२. गन्धारवग्गो

[४०६] १. गन्धारजातकवण्णना

हित्वा गामसहस्सानीति इदं सत्था जेतवने विहरन्तो भेसज्जसन्निधिकारसिक्खापदं आरब्भ कथेसि. वत्थु पन राजगहे समुट्ठितं. आयस्मता हि पिलिन्दवच्छेन आरामिककुलं मोचेतुं राजनिवेसनं गन्त्वा रञ्ञो पासादे इद्धिबलेन सोवण्णमये कते मनुस्सा पसीदित्वा थेरस्स पञ्च भेसज्जानि पहिणिंसु. सो तानि परिसाय विस्सज्जेसि. परिसा पनस्स बाहुल्लिका अहोसि, लद्धं लद्धं कोळम्बेपि घटेपि पत्तत्थविकायोपि पूरेत्वा पटिसामेसि. मनुस्सा दिस्वा ‘‘महिच्छा इमे समणा अन्तोकोट्ठागारिका’’ति उज्झायिंसु. सत्था तं पवत्तिं सुत्वा ‘‘यानि खो पन तानि गिलानानं भिक्खून’’न्ति (पारा. ६२२-६२३) सिक्खापदं पञ्ञपेत्वा ‘‘भिक्खवे, पोराणकपण्डिता अनुप्पन्ने बुद्धे बाहिरकपब्बज्जं पब्बजित्वा पञ्चसीलमत्तकं रक्खन्तापि लोणसक्खरमत्तकं पुनदिवसत्थाय निदहन्ते गरहिंसु, तुम्हे पन एवरूपे निय्यानिकसासने पब्बजित्वा दुतियततियदिवसत्थाय सन्निधिं करोन्ता अयुत्तं करोथा’’ति वत्वा अतीतं आहरि.

अतीते गन्धाररट्ठे बोधिसत्तो गन्धाररञ्ञो पुत्तो हुत्वा पितु अच्चयेन रज्जे पतिट्ठाय धम्मेन रज्जं कारेसि. मज्झिमपदेसेपि विदेहरट्ठे विदेहो नाम राजा रज्जं कारेसि. ते द्वेपि राजानो अदिट्ठसहाया हुत्वा अञ्ञमञ्ञं थिरविस्सासा अहेसुं. तदा मनुस्सा दीघायुका होन्ति, तिंस वस्ससहस्सानि जीवन्ति. अथेकदा गन्धारराजा पुण्णमुपोसथदिवसे समादिन्नसीलो महातले पञ्ञत्तवरपल्लङ्कमज्झगतो विवटेन सीहपञ्जरेन पाचीनलोकधातुं ओलोकेन्तो अमच्चानं धम्मत्थयुत्तकथं कथेन्तो निसीदि. तस्मिं खणे गगनतलं अतिलङ्घन्तमिव परिपुण्णं चन्दमण्डलं राहु अवत्थरि, चन्दप्पभा अन्तरधायि. अमच्चा चन्दालोकं अपस्सन्ता चन्दस्स राहुना गहितभावं रञ्ञो आरोचेसुं. राजा चन्दं ओलोकेत्वा ‘‘अयं चन्दो आगन्तुकउपक्किलेसेन उपक्किलिट्ठो निप्पभो जातो, मय्हम्पेस राजपरिवारो उपक्किलेसो, न खो पन मेतं पतिरूपं, याहं राहुना गहितचन्दो विय निप्पभो भवेय्यं, विसुद्धे गगनतरे विरोचन्तं चन्दमण्डलं विय रज्जं पहाय पब्बजिस्सामि, किं मे परेन ओवदितेन, कुले च गणे च अलग्गो हुत्वा अत्तानमेव ओवदन्तो विचरिस्सामि, इदं मे पतिरूप’’न्ति चिन्तेत्वा ‘‘यं इच्छथ, तं राजानं करोथा’’ति रज्जं अमच्चानं निय्यादेसि. सो रज्जं छड्डेत्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा झानरतिसमप्पितो हिमवन्तपदेसे वासं कप्पेसि.

विदेहराजापि ‘‘सुखं मे सहायस्सा’’ति वाणिजे पुच्छित्वा तस्स पब्बजितभावं सुत्वा ‘‘मम सहाये पब्बजिते अहं रज्जेन किं करिस्सामी’’ति सत्तयोजनिके मिथिलनगरे तियोजनसतिके विदेहरट्ठे सोळससु गामसहस्सेसु पूरितानि कोट्ठागारानि, सोळससहस्सा च नाटकित्थियो छड्डेत्वा पुत्तधीतरो अमनसिकत्वा हिमवन्तपदेसं पविसित्वा पब्बजित्वा पवत्तफलभोजनो हुत्वा समप्पवत्तवासं वसन्तो विचरि. ते उभोपि समवत्तचारं चरन्ता अपरभागे समागच्छिंसु, न पन अञ्ञमञ्ञं सञ्जानिंसु, सम्मोदमाना एकतोव समप्पवत्तवासं वसिंसु. तदा विदेहतापसो गन्धारतापसस्स उपट्ठानं करोति. तेसं एकस्मिं पुण्णमदिवसे अञ्ञतरस्मिं रुक्खमूले निसीदित्वा धम्मत्थयुत्तकथं कथेन्तानं गगनतले विरोचमानं चन्दमण्डलं राहु अवत्थरि. विदेहतापसो ‘‘किं नु खो चन्दस्स पभा नट्ठा’’ति ओलोकेत्वा राहुना गहितं चन्दं दिस्वा ‘‘को नु खो एस आचरिय, चन्दं अवत्थरित्वा निप्पभमकासी’’ति पुच्छि. अन्तेवासिक अयं राहु नाम चन्दस्सेको उपक्किलेसो, विरोचितुं न देति, अहम्पि राहुगहितं चन्दमण्डलं दिस्वा ‘‘इदं परिसुद्धस्स चन्दमण्डलस्स आगन्तुकेन उपक्किलेसेन निप्पभं जातं, मय्हम्पि इदं रज्जं उपक्किलेसो, याव चन्दमण्डलं राहु विय इदं निप्पभं न करोति, ताव पब्बजिस्सामी’’ति चिन्तेत्वा तदेव राहुगहितं चन्दमण्डलं आरम्मणं कत्वा महारज्जं छड्डेत्वा पब्बजितोति. ‘‘आचरिय, त्वं गन्धारराजा’’ति? ‘‘आम, अह’’न्ति. ‘‘आचरिय, अहम्पि विदेहरट्ठे मिथिलनगरे विदेहराजा नाम, ननु मयं अञ्ञमञ्ञं अदिट्ठसहाया’’ति. ‘‘किं पन ते आरम्मणं अहोसी’’ति? अहं ‘‘तुम्हे पब्बजिता’’ति सुत्वा ‘‘अद्धा पब्बज्जाय महन्तं गुणं अद्दसा’’ति तुम्हेयेव आरम्मणं कत्वा रज्जं पहाय पब्बजितोति. ते ततो पट्ठाय अतिविय समग्गा सम्मोदमाना पवत्तफलभोजना हुत्वा विहरिंसु. तत्थ दीघरत्तं वसित्वा च पन लोणम्बिलसेवनत्थाय हिमवन्ततो ओतरित्वा एकं पच्चन्तगामं सम्पापुणिंसु.

मनुस्सा तेसं इरियापथे पसीदित्वा भिक्खं दत्वा पटिञ्ञं गहेत्वा अरञ्ञे रत्तिदिवट्ठानादीनि मापेत्वा वसापेसुं. अन्तरामग्गेपि नेसं भत्तकिच्चकरणत्थाय उदकफासुकट्ठाने पण्णसालं कारेसुं. ते पच्चन्तगामे भिक्खं चरित्वा ताय पण्णसालाय निसीदित्वा परिभुञ्जित्वा अत्तनो वसनट्ठानं गच्छन्ति. तेपि मनुस्सा तेसं आहारं ददमाना एकदा लोणं पत्ते पक्खिपित्वा देन्ति, एकदा पण्णपुटे बन्धित्वा देन्ति, एकदा अलोणकाहारमेव देन्ति. ते एकदिवसं पण्णपुटे बहुतरं लोणं अदंसु. विदेहतापसो लोणं आदाय गन्त्वा बोधिसत्तस्स भत्तकिच्चकाले पहोनकं दत्वा अत्तनोपि पमाणयुत्तं गहेत्वा अतिरेकं पण्णपुटे बन्धित्वा ‘‘अलोणकदिवसे भविस्सती’’ति तिणवट्टिकअन्तरे ठपेसि. अथेकदिवसं अलोणके आहारे लद्धे विदेहो गन्धारस्स भिक्खाभाजनं दत्वा तिणवट्टिकअन्तरतो लोणं आहरित्वा ‘‘आचरिय, लोणं गण्हथा’’ति आह. ‘‘अज्ज मनुस्सेहि लोणं न दिन्नं, त्वं कुतो लभसी’’ति? ‘‘आचरिय, पुरिमदिवसे मनुस्सा बहुं लोणमदंसु, अथाहं ‘अलोणकदिवसे भविस्सती’ति अतिरेकं लोणं ठपेसि’’न्ति. अथ नं बोधिसत्तो ‘‘मोघपुरिस, तियोजनसतिकं विदेहरट्ठं पहाय पब्बजित्वा अकिञ्चनभावं पत्वा इदानि लोणसक्खराय तण्हं जनेसी’’ति तज्जेत्वा ओवदन्तो पठमं गाथमाह –

७६. ‘‘हित्वा गामसहस्सानि, परिपुण्णानि सोळस;

कोट्ठागारानि फीतानि, सन्निधिं दानि कुब्बसी’’ति.

तत्थ कोट्ठागारानीति सुवण्णरजतमणिमुत्तादिरतनकोट्ठागारानि चेव दुस्सकोट्ठागारानि च धञ्ञकोट्ठागारानि च. फीतानीति पूरानि. सन्निधिं दानि कुब्बसीति इदानि ‘‘स्वे भविस्सति, ततियदिवसे भविस्सती’’ति लोणमत्तं सन्निधिं करोसीति.

विदेहो एवं गरहियमानो गरहं असहन्तो पटिपक्खो हुत्वा ‘‘आचरिय, तुम्हे अत्तनो दोसं अदिस्वा मय्हमेव दोसं पस्सथ, ननु तुम्हे ‘किं मे परेन ओवदितेन, अत्तानमेव ओवदिस्सामी’ति रज्जं छड्डेत्वा पब्बजिता, तुम्हे इदानि मं कस्मा ओवदथा’’ति चोदेन्तो दुतियं गाथमाह –

७७. ‘‘हित्वा गन्धारविसयं, पहूतधनधारियं;

पसासनतो निक्खन्तो, इध दानि पसाससी’’ति.

तत्थ पसासनतोति ओवादानुसासनीदानतो. इध दानीति इदानि इध अरञ्ञे कस्मा मं ओवदथाति.

तं सुत्वा बोधिसत्तो ततियं गाथमाह –

७८. ‘‘धम्मं भणामि वेदेह, अधम्मो मे न रुच्चति;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति.

तत्थ धम्मन्ति सभावं, बुद्धादीहि वण्णितं पसत्थं कारणमेव. अधम्मो मे न रुच्चतीति अधम्मो नाम असभावो मय्हं कदाचिपि न रुच्चति. न पापमुपलिम्पतीति मम सभावमेव कारणमेव भणन्तस्स पापं नाम हदये न लिम्पति न अल्लीयति. ओवाददानं नामेतं बुद्धपच्चेकबुद्धसावकबोधिसत्तानं पवेणी. तेहि दिन्नोवादं बाला न गण्हन्ति, ओवाददायकस्स पन पापं नाम नत्थि.

‘‘निधीनंव पवत्तारं, यं पस्से वज्जदस्सिनं;

निग्गय्हवादिं मेधाविं, तादिसं पण्डितं भजे;

तादिसं भजमानस्स, सेय्यो होति न पापियो.

‘‘ओवदेय्यानुसासेय्य, असब्भा च निवारये;

सतञ्हि सो पियो होति, असतं होति अप्पियो’’ति. (ध. प. ७६-७७);

विदेहतापसो बोधिसत्तस्स कथं सुत्वा ‘‘आचरिय, अत्थनिस्सितं कथेन्तेनपि परं घट्टेत्वा रोसेत्वा कथेतुं न वट्टति, त्वं मं कुण्ठसत्थकेन मुण्डेन्तो विय अतिफरुसं कथेसी’’ति वत्वा चतुत्थं गाथमाह –

७९. ‘‘येन केनचि वण्णेन, परो लभति रुप्पनं;

महत्थियम्पि चे वाचं, न तं भासेय्य पण्डितो’’ति.

तत्थ येन केनचीति धम्मयुत्तेनापि कारणेन. लभति रुप्पनन्ति घट्टनं दुस्सनं कुप्पनं लभतियेव. न तं भासेय्याति तस्मा तं परपुग्गलं याय सो वाचाय दुस्सति, तं महत्थियं महन्तं अत्थनिस्सितम्पि वाचं न भासेय्याति अत्थो.

अथस्स बोधिसत्तो पञ्चमं गाथमाह –

८०. ‘‘कामं रुप्पतु वा मा वा, भुसंव विकिरीयतु;

धम्मं मे भणमानस्स, न पापमुपलिम्पती’’ति.

तत्थ कामन्ति एकंसेन. इदं वुत्तं होति – अयुत्तकारको पुग्गलो ‘‘अयुत्तं ते कत’’न्ति ओवदियमानो एकंसेनेव कुज्झतु वा मा वा कुज्झतु, अथ वा भुसमुट्ठि विय विकिरीयतु, मय्हं पन धम्मं भणन्तस्स पापं नाम नत्थीति.

एवञ्च पन वत्वा ‘‘न वो अहं, आनन्द, तथा परक्कमिस्सामि, यथा कुम्भकारो आमके आमकमत्ते. निग्गय्ह निग्गय्हाहं आनन्द, वक्खामि, यो सारो सो ठस्सती’’ति (म. नि. ३.१९६) इमस्स सुगतोवादस्स अनुरूपाय पटिपत्तिया ठत्वा ‘‘यथा कुम्भकारो भाजनेसु पुनप्पुनं आकोटेत्वा आकोटेत्वा आमकं अग्गहेत्वा सुपक्कमेव भाजनं गण्हाति, एवं पुनप्पुनं ओवदित्वा निग्गण्हित्वा पक्कभाजनसदिसो पुग्गलो गहेतब्बो’’ति दस्सेतुं पुन तं ओवदन्तो –

८१. ‘‘नो चे अस्स सका बुद्धि, विनयो वा सुसिक्खितो;

वने अन्धमहिंसोव, चरेय्य बहुको जनो.

८२. ‘‘यस्मा च पनिधेकच्चे, आचेरम्हि सुसिक्खिता;

तस्मा विनीतविनया, चरन्ति सुसमाहिता’’ति. – इदं गाथाद्वयमाह;

तस्सत्थो – सम्म वेदेह, इमेसञ्हि सत्तानं सचे अत्तनो बुद्धि वा पण्डिते ओवाददायके निस्साय आचारपण्णत्तिविनयो वा सुसिक्खितो न भवेय्य, एवं सन्ते यथा तिणलतादिगहने वने अन्धमहिंसो गोचरागोचरं सासङ्कनिरासङ्कञ्च ठानं अजानन्तो चरति, तथा तुम्हादिसो बहुको जनो चरेय्य. यस्मा पन इध एकच्चे सकाय बुद्धिया रहिता सत्ता आचरियसन्तिके आचारपण्णत्तिसुसिक्खिता, तस्मा आचरियेहि अत्तनो अत्तनो अनुरूपेन विनयेन विनीतत्ता विनीतविनया सुसमाहिता एकग्गचित्ता हुत्वा चरन्तीति.

इमिना इदं दस्सेति – इमिना हि सत्तेन गिहिना हुत्वा अत्तनो कुलानुरूपा, पब्बजितेन पब्बजितानुरूपा सिक्खा सिक्खितब्बा. गिहिनोपि हि अत्तनो कुलानुरूपेसु कसिगोरक्खादीसु सिक्खिताव सम्पन्नाजीवा हुत्वा सुसमाहिता चरन्ति, पब्बजितापि पब्बजितानुरूपेसु पासादिकेसु अभिक्कन्तपटिक्कन्तादीसु अधिसीलअधिचित्तअधिपञ्ञासिक्खासु सिक्खिताव विगतविक्खेपा सुसमाहिता चरन्ति. लोकस्मिञ्हि –

‘‘बाहुसच्चञ्च सिप्पञ्च, विनयो च सुसिक्खितो;

सुभासिता च या वाचा, एतं मङ्गलमुत्तम’’न्ति. (खु. पा. ५.५; सु. नि. २६४);

तं सुत्वा वेदेहतापसो ‘‘आचरिय, इतो पट्ठाय मं ओवदथ अनुसासथ, अहं अनधिवासनजातिकताय तुम्हेहि सद्धिं कथेसिं, तं मे खमथा’’ति वन्दित्वा महासत्तं खमापेसि. ते समग्गवासं वसित्वा पुन हिमवन्तमेव अगमंसु. तत्र बोधिसत्तो वेदेहतापसस्स कसिणपरिकम्मं कथेसि. सो तं कत्वा अभिञ्ञा च समापत्तियो च निब्बत्तेसि. इति ते उभोपि अपरिहीनज्झाना ब्रह्मलोकपरायणा अहेसुं.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा वेदेहो आनन्दो अहोसि, गन्धारराजा पन अहमेव अहोसी’’न्ति.

गन्धारजातकवण्णना पठमा.

[४०७] २. महाकपिजातकवण्णना

अत्तानं सङ्कमं कत्वाति इदं सत्था जेतवने विहरन्तो ञातत्थचरियं आरब्भ कथेसि. वत्थु भद्दसालजातके (जा. १.१२.१३ आदयो) आवि भविस्सति. तदा पन धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सम्मासम्बुद्धो ञातकानं अत्थं चरती’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो ञातीनं अत्थं चरियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो कपियोनियं निब्बत्तित्वा वयप्पत्तो आरोहपरिणाहसम्पन्नो थामबलूपेतो पञ्चहत्थिबलपरिमाणो असीतिसहस्सकपिगणपरिवुतो हिमवन्तपदेसे वसति. तत्थ गङ्गातीरं निस्साय साखाविटपसम्पन्नो सन्दच्छायो बहलपत्तो पब्बतकूटं विय समुग्गतो अम्बरुक्खो अहोसि ‘‘निग्रोधरुक्खो’’तिपि वदन्ति. तस्स मधुरानि फलानि दिब्बगन्धरसानि महन्तानि महन्तकुम्भप्पमाणानि. तस्स एकिस्सा साखाय फलानि थले पतन्ति, एकिस्सा साखाय गङ्गाजले, द्विन्नं साखानं फलानि मज्झे रुक्खमूले पतन्ति. बोधिसत्तो कपिगणं आदाय तत्थ फलानि खादन्तो ‘‘एकस्मिं काले इमस्स रुक्खस्स उदके पतितं फलं निस्साय अम्हाकं भयं उप्पज्जिस्सती’’ति उदकमत्थके साखाय एकफलम्पि अनवसेसेत्वा पुप्फकाले कळायमत्तकालतो पट्ठाय खादापेति चेव पातापेति च. एवं सन्तेपि असीतिवानरसहस्सेहि अदिट्ठं किपिल्लिकपुटपटिच्छन्नं एकं पक्कफलं नदियं पतित्वा उद्धञ्च अधो च जालं बन्धापेत्वा उदककीळं कीळन्तस्स बाराणसिरञ्ञो उद्धंजाले लग्गि. रञ्ञो दिवसं कीळित्वा सायं गमनसमये केवट्टा जालं उक्खिपन्ता तं दिस्वा ‘‘असुकफलं नामा’’ति अजानन्ता रञ्ञो दस्सेसुं.

राजा ‘‘किंफलं नामेत’’न्ति पुच्छि. ‘‘न जानाम, देवा’’ति. ‘‘के जानिस्सन्ती’’ति? ‘‘वनचरका, देवा’’ति. सो वनचरके पक्कोसापेत्वा तेसं सन्तिका ‘‘अम्बपक्क’’न्ति सुत्वा छुरिकाय छिन्दित्वा पठमं वनचरके खादापेत्वा पच्छा अत्तनापि खादि, इत्थागारस्सापि अमच्चानम्पि दापेसि. रञ्ञो अम्बपक्करसो सकलसरीरं फरित्वा अट्ठासि. सो रसतण्हाय बज्झित्वा तस्स रुक्खस्स ठितट्ठानं वनचरके पुच्छित्वा तेहि ‘‘हिमवन्तपदेसे नदीतीरे’’ति वुत्ते बहू नावासङ्घाटे बन्धापेत्वा वनचरकेहि देसितमग्गेन उद्धंसोतं अगमासि. ‘‘एत्तकानि दिवसानी’’ति परिच्छेदो न कथितो, अनुपुब्बेन पन तं ठानं पत्वा ‘‘एसो देव, रुक्खो’’ति वनचरका रञ्ञो आचिक्खिंसु. राजा नावं ठपेत्वा महाजनपरिवुतो पदसा तत्थ गन्त्वा रुक्खमूले सयनं पञ्ञपापेत्वा अम्बपक्कानि खादित्वा नानग्गरसभोजनं भुञ्जित्वा निपज्जि, सब्बदिसासु आरक्खं ठपेत्वा अग्गिं करिंसु.

महासत्तो मनुस्सेसु निद्दं ओक्कन्तेसु अड्ढरत्तसमये परिसाय सद्धिं अगमासि. असीतिसहस्सवानरा साखाय साखं चरन्ता अम्बानि खादन्ति. राजा पबुज्झित्वा कपिगणं दिस्वा मनुस्से उट्ठापेत्वा धनुग्गहे पक्कोसापेत्वा ‘‘यथा एते फलखादका वानरा न पलायन्ति, तथा ते परिक्खिपित्वा विज्झथ, स्वे अम्बानि चेव वानरमंसञ्च खादिस्सामी’’ति आह. धनुग्गहा ‘‘साधू’’ति सम्पटिच्छित्वा रुक्खं परिवारेत्वा सरे सन्नय्हित्वा अट्ठंसु. ते दिस्वा वानरा मरणभयभीता पलायितुं असक्कोन्ता महासत्तं उपसङ्कमित्वा ‘‘देव, ‘पलायनमक्कटे विज्झिस्सामा’ति रुक्खं परिवारेत्वा धनुग्गहा ठिता, किं करोमा’’ति पुच्छित्वा कम्पमाना अट्ठंसु. बोधिसत्तो ‘‘मा भायित्थ, अहं वो जीवितं दस्सामी’’ति वानरगणं समस्सासेत्वा उजुकं उग्गतसाखं आरुय्ह गङ्गाभिमुखं गतसाखं गन्त्वा तस्सा परियन्ततो पक्खन्दित्वा धनुसतमत्तं ठानं अतिक्कम्म गङ्गातीरे एकस्मिं गुम्बमत्थके पतित्वा ततो ओरुय्ह ‘‘ममागतट्ठानं एत्तकं भविस्सती’’ति आकासं परिच्छिन्दित्वा एकं वेत्तलतं मूले छिन्दित्वा सोधेत्वा ‘‘एत्तकं ठानं रुक्खे बज्झिस्सति, एत्तकं आकासट्ठं भविस्सती’’ति इमानि द्वे ठानानि ववत्थपेत्वा अत्तनो कटियं बन्धनट्ठानं न सल्लक्खेसि.

सो तं लतं आदाय एकं कोटिं गङ्गातीरे पतिट्ठितरुक्खे बन्धित्वा एकं अत्तनो कटियं बन्धित्वा वातच्छिन्नवलाहको विय वेगेन धनुसतमत्तं ठानं लङ्घित्वा कटियं बन्धनट्ठानस्स असल्लक्खितत्ता रुक्खं पापुणितुं असक्कोन्तो उभोहि हत्थेहि अम्बसाखं दळ्हं गण्हित्वा वानरगणस्स सञ्ञमदासि ‘‘सीघं मम पिट्ठिं मद्दमाना वेत्तलताय सोत्थिगमनं गच्छथा’’ति. असीतिसहस्सवानरा महासत्तं वन्दित्वा खमापेत्वा तथा अगमंसु. तदा देवदत्तोपि मक्कटो हुत्वा तेसं अब्भन्तरे होति. सो ‘‘अयं मे पच्चामित्तस्स पिट्ठिं पस्सितुं कालो’’ति उच्चं साखं आरुय्ह वेगं जनेत्वा तस्स पिट्ठियं पति. महासत्तस्स हदयं भिज्जि, बलववेदना उप्पज्जि. सोपि तं वेदनाप्पत्तं कत्वा पक्कामि. महासत्तो एककोव अहोसि. राजा अनिद्दायन्तो वानरेहि च महासत्तेन च कतकिरियं सब्बं दिस्वा ‘‘अयं तिरच्छानो हुत्वा अत्तनो जीवितं अगणेत्वा परिसाय सोत्थिभावमेव अकासी’’ति चिन्तेन्तो निपज्जि.

सो पभाताय रत्तिया महासत्तस्स तुस्सित्वा ‘‘न युत्तं इमं कपिराजानं नासेतुं, उपायेन नं ओतारेत्वा पटिजग्गिस्सामी’’ति अन्तोगङ्गाय नावासङ्घाटं ठपेत्वा तत्थ अट्टकं बन्धापेत्वा सणिकं महासत्तं ओतारापेत्वा पिट्ठियं कासाववत्थं पत्थरापेत्वा गङ्गोदकेन न्हापेत्वा फाणितोदकं पायेत्वा परिसुद्धसरीरं सहस्सपाकतेलेन अब्भञ्जापेत्वा सयनपिट्ठे एळकचम्मं सन्थरापेत्वा सणिकं तत्थ निपज्जापेत्वा अत्तना नीचे आसने निसीदित्वा पठमं गाथमाह –

८३. ‘‘अत्तानं सङ्कमं कत्वा, यो सोत्थिं समतारयि;

किं त्वं तेसं किमे तुय्हं, होन्ति एते महाकपी’’ति.

तस्सत्थो – अम्भो महाकपि, यो त्वं अत्तानं सङ्कमं कत्वा तुलं आरोपेत्वा जीवितं परिच्चजित्वा इमे वानरे सोत्थिं समतारयि, खेमेन सन्तारेसि; किं त्वं तेसं होसि, किमे तुय्हं वा किंसु एते होन्तीति?

तं सुत्वा बोधिसत्तो राजानं ओवदन्तो सेसगाथा अभासि –

८४. ‘‘राजाहं इस्सरो तेसं, यूथस्स परिहारको;

तेसं सोकपरेतानं, भीतानं ते अरिन्दम.

८५. ‘‘उल्लङ्घयित्वा अत्तानं, विस्सट्ठधनुनो सतं;

ततो अपरपादेसु, दळ्हं बन्धं लतागुणं.

८६. ‘‘छिन्नब्भमिव वातेन, नुण्णो रुक्खं उपागमिं;

सोहं अप्पभवं तत्थ, साखं हत्थेहि अग्गहिं.

८७. ‘‘तं मं वियायतं सन्तं, साखाय च लताय च;

समनुक्कमन्ता पादेहि, सोत्थिं साखामिगा गता.

८८. ‘‘तं मं न तपते बन्धो, मतो मे न तपेस्सति;

सुखमाहरितं तेसं, येसं रज्जमकारयिं.

८९. ‘‘एसा ते उपमा राज, तं सुणोहि अरिन्दम;

रञ्ञा रट्ठस्स योग्गस्स, बलस्स निगमस्स च;

सब्बेसं सुखमेट्ठब्बं, खत्तियेन पजानता’’ति.

तत्थ तेसन्ति तेसं असीतिसहस्सानं वानरानं. भीतानं तेति तव विज्झनत्थाय आणापेत्वा ठितस्स भीतानं. अरिन्दमाति राजानं आलपति. राजा हि चोरादीनं अरीनं दमनतो ‘‘अरिन्दमो’’ति वुच्चति. विस्सट्ठधनुनो सतन्ति अनारोपितधनुसतप्पमाणं ठानं अत्तानं आकासे उल्लङ्घयित्वा विस्सज्जेत्वा ततो इमम्हा रुक्खा लङ्घयित्वा गतट्ठानतो. अपरपादेसूति पच्छापादेसु. इदं कटिभागं सन्धाय वुत्तं. बोधिसत्तो हि कटिभागे तं लतागुणं दळ्हं बन्धित्वा पच्छिमपादेहि भूमियं अक्कमित्वा विस्सज्जेत्वा वातवेगेन आकासं पक्खन्दि. नुण्णो रुक्खं उपागमिन्ति वातच्छिन्नं अब्भमिव अत्तनो वेगजनितेन वातेन नुण्णो. यथा वातच्छिन्नब्भं वातेन, एवं अत्तनो वेगेन नुण्णो हुत्वा इमं अम्बरुक्खं उपागमिं. अप्पभवन्ति सो अहं तत्थ आकासप्पदेसे रुक्खं पापुणितुं अप्पहोन्तो तस्स रुक्खस्स साखं हत्थेहि अग्गहेसिन्ति अत्थो.

वियायतन्ति रुक्खसाखाय च वेत्तलताय च वीणाय भमरतन्ति विय विततं आकड्ढितसरीरं. समनुक्कमन्ताति मया अनुञ्ञाता मं वन्दित्वा पादेहि अनुक्कमन्ता निरन्तरमेव अक्कमन्ता सोत्थिं गता. तं मं न तपते बन्धोति तं मं नापि सो वल्लिया बन्धो तपति, नापि इदानि मरणं तपेस्सति. किंकारणा? सुखमाहरितं तेसन्ति यस्मा येसं अहं रज्जमकारयिं, तेसं मया सुखमाहरितं. एते हि ‘‘महाराज, अयं नो उप्पन्नं दुक्खं हरित्वा सुखं आहरिस्सती’’ति मं राजानं अकंसु. अहम्पि ‘‘तुम्हाकं उप्पन्नं दुक्खं हरिस्सामि’’च्चेव एतेसं राजा जातो. तं अज्ज मया एतेसं मरणदुक्खं हरित्वा जीवितसुखं आहटं, तेन मं नापि बन्धो तपति, न मरणवधो तपेस्सति.

एसा ते उपमाति एसा ते महाराज, मया कतकिरियाय उपमा. तं सुणोहीति तस्मा इमाय उपमाय संसन्देत्वा अत्तनो दिय्यमानं ओवादं सुणाहि. रञ्ञा रट्ठस्साति महाराज, रञ्ञा नाम उच्छुयन्ते उच्छुं विय रट्ठं अपीळेत्वा चतुब्बिधं अगतिगमनं पहाय चतूहि सङ्गहवत्थूहि सङ्गण्हन्तेन दससु राजधम्मेसु पतिट्ठाय मया विय अत्तनो जीवितं परिच्चजित्वा ‘‘किन्तिमे रट्ठवासिनो विगतभया गिम्हकाले विवटद्वारे ञातीहि च परिवारकेहि च परिवारिता उरे पुत्ते नच्चेन्ता सीतेन वातेन बीजियमाना यथारुचि अत्तनो अत्तनो सन्तकं परिभुञ्जन्ता कायिकचेतसिकसुखसमङ्गिनो भवेय्यु’’न्ति सकलरट्ठस्स च रथसकटादियुत्तवाहनस्स योग्गस्स च पत्तिसङ्खातस्स बलस्स च निगमजनपदसङ्खातस्स निगमस्स च सब्बेसं सुखमेव एसितब्बं गवेसितब्बन्ति अत्थो. खत्तियेन पजानताति खेत्तानं अधिपतिभावेन ‘‘खत्तियो’’ति लद्धनामेन पन एतेन अवसेससत्ते अतिक्कम्म पजानता ञाणसम्पन्नेन भवितब्बन्ति.

एवं महासत्तो राजानं ओवदन्तो अनुसासन्तोव कालमकासि. राजा अमच्चे पक्कोसापेत्वा ‘‘इमस्स कपिराजस्स राजूनं विय सरीरकिच्चं करोथा’’ति वत्वा इत्थागारम्पि आणापेसि ‘‘तुम्हे रत्तवत्थनिवत्था विकिण्णकेसा दण्डदीपिकहत्था कपिराजानं परिवारेत्वा आळाहनं गच्छथा’’ति. अमच्चा दारूनं सकटसतमत्तेन चितकं करित्वा राजूनं करणनियामेनेव महासत्तस्स सरीरकिच्चं कत्वा सीसकपालं गहेत्वा रञ्ञो सन्तिकं अगमंसु. राजा महासत्तस्स आळाहने चेतियं कारेत्वा दीपे जालापेत्वा गन्धमालादीहि पूजेत्वा सीसकपालं सुवण्णखचितं कारेत्वा कुन्तग्गे ठपेत्वा पुरतो कत्वा गन्धमालादीहि पूजेन्तो बाराणसिं गन्त्वा अन्तोराजद्वारे ठपेत्वा सकलनगरं सज्जापेत्वा सत्ताहं धातुपूजं कारेसि. अथ नं धातुं गहेत्वा चेतियं कारेत्वा यावजीवं गन्धमालादीहि पूजेत्वा बोधिसत्तस्स ओवादे पतिट्ठाय दानादीनि पुञ्ञानि करोन्तो धम्मेन रज्जं कारेत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, दुट्ठकपि देवदत्तो, परिसा बुद्धपरिसा, कपिराजा पन अहमेव अहोसि’’न्ति.

महाकपिजातकवण्णना दुतिया.

[४०८] ३. कुम्भकारजातकवण्णना

अम्बाहमद्दं वनमन्तरस्मिन्ति इदं सत्था जेतवने विहरन्तो किलेसनिग्गहं आरब्भ कथेसि. वत्थु पानीयजातके (जा. १.११.५९ आदयो) आवि भविस्सति. तदा पन सावत्थियं पञ्चसता सहायका पब्बजित्वा अन्तोकोटिसन्थारे वसमाना अड्ढरत्तसमये कामवितक्कं वितक्कयिंसु. सत्था अत्तनो सावके रत्तिया तयो वारे, दिवसस्स तयो वारेति रत्तिन्दिवं छ वारे ओलोकेन्तो किकी अण्डं विय, चमरी वालधिं विय, माता पियपुत्तं विय, एकचक्खुको पुरिसो चक्खुं विय रक्खति, तस्मिं तस्मिंयेव खणे उप्पन्नकिलेसं निग्गण्हाति. सो तं दिवसं अड्ढरत्तसमये जेतवनं परिग्गण्हन्तो तेसं भिक्खूनं वितक्कसमुदाचारं ञत्वा ‘‘इमेसं भिक्खूनं अब्भन्तरे अयं किलेसो वड्ढन्तो अरहत्तस्स हेतुं भिन्दिस्सति, इदानेव नेसं किलेसं निग्गण्हित्वा अरहत्तं दस्सामी’’ति गन्धकुटितो निक्खमित्वा आनन्दत्थेरं पक्कोसापेत्वा ‘‘आनन्द, अन्तोकोटिसन्थारे वसनकभिक्खू सब्बे सन्निपातेही’’ति सन्निपातापेत्वा पञ्ञत्तवरबुद्धासने निसीदित्वा ‘‘न, भिक्खवे, अन्तोपवत्तकिलेसानं वसे वत्तितुं वट्टति, किलेसो हि वड्ढमानो पच्चामित्तो विय महाविनासं पापेति, भिक्खुना नाम अप्पमत्तकम्पि किलेसं निग्गण्हितुं वट्टति, पोराणकपण्डिता अप्पमत्तकं आरम्मणं दिस्वा अब्भन्तरे पवत्तकिलेसं निग्गण्हित्वा पच्चेकबोधिञाणं निब्बत्तेसु’’न्ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो बाराणसिनगरस्स द्वारगामे कुम्भकारकुले निब्बत्तित्वा वयप्पत्तो कुटुम्बं सण्ठपेत्वा एकं पुत्तञ्च धीतरञ्च लभित्वा कुम्भकारकम्मं निस्साय पुत्तदारं पोसेसि. तदा कलिङ्गरट्ठे दन्तपुरनगरे करण्डको नाम राजा महन्तेन परिवारेन उय्यानं गच्छन्तो उय्यानद्वारे फलभारभरितं मधुरफलं अम्बरुक्खं दिस्वा हत्थिक्खन्धवरगतोयेव हत्थं पसारेत्वा एकं अम्बपिण्डं गहेत्वा उय्यानं पविसित्वा मङ्गलसिलाय निसिन्नो दातब्बयुत्तकानं दत्वा अम्बं परिभुञ्जि. ‘‘रञ्ञा गहितकालतो पट्ठाय सेसेहि नाम गहेतब्बमेवा’’ति अमच्चापि ब्राह्मणगहपतिकादयोपि अम्बानि पातेत्वा खादिंसु. पच्छा आगता रुक्खं आरुय्ह मुग्गरेहि पोथेत्वा ओभग्गविभग्गसाखं कत्वा आमकफलम्पि असेसेत्वा खादिंसु.

राजा दिवसं उय्याने कीळित्वा सायन्हसमये अलङ्कतहत्थिक्खन्धवरे निसीदित्वा गच्छन्तो तं रुक्खं दिस्वा हत्थितो ओतरित्वा रुक्खमूलं गन्त्वा रुक्खं ओलोकेत्वा ‘‘अयं पातोव पस्सन्तानं अतित्तिकरो फलभारभरितो सोभमानो अट्ठासि, इदानि गहितफलो ओभग्गविभग्गो असोभमानो ठितो’’ति चिन्तेत्वा पुन अञ्ञतो ओलोकेन्तो अपरं निप्फलं अम्बरुक्खं दिस्वा ‘‘एस रुक्खो अत्तनो निप्फलभावेन मुण्डमणिपब्बतो विय सोभमानो ठितो, अयं पन सफलभावेन इमं ब्यसनं पत्तो, इदं अगारमज्झम्पि फलितरुक्खसदिसं, पब्बज्जा निप्फलरुक्खसदिसा, सधनस्सेव भयं अत्थि, निद्धनस्स भयं नत्थि, मयापि निप्फलरुक्खेन विय भवितब्ब’’न्ति फलरुक्खं आरम्मणं कत्वा रुक्खमूले ठितकोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेत्वा ‘‘विद्धंसिता दानि मे मातुकुच्छिकुटिका, छिन्ना तीसु भवेसु पटिसन्धि, सोधिता संसारउक्कारभूमि, सोसितो मया अस्सुसमुद्दो, भिन्नो अट्ठिपाकारो, नत्थि मे पुन पटिसन्धी’’ति आवज्जेन्तो सब्बालङ्कारपटिमण्डितोव अट्ठासि.

अथ नं अमच्चा आहंसु ‘‘अतिबहुं ठितत्थ, महाराजा’’ति. ‘‘न मयं महाराजानो, पच्चेकबुद्धा नाम मय’’न्ति. ‘‘पच्चेकबुद्धा नाम तुम्हादिसा न होन्ति, देवा’’ति. ‘‘अथ कीदिसा होन्ती’’ति? ‘‘ओरोपितकेसमस्सुकासाववत्थपटिच्छन्ना कुले वा गणे वा अलग्गा वातच्छिन्नवलाहकराहुमुत्तचन्दमण्डलपटिभागा हिमवन्ते नन्दमूलकपब्भारे वसन्ति, एवरूपा देव, पच्चेकबुद्धा’’ति. तस्मिं खणे राजा हत्थं उक्खिपित्वा सीसं परामसि, तावदेवस्स गिहिलिङ्गं अन्तरधायि, समणलिङ्गं पातुरहोसि.

‘‘तिचीवरञ्च पत्तो च, वासि सूचि च बन्धनं;

परिस्सावनेन अट्ठेते, युत्तयोगस्स भिक्खुनो’’ति. –

एवं वुत्ता समणपरिक्खारा कायपटिबद्धाव अहेसुं. सो आकासे ठत्वा महाजनस्स ओवादं दत्वा अनिलपथेन उत्तरहिमवन्ते नन्दमूलकपब्भारमेव अगमासि.

गन्धाररट्ठेपि तक्कसिलनगरे नग्गजि नाम राजा उपरिपासादे पल्लङ्कमज्झगतो एकं इत्थिं एकेकहत्थे एकेकं मणिवलयं पिळन्धित्वा अविदूरे निसीदित्वा गन्धं पिसमानं दिस्वा ‘‘एतानि वलयानि एकेकभावेन न घट्टेन्ति न विरवन्ती’’ति ओलोकेन्तो निसीदि. अथ सा दक्खिणहत्थतो वलयं वामहत्थेयेव पिळन्धित्वा दक्खिणहत्थेन गन्धं सङ्कड्ढित्वा पिसितुं आरभि, वामहत्थे वलयं दुतियं आगम्म घट्टियमानं सद्दमकासि. राजा तानि द्वे वलयानि अञ्ञमञ्ञं घट्टेन्तानि विरवन्तानि दिस्वा चिन्तेसि ‘‘इदं वलयं एकेककाले न घट्टेसि, दुतियं आगम्म घट्टेति, सद्दं करोति, एवमेव इमे सत्तापि एकेका न घट्टेन्ति न विवदन्ति, द्वे तयो हुत्वा अञ्ञमञ्ञं घट्टेन्ति, कलहं करोन्ति. अहं पन कस्मीरगन्धारेसु द्वीसु रज्जेसु रट्ठवासिनो विचारेमि, मयापि एकवलयसदिसेन हुत्वा परं अविचारेत्वा अत्तानमेव विचारेन्तेन वसितुं वट्टती’’ति सङ्घट्टनवलयं आरम्मणं कत्वा यथानिसिन्नोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

विदेहरट्ठे मिथिलनगरे निमि नाम राजा भुत्तपातरासो अमच्चगणपरिवुतो विवटसीहपञ्जरेन अन्तरवीथिं पेक्खमानो अट्ठासि. अथेको सेनो सूनापणतो मंसपेसिं गहेत्वा आकासं पक्खन्दि. तमेनं इतो चितो च गिज्झादयो सकुणा सम्परिवारेत्वा आहारहेतु तुण्डेन विज्झन्ता पक्खेहि पहरन्ता पादेहि मद्दन्ता अगमंसु. सो अत्तनो वधं असहमानो तं मंसं छड्डेसि. अञ्ञो गण्हि, सकुणा इमं मुञ्चित्वा तं अनुबन्धिंसु. तेनपि विस्सट्ठं अञ्ञो अग्गहेसि, तम्पि तथेव विहेठेसुं. राजा ते सकुणे दिस्वा चिन्तेसि ‘‘यो यो मंसपेसिं गण्हि, तस्स तस्सेव दुक्खं, यो यो तं विस्सज्जेसि, तस्स तस्सेव सुखं, इमेपि पञ्च कामगुणे यो यो गण्हाति, तस्स तस्सेव दुक्खं, इतरस्स सुखं, इमे हि बहूनं साधारणा, मय्हं खो पन सोळस इत्थिसहस्सानि, मया विस्सट्ठमंसपिण्डेन विय सेनेन पञ्च कामगुणे पहाय सुखितेन भवितुं वट्टती’’ति. सो योनिसो मनसि करोन्तो यथाठितोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

उत्तरपञ्चालरट्ठे कपिलनगरे दुम्मुखो नाम राजा भुत्तपातरासो सब्बालङ्कारपटिमण्डितो अमच्चगणपरिवुतो विवटसीहपञ्जरे राजङ्गणं ओलोकेन्तो अट्ठासि. तस्मिं खणे गोपालका वजद्वारं विवरिंसु, उसभा वजतो निक्खमित्वा किलेसवसेन एकं गाविं अनुबन्धिंसु. तत्थेको तिखिणसिङ्गो महाउसभो अञ्ञं उसभं आगच्छन्तं दिस्वा किलेसमच्छेराभिभूतो तिखिणेन सिङ्गेन अन्तरसत्थिम्हि पहरि. तस्स पहारमुखेन अन्तानि निक्खमिंसु, सो तत्थेव जीवितक्खयं पापुणि. राजा तं दिस्वा चिन्तेसि ‘‘इमे सत्ता तिरच्छानगते आदिं कत्वा किलेसवसेन दुक्खं पापुणन्ति, अयं उसभो किलेसं निस्साय जीवितक्खयं पत्तो, अञ्ञेपि सत्ता किलेसेहेव कम्पन्ति, मया इमेसं सत्तानं कम्पनकिलेसे पहातुं वट्टती’’ति. सो ठितकोव तीणि लक्खणानि सल्लक्खेत्वा विपस्सनं वड्ढेत्वा पच्चेकबोधिञाणं निब्बत्तेसि. सेसं पुरिमसदिसमेव.

अथेकदिवसं चत्तारो पच्चेकबुद्धा भिक्खाचारवेलं सल्लक्खेत्वा नन्दमूलकपब्भारा निक्खम्म अनोतत्तदहे नागलतादन्तकट्ठं खादित्वा कतसरीरपटिजग्गना मनोसिलातले ठत्वा निवासेत्वा पत्तचीवरमादाय इद्धिया आकासे उप्पतित्वा पञ्चवण्णवलाहके मद्दमाना गन्त्वा बाराणसिनगरद्वारगामकस्स अविदूरे ओतरित्वा एकस्मिं फासुकट्ठाने चीवरं पारुपित्वा पत्तं गहेत्वा द्वारगामं पविसित्वा पिण्डाय चरन्ता बोधिसत्तस्स गेहद्वारं सम्पापुणिंसु. बोधिसत्तो ते दिस्वा तुट्ठचित्तो हुत्वा गेहं पवेसेत्वा पञ्ञत्तासने निसीदापेत्वा दक्खिणोदकं दत्वा पणीतेन खादनीयेन भोजनीयेन परिविसित्वा एकमन्तं निसीदित्वा सङ्घत्थेरं वन्दित्वा ‘‘भन्ते, तुम्हाकं पब्बज्जा अतिविय सोभति, विप्पसन्नानि वो इन्द्रियानि, परिसुद्धो छविवण्णो, किं नु खो आरम्मणं दिस्वा तुम्हे इमं भिक्खाचरियपब्बज्जं उपगता’’ति पुच्छि. यथा च सङ्घत्थेरं, एवं सेसेपि उपसङ्कमित्वा पुच्छि. अथस्स ते चत्तारोपि जना ‘‘अहं असुकनगरे असुकरट्ठे असुकराजा नाम हुत्वा’’तिआदिना नयेन अत्तनो अत्तनो अभिनिक्खमनवत्थूनि कथेत्वा पटिपाटिया एकेकं गाथमाहंसु –

९०. ‘‘अम्बाहमद्दं वनमन्तरस्मिं, निलोभासं फलितं संविरूळ्हं;

तमद्दसं फलहेतु विभग्गं, तं दिस्वा भिक्खाचरियं चरामि.

९१. ‘‘सेलं सुमट्ठं नरवीरनिट्ठितं, नारी युगं धारयि अप्पसद्दं;

दुतियञ्च आगम्म अहोसि सद्दो, तं दिस्वा भिक्खाचरियं चरामि.

९२. ‘‘दिजा दिजं कुणपमाहरन्तं, एकं समानं बहुका समेच्च;

आहारहेतू परिपातयिंसु, तं दिस्वा भिक्खाचरियं चरामि.

९३. ‘‘उसभाहमद्दं यूथस्स मज्झे, चलक्ककुं वण्णबलूपपन्नं;

तमद्दसं कामहेतु वितुन्नं, तं दिस्वा भिक्खाचरियं चरामी’’ति.

तत्थ अम्बाहमद्दन्ति अम्बरुक्खं अहं अद्दसं. वनमन्तरस्मिन्ति वनअन्तरे, अम्बवनमज्झेति अत्थो. संविरूळ्हन्ति सुवड्ढितं. तमद्दसन्ति तं उय्यानतो निक्खन्तो फलहेतु विभग्गं पुन अद्दसं. तं दिस्वाति तं फलहेतु विभग्गं दिस्वा पटिलद्धसंवेगो पच्चेकबोधिञाणं निब्बत्तेत्वा इमं भिक्खाचरियपब्बज्जं उपगतोस्मि, तस्मा भिक्खाचरियं चरामीति. इदं सो फलहेतु विभग्गं अम्बरुक्खं दस्सनतो पट्ठाय सब्बं चित्ताचारं कथेसि. सेसानं विस्सज्जनेसुपि एसेव नयो. अयं पनेत्थ अनुत्तानपदवण्णना – सेलन्ति मणिवलयं. नरवीरनिट्ठितन्ति वीरनरेहि निट्ठितं, पण्डितपुरिसेहि कतन्ति अत्थो. युगन्ति एकेकस्मिं एकेकं कत्वा एकं वलययुगळं. दिजा दिजन्ति गहितमंसपिण्डं दिजं अवसेसदिजा. कुणपमाहरन्तन्ति मंसपिण्डं आदाय आहरन्तं. समेच्चाति समागन्त्वा सन्निपतित्वा. परिपातयिंसूति कोट्टेन्ता अनुबन्धिंसु. उसभाहमद्दन्ति उसभं अहं अद्दसं. चलक्ककुन्ति चलक्ककुधं.

बोधिसत्तो एकेकं गाथं सुत्वा ‘‘साधु, भन्ते, तुम्हाकमेव तं आरम्मणं अनुरूप’’न्ति एकेकस्स पच्चेकबुद्धस्स थुतिं अकासि. तञ्च पन चतूहि जनेहि देसितं धम्मकथं सुत्वा घरावासे अनपेक्खो हुत्वा पक्कन्तेसु पच्चेकबुद्धेसु भुत्तपातरासो सुखनिसिन्नो भरियं आमन्तेत्वा ‘‘भद्दे, एते चत्तारो पच्चेकबुद्धा रज्जं पहाय पब्बजित्वा अकिञ्चना अपलिबोधा पब्बज्जासुखेन वीतिनामेन्ति, अहं पन भतिया जीविकं कप्पेमि, किं मे घरावासेन, त्वं पुत्तके सङ्गण्हन्ती गेहे वसा’’ति वत्वा द्वे गाथा अभासि –

९४. ‘‘करण्डको कलिङ्गानं, गन्धारानञ्च नग्गजि;

निमिराजा विदेहानं, पञ्चालानञ्च दुम्मुखो;

एते रट्ठानि हित्वान, पब्बजिंसु अकिञ्चना.

९५. ‘‘सब्बेपिमे देवसमा समागता, अग्गी यथा पज्जलितो तथेविमे;

अहम्पि एको चरिस्सामि भग्गवि, हित्वान कामानि यथोधिकानी’’ति.

तासं अत्थो – भद्दे, एस सङ्घत्थेरो पच्चेकबुद्धो दन्तपुरे नाम नगरे करण्डको नाम कलिङ्गानं जनपदस्स राजा, दुतियो तक्कसिलनगरे नग्गजि नाम गन्धारानं जनपदस्स राजा, ततियो मिथिलनगरे निमि नाम विदेहानं जनपदस्स राजा, चतुत्थो कपिलनगरे दुम्मुखो नाम उत्तरपञ्चालानं जनपदस्स राजा, एते एवरूपानि रट्ठानि हित्वा अकिञ्चना हुत्वा पब्बजिंसु. सब्बेपिमेति इमे पन सब्बेपि विसुद्धिदेवेहि पुरिमपच्चेकबुद्धेहि समाना एकतो समागता. अग्गी यथाति यथा हि अग्गि पज्जलितो ओभासति. तथेविमेति इमेपि तथेव सीलादीहि पञ्चहि गुणेहि ओभासन्ति. यथा एते, तथा अहम्पि पब्बजित्वा एको चरिस्सामीति अत्थो. भग्गवीति भरियं आलपति. हित्वान कामानीति रूपादयो वत्थुकामे हित्वा. यथोधिकानीति अत्तनो ओधिवसेन ठितानि. इदं वुत्तं होति – रूपादिओधिवसेन यथाठिते कामे पहाय अहम्पि पब्बजित्वा एको चरिस्सामीति. ‘‘यतोधिकानी’’तिपि पाठो, तस्सत्थो – यतो उपरतो ओधि एतेसन्ति यतोधिकानि, उपरतकोट्ठासानि. पब्बजिस्सामीति चिन्तितकालतो पट्ठाय हि किलेसकामानं एको कोट्ठासो उपरतो नाम होति निरुद्धो, तस्स वत्थुभूतो कामकोट्ठासोपि उपरतोव होतीति.

सा तस्स कथं सुत्वा ‘‘मय्हम्पि खो सामि, पच्चेकबुद्धानं धम्मकथं सुतकालतो पट्ठाय अगारे चित्तं न सण्ठाती’’ति वत्वा इमं गाथमाह –

९६. ‘‘अयमेव कालो न हि अञ्ञो अत्थि, अनुसासिता मे न भवेय्य पच्छा;

अहम्पि एका चरिस्सामि भग्गव, सकुणीव मुत्ता पुरिसस्स हत्था’’ति.

तत्थ अनुसासिता मे न भवेय्य पच्छाति अनुसासको ओवादको न भवेय्य दुल्लभत्ता ओवादकानं, तस्मा अयमेव पब्बजितुं कालो, न हि अञ्ञो अत्थीति दस्सेति. सकुणीव मुत्ताति यथा साकुणिकेन गहेत्वा सकुणपच्छियं खित्तासु सकुणीसु तस्स हत्थतो मुत्ता एका सकुणी अनिलपथं लङ्घयित्वा यथारुचितट्ठानं गन्त्वा एकिकाव चरेय्य, तथा अहम्पि तव हत्थतो मुत्ता एकिका चरिस्सामीति सयम्पि पब्बजितुकामा हुत्वा एवमाह.

बोधिसत्तो तस्सा कथं सुत्वा तुण्ही अहोसि. सा पन बोधिसत्तं वञ्चेत्वा पुरेतरं पब्बजितुकामा ‘‘सामि, पानीयतित्थं गमिस्सामि, दारके ओलोकेही’’ति घटं आदाय गच्छन्ती विय पलायित्वा नगरसामन्ते तापसानं सन्तिके गन्त्वा पब्बजि. बोधिसत्तो तस्सा अनागमनं ञत्वा सयं दारके पोसेसि. अपरभागे तेसु थोकं वड्ढित्वा अत्तनो अयानयजाननसमत्थतं सम्पत्तेसु तेसं वीमंसनत्थं एकदिवसं भत्तं पचन्तो थोकं उत्तण्डुलं पचि, एकदिवसं थोकं किलिन्नं, एकदिवसं सुपक्कं, एकदिवसं अतिकिलिन्नं, एकदिवसं अलोणकं, एकदिवसं अतिलोणकं. दारका ‘‘तात, अज्ज भत्तं उत्तण्डुलं, अज्ज किलिन्नं, अज्ज सुपक्कं, अज्ज अतिकिलिन्नं, अज्ज अलोणकं, अज्ज अतिलोणक’’न्ति आहंसु. तं सुत्वा बोधिसत्तो ‘‘आम, ताता’’ति वत्वा चिन्तेसि ‘‘इमे दारका इदानि आमपक्कलोणिकअतिलोणिकानि जानन्ति, अत्तनो धम्मताय जीवितुं सक्खिस्सन्ति, मया पब्बजितुं वट्टती’’ति. अथ ते दारके ञातकानं दत्वा पटिच्छापेत्वा ‘‘अम्मताता, इमे दारके साधुकं पोसेथा’’ति वत्वा सो ञातकानं परिदेवन्तानञ्ञेव नगरा निक्खमित्वा इसिपब्बज्जं पब्बजित्वा नगरस्स सामन्तेयेव वसि.

अथ नं एकदिवसं बाराणसियं भिक्खाय चरन्तं परिब्बाजिका दिस्वा वन्दित्वा ‘‘अय्य, दारका ते नासिता मञ्ञे’’ति आह. महासत्तो ‘‘नाहं दारके नासेमि, तेसं अत्तनो अयानयजाननकाले पब्बजितोम्हि, त्वं तेसं अचिन्तेत्वा पब्बज्जाय अभिरमा’’ति वत्वा ओसानगाथमाह –

९७. ‘‘आमं पक्कञ्च जानन्ति, अथो लोणं अलोणकं;

तमहं दिस्वान पब्बजिं, चरेव त्वं चरामह’’न्ति.

तत्थ तमहन्ति तं अहं दारकानं किरियं दिस्वा पब्बजितो. चरेव त्वं चरामहन्ति त्वम्पि भिक्खाचरियमेव चर, अहम्पि भिक्खाचरियमेव चरिस्सामीति.

इति सो परिब्बाजिकं ओवदित्वा उय्योजेसि. सापि ओवादं गहेत्वा महासत्तं वन्दित्वा यथारुचितं ठानं गता. ठपेत्वा किर तं दिवसं न ते पुन अञ्ञमञ्ञं अद्दसंसु. बोधिसत्तो च झानाभिञ्ञं निब्बत्तेत्वा ब्रह्मलोकूपगो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने ते पञ्चसता भिक्खू अरहत्ते पतिट्ठहिंसु. तदा धीता उप्पलवण्णा अहोसि, पुत्तो राहुलकुमारो, परिब्बाजिका राहुलमाता, परिब्बाजको पन अहमेव अहोसिन्ति.

कुम्भकारजातकवण्णना ततिया.

[४०९] ४. दळ्हधम्मजातकवण्णना

अहं चे दळ्हधम्मस्साति इदं सत्था कोसम्बिं निस्साय घोसितारामे विहरन्तो उदेनस्स रञ्ञो भद्दवतिकं हत्थिनिं आरब्भ कथेसि. तस्सा पन हत्थिनिया लद्धविधानञ्च उदेनस्स राजवंसो च मातङ्गजातके (जा. १.१५.१ आदयो) आवि भविस्सति. एकदिवसं पन सा हत्थिनी नगरा निक्खमन्ती भगवन्तं पातोव अरियगणपरिवुतं अनोमाय बुद्धसिरिया नगरं पिण्डाय पविसन्तं दिस्वा तथागतस्स पादमूले निपज्जित्वा ‘‘भगवा सब्बञ्ञु सब्बलोकनित्थरण उदेनो वंसराजा मं तरुणकाले कम्मं नित्थरितुं समत्थकाले ‘इमं निस्साय मया जीवितञ्च रज्जञ्च देवी च लद्धा’ति पियायित्वा महन्तं परिहारं अदासि, सब्बालङ्कारेहि अलङ्करित्वा ठितट्ठानं गन्धेन परिभण्डं कारेत्वा मत्थके सुवण्णतारकखचितवितानं बन्धापेत्वा समन्ता चित्रसाणिं परिक्खिपापेत्वा गन्धतेलेन दीपं जालापेत्वा धूमतट्टकं ठपापेत्वा करीसछड्डनट्ठाने सुवण्णकटाहं पतिट्ठपापेत्वा मं चित्तत्थरणपिट्ठे ठपेसि, राजारहञ्च मे नानग्गरसभोजनं दापेसि. इदानि पन मे महल्लककाले कम्मं नित्थरितुं असमत्थकाले सब्बं तं परिहारं अच्छिन्दि, अनाथा निप्पच्चया हुत्वा अरञ्ञे केतकानि खादन्ती जीवामि, अञ्ञं मय्हं पटिसरणं नत्थि, उदेनं मम गुणं सल्लक्खापेत्वा पोराणकपरिहारं मे पटिपाकतिकं कारेथ भगवा’’ति परिदेवमाना तथागतं याचि.

सत्था ‘‘गच्छ त्वं, अहं ते रञ्ञो कथेत्वा यसं पटिपाकतिकं कारेस्सामी’’ति वत्वा रञ्ञो निवेसनद्वारं अगमासि. राजा तथागतं अन्तोनिवेसनं पवेसेत्वा बुद्धप्पमुखस्स सङ्घस्स महादानं पवत्तेसि. सत्था भत्तकिच्चपरियोसाने अनुमोदनं करोन्तो ‘‘महाराज, भद्दवतिका कह’’न्ति पुच्छि. ‘‘न जानामि, भन्ते’’ति. ‘‘महाराज, उपकारकानं यसं दत्वा महल्लककाले गहेतुं नाम न वट्टति, कतञ्ञुना कतवेदिना भवितुं वट्टति. भद्दवतिका इदानि महल्लिका जराजिण्णा अनाथा हुत्वा अरञ्ञे केतकानि खादन्ती जीवति, तं जिण्णकाले अनाथं कातुं तुम्हाकं अयुत्त’’न्ति भद्दवतिकाय गुणं कथेत्वा ‘‘सब्बं पोराणकपरिहारं पटिपाकतिकं करोही’’ति वत्वा पक्कामि. राजा तथा अकासि. ‘‘तथागतेन किर भद्दवतिकाय गुणं कथेत्वा पोराणकयसो पटिपाकतिको कारितो’’ति सकलनगरं पत्थरि, भिक्खुसङ्घेपि सा पवत्ति पाकटा जाता. अथ भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, सत्थारा किर भद्दवतिकाय गुणं कथेत्वा पोराणकयसो पटिपाकतिको कारितो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपि तथागतो एतिस्सा गुणं कथेत्वा नट्ठयसं पटिपाकतिकं कारेसियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं दळ्हधम्मो नाम राजा रज्जं कारेसि. तदा बोधिसत्तो अमच्चकुले निब्बत्तित्वा वयप्पत्तो तं राजानं उपट्ठहि. सो तस्स सन्तिका महन्तं यसं लभित्वा अमच्चरतनट्ठाने अट्ठासि. तदा तस्स रञ्ञो एका ओट्ठिब्याधि हत्थिनी थामबलसम्पन्ना महब्बला अहोसि. सा एकदिवसं योजनसतं गच्छति, रञ्ञो दूतेय्यहरणकिच्चं करोति, सङ्गामे युद्धं कत्वा सत्तु मद्दनं करोति. राजा ‘‘अयं मे बहूपकारा’’ति तस्सा सब्बालङ्कारं दत्वा उदेनेन भद्दवतिकाय दिन्नसदिसं सब्बं परिहारं दापेसि. अथस्सा जिण्णदुब्बलकाले राजा सब्बं यसं गण्हि. सा ततो पट्ठाय अनाथा हुत्वा अरञ्ञे तिणपण्णानि खादन्ती जीवति. अथेकदिवसं राजकुले भाजनेसु अप्पहोन्तेसु राजा कुम्भकारं पक्कोसापेत्वा ‘‘भाजनानि किर नप्पहोन्ती’’ति आह. ‘‘गोमयाहरणयानके योजेतुं गोणे न लभामि, देवा’’ति. राजा तस्स कथं सुत्वा ‘‘अम्हाकं ओट्ठिब्याधि कह’’न्ति पुच्छि. ‘‘अत्तनो धम्मताय चरति, देवा’’ति. राजा ‘‘इतो पट्ठाय तं योजेत्वा गोमयं आहरा’’ति तं कुम्भकारस्स अदासि. कुम्भकारो ‘‘साधु, देवा’’ति तथा अकासि.

अथेकदिवसं सा नगरा निक्खममाना नगरं पविसन्तं बोधिसत्तं दिस्वा वन्दित्वा तस्स पादमूले निपज्जित्वा परिदेवमाना ‘‘सामि, राजा मं ‘तरुणकाले बहूपकारा’ति सल्लक्खेत्वा महन्तं यसं दत्वा इदानि महल्लककाले सब्बं अच्छिन्दित्वा मयि चित्तम्पि न करोति, अहं पन अनाथा अरञ्ञे तिणपण्णानि खादन्ती जीवामि, एवं दुक्खप्पत्तं मं इदानि यानके योजेतुं कुम्भकारस्स अदासि, ठपेत्वा तुम्हे अञ्ञं मय्हं पटिसरणं नत्थि, मया रञ्ञो कतूपकारं तुम्हे जानाथ, साधु इदानि मे नट्ठं यसं पटिपाकतिकं करोथा’’ति वत्वा तिस्सो गाथा अभासि –

९८. ‘‘अहं चे दळ्हधम्मस्स, वहन्ती नाभिराधयिं;

धरन्ती उरसि सल्लं, युद्धे विक्कन्तचारिनी.

९९. ‘‘नून राजा न जानाति, मम विक्कमपोरिसं;

सङ्गामे सुकतन्तानि, दूतविप्पहितानि च.

१००. ‘‘सा नूनाहं मरिस्सामि, अबन्धु अपरायिनी;

तदा हि कुम्भकारस्स, दिन्ना छकणहारिका’’ति.

तत्थ वहन्तीति दूतेय्यहरणं सङ्गामे बलकोट्ठकभिन्दनं तं तं किच्चं वहन्ती नित्थरन्ती. धरन्ती उरसि सल्लन्ति उरस्मिं बद्धं कण्डं वा असिं वा सत्तिं वा युद्धकाले सत्तूनं उपरि अभिहरन्ती. विक्कन्तचारिनीति विक्कमं परक्कमं कत्वा परबलविजयेन युद्धे विक्कन्तगामिनी. इदं वुत्तं होति – सचे सामि, अहं इमानि किच्चानि करोन्ती रञ्ञो दळ्हधम्मस्स चित्तं नाराधयिं न परितोसेसिं, को दानि अञ्ञो तस्स चित्तं आराधयिस्सतीति.

मम विक्कमपोरिसन्ति मया कतं पुरिसपरक्कमं. सुकतन्तानीति सुकतानि. यथा हि कम्मानेव कम्मन्तानि, वनानेव वनन्तानि, एवमिध सुकतानेव ‘‘सुकतन्तानी’’ति वुत्तानि. दूतविप्पहितानि चाति गले पण्णं बन्धित्वा ‘‘असुकरञ्ञो नाम देही’’ति पहिताय मया एकदिवसेनेव योजनसतं गन्त्वा कतानि दूतपेसनानि च. नून राजा न जानातीति नून तुम्हाकं एस राजा एतानि मया कतानि किच्चानि न जानाति. अपरायिनीति अप्पतिट्ठा अप्पटिसरणा. तदा हीति तथा हि, अयमेव वा पाठो. दिन्नाति अहं रञ्ञा छकणहारिका कत्वा कुम्भकारस्स दिन्नाति.

बोधिसत्तो तस्सा कथं सुत्वा ‘‘त्वं मा सोचि, अहं रञ्ञो कथेत्वा तव यसं पटिपाकतिकं करिस्सामी’’ति तं समस्सासेत्वा नगरं पविसित्वा भुत्तपातरासो रञ्ञो सन्तिकं गन्त्वा कथं समुट्ठापेत्वा ‘‘महाराज, ननु तुम्हाकं असुका नाम ओट्ठिब्याधि असुकट्ठाने च असुकट्ठाने च उरे सल्लं बन्धित्वा सङ्गामं नित्थरि, असुकदिवसं नाम गीवाय पण्णं बन्धित्वा पेसिता योजनसतं अगमासि, तुम्हेपिस्सा महन्तं यसं अदत्थ, सा इदानि कह’’न्ति पुच्छि. ‘‘तमहं कुम्भकारस्स गोमयहरणत्थाय अदासि’’न्ति. अथ नं बोधिसत्तो ‘‘अयुत्तं खो, महाराज, तुम्हाकं तं कुम्भकारस्स यानके योजनत्थाय दातु’’न्ति वत्वा रञ्ञो ओवादवसेन चतस्सो गाथा अभासि –

१०१. ‘‘यावतासीसती पोसो, तावदेव पवीणति;

अत्थापाये जहन्ति नं, ओट्ठिब्याधिंव खत्तियो.

१०२. ‘‘यो पुब्बे कतकल्याणो, कतत्थो नावबुज्झति;

अत्था तस्स पलुज्जन्ति, ये होन्ति अभिपत्थिता.

१०३. ‘‘यो पुब्बे कतकल्याणो, कतत्थो मनुबुज्झति;

अत्था तस्स पवड्ढन्ति, ये होन्ति अभिपत्थिका.

१०४. ‘‘तं वो वदामि भद्दन्ते, यावन्तेत्थ समागता;

सब्बे कतञ्ञुनो होथ, चिरं सग्गम्हि ठस्सथा’’ति.

तत्थ पठमगाथाय ताव अत्थो – इधेकच्चो अञ्ञाणजातिको पोसो यावतासीसती, याव ‘‘इदं नाम मे अयं कातुं सक्खिस्सती’’ति पच्चासीसति, तावदेव तं पुरिसं पवीणति भजति सेवति, तस्स पन अत्थापाये वड्ढिया अपगमने परिहीनकाले तं नानाकिच्चेसु पत्थितं पोसं एकच्चे बाला इमं ओट्ठिब्याधिं अयं खत्तियो विय जहन्ति.

कतकल्याणोति परेन अत्तनो कतकल्याणकम्मो. कतत्थोति निप्फादितकिच्चो. नावबुज्झतीति पच्छापि तं परेन कतं उपकारं तस्स जराजिण्णकाले असमत्थकाले न सरति, अत्तना दिन्नम्पि यसं पुन गण्हाति. पलुज्जन्तीति भिज्जन्ति नस्सन्ति. ये होन्ति अभिपत्थिताति ये केचि अत्था इच्छिता नाम होन्ति, सब्बे नस्सन्तीति दीपेति. मित्तदुब्भिपुग्गलस्स हि पत्थितपत्थितं अग्गिम्हि पक्खित्तबीजं विय नस्सति. कतत्थो मनुबुज्झतीति कतत्थो अनुबुज्झति, म-कारो ब्यञ्जनसन्धिवसेन गहितो. तं वो वदामीति तेन कारणेन तुम्हे वदामि. ठस्सथाति कतञ्ञुनो हुत्वा चिरकालं सग्गम्हि दिब्बसम्पत्तिं अनुभवन्ता पतिट्ठहिस्सथ.

एवं महासत्तो राजानं आदिं कत्वा सन्निपतितानं सब्बेसं ओवादं अदासि. तं सुत्वा राजा ओट्ठिब्याधिया यसं पटिपाकतिकं अकासि. बोधिसत्तस्स च ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.

सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा ओट्ठिब्याधि भद्दवतिका अहोसि, राजा आनन्दो, अमच्चो पन अहमेव अहोसि’’न्ति.

दळ्हधम्मजातकवण्णना चतुत्था.

[४१०] ५. सोमदत्तजातकवण्णना

यो मं पुरे पच्चुड्डेतीति इदं सत्था जेतवने विहरन्तो अञ्ञतरं महल्लकं आरब्भ कथेसि. सो किरेकं सामणेरं पब्बाजेसि, सामणेरो तस्स उपकारको हुत्वा तथारूपेन रोगेन कालमकासि. महल्लको तस्मिं कालकते रोदन्तो परिदेवन्तो विचरति. तं दिस्वा भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, असुकमहल्लको सामणेरस्स कालकिरियाय रोदन्तो परिदेवन्तो विचरति, मरणस्सतिकम्मट्ठानरहितो मञ्ञे’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस इमस्मिं मते रोदियेवा’’ति वत्वा अतीतं आहरि.

अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तावतिंसभवने सक्कत्तं कारेसि. अथेको कासिगामवासी ब्राह्मणमहासालो कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा उञ्छाचरियाय वनमूलफलाफलेहि यापेन्तो वासं कप्पेसि. एकदिवसं फलाफलत्थाय गतो एकं हत्थिछापं दिस्वा अत्तनो अस्समं आनेत्वा पुत्तट्ठाने ठपेत्वा सोमदत्तोतिस्स नामं कत्वा तिणपण्णानि खादापेन्तो पटिजग्गि. सो वयप्पत्तो महासरीरो हुत्वा एकदिवसं बहुं भोजनं गहेत्वा अजीरकेन दुब्बलो अहोसि. तापसो तं अस्समपदे कत्वा फलाफलत्थाय गतो, तस्मिं अनागतेयेव हत्थिपोतको कालमकासि. तापसो फलाफलं गहेत्वा आगच्छन्तो ‘‘अञ्ञेसु दिवसेसु मे पुत्तो पच्चुग्गमनं करोति, अज्ज न दिस्सति, कहं नु खो गतो’’ति परिदेवन्तो पठमं गाथमाह –

१०५. ‘‘यो मं पुरे पच्चुड्डेति, अरञ्ञे दूरमायतो;

सो न दिस्सति मातङ्गो, सोमदत्तो कुहिं गतो’’ति.

तत्थ पुरेति इतो पुरे. पच्चुड्डेतीति पच्चुग्गच्छति. अरञ्ञे दूरन्ति इमस्मिं निम्मनुस्से अरञ्ञे मं दूरं पच्चुड्डेति. आयतोति आयामसम्पन्नो.

एवं परिदेवमानो आगन्त्वा तं चङ्कमनकोटियं पतितं दिस्वा गले गहेत्वा परिदेवमानो दुतियं गाथमाह –

१०६. ‘‘अयं वा सो मतो सेति, अल्लसिङ्गंव वच्छितो;

भूम्या निपतितो सेति, अमरा वत कुञ्जरो’’ति.

तत्थ अयं वाति विभावनत्थे वा-सद्दो. अयमेव सो, न अञ्ञोति तं विभावेन्तो एवमाह. अल्लसिङ्गन्ति मालुवलताय अग्गपवालं. वच्छितोति छिन्नो, गिम्हकाले मज्झन्हिकसमये तत्तवालिकापुलिने नखेन छिन्दित्वा पातितो मालुवलताय अङ्कुरो वियाति वुत्तं होति. भूम्याति भूमियं. अमरा वताति मतो वत, ‘‘अमरी’’तिपि पाठो.

तस्मिं खणे सक्को लोकं ओलोकेन्तो तं दिस्वा ‘‘अयं तापसो पुत्तदारं पहाय पब्बजितो, इदानि हत्थिपोतके पुत्तसञ्ञं कत्वा परिदेवति, संवेजेत्वा नं सतिं पटिलभापेस्सामी’’ति तस्स अस्समपदं आगन्त्वा आकासे ठितोव ततियं गाथमाह –