८. अट्ठकनिपातो
[४१७] १. कच्चानिजातकवण्णना
ओदातवत्था सुचि अल्लकेसाति इदं सत्था जेतवने विहरन्तो अञ्ञतरं मातुपोसकं उपासकं आरब्भ कथेसि. सो किर सावत्थियं कुलदारको आचारसम्पन्नो पितरि कालकते मातुदेवतो हुत्वा मुखधोवनदन्तकट्ठदानन्हापनपादधोवनादिवेय्यावच्चकम्मेन चेव यागुभत्तादीहि च मातरं पटिजग्गि. अथ नं माता ‘‘तात, तव अञ्ञानिपि घरावासकिच्चानि अत्थि, एकं समजातिकं कुलकुमारिकं गण्हाहि, सा मं पोसेस्सति, त्वम्पि अत्तनो कम्मं करिस्ससी’’ति आह. ‘‘अम्म, अहं अत्तनो हितसुखं अपच्चासीसमानो तुम्हे उपट्ठहामि, को अञ्ञो एवं उपट्ठहिस्सती’’ति? ‘‘कुलवड्ढनकम्मं नाम तात, कातुं वट्टती’’ति. ‘‘न मय्हं घरावासेन अत्थो, अहं तुम्हे उपट्ठहित्वा तुम्हाकं धूमकाले पब्बजिस्सामी’’ति. अथस्स माता पुनप्पुनं याचित्वापि मनं अलभमाना तस्स छन्दं अग्गहेत्वा समजातिकं कुलकुमारिकं आनेसि. सो मातरं अप्पटिक्खिपित्वा ताय सद्धिं संवासं कप्पेसि. सापि ‘‘मय्हं सामिको महन्तेन उस्साहेन मातरं उपट्ठहति, अहम्पि नं उपट्ठहिस्सामि, एवमस्स पिया भविस्सामी’’ति चिन्तेत्वा तं सक्कच्चं उपट्ठहि. सो ‘‘अयं मे मातरं सक्कच्चं उपट्ठही’’ति ततो पट्ठाय लद्धलद्धानि मधुरखादनीयादीनि तस्सायेव देति. सा अपरभागे चिन्तेसि ‘‘अयं लद्धलद्धानि मधुरखादनीयादीनि मय्हञ्ञेव देति, अद्धा मातरं नीहरितुकामो भविस्सति, नीहरणूपायमस्सा करिस्सामी’’ति एवं अयोनिसो उम्मुज्जित्वा एकं दिवसं आह – ‘‘सामि, तयि बहि निक्खमन्ते तव माता मं अक्कोसती’’ति. सो तुण्ही अहोसि.
सा चिन्तेसि – ‘‘इमं महल्लिकं उज्झापेत्वा पुत्तस्स पटिकूलं कारेस्सामी’’ति. ततो पट्ठाय यागुं ददमाना अच्चुण्हं वा अतिसीतलं वा अतिलोणं वा अलोणं वा देति. ‘‘अम्म, अच्चुण्हा’’ति वा ‘‘अतिलोणा’’ति वा वुत्ते पूरेत्वा सीतोदकं पक्खिपति. पुन ‘‘अतिसीतला, अलोणायेवा’’ति वुत्ते ‘‘इदानेव ‘अच्चुण्हा, अतिलोणा’ति वत्वा पुन ‘अतिसीतला, अलोणा’ति वदसि, का तं तोसेतुं सक्खिस्सती’’ति महासद्दं करोति. न्हानोदकम्पि अच्चुण्हं कत्वा पिट्ठियं आसिञ्चति. ‘‘अम्म, पिट्ठि मे दहती’’ति च वुत्ते पुन पूरेत्वा सीतोदकं पक्खिपति. ‘‘अतिसीतं, अम्मा’’ति वुत्ते ‘‘इदानेव ‘अच्चुण्ह’न्ति वत्वा पुन ‘अतिसीत’न्ति वदति, का एतिस्सा अवमानं सहितुं सक्खिस्सती’’ति पटिविस्सकानं कथेसि. ‘‘अम्म, मञ्चके मे बहू मङ्गुला’’ति च वुत्ता मञ्चकं नीहरित्वा तस्स उपरि अत्तनो मञ्चकं पोथेत्वा ‘‘पोथितो मे’’ति अतिहरित्वा पञ्ञपेति. महाउपासिका दिगुणेहि मङ्गुलेहि खज्जमाना सब्बरत्तिं निसिन्नाव वीतिनामेत्वा ‘‘अम्म, सब्बरत्तिं मङ्गुलेहि खादिताम्ही’’ति वदति. इतरा ‘‘हिय्यो ते मञ्चको पोथितो, का इमिस्सा किच्चं नित्थरितुं सक्कोती’’ति पटिवत्वा ‘‘इदानि नं पुत्तेन उज्झापेस्सामी’’ति तत्थ तत्थ खेळसिङ्घाणिकादीनि विप्पकिरित्वा ‘‘का इमं सकलगेहं असुचिं करोती’’ति वुत्ते ‘‘माता ते एवरूपं करोति, ‘मा करी’ति वुच्चमाना कलहं करोति, अहं एवरूपाय काळकण्णिया सद्धिं एकगेहे वसितुं न सक्कोमि, एतं वा घरे वसापेहि, मं वा’’ति आह.
सो तस्सा वचनं सुत्वा ‘‘भद्दे, त्वं तरुणा यत्थ कत्थचि गन्त्वा जीवितुं सक्का, माता पन मे जरादुब्बला, अहमेवस्सा पटिसरणं, त्वं निक्खमित्वा अत्तनो कुलगेहं गच्छाही’’ति आह. सा तस्स वचनं सुत्वा भीता चिन्तेसि ‘‘न सक्का इमं मातु अन्तरे भिन्दितुं, एकंसेनस्स माता पिया, सचे पनाहं कुलघरं गमिस्सं, विधववासं वसन्ती दुक्खिता भविस्सामि, पुरिमनयेनेव सस्सुं आराधेत्वा पटिजग्गिस्सामी’’ति. सा ततो पट्ठाय पुरिमसदिसमेव तं पटिजग्गि. अथेकदिवसं सो उपोसको धम्मस्सवनत्थाय जेतवनं गन्त्वा सत्थारं वन्दित्वा एकमन्तं निसीदि. ‘‘किं, उपासक, त्वं पुञ्ञकम्मेसु न पमज्जसि, मातुउपट्ठानकम्मं पूरेसी’’ति च वुत्तो ‘‘आम, भन्ते, सा पन मम माता मय्हं अरुचियायेव एकं कुलदारिकं आनेसि, सा इदञ्चिदञ्च अनाचारकम्मं अकासी’’ति सब्बं सत्थु आचिक्खित्वा ‘‘इति भगवा सा इत्थी नेव मं मातु अन्तरे भिन्दितुं सक्खि, इदानि नं सक्कच्चं उपट्ठहती’’ति आह. सत्था तस्स कथं सुत्वा ‘‘इदानि ताव त्वं उपासक, तस्सा वचनं न अकासि, पुब्बे पनेतिस्सा वचनेन तव मातरं निक्कड्ढित्वा मं निस्साय पुन गेहं आनेत्वा पटिजग्गी’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते अञ्ञतरस्स कुलस्स पुत्तो पितरि कालकते मातुदेवतो हुत्वा वुत्तनियामेनेव मातरं पटिजग्गीति सब्बं हेट्ठा कथितनयेनेव वित्थारेतब्बं. ‘‘अहं एवरूपाय काळकण्णिया सद्धिं वसितुं न सक्कोमि, एतं वा घरे वसापेहि, मं वा’’ति वुत्ते तस्सा कथं गहेत्वा ‘‘मातुयेव मे दोसो’’ति मातरं आह ‘‘अम्म, त्वं निच्चं इमस्मिं घरे कलहं करोसि, इतो निक्खमित्वा अञ्ञस्मिं यथारुचिते ठाने वसाही’’ति. सा ‘‘साधू’’ति रोदमाना निक्खमित्वा एकं समिद्धकुलं निस्साय भतिं कत्वा दुक्खेन जीविकं कप्पेसि. सस्सुया घरा निक्खन्तकाले सुणिसाय गब्भो पतिट्ठहि. सा ‘‘ताय काळकण्णिया गेहे वसमानाय गब्भम्पि न पटिलभिं, इदानि मे गब्भो लद्धो’’ति पतिनो च पटिविस्सकानञ्च कथेन्ती विचरति.
अपरभागे पुत्तं विजायित्वा सामिकं आह ‘‘तव मातरि गेहे वसमानाय पुत्तं न लभिं, इदानि मे लद्धो, इमिनापि कारणेन तस्सा काळकण्णिभावं जानाही’’ति. इतरा ‘‘मम किर निक्कड्ढितकाले पुत्तं लभी’’ति सुत्वा चिन्तेसि ‘‘अद्धा इमस्मिं लोके धम्मो मतो भविस्सति, सचे हि धम्मो मतो न भवेय्य, मातरं पोथेत्वा निक्कड्ढन्ता पुत्तं न लभेय्युं, सुखं न जीवेय्युं, धम्मस्स मतकभत्तं दस्सामी’’ति. सा एकदिवसं तिलपिट्ठञ्च तण्डुलञ्च पचनथालिञ्च दब्बिञ्च आदाय आमकसुसानं गन्त्वा तीहि मनुस्ससीसेहि उद्धनं कत्वा अग्गिं जालेत्वा उदकं ओरुय्ह ससीसं न्हत्वा साटकं निवासेत्वा मुखं विक्खालेत्वा उद्धनट्ठानं गन्त्वा केसे मोचेत्वा तण्डुले धोवितुं आरभि. तदा बोधिसत्तो सक्को देवराजा अहोसि. बोधिसत्ता च नाम अप्पमत्ता होन्ति, सो तस्मिं खणे लोकं ओलोकेन्तो तं दुक्खप्पत्तं ‘‘धम्मो मतो’’ति सञ्ञाय धम्मस्स मतकभत्तं दातुकामं दिस्वा ‘‘अज्ज मय्हं बलं दस्सेस्सामी’’ति ब्राह्मणवेसेन महामग्गं पटिपन्नो विय हुत्वा तं दिस्वा मग्गा ओक्कम्म तस्सा सन्तिके ठत्वा ‘‘अम्म, सुसाने आहारं पचन्ता नाम नत्थि, त्वं इमिना इध पक्केन तिलोदनेन किं करिस्ससी’’ति कथं समुट्ठापेन्तो पठमं गाथमाह –
१. ‘‘ओदातवत्था सुचि अल्लकेसा, कच्चानि किं कुम्भिमधिस्सयित्वा;
पिट्ठा तिला धोवसि तण्डुलानि, तिलोदनो हेहिति किस्सहेतू’’ति.
तत्थ कच्चानीति तं गोत्तेन आलपति. कुम्भिमधिस्सयित्वाति पचनथालिकं मनुस्ससीसुद्धनं आरोपेत्वा. हेहितीति अयं तिलोदनो किस्स हेतु भविस्सति, किं अत्तना भुञ्जिस्ससि, उदाहु अञ्ञं कारणमत्थीति.
अथस्स सा आचिक्खन्ती दुतियं गाथमाह –
२. ‘‘न खो अयं ब्राह्मण भोजनत्था, तिलोदनो हेहिति साधुपक्को;
धम्मो मतो तस्स पहुत्तमज्ज, अहं करिस्सामि सुसानमज्झे’’ति.
तत्थ धम्मोति जेट्ठापचायनधम्मो चेव तिविधसुचरितधम्मो च. तस्स पहुत्तमज्जाति तस्साहं धम्मस्स इदं मतकभत्तं करिस्सामीति अत्थो.
ततो सक्को ततियं गाथमाह –
३. ‘‘अनुविच्च कच्चानि करोहि किच्चं, धम्मो मतो को नु तवेव संसि;
सहस्सनेत्तो अतुलानुभावो, न मिय्यती धम्मवरो कदाची’’ति.
तत्थ अनुविच्चाति उपपरिक्खित्वा जानित्वा. को नु तवेव संसीति को नु तव एवं आचिक्खि. सहस्सनेत्तोति अत्तानं धम्मवरं उत्तमधम्मं कत्वा दस्सेन्तो एवमाह.
तं वचनं सुत्वा इतरा द्वे गाथा अभासि –
४. ‘‘दळ्हप्पमाणं मम एत्थ ब्रह्मे, धम्मो मतो नत्थि ममेत्थ कङ्खा;
ये येव दानि पापा भवन्ति, ते तेव दानि सुखिता भवन्ति.
५. ‘‘सुणिसा हि मय्हं वञ्झा अहोसि, सा मं वधित्वान विजायि पुत्तं;
सा दानि सब्बस्स कुलस्स इस्सरा, अहं पनम्हि अपविद्धा एकिका’’ति.
तत्थ दळ्हप्पमाणन्ति दळ्हं थिरं निस्संसयं ब्राह्मण एत्थ मम पमाणन्ति वदति. ये येति तस्स मतभावे कारणं दस्सेन्ती एवमाह. वधित्वानाति पोथेत्वा निक्कड्ढित्वा. अपविद्धाति छड्डिता अनाथा हुत्वा एकिका वसामि.
ततो सक्को छट्ठं गाथमाह –
६. ‘‘जीवामि वोहं न मतोहमस्मि, तवेव अत्थाय इधागतोस्मि;
या तं वधित्वान विजायि पुत्तं, सहाव पुत्तेन करोमि भस्म’’न्ति.
तत्थ वोति निपातमत्तं.
इतरा तं सुत्वा ‘‘धी अहं किं कथेसिं, मम नत्तु अमरणकारणं करिस्सामी’’ति सत्तमं गाथमाह –
७. ‘‘एवञ्च ते रुच्चति देवराज, ममेव अत्थाय इधागतोसि;
अहञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेमा’’ति.
अथस्सा सक्को अट्ठमं गाथमाह –
८. ‘‘एवञ्च ते रुच्चति कातियानि, हतापि सन्ता न जहासि धम्मं;
तुवञ्च पुत्तो सुणिसा च नत्ता, सम्मोदमाना घरमावसेथा’’ति.
तत्थ हतापि सन्ताति यदि त्वं पोथितापि निक्कड्ढितापि समाना तव दारकेसु मेत्तधम्मं न जहासि, एवं सन्ते यथा त्वं इच्छसि, तथा होतु, अहं ते इमस्मिं गुणे पसन्नोति.
एवञ्च पन वत्वा अलङ्कतपटियत्तो सक्को अत्तनो आनुभावेन आकासे ठत्वा ‘‘कच्चानि त्वं मा भायि, पुत्तो च ते सुणिसा च ममानुभावेन आगन्त्वा अन्तरामग्गे तं खमापेत्वा आदाय गमिस्सन्ति, अप्पमत्ता होही’’ति वत्वा अत्तनो ठानमेव गतो. तेपि सक्कानुभावेन तस्सा गुणं अनुस्सरित्वा ‘‘कहं नो माता’’ति अन्तोगामे मनुस्से पुच्छित्वा ‘‘सुसानाभिमुखं गता’’ति सुत्वा ‘‘अम्म, अम्मा’’ति सुसानमग्गं पटिपज्जित्वा तं दिस्वाव पादेसु पतित्वा ‘‘अम्म, अम्हाकं दोसं खमाही’’ति तं खमापेसुं. सापि नत्तारं गण्हि. इति ते सम्मोदमाना गेहं गन्त्वा ततो पट्ठाय समग्गवासं वसिंसु.
९. ‘‘सा कातियानी सुणिसाय सद्धिं, सम्मोदमाना घरमावसित्थ;
पुत्तो च नत्ता च उपट्ठहिंसु, देवानमिन्देन अधिग्गहीता’’ति. –
अयं अभिसम्बुद्धगाथा.
तत्थ सा कातियानीति भिक्खवे, सा कच्चानगोत्ता. देवानमिन्देन अधिग्गहीताति देविन्देन सक्केन अनुग्गहिता हुत्वा तस्सानुभावेन समग्गवासं वसिंसूति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने सो उपासको सोतापत्तिफले पतिट्ठहि. तदा मातुपोसको एतरहि मातुपोसको अहोसि, भरियापिस्स तदा भरियायेव, सक्को पन अहमेव अहोसिन्ति.
कच्चानिजातकवण्णना पठमा.
[४१८] २. अट्ठसद्दजातकवण्णना
इदं पुरे निन्नमाहूति इदं सत्था जेतवने विहरन्तो कोसलरञ्ञो अड्ढरत्तसमये सुतं भिंसनकं अविनिब्भोगसद्दं आरब्भ कथेसि. वत्थु हेट्ठा लोहकुम्भिजातके (जा. १.४.५३ आदयो) कथितसदिसमेव. इध पन सत्था ‘‘मय्हं, भन्ते, इमेसं सद्दानं सुतत्ता किन्ति भविस्सती’’ति वुत्ते ‘‘मा भायि, महाराज, न ते एतेसं सुतपच्चया कोचि अन्तरायो भविस्सति, न हि, महाराज, एवरूपं भयानकं अविनिब्भोगसद्दं त्वमेवेको सुणि, पुब्बेपि राजानो एवरूपं सद्दं सुत्वा ब्राह्मणानं कथं गहेत्वा सब्बचतुक्कयञ्ञं यजितुकामा पण्डितानं वचनं सुत्वा यञ्ञहरणत्थाय गहितसत्ते विस्सज्जेत्वा नगरे माघातभेरिं चरापेसु’’न्ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो असीतिकोटिविभवे ब्राह्मणकुले निब्बत्तित्वा वयप्पत्तो तक्कसिलायं उग्गहितसिप्पो मातापितूनं अच्चयेन रतनविलोकनं कत्वा सब्बं विभवजातं दानमुखे विस्सज्जेत्वा कामे पहाय हिमवन्तं पविसित्वा इसिपब्बज्जं पब्बजित्वा झानाभिञ्ञायो निब्बत्तेत्वा अपरभागे लोणम्बिलसेवनत्थाय मनुस्सपथं चरन्तो बाराणसिं पत्वा राजुय्याने वसि. तदा बाराणसिराजा सिरिसयने निसिन्नो अड्ढरत्तसमये अट्ठ सद्दे अस्सोसि – पठमं राजनिवेसनसामन्ता उय्याने एको बको सद्दमकासि, दुतियं तस्मिं सद्दे अनुपच्छिन्नेयेव हत्थिसालाय तोरणनिवासिनी काकी सद्दमकासि, ततियं राजगेहे कण्णिकायं निवुत्थघुणपाणको सद्दमकासि, चतुत्थं राजगेहे पोसावनियकोकिलो सद्दमकासि, पञ्चमं तत्थेव पोसावनियमिगो सद्दमकासि, छट्ठं तत्थेव पोसावनियवानरो सद्दमकासि, सत्तमं तत्थेव पोसावनियकिन्नरो सद्दमकासि, अट्ठमं तस्मिं सद्दे अनुपच्छिन्नेयेव राजनिवेसनमत्थकेन उय्यानं गच्छन्तो पच्चेकबुद्धो एकं उदानं उदानेन्तो सद्दमकासि.
बाराणसिराजा इमे अट्ठ सद्दे सुत्वा भीततसितो पुनदिवसे ब्राह्मणे पुच्छि. ब्राह्मणा ‘‘अन्तरायो ते, महाराज, भविस्सति, सब्बचतुक्कयञ्ञं यजिस्सामा’’ति वत्वा रञ्ञा ‘‘यथारुचितं करोथा’’ति अनुञ्ञाता हट्ठपहट्ठा राजकुलतो निक्खमित्वा यञ्ञकम्मं आरभिंसु. अथ नेसं जेट्ठकस्स यञ्ञकारब्राह्मणस्स अन्तेवासी माणवो पण्डितो ब्यत्तो आचरियं आह – ‘‘आचरिय, एवरूपं कक्खळं फरुसं असातं बहूनं सत्तानं विनासकम्मं मा करी’’ति. ‘‘तात, त्वं किं जानासि, सचेपि अञ्ञं किञ्चि न भविस्सति, मच्छमंसं ताव बहुं खादितुं लभिस्सामा’’ति. ‘‘आचरिय, कुच्छिं निस्साय निरये निब्बत्तनकम्मं मा करोथा’’ति. तं सुत्वा सेसब्राह्मणा ‘‘अयं अम्हाकं लाभन्तरायं करोती’’ति तस्स कुज्झिंसु. माणवो तेसं भयेन ‘‘तेन हि तुम्हेव मच्छमंसखादनूपायं करोथा’’ति वत्वा निक्खमित्वा बहिनगरे राजानं निवारेतुं समत्थं धम्मिकसमणब्राह्मणं उपधारेन्तो राजुय्यानं गन्त्वा बोधिसत्तं दिस्वा वन्दित्वा ‘‘भन्ते, किं तुम्हाकं सत्तेसु अनुकम्पा नत्थि, राजा बहू सत्ते मारेत्वा यञ्ञं यजापेति, किं वो महाजनस्स बन्धनमोक्खं कातुं न वट्टती’’ति आह. ‘‘माणव, एत्थ नेव राजा अम्हे जानाति, न मयं राजानं जानामा’’ति. ‘‘जानाथ पन, भन्ते, रञ्ञा सुतसद्दानं निप्फत्ति’’न्ति? ‘‘आम, जानामी’’ति. ‘‘जानन्ता रञ्ञो कस्मा न कथेथा’’ति? ‘‘माणव किं सक्का ‘अहं जानामी’ति नलाटे सिङ्गं बन्धित्वा चरितुं, सचे इधागन्त्वा पुच्छिस्सति, कथेस्सामी’’ति.
माणवो वेगेन राजकुलं गन्त्वा ‘‘किं, ताता’’ति वुत्ते ‘‘महाराज, तुम्हेहि सुतसद्दानं निप्फत्तिं जाननको एको तापसो तुम्हाकं उय्याने मङ्गलसिलायं निसिन्नो ‘सचे मं पुच्छिस्सति, कथेस्सामी’ति वदति, गन्त्वा तं पुच्छितुं वट्टती’’ति आह. राजा वेगेन तत्थ गन्त्वा तापसं वन्दित्वा कतपटिसन्थारो निसीदित्वा ‘‘सच्चं किर, भन्ते, तुम्हे मया सुतसद्दानं निप्फत्तिं जानाथा’’ति पुच्छि. ‘‘आम, महाराजा’’ति. ‘‘तेन हि कथेथ तं मे’’ति. ‘‘महाराज, तेसं सुतपच्चया तव कोचि अन्तरायो नत्थि, पोराणुय्याने पन ते एको बको अत्थि, सो गोचरं अलभन्तो जिघच्छाय परेतो पठमं सद्दमकासी’’ति तस्स किरियं अत्तनो ञाणेन परिच्छिन्दित्वा पठमं गाथमाह –
१०. ‘‘इदं पुरे निन्नमाहु, बहुमच्छं महोदकं;
आवासो बकराजस्स, पेत्तिकं भवनं मम;
त्यज्ज भेकेन यापेम, ओकं न विजहामसे’’ति.
तत्थ इदन्ति मङ्गलपोक्खरणिं सन्धाय वदति. सा हि पुब्बे उदकतुम्बेन उदके पविसन्ते महोदका बहुमच्छा, इदानि पन उदकस्स पच्छिन्नत्ता न महोदका जाता. त्यज्ज भेकेनाति ते मयं अज्ज मच्छे अलभन्ता मण्डूकमत्तेन यापेम. ओकन्ति एवं जिघच्छाय पीळितापि वसनट्ठानं न विजहाम.
इति, महाराज, सो बको जिघच्छापीळितो सद्दमकासि. सचेपि तं जिघच्छातो मोचेतुकामो, तं उय्यानं सोधापेत्वा पोक्खरणिं उदकस्स पूरेहीति. राजा तथा कारेतुं एकं अमच्चं आणापेसि.
‘‘हत्थिसालतोरणे पन ते, महाराज, एका काकी वसमाना अत्तनो पुत्तसोकेन दुतियं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा दुतियं गाथमाह –
११. ‘‘को दुतियं असीलिस्स, बन्धरस्सक्खि भेच्छति;
को मे पुत्ते कुलावकं, मञ्च सोत्थिं करिस्सती’’ति.
वत्वा च पन ‘‘को नाम ते, महाराज, हत्थिसालाय हत्थिमेण्डो’’ति पुच्छि. ‘‘बन्धरो नाम, भन्ते’’ति. ‘‘एकक्खिकाणो सो, महाराजा’’ति? ‘‘आम, भन्ते’’ति. महाराज, हत्थिसालाय ते द्वारतोरणे एका काकी कुलावकं कत्वा अण्डकानि निक्खिपि. तानि परिणतानि काकपोतका निक्खन्ता, हत्थिमेण्डो हत्थिं आरुय्ह सालतो निक्खमन्तो च पविसन्तो च अङ्कुसकेन काकिम्पि पुत्तकेपिस्सा पहरति, कुलावकम्पि विद्धंसेति. सा तेन दुक्खेन पीळिता तस्स अक्खिभेदनं आयाचन्ती एवमाह, सचे ते काकिया मेत्तचित्तं अत्थि, एतं बन्धरं पक्कोसापेत्वा कुलावकविद्धंसनतो वारेहीति. राजा तं पक्कोसापेत्वा परिभासित्वा हारेत्वा अञ्ञस्स तं हत्थिं अदासि.
‘‘पासादकण्णिकाय पन ते, महाराज, एको घुणपाणको वसति. सो तत्थ फेग्गुं खादित्वा तस्मिं खीणे सारं खादितुं नासक्खि, सो भक्खं अलभित्वा निक्खमितुम्पि असक्कोन्तो परिदेवमानो ततियं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा तस्स किरियं अत्तनो ञाणेन परिच्छिन्दित्वा ततियं गाथमाह –
१२. ‘‘सब्बा परिक्खता फेग्गु, याव तस्सा गती अहु;
खीणभक्खो महाराज, सारे न रमती घुणो’’ति.
तत्थ याव तस्सा गती अहूति याव तस्सा फेग्गुया निप्फत्ति अहोसि, सा सब्बा खादिता. न रमतीति ‘‘महाराज, सो पाणको ततो निक्खमित्वा गमनट्ठानम्पि अपस्सन्तो परिदेवति, नीहरापेहि न’’न्ति आह. राजा एकं पुरिसं आणापेत्वा उपायेन नं नीहरापेसि.
‘‘निवेसने पन ते, महाराज, एका पोसावनिया कोकिला अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘महाराज, सा अत्तना निवुत्थपुब्बं वनसण्डं सरित्वा उक्कण्ठित्वा ‘कदा नु खो इमम्हा पञ्जरा मुच्चित्वा रमणीयं वनसण्डं गच्छिस्सामी’ति चतुत्थं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा चतुत्थं गाथमाह –
१३. ‘‘सा नूनाहं इतो गन्त्वा, रञ्ञो मुत्ता निवेसना;
अत्तानं रमयिस्सामि, दुमसाखनिकेतिनी’’ति.
तत्थ दुमसाखनिकेतिनीति सुपुप्फितासु रुक्खसाखासु सकनिकेता हुत्वा. एवञ्च पन वत्वा ‘‘उक्कण्ठिता, महाराज, सा कोकिला, विस्सज्जेहि न’’न्ति आह. राजा तथा कारेसि.
‘‘निवेसने पन ते, महाराज, एको पोसावनियो मिगो अत्थी’’ति? ‘‘अत्थि, भन्ते’’ति. ‘‘महाराज, सो एको यूथपति अत्तनो मिगिं अनुस्सरित्वा किलेसवसेन उक्कण्ठितो पञ्चमं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा पञ्चमं गाथमाह –
१४. ‘‘सो नूनाहं इतो गन्त्वा, रञ्ञो मुत्तो निवेसना;
अग्गोदकानि पिस्सामि, यूथस्स पुरतो वज’’न्ति.
तत्थ अग्गोदकानीति अग्गउदकानि, अञ्ञेहि मिगेहि पठमतरं अपीतानि अनुच्छिट्ठोदकानि यूथस्स पुरतो गच्छन्तो कदा नु खो पिविस्सामीति.
महासत्तो तम्पि मिगं विस्सज्जापेत्वा ‘‘निवेसने पन ते, महाराज, पोसावनियो मक्कटो अत्थी’’ति पुच्छि. ‘‘अत्थि, भन्ते’’ति वुत्ते ‘‘सोपि, महाराज, हिमवन्तपदेसे यूथपति मक्कटीहि सद्धिं कामगिद्धो हुत्वा विचरन्तो भरतेन नाम लुद्देन इध आनीतो, इदानि उक्कण्ठित्वा तत्थेव गन्तुकामो छट्ठं सद्दमकासि, ततोपि ते भयं नत्थी’’ति वत्वा छट्ठं गाथमाह –
१५. ‘‘तं मं कामेहि सम्मत्तं, रत्तं कामेसु मुच्छितं;
आनयी भरतो लुद्दो, बाहिको भद्दमत्थु ते’’ति.
तत्थ बाहिकोति बाहिकरट्ठवासी. भद्दमत्थु तेति इममत्थं सो वानरो आह, तुय्हं पन भद्दमत्थु, विस्सज्जेहि नन्ति.
महासत्तो तं वानरं विस्सज्जापेत्वा ‘‘निवेसने पन ते, महाराज, पोसावनियो किन्नरो अत्थी’’ति पुच्छित्वा ‘‘अत्थी’’ति वुत्ते ‘‘सो, महाराज, अत्तनो किन्नरिया कतगुणं अनुस्सरित्वा किलेसातुरो सद्दमकासि. सो हि ताय सद्धिं एकदिवसं तुङ्गपब्बतसिखरं आरुहि. ते तत्थ वण्णगन्धरससम्पन्नानि नानापुप्फानि ओचिनन्ता पिळन्धन्ता सूरियं अत्थङ्गतं न सल्लक्खेसुं, अत्थङ्गते सूरिये ओतरन्तानं अन्धकारो अहोसि. तत्र नं किन्नरी ‘सामि, अन्धकारो वत्तति, अपक्खलन्तो अप्पमादेन ओतराही’ति वत्वा हत्थे गहेत्वा ओतारेसि, सो ताय तं वचनं अनुस्सरित्वा सद्दमकासि, ततोपि ते भयं नत्थी’’ति तं कारणं अत्तनो ञाणबलेन परिच्छिन्दित्वा पाकटं करोन्तो सत्तमं गाथमाह –
१६. ‘‘अन्धकारतिमिसायं, तुङ्गे उपरिपब्बते;
सा मं सण्हेन मुदुना, मा पादं खलि यस्मनी’’ति.
तत्थ अन्धकारतिमिसायन्ति अन्धभावकारके तमे. तुङ्गेति तिखिणे. सण्हेन मुदुनाति मट्ठेन मुदुकेन वचनेन. मा पादं खलि यस्मनीति य-कारो ब्यञ्जनसन्धिवसेन गहितो. इदं वुत्तं होति – सा मं किन्नरी सण्हेन मुदकेन वचनेन ‘‘सामि, अप्पमत्तो होहि, मा पादं खलि अस्मनि, यथा ते उपक्खलित्वा पादो पासाणस्मिं न खलति, तथा ओतरा’’ति वत्वा हत्थेन गहेत्वा ओतारेसीति.
इति महासत्तो किन्नरेन कतसद्दकारणं कथेत्वा तं विस्सज्जापेत्वा ‘‘महाराज, अट्ठमो उदानसद्दो अहोसि. नन्दमूलकपब्भारस्मिं किर एको पच्चेकबुद्धो अत्तनो आयुसङ्खारपरिक्खयं ञत्वा ‘मनुस्सपथं गन्त्वा बाराणसिरञ्ञो उय्याने परिनिब्बायिस्सामि, तस्स मे मनुस्सा सरीरनिक्खेपं कारेत्वा साधुकीळं कीळित्वा धातुपूजं कत्वा सग्गपथं पूरेस्सन्ती’ति इद्धानुभावेन आगच्छन्तो तव पासादस्स मत्थकं पत्तकाले खन्धभारं ओतारेत्वा निब्बानपुरपवेसनदीपनं उदानं उदानेसी’’ति पच्चेकबुद्धेन वुत्तं गाथमाह –
१७. ‘‘असंसयं जातिखयन्तदस्सी, न गब्भसेय्यं पुनरावजिस्सं;
अयमन्तिमा पच्छिमा गब्भसेय्या, खीणो मे संसारो पुनब्भवाया’’ति.
तस्सत्थो – जातिया खयन्तसङ्खातस्स निब्बानस्स दिट्ठत्ता जातिखयन्तदस्सी अहं असंसयं पुन गब्भसेय्यं न आवजिस्सं, अयं मे अन्तिमा जाति, पच्छिमा गब्भसेय्या, खीणो मे पुनब्भवाय खन्धपटिपाटिसङ्खातो संसारोति.
‘‘इदञ्च पन सो उदानं वत्वा इमं उय्यानवनं आगम्म एकस्स सुपुप्फितस्स सालस्स मूले परिनिब्बुतो, एहि, महाराज, सरीरकिच्चमस्स करिस्सामा’’ति महासत्तो राजानं गहेत्वा पच्चेकबुद्धस्स परिनिब्बुतट्ठानं गन्त्वा सरीरं दस्सेसि. राजा तस्स सरीरं दिस्वा सद्धिं बलकायेन गन्धमालादीहि पूजेत्वा बोधिसत्तस्स वचनं निस्साय यञ्ञं हारेत्वा सब्बसत्तानं जीवितदानं दत्वा नगरे माघातभेरिं चरापेत्वा सत्ताहं साधुकीळं कीळित्वा सब्बगन्धचितके महन्तेन सक्कारेन पच्चेकबुद्धस्स सरीरं झापेत्वा धातुयो चतुमहापथे थूपं कारेसि. बोधिसत्तोपि रञ्ञो धम्मं देसेत्वा ‘‘अप्पमत्तो होही’’ति ओवदित्वा हिमवन्तमेव पविसित्वा ब्रह्मविहारेसु परिकम्मं कत्वा अपरिहीनज्झानो ब्रह्मलोकपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा ‘‘महाराज, तस्स सद्दस्स सुतकारणा तव कोचि अन्तरायो नत्थी’’ति यञ्ञं हरापेत्वा ‘‘महाजनस्स जीवितं देही’’ति जीवितदानं दापेत्वा नगरे धम्मभेरिं चरापेत्वा धम्मं देसेत्वा जातकं समोधानेसि ‘‘तदा राजा आनन्दो अहोसि, माणवो सारिपुत्तो, तापसो पन अहमेव अहोसि’’न्ति.
अट्ठसद्दजातकवण्णना दुतिया.
[४१९] ३. सुलसाजातकवण्णना
इदं सुवण्णकायूरन्ति इदं सत्था जेतवने विहरन्तो एकं अनाथपिण्डिकस्स दासिं आरब्भ कथेसि. सा किर एकस्मिं उस्सवदिवसे दासिगणेन सद्धिं उय्यानं गच्छन्ती अत्तनो सामिनिं पुञ्ञलक्खणदेविं आभरणं याचि. सा तस्सा सतसहस्समूलं अत्तनो आभरणं अदासि. सा तं पिळन्धित्वा दासिगणेन सद्धिं उय्यानं पाविसि. अथेको चोरो तस्सा आभरणे लोभं उप्पादेत्वा ‘‘इमं मारेत्वा आभरणं हरिस्सामी’’ति ताय सद्धिं सल्लपन्तो उय्यानं गन्त्वा तस्सा मच्छमंससुरादीनि अदासि. सा ‘‘किलेसवसेन देति मञ्ञे’’ति गहेत्वा उय्यानकीळं कीळित्वा वीमंसनत्थाय सायन्हसमये निपन्ने दासिगणे उट्ठाय तस्स सन्तिकं अगमासि. सो ‘‘भद्दे, इमं ठानं अप्पटिच्छन्नं, थोकं पुरतो गच्छामा’’ति आह. तं सुत्वा इतरा ‘‘इमस्मिं ठाने सक्का रहस्सकम्मं कातुं, अयं पन निस्संसयं मं मारेत्वा पिळन्धनभण्डं हरितुकामो भविस्सति, होतु, सिक्खापेस्सामि न’’न्ति चिन्तेत्वा ‘‘सामि, सुरामदेन मे सुक्खं सरीरं, पानीयं ताव मं पायेही’’ति एकं कूपं नेत्वा ‘‘इतो मे पानीयं ओसिञ्चा’’ति रज्जुञ्च घटञ्च दस्सेसि. चोरो रज्जुं कूपे ओतारेसि, अथ नं ओनमित्वा उदकं ओसिञ्चन्तं महब्बलदासी उभोहि हत्थेहि आणिसदं पहरित्वा कूपे खिपित्वा ‘‘न त्वं एत्तकेन मरिस्ससी’’ति एकं महन्तं इट्ठकं मत्थके आसुम्भि. सो तत्थेव जीवितक्खयं पत्तो. सापि नगरं पविसित्वा सामिनिया आभरणं ददमाना ‘‘मनम्हि अज्ज इमं आभरणं निस्साय मता’’ति सब्बं तं पवत्तिं आरोचेसि, सापि अनाथपिण्डिकस्स आरोचेसि, अनाथपिण्डिको तथागतस्स आरोचेसि. सत्था ‘‘न खो, गहपति, इदानेव सा दासी ठानुप्पत्तिकाय पञ्ञाय समन्नागता, पुब्बेपि समन्नागताव, न च इदानेव ताय सो मारितो, पुब्बेपि नं मारेसियेवा’’ति वत्वा तेन याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते सुलसा नाम नगरसोभिनी पञ्चसतवण्णदासिपरिवारा अहोसि, सहस्सेन रत्तिं गच्छति. तस्मिंयेव नगरे सत्तुको नाम चोरो अहोसि नागबलो, रत्तिभागे इस्सरघरानि पविसित्वा यथारुचिं विलुम्पति. नागरा सन्निपतित्वा रञ्ञो उपक्कोसिंसु. राजा नगरगुत्तिकं आणापेत्वा तत्थ तत्थ गुम्बं ठपापेत्वा चोरं गण्हापेत्वा ‘‘सीसमस्स छिन्दथा’’ति आह. तं पच्छाबाहं बन्धित्वा चतुक्के चतुक्के कसाहि ताळेत्वा आघातनं नेन्ति. ‘‘चोरो किर गहितो’’ति सकलनगरं सङ्खुभि. तदा सुलसा वातपाने ठत्वा अन्तरवीथिं ओलोकेन्ती तं दिस्वा पटिबद्धचित्ता हुत्वा ‘‘सचे इमं चोरोति गहितपुरिसं मोचेतुं सक्खिस्सामि, इदं किलिट्ठकम्मं अकत्वा इमिनाव सद्धिं समग्गवासं कप्पेस्सामी’’ति चिन्तेत्वा हेट्ठा कणवेरजातके (जा. १.४.६९ आदयो) वुत्तनयेनेव नगरगुत्तिकस्स सहस्सं पेसेत्वा तं मोचेत्वा तेन सद्धिं सम्मोदमाना समग्गवासं वसि. चोरो तिण्णं चतुन्नं मासानं अच्चयेन चिन्तेसि ‘‘अहं इमस्मिंयेव ठाने वसितुं न सक्खिस्सामि, तुच्छहत्थेन पलायितुम्पि न सक्का, सुलसाय पिळन्धनभण्डं सतसहस्सं अग्घति, सुलसं मारेत्वा इदं गण्हिस्सामी’’ति. अथ नं एकदिवसं आह – ‘‘भद्दे, अहं तदा राजपुरिसेहि नीयमानो असुकपब्बतमत्थके रुक्खदेवताय बलिकम्मं पटिस्सुणिं, सा मं बलिकम्मं अलभमाना भायापेति, बलिकम्ममस्सा करोमा’’ति. ‘‘साधु, सामि, सज्जेत्वा पेसेही’’ति. ‘‘भद्दे, पेसेतुं न वट्टति, मयं उभोपि सब्बाभरणपटिमण्डिता महन्तेन परिवारेन गन्त्वा दस्सामा’’ति. ‘‘साधु, सामि, तथा करोमा’’ति.
अथ नं तथा कारेत्वा पब्बतपादं गतकाले आह – ‘‘भद्दे, महाजनं दिस्वा देवता बलिकम्मं न सम्पटिच्छिस्सति, मयं उभोव अभिरुहित्वा देमा’’ति. सो ताय ‘‘साधू’’ति सम्पटिच्छितो तं बलिपातिं उक्खिपापेत्वा सयं सन्नद्धपञ्चावुधो हुत्वा पब्बतमत्थकं अभिरुहित्वा एकं सतपोरिसपपातं निस्साय जातरुक्खमूले बलिभाजनं ठपापेत्वा ‘‘भद्दे, नाहं बलिकम्मत्थाय आगतो, तं पन मारेत्वा पिळन्धनं ते गहेत्वा गमिस्सामीति आगतोम्हि, तव पिळन्धनं ओमुञ्चित्वा उत्तरसाटकेन भण्डिकं करोही’’ति आह. ‘‘सामि, मं कस्मा मारेसी’’ति? ‘‘धनकारणा’’ति. ‘‘सामि, मया कतगुणं अनुस्सर, अहं तं बन्धित्वा नीयमानं सेट्ठिपुत्तेन परिवत्तेत्वा बहुं धनं दत्वा जीवितं लभापेसिं, देवसिकं सहस्सं लभमानापि अञ्ञं पुरिसं न ओलोकेमि, एवञ्हि तव उपकारिकं मा मं मारेहि, बहुञ्च ते धनं दस्सामि, तव दासी च भविस्सामी’’ति याचन्ती पठमं गाथमाह –
१८. ‘‘इदं सुवण्णकायूरं, मुत्ता वेळुरिया बहू;
सब्बं हरस्सु भद्दन्ते, मञ्च दासीति सावया’’ति.
तत्थ कायूरन्ति गीवायं पिळन्धनपसाधनं कायूरं. सावयाति महाजनमज्झे सावेत्वा दासिं कत्वा गण्हाति.
ततो सत्तुकेन –
१९. ‘‘ओरोपयस्सु कल्याणि, मा बाळ्हं परिदेवसि;
न चाहं अभिजानामि, अहन्त्वा धनमाभत’’न्ति. –
अत्तनो अज्झासयानुरूपं दुतियगाथाय वुत्ताय सुलसा ठानुप्पत्तिकारणं पटिलभित्वा ‘‘अयं चोरो मय्हं जीवितं न दस्सति, उपायेन नं पठमतरं पपाते पातेत्वा जीवितक्खयं पापेस्सामी’’ति चिन्तेत्वा गाथाद्वयमाह –
२०. ‘‘यतो सरामि अत्तानं, यतो पत्तास्मि विञ्ञुतं;
न चाहं अभिजानामि, अञ्ञं पियतरं तया.
२१. ‘‘एहि तं उपगूहिस्सं, करिस्सञ्च पदक्खिणं;
न हि दानि पुन अत्थि, मम तुय्हञ्च सङ्गमो’’ति.
सत्तुको तस्साधिप्पायं अजानन्तो ‘‘साधु, भद्दे, एहि उपगूहस्सु म’’न्ति आह. सुलसा तं तिक्खत्तुं पदक्खिणं कत्वा उपगूहित्वा ‘‘इदानि तं, सामि, चतूसु पस्सेसु वन्दिस्सामी’’ति वत्वा पादपिट्ठियं सीसं ठपेत्वा बाहुपस्से वन्दित्वा पच्छिमपस्सं गन्त्वा वन्दमाना विय हुत्वा नागबला गणिका चोरं द्वीसु पच्छापादेसु गहेत्वा हेट्ठा सीसं कत्वा सतपोरिसे नरके खिपि. सो तत्थेव चुण्णविचुण्णं पत्वा मरि. तं किरियं दिस्वा पब्बतमत्थके निब्बत्तदेवता इमा गाथा अभासि –
२२. ‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, तत्थ तत्थ विचक्खणा.
२३. ‘‘न हि सब्बेसु ठानेसु, पुरिसो होति पण्डितो;
इत्थीपि पण्डिता होति, लहुं अत्थं विचिन्तिका.
२४. ‘‘लहुञ्च वत खिप्पञ्च, निकट्ठे समचेतयि;
मिगं पुण्णायतेनेव, सुलसा सत्तुकं वधि.
२५. ‘‘योध उप्पतितं अत्थं, न खिप्पमनुबुज्झति;
सो हञ्ञति मन्दमति, चोरोव गिरिगब्भरे.
२६. ‘‘यो च उप्पतितं अत्थं, खिप्पमेव निबोधति;
मुच्चते सत्तुसम्बाधा, सुलसा सत्तुकामिवा’’ति.
तत्थ पण्डिता होतीति इत्थीपि पण्डिता तत्थ तत्थ विचक्खणा होति, अथ वा इत्थी पण्डिता चेव तत्थ तत्थ विचक्खणा च होति. लहुं अत्थं विचिन्तिकाति लहुं खिप्पं अत्थं विचिन्तिका. लहुञ्च वताति अदन्धञ्च वत. खिप्पञ्चाति अचिरेनेव. निकट्ठे समचेतयीति सन्तिके ठिताव तस्स मरणूपायं चिन्तेसि. पुण्णायतेनेवाति पूरितधनुस्मिं. इदं वुत्तं होति – यथा छेको मिगलुद्दको सकण्डपुण्णधनुस्मिं खिप्पं मिगं वधति, एवं सुलसा सत्तुकं वधीति. योधाति यो इमस्मिं सत्तलोके. निबोधतीति जानाति. सत्तुकामिवाति सत्तुका इव, यथा सुलसा मुत्ता, एवं मुच्चतीति अत्थो.
इति सुलसा चोरं वधित्वा पब्बता ओरुय्ह अत्तनो परिजनस्स सन्तिकं गन्त्वा ‘‘अय्यपुत्तो कह’’न्ति पुट्ठा ‘‘मा तं पुच्छथा’’ति वत्वा रथं अभिरुहित्वा नगरमेव पाविसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि ‘‘तदा ते उभोपि इमेयेव अहेसुं, देवता पन अहमेव अहोसि’’न्ति.
सुलसाजातकवण्णना ततिया.
[४२०] ४. सुमङ्गलजातकवण्णना
भुसम्हि कुद्धोति इदं सत्था जेतवने विहरन्तो राजोवादसुत्तं आरब्भ कथेसि. तदा पन सत्था रञ्ञा याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अग्गमहेसिया कुच्छिम्हि निब्बत्तो वयप्पत्तो पितु अच्चयेन रज्जं कारेसि, महादानं पवत्तेसि. तस्स सुमङ्गलो नाम उय्यानपालो अहोसि. अथेको पच्चेकबुद्धो नन्दमूलकपब्भारा निक्खमित्वा चारिकं चरमानो बाराणसिं पत्वा उय्याने वसित्वा पुनदिवसे नगरं पिण्डाय पाविसि. तमेनं राजा दिस्वा पसन्नचित्तो वन्दित्वा पासादं आरोपेत्वा राजासने निसीदापेत्वा नानग्गरसेहि खादनीयभोजनीयेहि परिविसित्वा अनुमोदनं सुत्वा पसन्नो अत्तनो उय्याने वसनत्थाय पटिञ्ञं गाहापेत्वा उय्यानं पवेसेत्वा सयम्पि भुत्तपातरासो तत्थ गन्त्वा रत्तिट्ठानदिवाट्ठानादीनि संविदहित्वा सुमङ्गलं नाम उय्यानपालं वेय्यावच्चकरं कत्वा नगरं पाविसि. पच्चेकबुद्धो ततो पट्ठाय निबद्धं राजगेहे भुञ्जन्तो तत्थ चिरं वसि, सुमङ्गलोपि नं सक्कच्चं उपट्ठहि.
अथेकदिवसं पच्चेकबुद्धो सुमङ्गलं आमन्तेत्वा ‘‘अहं कतिपाहं असुकगामं निस्साय वसित्वा आगच्छिस्सामि, रञ्ञो आरोचेही’’ति वत्वा पक्कामि. सुमङ्गलोपि रञ्ञो आरोचेसि. पच्चेकबुद्धो कतिपाहं तत्थ वसित्वा सायं सूरिये अत्थङ्गते तं उय्यानं पच्चागमि. सुमङ्गलो तस्स आगतभावं अजानन्तो अत्तनो गेहं अगमासि. पच्चेकबुद्धोपि पत्तचीवरं पटिसामेत्वा थोकं चङ्कमित्वा पासाणफलके निसीदि. तं दिवसं पन उय्यानपालस्स घरं पाहुनका आगमिंसु. सो तेसं सूपब्यञ्जनत्थाय ‘‘उय्याने अभयलद्धं मिगं मारेस्सामी’’ति धनुं आदाय उय्यानं गन्त्वा मिगं उपधारेन्तो पच्चेकबुद्धं दिस्वा ‘‘महामिगो भविस्सती’’ति सञ्ञाय सरं सन्नय्हित्वा विज्झि. पच्चेकबुद्धो सीसं विवरित्वा ‘‘सुमङ्गला’’ति आह. सो संवेगप्पत्तो वन्दित्वा ‘‘भन्ते, अहं तुम्हाकं आगतभावं अजानन्तो ‘मिगो’ति सञ्ञाय विज्झिं, खमथ मे’’ति वत्वा ‘‘होतु दानि किं करिस्ससि, एहि सरं लुञ्चित्वा गण्हाही’’ति वुत्ते वन्दित्वा सरं लुञ्चि, महती वेदना उप्पज्जि. पच्चेकबुद्धो तत्थेव परिनिब्बायि. उय्यानपालो ‘‘सचे राजा जानिस्सति, नासेस्सती’’ति पुत्तदारं गहेत्वा ततोव पलायि. तावदेव ‘‘पच्चेकबुद्धो परिनिब्बुतो’’ति देवतानुभावेन सकलनगरं एककोलाहलं जातं.
पुनदिवसे मनुस्सा उय्यानं गन्त्वा पच्चेकबुद्धं दिस्वा ‘‘उय्यानपालो पच्चेकबुद्धं मारेत्वा पलातो’’ति रञ्ञो कथयिंसु. राजा महन्तेन परिवारेन उय्यानं गन्त्वा सत्ताहं सरीरपूजं कत्वा महन्तेन सक्कारेन झापेत्वा धातुयो आदाय चेतियं कत्वा तं पूजेन्तो धम्मेन रज्जं कारेसि. सुमङ्गलोपि एकसंवच्छरं वीतिनामेत्वा ‘‘रञ्ञो चित्तं जानिस्सामी’’ति आगन्त्वा एकं अमच्चं पस्सित्वा ‘‘मयि रञ्ञो चित्तं जानाही’’ति आह. अमच्चोपि रञ्ञो सन्तिकं गन्त्वा तस्स गुणं कथेसि. राजा असुणन्तो विय अहोसि. पुन किञ्चि अवत्वा रञ्ञो अनत्तमनभावं सुमङ्गलस्स कथेसि. सो दुतियसंवच्छरेपि आगन्त्वा तथेव राजा तुण्ही अहोसि. ततियसंवच्छरे आगन्त्वा पुत्तदारं गहेत्वाव आगमि. अमच्चो रञ्ञो चित्तमुदुभावं ञत्वा तं राजद्वारे ठपेत्वा तस्सागतभावं रञ्ञो कथेसि. राजा तं पक्कोसापेत्वा पटिसन्थारं कत्वा ‘‘सुमङ्गल, कस्मा तया मम पुञ्ञक्खेत्तं पच्चेकबुद्धो मारितो’’ति पुच्छि. सो ‘‘नाहं, देव, ‘पच्चेकबुद्धं मारेमी’ति मारेसिं, अपिच खो इमिना नाम कारणेन इदं नाम अकासि’’न्ति तं पवत्तिं आचिक्खि. अथ नं राजा ‘‘तेन हि मा भायी’’ति समस्सासेत्वा पुन उय्यानपालमेव अकासि.
अथ नं सो अमच्चो पुच्छि ‘‘देव, कस्मा तुम्हे द्वे वारे सुमङ्गलस्स गुणं सुत्वापि किञ्चि न कथयित्थ, कस्मा पन ततियवारे सुत्वा तं पक्कोसित्वा अनुकम्पित्था’’ति? राजा ‘‘तात, रञ्ञा नाम कुद्धेन सहसा किञ्चि कातुं न वट्टति, तेनाहं पुब्बे तुण्ही हुत्वा ततियवारे सुमङ्गले मम चित्तस्स मुदुभावं ञत्वा तं पक्कोसापेसि’’न्ति राजवत्तं कथेन्तो इमा गाथा आह –
२७. ‘‘भुसम्हि कुद्धोति अवेक्खियान, न ताव दण्डं पणयेय्य इस्सरो;
अट्ठानसो अप्पतिरूपमत्तनो, परस्स दुक्खानि भुसं उदीरये.
२८. ‘‘यतो च जानेय्य पसादमत्तनो, अत्थं नियुञ्जेय्य परस्स दुक्कटं;
तदायमत्थोति सयं अवेक्खिय, अथस्स दण्डं सदिसं निवेसये.
२९. ‘‘न चापि झापेति परं न अत्तनं, अमुच्छितो यो नयते नयानयं;
यो दण्डधारो भवतीध इस्सरो, स वण्णगुत्तो सिरिया न धंसति.
३०. ‘‘ये खत्तिया से अनिसम्मकारिनो, पणेन्ति दण्डं सहसा पमुच्छिता;
अवण्णसंयुता जहन्ति जीवितं, इतो विमुत्तापि च यन्ति दुग्गतिं.
३१. ‘‘धम्मे च ये अरियप्पवेदिते रता, अनुत्तरा ते वचसा मनसा कम्मुना च;
ते सन्तिसोरच्चसमाधिसण्ठिता, वजन्ति लोकं दुभयं तथाविधा.
३२. ‘‘राजाहमस्मि नरपमदानमिस्सरो, सचेपि कुज्झामि ठपेमि अत्तनं;
निसेधयन्तो जनतं तथाविधं, पणेमि दण्डं अनुकम्प योनिसो’’ति.
तत्थ अवेक्खियानाति अवेक्खित्वा जानित्वा. इदं वुत्तं होति – तात, पथविस्सरो राजा नाम ‘‘अहं भुसं कुद्धो बलवकोधाभिभूतो’’ति ञत्वा अट्ठवत्थुकादिभेदं दण्डं परस्स न पणयेय्य न वत्तेय्य. किंकारणा? कुद्धो हि अट्ठवत्थुकं सोळसवत्थुकं कत्वा अट्ठानेन अकारणेन अत्तनो राजभावस्स अननुरूपं ‘‘इमं एत्तकं नाम आहरथ, इदञ्च तस्स करोथा’’ति परस्स भुसं दुक्खानि बलवदुक्खानि उदीरये.
यतोति यदा. इदं वुत्तं होति – यदा पन राजा परस्मिं उप्पन्नं अत्तनो पसादं जानेय्य, अथ परस्स दुक्कटं अत्थं नियुञ्जेय्य उपपरिक्खेय्य, तदा एवं नियुञ्जन्तो ‘‘अयं नामेत्थ अत्थो, अयं एतस्स दोसो’’ति सयं अत्तपच्चक्खं कत्वा अथस्स अपराधकारकस्स अट्ठवत्थुकहेतु अट्ठेव, सोळसवत्थुकहेतु सोळसेव कहापणे गण्हमानो दण्डं सदिसं कतदोसानुरूपं निवेसये ठपेय्य पवत्तेय्याति.
अमुच्छितोति छन्दादीहि अगतिकिलेसेहि अमुच्छितो अनभिभूतो हुत्वा यो नयानयं नयते उपपरिक्खति, सो नेव परं झापेति, न अत्तानं. छन्दादिवसेन हि अहेतुकं दण्डं पवत्तेन्तो परम्पि तेन दण्डेन झापेति दहति पीळेति, अत्तानम्पि ततोनिदानेन पापेन. अयं पन न परं झापेति, न अत्तानं. यो दण्डधारो भवतीध इस्सरोति यो इध पथविस्सरो राजा इध सत्तलोके दोसानुच्छविकं दण्डं पवत्तेन्तो दण्डधारो होति. स वण्णगुत्तोति गुणवण्णेन चेव यसवण्णेन च गुत्तो रक्खितो सिरिया न धंसति न परिहायति. अवण्णसंयुता जहन्तीति अधम्मिका लोलराजानो अवण्णेन युत्ता हुत्वा जीवितं जहन्ति.
धम्मे च ये अरियप्पवेदितेति ये राजानो आचारअरियेहि धम्मिकराजूहि पवेदिते दसविधे राजधम्मे रता. अनुत्तरा तेति ते वचसा मनसा कम्मुना च तीहिपि एतेहि अनुत्तरा जेट्ठका. ते सन्तिसोरच्चसमाधिसण्ठिताति ते अगतिपहानेन किलेससन्तियञ्च सुसील्यसङ्खाते सोरच्चे च एकग्गतासमाधिम्हि च सण्ठिता पतिट्ठिता धम्मिकराजानो. वजन्ति लोकं दुभयन्ति धम्मेन रज्जं कारेत्वा मनुस्सलोकतो देवलोकं, देवलोकतो मनुस्सलोकन्ति उभयलोकमेव वजन्ति, निरयादीसु न निब्बत्तन्ति. नरपमदानन्ति नरानञ्च नारीनञ्च. ठपेमि अत्तनन्ति कुद्धोपि कोधवसेन अगन्त्वा अत्तानं पोराणकराजूहि ठपितनयस्मिंयेव धम्मे ठपेमि, विनिच्छयधम्मं न भिन्दामीति.
एवं छहि गाथाहि रञ्ञा अत्तनो गुणे कथिते सब्बापि राजपरिसा तुट्ठा ‘‘अयं सीलाचारगुणसम्पत्ति तुम्हाकञ्ञेव अनुरूपा’’ति रञ्ञो गुणे कथेसुं. सुमङ्गलो पन परिसाय कथितावसाने उट्ठाय राजानं वन्दित्वा अञ्जलिं पग्गय्ह रञ्ञो थुतिं करोन्तो तिस्सो गाथा अभासि –
३३. ‘‘सिरी च लक्खी च तवेव खत्तिय, जनाधिप मा विजहि कुदाचनं;
अक्कोधनो निच्चपसन्नचित्तो, अनीघो तुवं वस्ससतानि पालय.
३४. ‘‘गुणेहि एतेहि उपेत खत्तिय, ठितमरियवत्ती सुवचो अकोधनो;
सुखी अनुप्पीळ पसास मेदिनिं, इतो विमुत्तोपि च याहि सुग्गतिं.
३५. ‘‘एवं सुनीतेन सुभासितेन, धम्मेन ञायेन उपायसो नयं;
निब्बापये सङ्खुभितं महाजनं, महाव मेघो सलिलेन मेदिनि’’न्ति.
तत्थ सिरी च लक्खी चाति परिवारसम्पत्ति च पञ्ञा च. अनीघोति निद्दुक्खो हुत्वा. उपेत खत्तियाति उपेतो खत्तिय, अयमेव वा पाठो. ठितमरियवत्तीति ठितअरियवत्ति, अरियवत्ति नाम दसराजधम्मसङ्खातं पोराणराजवत्तं, तत्थ पतिट्ठितत्ता ठितराजधम्मो हुत्वाति अत्थो. अनुप्पीळ पसास मेदिनिन्ति अनुप्पीळं पसास मेदिनिञ्च, अयमेव वा पाठो. सुनीतेनाति सुनयेन सुट्ठु कारणेन. धम्मेनाति दसकुसलकम्मपथधम्मेन. ञायेनाति पुरिमपदस्सेव वेवचनं. उपायसोति उपायकोसल्लेन. नयन्ति नयन्तो रज्जं अनुसासन्तो धम्मिकराजा. निब्बापयेति इमाय पटिपत्तिया कायिकचेतसिकदुक्खं दरथं अपनेन्तो कायिकचेतसिकदुक्खसङ्खुभितम्पि महाजनं महामेघो सलिलेन मेदिनिं विय निब्बापेय्य, त्वम्पि तथेव निब्बापेहीति दस्सेन्तो एवमाह.
सत्था कोसलरञ्ञो ओवादवसेन इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा पच्चेकबुद्धो परिनिब्बुतो, सुमङ्गलो आनन्दो अहोसि, राजा पन अहमेव अहोसि’’न्ति.
सुमङ्गलजातकवण्णना चतुत्था.
[४२१] ५. गङ्गमालजातकवण्णना
अङ्गारजाताति इदं सत्था जेतवने विहरन्तो उपोसथकम्मं आरब्भ कथेसि. एकदिवसञ्हि सत्था उपोसथिके उपासके आमन्तेत्वा ‘‘उपासका साधुरूपं वो कतं उपोसथं उपवसन्तेहि, दानं दातब्बं, सीलं रक्खितब्बं, कोधो न कातब्बो, मेत्ता भावेतब्बा, उपोसथवासो वसितब्बो, पोराणकपण्डिता हि एकं उपड्ढुपोसथकम्मं निस्साय महायसं लभिंसू’’ति वत्वा तेहि याचितो अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते तस्मिं नगरे सुचिपरिवारो नाम सेट्ठि अहोसि असीतिकोटिधनविभवो दानादिपुञ्ञाभिरतो. तस्स पुत्तदारापि परिजनोपि अन्तमसो तस्मिं घरे वच्छपालकापि सब्बे मासस्स छ दिवसे उपोसथं उपवसन्ति. तदा बोधिसत्तो एकस्मिं दलिद्दकुले निब्बत्तित्वा भतिं कत्वा किच्छेन जीवति. सो ‘‘भतिं करिस्सामी’’ति तस्स गेहं गन्त्वा वन्दित्वा एकमन्तं ठितो ‘‘किं आगतोसी’’ति वुत्ते ‘‘तुम्हाकं गेहे भतिया कम्मकरणत्थ’’न्ति आह. सेट्ठि अञ्ञेसं भतिकानं आगतदिवसेयेव ‘‘इमस्मिं गेहे कम्मं करोन्ता सीलं रक्खन्ति, सीलं रक्खितुं सक्कोन्ता कम्मं करोथा’’ति वदति, बोधिसत्तस्स पन सीलरक्खणआचिक्खणे सञ्ञं अकत्वा ‘‘साधु, तात, अत्तनो भतिं जानित्वा कम्मं करोही’’ति आह. सो ततो पट्ठाय सुवचो हुत्वा उरं दत्वा अत्तनो किलमथं अगणेत्वा तस्स सब्बकिच्चानि करोति, पातोव कम्मन्तं गन्त्वा सायं आगच्छति.
अथेकदिवसं नगरे छणं घोसेसुं. महासेट्ठि दासिं आमन्तेत्वा ‘‘अज्जुपोसथदिवसो, गेहे कम्मकरानं पातोव भत्तं पचित्वा देहि, कालस्सेव भुञ्जित्वा उपोसथिका भविस्सन्ती’’ति आह. बोधिसत्तो कालस्सेव उट्ठाय कम्मन्तं अगमासि, ‘‘अज्जुपोसथिको भवेय्यासी’’ति तस्स कोचि नारोचेसि. सेसकम्मकरा पातोव भुञ्जित्वा उपोसथिकाव अहेसुं. सेट्ठिपि सपुत्तदारो सपरिजनो उपोसथं अधिट्ठहि, सब्बेपि उपोसथिका अत्तनो अत्तनो वसनट्ठानं गन्त्वा सीलं आवज्जेन्ता निसीदिंसु. बोधिसत्तो सकलदिवसं कम्मं कत्वा सूरियत्थङ्गमनवेलाय आगतो. अथस्स भत्तकारिका हत्थधोवनं दत्वा पातियं भत्तं वड्ढेत्वा उपनामेसि. बोधिसत्तो ‘‘अञ्ञेसु दिवसेसु इमाय वेलाय महासद्दो होति, अज्ज कहं गता’’ति पुच्छि. ‘‘सब्बे उपोसथं समादियित्वा अत्तनो अत्तनो वसनट्ठानानि गता’’ति. तं सुत्वा बोधिसत्तो चिन्तेसि ‘‘एत्तकानं सीलवन्तानं अन्तरे अहं एको दुस्सीलो हुत्वा न वसिस्सामि, इदानि उपोसथङ्गेसु अधिट्ठितेसु होति नु खो उपोसथकम्मं, नो’’ति. सो गन्त्वा सेट्ठिं पुच्छि. अथ नं सेट्ठि ‘‘तात पातोव अनधिट्ठितत्ता सकलं उपोसथकम्मं न होति, उपड्ढुपोसथकम्मं पन होती’’ति आह.
सो ‘‘एत्तकम्पि होतू’’ति सेट्ठिस्स सन्तिके समादिन्नसीलो हुत्वा उपोसथकम्मं अधिट्ठाय अत्तनो वसनोकासं पविसित्वा सीलं आवज्जेन्तो निपज्जि. अथस्स सकलदिवसं निराहारताय पच्छिमयामसमनन्तरे सत्थकवाता समुट्ठहिंसु. सेट्ठिना नानाविधानि भेसज्जानि आहरित्वा ‘‘भुञ्जा’’ति वुच्चमानोपि ‘‘उपोसथं न भिन्दिस्सामि, जीवितपरियन्तिकं कत्वा समादियि’’न्ति आह. बलववेदना उप्पज्जि, अरुणुग्गमनवेलाय सतिं पच्चुपट्ठापेतुं नासक्खि. अथ नं ‘‘इदानि मरिस्सती’’ति नीहरित्वा ‘‘ओसारके निपज्जापेसुं. तस्मिं खणे बाराणसिराजा रथवरगतो महन्तेन परिवारेन नगरं पदक्खिणं करोन्तो तं ठानं सम्पापुणि. बोधिसत्तो तस्स सिरिं ओलोकेत्वा तस्मिं लोभं उप्पादेत्वा रज्जं पत्थेसि. सो चवित्वा उपड्ढुपोसथकम्मनिस्सन्देन तस्स अग्गमहेसिया कुच्छिम्हि पटिसन्धिं गण्हि. सा लद्धगब्भपरिहारा दसमासच्चयेन पुत्तं विजायि, ‘‘उदयकुमारो’’तिस्स नामं अकंसु. सो वयप्पत्तो सब्बसिप्पेसु निप्फत्तिं पापुणि, जातिस्सरञाणेन अत्तनो पुब्बकम्मं सरित्वा ‘‘अप्पकस्स कम्मस्स फलं मम इद’’न्ति अभिक्खणं उदानं उदानेसि. सो पितु अच्चयेन रज्जं पत्वापि अत्तनो महन्तं सिरिविभवं ओलोकेत्वा तदेव उदानं उदानेसि.