘‘तेन हि पञ्ञायिस्ससी’’ति वत्वा पक्कमिंसु. कुटुम्बिको पुन निवत्तित्वापि न ओलोकेसि. सा तं अलभमाना निराहारा तत्थेव जीवितक्खयं पापुणि. कुटुम्बिको तस्सा मतभावं ञत्वा बहुं मालागन्धविलेपनं आदाय जेतवनं गन्त्वा सत्थारं पूजेत्वा एकमन्तं निसीदित्वा सत्थारा च ‘‘किं नु खो, उपासक, न पञ्ञायसी’’ति पुच्छिते तमत्थं आरोचेत्वा ‘‘स्वाहं, भन्ते, एत्तकं कालं लज्जाय बुद्धुपट्ठानं नागतो’’ति आह. सत्था ‘‘न, उपासक, इदानेवेसा किलेसवसेन तं पक्कोसापेत्वा आगतकाले तं ओकासं अकत्वा लज्जापेसि, पुब्बेपि पन पण्डितेसु पटिबद्धचित्ता हुत्वा पक्कोसापेत्वा आगतकाले ओकासं अकत्वा किलमेत्वाव उय्योजेसी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सिन्धवकुले निब्बत्तित्वा वातग्गसिन्धवो नाम हुत्वा तस्स मङ्गलअस्सो अहोसि. अस्सगोपका तं नेत्वा गङ्गायं न्हापेन्ति. अथ नं भद्दली नाम गद्रभी दिस्वा पटिबद्धचित्ता हुत्वा किलेसवसेन कम्पमाना नेव तिणं खादि, न उदकं पिवि, परिसुस्सित्वा किसा अट्ठिचम्ममत्ता अहोसि. अथ नं पुत्तो गद्रभपोतको मातरं परिसुस्समानं दिस्वा ‘‘किं नु खो त्वं, अम्म, नेव तिणं खादसि, न उदकं पिवसि, परिसुस्सित्वा तत्थ तत्थ कम्पमाना निपज्जसि, किं ते अफासुक’’न्ति पुच्छि. सा अकथेत्वा पुनप्पुनं वुच्चमाना तमत्थं कथेसि. अथ नं पुत्तो समस्सासेत्वा ‘‘अम्म, मा चिन्तयि, अहं तं आनेस्सामी’’ति वत्वा वातग्गसिन्धवस्स न्हायितुं आगतकाले तं उपसङ्कमित्वा ‘‘तात, मय्हं माता तुम्हेसु पटिबद्धचित्ता निराहारा सुस्सित्वा मरिस्सति, जीवितदानमस्सा देथा’’ति आह. ‘‘साधु, तात, दस्सामि, अस्सगोपका मं न्हापेत्वा थोकं गङ्गातीरे विचरणत्थाय विस्सज्जेन्ति, त्वं मातरं गहेत्वा तं पदेसं एही’’ति. सो गन्त्वा मातरं आनेत्वा तस्मिं पदेसे विस्सज्जेत्वा एकमन्तं पटिच्छन्नो अट्ठासि.
अस्सगोपकापि वातग्गसिन्धवं तस्मिं ठाने विस्सज्जेसुं. सो तं गद्रभिं ओलोकेत्वा उपसङ्कमि. अथ सा गद्रभी तस्मिं उपसङ्कमित्वा अत्तनो सरीरं उपसिङ्घमाने ‘‘सचाहं गरुं अकत्वा आगतक्खणेयेवस्स ओकासं करिस्सामि, एवं मे यसो च इस्सरियञ्च परिहायिस्सति, अनिच्छमाना विय भवितुं वट्टती’’ति चिन्तेत्वा सिन्धवस्स हेट्ठाहनुके पादेन पहरित्वा पलायि, दन्तमूलमस्स भिज्जित्वा गतकालो विय अहोसि. वातग्गसिन्धवो ‘‘को मे एताय अत्थो’’ति लज्जितो ततोव पलायि. सा विप्पटिसारिनी हुत्वा तत्थेव पतित्वा सोचमाना निपज्जि.
अथ नं पुत्तो उपसङ्कमित्वा पुच्छन्तो पठमं गाथमाह –
४६. ‘‘येनासि किसिया पण्डु, येन भत्तं न रुच्चति;
अयं सो आगतो भत्ता, कस्मा दानि पलायसी’’ति.
तत्थ येनाति तस्मिं पटिबद्धचित्तताय येन कारणभूतेन.
पुत्तस्स वचनं सुत्वा गद्रभी दुतियं गाथमाह –
४७. ‘‘सचे पनादिकेनेव, सन्थवो नाम जायति;
यसो हायति इत्थीनं, तस्मा तात पलायह’’न्ति.
तत्थ आदिकेनेवातिआदितोव पठममेव. सन्थवोति मेथुनधम्मसंयोगवसेन मित्तसन्थवो. यसो हायति इत्थीनन्ति, तात, इत्थीनञ्हि गरुकं अकत्वा आदितोव सन्थवं कुरुमानानं यसो हायति, इस्सरियगब्बितभावो परिहायतीति. एवं सा इत्थीनं सभावं पुत्तस्स कथेसि.
ततियगाथं पन सत्था अभिसम्बुद्धो हुत्वा आह –
४८. ‘‘यसस्सिनं कुले जातं, आगतं या न इच्छति;
सोचति चिररत्ताय, वातग्गमिव भद्दली’’ति.
तत्थ यसस्सिनन्ति यससम्पन्नं. या न इच्छतीति या इत्थी तथारूपं पुरिसं न इच्छति. चिररत्तायाति चिररत्तं, दीघमद्धानन्ति अत्थो.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने कुटुम्बिको सोतापत्तिफले पतिट्ठहि. ‘‘तदा गद्रभी सा इत्थी अहोसि, वातग्गसिन्धवो पन अहमेव अहोसि’’न्ति.
वातग्गसिन्धवजातकवण्णना छट्ठा.
[२६७] ७. कक्कटकजातकवण्णना
सिङ्गी मिगोति इदं सत्था जेतवने विहरन्तो अञ्ञतरं इत्थिं आरब्भ कथेसि. सावत्थियं किरेको कुटुम्बिको अत्तनो भरियं गहेत्वा उद्धारसोधनत्थाय जनपदं गन्त्वा उद्धारं सोधेत्वा आगच्छन्तो अन्तरामग्गे चोरेहि गहितो. भरिया पनस्स अभिरूपा पासादिका दस्सनीया, चोरजेट्ठको तस्सा सिनेहेन कुटुम्बिकं मारेतुं आरभि. सा पन इत्थी सीलवती आचारसम्पन्ना पतिदेवता, सा चोरजेट्ठकस्स पादेसु निपतित्वा ‘‘सामि, सचे मयि सिनेहो अत्थि, मा मय्हं सामिकं मारेहि. सचे मारेसि, अहम्पि विसं वा खादित्वा नासवातं वा सन्निरुम्भित्वा मरिस्सामि, तया पन सद्धिं न गमिस्सामि, मा मे अकारणेन सामिकं मारेही’’ति याचित्वा तं विस्सज्जापेसि. ते उभोपि सोत्थिना सावत्थिं पत्वा जेतवनपिट्ठिविहारेन गच्छन्ता ‘‘विहारं पविसित्वा सत्थारं वन्दिस्सामा’’ति गन्धकुटिपरिवेणं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदिंसु. ते सत्थारा ‘‘कहं गतत्थ, उपासका’’ति पुट्ठा ‘‘उद्धारसोधनत्थाया’’ति आहंसु. ‘‘अन्तरामग्गे पन आरोग्येन आगतत्था’’ति वुत्ते कुटुम्बिको आह – ‘‘अन्तरामग्गे नो, भन्ते, चोरा गण्हिंसु, तत्रेसा मं मारियमानं चोरजेट्ठकं याचित्वा मोचेसि, इमं निस्साय मया जीवितं लद्ध’’न्ति. सत्था ‘‘न, उपासक, इदानेवेताय एवं तुय्हं जीवितं दिन्नं, पुब्बेपि पण्डितानम्पि जीवितं अदासियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते हिमवन्ते महाउदकरहदो, तत्थ महासुवण्णकक्कटको अहोसि. सो तस्स निवासभावेन ‘‘कुळीरदहो’’ति पञ्ञायित्थ. कक्कटको महा अहोसि खलमण्डलप्पमाणो, हत्थी गहेत्वा वधित्वा खादति. हत्थी तस्स भयेन तत्थ ओतरित्वा गोचरं गण्हितुं न सक्कोन्ति. तदा बोधिसत्तो कुळीरदहं उपनिस्साय वसमानं हत्थियूथजेट्ठकं पटिच्च करेणुया कुच्छिस्मिं पटिसन्धिं गण्हि. अथस्स माता ‘‘गब्भं रक्खिस्सामी’’ति अञ्ञं पब्बतप्पदेसं गन्त्वा गब्भं रक्खित्वा पुत्तं विजायि. सो अनुक्कमेन विञ्ञुतं पत्तो महासरीरो थामसम्पन्नो सोभग्गप्पत्तो अञ्जनपब्बतो विय अहोसि. सो एकाय करेणुया सद्धिं संवासं कप्पेत्वा ‘‘कक्कटकं गण्हिस्सामी’’ति अत्तनो भरियञ्च मातरञ्च आदाय तं हत्थियूथं उपसङ्कमित्वा पितरं पस्सित्वा ‘‘तात, अहं कक्कटकं गण्हिस्सामी’’ति आह. अथ नं पिता ‘‘न सक्खिस्ससि, ताता’’ति वारेत्वा पुनप्पुनं वदन्तं ‘‘त्वञ्ञेव जानिस्ससी’’ति आह.
सो कुळीरदहं उपनिस्साय वसन्ते सब्बवारणे सन्निपातेत्वा सब्बेहि सद्धिं दहसमीपं गन्त्वा ‘‘किं सो कक्कटको ओतरणकाले गण्हाति, उदाहु गोचरं गण्हनकाले, उदाहु उत्तरणकाले’’ति पुच्छित्वा ‘‘उत्तरणकाले’’ति सुत्वा ‘‘तेन हि तुम्हे कुळीरदहं ओतरित्वा यावदत्थं गोचरं गहेत्वा पठमं उत्तरथ, अहं पच्छतो भविस्सामी’’ति आह. वारणा तथा करिंसु. कुळीरो पच्छतो उत्तरन्तं बोधिसत्तं महासण्डासेन कम्मारो लोहसलाकं विय अळद्वयेन पादे दळ्हं गण्हि, करेणुका बोधिसत्तं अविजहित्वा समीपेयेव अट्ठासि. बोधिसत्तो आकड्ढन्तो कुळीरं चालेतुं नासक्खि, कुळीरो पन तं आकड्ढन्तो अत्तनो अभिमुखं करोति. सो मरणभयतज्जितो बद्धरवं रवि, सब्बे वारणा मरणभयतज्जिता कोञ्चनादं कत्वा मुत्तकरीसं चजमाना पलायिंसु, करेणुकापिस्स सण्ठातुं असक्कोन्ती पलायितुं आरभि.
अथ नं सो अत्तनो बद्धभावं सञ्ञापेत्वा तस्सा अपलायनत्थं पठमं गाथमाह –
४९. तत्थ सिङ्गी मिगोति सिङ्गी सुवण्णवण्णो मिगो. द्वीहि अळेहि सिङ्गकिच्चं साधेन्तेहि युत्तताय सिङ्गीति अत्थो. मिगोति पन सब्बपाणसङ्गाहकवसेन इध कुळीरो वुत्तो. आयतचक्खुनेत्तोति एत्थ दस्सनट्ठेन चक्खु, नयनट्ठेन नेत्तं, आयतानि चक्खुसङ्खातानि नेत्तानि अस्साति आयतचक्खुनेत्तो, दीघअक्खीति अत्थो. अट्ठिमेवस्स तचकिच्चं साधेतीति अट्ठित्तचो. तेनाभिभूतोति तेन मिगेन अभिभूतो अज्झोत्थतो निच्चलं गहितो हुत्वा. कपणं रुदामीति कारुञ्ञप्पत्तो हुत्वा रुदामि विरवामि. मा हेव मन्ति मं एवरूपं ब्यसनप्पत्तं अत्तनो पाणसमं पियसामिकं त्वं मा हेव जहीति.
अथ सा करेणुका निवत्तित्वा तं अस्सासयमाना दुतियं गाथमाह –
५०. ‘‘अय्य न तं जहिस्सामि, कुञ्जरं सट्ठिहायनं;
पथब्या चातुरन्ताय, सुप्पियो होसि मे तुव’’न्ति.
तत्थ सट्ठिहायनन्ति जातिया सट्ठिवस्सकालस्मिञ्हि कुञ्जरा थामेन परिहायन्ति, सा अहं एवं थामहीनं इमं ब्यसनं पत्तं तं न जहिस्सामि, मा भायि, इमिस्सा हि चतूसु दिसासु समुद्दं पत्वा ठिताय चातुरन्ताय पथविया त्वं मय्हं सुट्ठु पियोति.
अथ नं सन्थम्भेत्वा ‘‘अय्य, इदानि तं कुळीरेन सद्धिं थोकं कथासल्लापं लभमाना विस्सज्जापेस्सामी’’ति वत्वा कुळीरं याचमाना ततियं गाथमाह –
५१. ‘‘ये कुळीरा समुद्दस्मिं, गङ्गाय यमुनाय च;
तेसं त्वं वारिजो सेट्ठो, मुञ्च रोदन्तिया पति’’न्ति.
तस्सत्थो – ये समुद्दे वा गङ्गाय वा यमुनाय वा कुळीरा, सब्बेसं वण्णसम्पत्तिया च महन्तत्तेन च त्वमेव सेट्ठो उत्तमो. तेन तं याचामि, मय्हं रोदमानाय सामिकं मुञ्चाति.
कुळीरो तस्सा कथयमानाय इत्थिसद्दे निमित्तं गहेत्वा आकड्ढियमानसो हुत्वा वारणस्स पादतो अळे विनिवेठेन्तो ‘‘अयं विस्सट्ठो इदं नाम करिस्सती’’ति न किञ्चि अञ्ञासि. अथ नं वारणो पादं उक्खिपित्वा पिट्ठियं अक्कमि, तावदेव अट्ठीनि भिज्जिंसु. वारणो तुट्ठरवं रवि, सब्बे वारणा सन्निपतित्वा कुळीरं नीहरित्वा महीतले ठपेत्वा मद्दन्ता चुण्णविचुण्णमकंसु. तस्स द्वे अळा सरीरतो भिज्जित्वा एकमन्ते पतिंसु. सो च कुळीरदहो गङ्गाय एकाबद्धो, गङ्गाय पूरणकाले गङ्गोदकेन पूरति, उदके मन्दीभूते दहतो उदकं गङ्गं ओतरति. अथ द्वेपि ते अळा उप्लवित्वा गङ्गाय वुय्हिंसु. तेसु एको समुद्दं पाविसि, एकं दसभातिकराजानो उदके कीळमाना लभित्वा आळिङ्गं नाम मुदिङ्गं अकंसु. समुद्दं पन पविट्ठं असुरा गहेत्वा आलम्बरं नाम भेरिं कारेसुं. ते अपरभागे सक्केन सङ्गामे पराजिता तं छड्डेत्वा पलायिंसु, अथ नं सक्को अत्तनो अत्थाय गण्हापेसि. ‘‘आलम्बरमेघो विय थनती’’ति तं सन्धाय वदन्ति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने उभो जयम्पतिका सोतापत्तिफले पतिट्ठहिंसु. ‘‘तदा करेणुका अयं उपासिका अहोसि, वारणो पन अहमेव अहोसि’’न्ति.
कक्कटकजातकवण्णना सत्तमा.
[२६८] ८. आरामदूसकजातकवण्णना
यो वे सब्बसमेतानन्ति इदं सत्था दक्खिणागिरिजनपदे अञ्ञतरं उय्यानपालपुत्तं आरब्भ कथेसि. सत्था किर वुत्थवस्सो जेतवना निक्खमित्वा दक्खिणागिरिजनपदे चारिकं चरि. अथेको उपासको बुद्धप्पमुखं भिक्खुसङ्घं निमन्तेत्वा उय्याने निसीदापेत्वा यागुखज्जकेहि सन्तप्पेत्वा ‘‘अय्या, उय्यानचारिकं चरितुकामा इमिना उय्यानपालेन सद्धिं चरन्तू’’ति वत्वा ‘‘अय्यानं फलाफलानि ददेय्यासी’’ति उय्यानपालं आणापेसि. भिक्खू चरमाना एकं छिद्दट्ठानं दिस्वा ‘‘इदं ठानं छिद्दं विरळरुक्खं, किं नु खो कारण’’न्ति पुच्छिंसु. अथ नेसं उय्यानपालो आचिक्खि – ‘‘एको किर उय्यानपालपुत्तो उपरोपकेसु उदकं आसिञ्चन्तो ‘मूलप्पमाणेन आसिञ्चिस्सामी’ति उप्पाटेत्वा मूलप्पमाणेन उदकं आसिञ्चि, तेन तं ठानं छिद्दं जात’’न्ति. भिक्खू सत्थु सन्तिकं गन्त्वा तमत्थं आरोचेसुं. सत्था ‘‘न, भिक्खवे, इदानेव पुब्बेपि सो कुमारको आरामदूसकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं विस्ससेने नाम रञ्ञे रज्जं कारेन्ते उस्सवे घुट्ठे उय्यानपालो ‘‘उस्सवं कीळिस्सामी’’ति उय्यानवासिनो मक्कटे आह – ‘‘इदं उय्यानं तुम्हाकं बहूपकारं, अहं सत्ताहं उस्सवं कीळिस्सामि, तुम्हे सत्त दिवसे उपरोपकेसु उदकं आसिञ्चथा’’ति. ते ‘‘साधू’’ति सम्पटिच्छिंसु. सो तेसं चम्मघटके दत्वा पक्कामि. मक्कटा उदकं आसिञ्चन्ता उपरोपकेसु आसिञ्चिंसु. अथ ने मक्कटजेट्ठको आह – ‘‘आगमेथ ताव, उदकं नाम सब्बकालं दुल्लभं, तं रक्खितब्बं, उपरोपके उप्पाटेत्वा मूलप्पमाणं ञत्वा दीघमूलकेसु बहुं, रस्समूलकेसु अप्पं उदकं सिञ्चितुं वट्टती’’ति. ते ‘‘साधू’’ति वत्वा एकच्चे उपरोपके उप्पाटेत्वा गच्छन्ति, एकच्चे ते रोपेत्वा उदकं सिञ्चन्ति.
तस्मिं काले बोधिसत्तो बाराणसियं एकस्स कुलस्स पुत्तो अहोसि, सो केनचिदेव करणीयेन उय्यानं गन्त्वा ते मक्कटे तथा करोन्ते दिस्वा ‘‘को तुम्हे एवं कारेती’’ति पुच्छित्वा ‘‘वानरजेट्ठको’’ति वुत्ते ‘‘जेट्ठकस्स ताव वो अयं पञ्ञा, तुम्हाकं पन कीदिसी भविस्सती’’ति तमत्थं पकासेन्तो इमं पठमं गाथमाह –
५२. ‘‘यो वे सब्बसमेतानं, अहुवा सेट्ठसम्मतो;
तस्सायं एदिसी पञ्ञा, किमेव इतरा पजा’’ति.
तत्थ सब्बसमेतानन्ति इमेसं सब्बेसं समानजातीनं. अहुवाति अहोसि. किमेव इतरा पजाति या इतरा एतेसु लामिका पजा, कीदिसा नु खो तस्सा पञ्ञाति.
तस्स कथं सुत्वा वानरा दुतियं गाथमाहंसु –
५३. ‘‘एवमेव तुवं ब्रह्मे, अनञ्ञाय विनिन्दसि;
कथं मूलं अदिस्वान, रुक्खं जञ्ञा पतिट्ठित’’न्ति.
तत्थ ब्रह्मेति आलपनमत्तं. अयं पनेत्थ सङ्खेपत्थो – त्वं, भो पुरिस, कारणाकारणं अजानित्वा एवमेव अम्हे विनिन्दसि, रुक्खं नाम ‘‘गम्भीरे पतिट्ठितो वा एस, न वा’’ति मूलं अनुप्पाटेत्वा कथं ञातुं सक्का, तेन मयं उप्पाटेत्वा मूलप्पमाणेन उदकं आसिञ्चामाति.