७. सत्तकनिपातो
१. कुक्कुवग्गो
[३९६] १. कुक्कुजातकवण्णना
दियड्ढकुक्कूति इदं सत्था जेतवने विहरन्तो राजोवादं आरब्भ कथेसि. पच्चुप्पन्नवत्थु तेसकुणजातके (जा. २.१७.१ आदयो) आवि भविस्सति.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो तस्स अत्थधम्मानुसासको अमच्चो अहोसि. राजा अगतिगमने पतिट्ठाय अधम्मेन रज्जं कारेसि, जनपदं पीळेत्वा धनमेव संहरि. बोधिसत्तो राजानं ओवदितुकामो एकं उपमं उपधारेन्तो विचरति, रञ्ञो उय्याने वासागारं विप्पकतं होति अनिट्ठितच्छदनं, दारुकण्णिकं आरोपेत्वा गोपानसियो पवेसितमत्ता होन्ति. राजा कीळनत्थाय उय्यानं गन्त्वा तत्थ विचरित्वा तं गेहं पविसित्वा उल्लोकेन्तो कण्णिकमण्डलं दिस्वा अत्तनो उपरिपतनभयेन निक्खमित्वा बहि ठितो पुन ओलोकेत्वा ‘‘किं नु खो निस्साय कण्णिका ठिता, किं निस्साय गोपानसियो’’ति चिन्तेत्वा बोधिसत्तं पुच्छन्तो पठमं गाथमाह –
१. ‘‘दियड्ढकुक्कू उदयेन कण्णिका, विदत्थियो अट्ठ परिक्खिपन्ति नं;
सा सिंसपा, सारमया अफेग्गुका, कुहिं ठिता उप्परितो न धंसती’’ति.
तत्थ दियड्ढकुक्कूति दियड्ढरतना. उदयेनाति उच्चत्तेन. परिक्खिपन्ति नन्ति तं पनेतं अट्ठ विदत्थियो परिक्खिपन्ति, परिक्खेपतो अट्ठविदत्थिपमाणाति वुत्तं होति. कुहिं ठिताति कत्थ पतिट्ठिता हुत्वा. न धंसतीति न पतति.
तं सुत्वा बोधिसत्तो ‘‘लद्धा दानि मे रञ्ञो ओवादत्थाय उपमा’’ति चिन्तेत्वा इमा गाथा आह –
२. ‘‘या तिंसति सारमया अनुज्जुका, परिकिरिय गोपानसियो समं ठिता;
ताहि सुसङ्गहिता बलसा पीळिता, समं ठिता उप्परितो न धंसति.
३. ‘‘एवम्पि मित्तेहि दळ्हेहि पण्डितो, अभेज्जरूपेहि सुचीहि मन्तिभि;
सुसङ्गहीतो सिरिया न धंसति, गोपानसीभारवहाव कण्णिका’’ति.
तत्थ या तिंसति सारमयाति या एता साररुक्खमया तिंसति गोपानसियो. परिकिरियाति परिवारेत्वा. समं ठिताति समभागेन ठिता. बलसा पीळिताति ताहि ताहि गोपानसीहि बलेन पीळिता सुट्ठु सङ्गहिता एकाबद्धा हुत्वा. पण्डितोति ञाणसम्पन्नो राजा. सुचीहीति सुचिसमाचारेहि कल्याणमित्तेहि. मन्तिभीति मन्तकुसलेहि. गोपानसीभारवहाव कण्णिकाति यथा गोपानसीनं भारं वहमाना कण्णिका न धंसति न पतति, एवं राजापि वुत्तप्पकारेहि मन्तीहि अभिज्जहदयेहि सुसङ्गहितो सिरितो न धंसति न पतति न परिहायति.
राजा बोधिसत्ते कथेन्तेयेव अत्तनो किरियं सल्लक्खेत्वा कण्णिकाय असति गोपानसियो न तिट्ठन्ति, गोपानसीहि असङ्गहिता कण्णिका न तिट्ठति, गोपानसीसु भिज्जन्तीसु कण्णिका पतति, एवमेव अधम्मिको राजा अत्तनो मित्तामच्चे च बलकाये च ब्राह्मणगहपतिके च असङ्गण्हन्तो तेसु भिज्जन्तेसु तेहि असङ्गहितो इस्सरिया धंसति, रञ्ञा नाम धम्मिकेन भवितब्बन्ति. अथस्स तस्मिं खणे पण्णाकारत्थाय मातुलुङ्गं आहरिंसु. राजा ‘‘सहाय, इमं मातुलुङ्गं खादा’’ति बोधिसत्तं आह. बोधिसत्तो तं गहेत्वा ‘‘महाराज, इमं खादितुं अजानन्ता तित्तकं वा करोन्ति अम्बिलं वा, जानन्ता पन पण्डिता तित्तकं हारेत्वा अम्बिलं अनीहरित्वा मातुलुङ्गरसं अनासेत्वाव खादन्ती’’ति रञ्ञो इमाय उपमाय धनसङ्घरणूपायं दस्सेन्तो द्वे गाथा अभासि –
४. ‘‘खरत्तचं बेल्लं यथापि सत्थवा, अनामसन्तोपि करोति तित्तकं;
समाहरं सादुं करोति पत्थिव, असादुं कयिरा तनुबन्धमुद्धरं.
५. ‘‘एवम्पि गामनिगमेसु पण्डितो, असाहसं राजधनानि सङ्घरं;
धम्मानुवत्ती पटिपज्जमानो, स फाति कयिरा अविहेठयं पर’’न्ति.
तत्थ खरत्तचन्ति थद्धतचं. बेल्लन्ति मातुलुङ्गं. ‘बेल’’न्तिपि पाठो, अयमेवत्थो. सत्थवाति सत्थकहत्थो. अनामसन्तोति बहितचं तनुकम्पि अतच्छन्तो इदं फलं तित्तकं करोति. समाहरन्ति समाहरन्तो बहितचं तच्छन्तो अन्तो च अम्बिलं अनीहरन्तो तं सादुं करोति. पत्थिवाति राजानं आलपति. तनुबन्धमुद्धरन्ति तनुकं पन तचं उद्धरन्तो सब्बसो तित्तकस्स अनपनीतत्ता तं असादुमेव कयिरा. एवन्ति एवं पण्डितो राजापि असाहसं साहसिया तण्हाय वसं अगच्छन्तो अगतिगमनं पहाय रट्ठं अपीळेत्वा उपचिकानं वम्मिकवड्ढननियामेन मधुकरानं रेणुं गहेत्वा मधुकरणनियामेन च धनं सङ्घरन्तो –
‘‘दानं सीलं परिच्चागं, अज्जवं मद्दवं तपं;
अक्कोधं अविहिंसञ्च, खन्तिञ्च अविरोधन’’न्ति. –
इति इमेसं दसन्नं राजधम्मानं अनुवत्तनेन धम्मानुवत्ती हुत्वा पटिपज्जमानो सो अत्तनो च परेसञ्च फातिं वड्ढिं करेय्य परं अविहेठेन्तोयेवाति.
राजा बोधिसत्तेन सद्धिं मन्तेन्तो पोक्खरणीतीरं गन्त्वा सुपुप्फितं बालसूरियवण्णं उदकेन अनुपलित्तं पदुमं दिस्वा आह – ‘‘सहाय, इमं पदुमं उदके सञ्जातमेव उदकेन अलिम्पमानं ठित’’न्ति. अथ नं बोधिसत्तो ‘‘महाराज, रञ्ञा नाम एवरूपेन भवितब्ब’’न्ति ओवदन्तो इमा गाथा आह –
६. ‘‘ओदातमूलं सुचिवारिसम्भवं, जातं यथा पोक्खरणीसु अम्बुजं;
पदुमं यथा अग्गिनिकासिफालिमं, न कद्दमो न रजो न वारि लिम्पति.
७. ‘‘एवम्पि वोहारसुचिं असाहसं, विसुद्धकम्मन्तमपेतपापकं;
न लिम्पति कम्मकिलेस तादिसो, जातं यथा पोक्खरणीसु अम्बुज’’न्ति.
तत्थ ओदातमूलन्ति पण्डरमूलं. अम्बुजन्ति पदुमस्सेव वेवचनं. अग्गिनिकासिफालिमन्ति अग्गिनिकासिना सूरियेन फालितं विकसितन्ति अत्थो. न कद्दमो न रजो न वारि लिम्पतीति नेव कद्दमो न रजो न उदकं लिम्पति, न मक्खेतीति अत्थो. ‘‘लिप्पति’’च्चेव वा पाठो, भुम्मत्थे वा एतानि पच्चत्तवचनानि, एतेसु कद्दमादीसु न लिप्पति, न अल्लीयतीति अत्थो. वोहारसुचिन्ति पोराणकेहि धम्मिकराजूहि लिखापेत्वा ठपितविनिच्छयवोहारे सुचिं, अगतिगमनं पहाय धम्मेन विनिच्छयकारकन्ति अत्थो. असाहसन्ति धम्मिकविनिच्छये ठितत्तायेव साहसिककिरियाय विरहितं. विसुद्धकम्मन्तन्ति तेनेव असाहसिकट्ठेन विसुद्धकम्मन्तं सच्चवादिं निक्कोधं मज्झत्तं तुलाभूतं लोकस्स. अपेतपापकन्ति अपगतपापकम्मं. न लिम्पति कम्मकिलेस तादिसोति तं राजानं पाणातिपातो अदिन्नादानं कामेसुमिच्छाचारो मुसावादोति अयं कम्मकिलेसो न अल्लीयति. किंकारणा? तादिसो जातं यथा पोक्खरणीसु अम्बुजं. तादिसो हि राजा यथा पोक्खरणीसु जातं पदुमं अनुपलित्तं, एवं अनुपलित्तो नाम होति.
राजा बोधिसत्तस्स ओवादं सुत्वा ततो पट्ठाय धम्मेन रज्जं कारेन्तो दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा जातकं समोधानेसि – ‘‘तदा राजा आनन्दो अहोसि, पण्डितामच्चो पन अहमेव अहोसि’’न्ति.
कुक्कुजातकवण्णना पठमा.
[३९७] २. मनोजजातकवण्णना
यथा चापो निन्नमतीति इदं सत्था वेळुवने विहरन्तो विपक्खसेवकं भिक्खुं आरब्भ कथेसि. वत्थु पन हेट्ठा महिळामुखजातके (जा. १.१.२६) वित्थारितमेव. तदा पन सत्था ‘‘न, भिक्खवे, इदानेव, पुब्बेपेस विपक्खसेवकोयेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो सीहो हुत्वा सीहिया सद्धिं संवसन्तो द्वे पोतके लभि – पुत्तञ्च धीतरञ्च. पुत्तस्स मनोजोति नामं अहोसि, सो वयप्पत्तो एकं सीहपोतिकं गण्हि. इति ते पञ्च जना अहेसुं. मनोजो वनमहिंसादयो वधित्वा मंसं आहरित्वा मातापितरो च भगिनिञ्च पजापतिञ्च पोसेति. सो एकदिवसं गोचरभूमियं गिरियं नाम सिङ्गालं पलायितुं अप्पहोन्तं उरेन निपन्नं दिस्वा ‘‘किं, सम्मा’’ति पुच्छित्वा ‘‘उपट्ठातुकामोम्हि, सामी’’ति वुत्ते ‘‘साधु, उपट्ठहस्सू’’ति तं गहेत्वा अत्तनो वसनगुहं आनेसि. बोधिसत्तो तं दिस्वा ‘‘तात मनोज, सिङ्गाला नाम दुस्सीला पापधम्मा अकिच्चे नियोजेन्ति, मा एतं अत्तनो सन्तिके करी’’ति वारेतुं नासक्खि.
अथेकदिवसं सिङ्गालो अस्समंसं खादितुकामो मनोजं आह – ‘‘सामि, अम्हेहि ठपेत्वा अस्समंसं अञ्ञं अखादितपुब्बं नाम नत्थि, अस्सं गण्हिस्सामा’’ति. ‘‘कहं पन, सम्म, अस्सा होन्ती’’ति? ‘‘बाराणसियं नदीतीरे’’ति. सो तस्स वचनं गहेत्वा तेन सद्धिं अस्सानं नदिया न्हानवेलायं गन्त्वा एकं अस्सं गहेत्वा पिट्ठियं आरोपेत्वा वेगेन अत्तनो गुहाद्वारमेव आगतो. अथस्स पिता अस्समंसं खादित्वा ‘‘तात, अस्सा नाम राजभोगा, राजानो च नाम अनेकमाया कुसलेहि धनुग्गहेहि विज्झापेन्ति, अस्समंसखादनसीहा नाम दीघायुका न होन्ति, इतो पट्ठाय मा अस्सं गण्ही’’ति आह. सो पितु वचनं अकत्वा गण्हतेव. ‘‘सीहो अस्से गण्हाती’’ति सुत्वा राजा अन्तोनगरेयेव अस्सानं पोक्खरणिं कारापेसि. ततोपि आगन्त्वा गण्हियेव. राजा अस्ससालं कारेत्वा अन्तोसालायमेव तिणोदकं दापेसि. सीहो पाकारमत्थकेन गन्त्वा अन्तोसालातोपि गण्हियेव.
राजा एकं अक्खणवेधिं धनुग्गहं पक्कोसापेत्वा ‘‘सक्खिस्ससि तात, सीहं विज्झितु’’न्ति आह. सो ‘‘सक्कोमी’’ति वत्वा पाकारं निस्साय सीहस्स आगमनमग्गे अट्टकं कारेत्वा अट्ठासि. सीहो आगन्त्वा बहिसुसाने सिङ्गालं ठपेत्वा अस्सगहणत्थाय नगरं पक्खन्दि. धनुग्गहो आगमनकाले ‘‘अतितिखिणो वेगो’’ति सीहं अविज्झित्वा अस्सं गहेत्वा गमनकाले गरुभारताय ओलीनवेगं सीहं तिखिणेन नाराचेन पच्छाभागे विज्झि. नाराचो पुरिमकायेन निक्खमित्वा आकासं पक्खन्दि. सीहो ‘‘विद्धोस्मी’’ति विरवि. धनुग्गहो तं विज्झित्वा असनि विय जियं पोथेसि. सिङ्गालो सीहस्स च जियाय च सद्दं सुत्वा ‘‘सहायो मे धनुग्गहेन विज्झित्वा मारितो भविस्सति, मतकेन हि सद्धिं विस्सासो नाम नत्थि, इदानि मम पकतिया वसनवनमेव गमिस्सामी’’ति अत्तनाव सद्धिं सल्लपन्तो द्वे गाथा अभासि –
८. ‘‘यथा चापो निन्नमति, जिया चापि निकूजति;
हञ्ञते नून मनोजो, मिगराजा सखा मम.
९. ‘‘हन्द दानि वनन्तानि, पक्कमामि यथासुखं;
नेतादिसा सखा होन्ति, लब्भा मे जीवतो सखा’’ति.
तत्थ यथाति येनाकारेनेव चापो निन्नमति. हञ्ञते नूनाति नून हञ्ञति. नेतादिसाति एवरूपा मतका सहाया नाम न होन्ति. लब्भा मेति जीवतो मम सहायो नाम सक्का लद्धुं.
सीहोपि एकवेगेन गन्त्वा अस्सं गुहाद्वारे पातेत्वा सयम्पि मरित्वा पति. अथस्स ञातका निक्खमित्वा तं लोहितमक्खितं पहारमुखेहि पग्घरितलोहितं पापजनसेविताय जीवितक्खयं पत्तं अद्दसंसु, दिस्वा चस्स माता पिता भगिनी पजापतीति पटिपाटिया चतस्सो गाथा भासिंसु –
१०. ‘‘न पापजनसंसेवी, अच्चन्तं सुखमेधति;
मनोजं पस्स सेमानं, गिरियस्सानुसासनी.
११. ‘‘न पापसम्पवङ्केन, माता पुत्तेन नन्दति;
मनोजं पस्स सेमानं, अच्छन्नं सम्हि लोहिते.
१२. ‘‘एवमापज्जते पोसो, पापियो च निगच्छति;
यो वे हितानं वचनं, न करोति अत्थदस्सिनं.
१३. ‘‘एवञ्च सो होति ततो च पापियो, यो उत्तमो अधमजनूपसेवी;
पस्सुत्तमं अधमजनूपसेवितं, मिगाधिपं सरवरवेगनिद्धुत’’न्ति.
तत्थ अच्चन्तं सुखमेधतीति न चिरं सुखं लभति. गिरियस्सानुसासनीति अयं एवरूपा गिरियस्सानुसासनीति गरहन्तो आह. पापसम्पवङ्केनाति पापेसु सम्पवङ्केन पापसहायेन. अच्छन्नन्ति निमुग्गं. पापियो च निगच्छतीति पापञ्च विन्दति. हितानन्ति अत्थकामानं. अत्थदस्सिनन्ति अनागतअत्थं पस्सन्तानं. पापियोति पापतरो. अधमजनूपसेवीति अधमजनं उपसेवी. उत्तमन्ति सरीरबलेन जेट्ठकं.
पच्छिमा अभिसम्बुद्धगाथा –
१४. ‘‘निहीयति पुरिसो निहीनसेवी, न च हायेथ कदाचि तुल्यसेवी;
सेट्ठमुपगमं उदेति खिप्पं, तस्मात्तना उत्तरितरं भजेथा’’ति.
तत्थ निहीयतीति भिक्खवे, निहीनसेवी नाम मनोजो सीहो विय निहीयति परिहायति विनासं पापुणाति. तुल्यसेवीति सीलादीहि अत्तना सदिसं सेवमानो न हायति, वड्ढियेव पनस्स होति. सेट्ठमुपगमन्ति सीलादीहि उत्तरितरंयेव उपगच्छन्तो. उदेति खिप्पन्ति सीघमेव सीलादीहि गुणेहि उदेति, वुद्धिं उपगच्छतीति.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने विपक्खसेवको सोतापत्तिफले पतिट्ठहि.
तदा सिङ्गालो देवदत्तो अहोसि, मनोजो विपक्खसेवको, भगिनी उप्पलवण्णा, भरिया खेमा भिक्खुनी, माता राहुलमाता, पिता सीहराजा पन अहमेव अहोसिन्ति.
मनोजजातकवण्णना दुतिया.
[३९८] ३. सुतनुजातकवण्णना
राजा ते भत्तन्ति इदं सत्था जेतवने विहरन्तो मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो दुग्गतगहपतिकुले निब्बत्ति, सुतनूतिस्स नामं अकंसु. सो वयप्पत्तो भतिं कत्वा मातापितरो पोसेत्वा पितरि कालकते मातरं पोसेति. तस्मिं पन काले बाराणसिराजा मिगवित्तको अहोसि. सो एकदिवसं महन्तेन परिवारेन योजनद्वियोजनमत्तं अरञ्ञं पविसित्वा ‘‘यस्स ठितट्ठानेन मिगो पलायति, सो इमं नाम जितो’’ति सब्बेसं आरोचापेसि. अमच्चा रञ्ञो धुवमग्गट्ठाने कोट्ठकं छादेत्वा अदंसु. मनुस्सेहि मिगानं वसनट्ठानानि परिवारेत्वा उन्नादेन्तेहि उट्ठापितेसु मिगेसु एको एणिमिगो रञ्ञो ठितट्ठानं पटिपज्जि. राजा ‘‘तं विज्झिस्सामी’’ति सरं खिपि. उग्गहितमायो मिगो सरं महाफासुकाभिमुखं आगच्छन्तं ञत्वा परिवत्तित्वा सरेन विद्धो विय हुत्वा पति. राजा ‘‘मिगो मे विद्धो’’ति गहणत्थाय धावि. मिगो उट्ठाय वातवेगेन पलायि, अमच्चादयो राजानं अवहसिंसु. सो मिगं अनुबन्धित्वा किलन्तकाले खग्गेन द्विधा छिन्दित्वा एकस्मिं दण्डके लग्गित्वा काजं वहन्तो विय आगच्छन्तो ‘‘थोकं विस्समिस्सामी’’ति मग्गसमीपे ठितं वटरुक्खं उपगन्त्वा निपज्जित्वा निद्दं ओक्कमि.
तस्मिं पन वटरुक्खे निब्बत्तो मघदेवो नाम यक्खो तत्थ पविट्ठे वेस्सवणस्स सन्तिका खादितुं लभि. सो राजानं उट्ठाय गच्छन्तं ‘‘तिट्ठ भक्खोसि मे’’ति हत्थे गण्हि. ‘‘त्वं कोनामोसी’’ति? ‘‘अहं इध निब्बत्तयक्खो, इमं ठानं पविट्ठके खादितुं लभामी’’ति. राजा सतिं उपट्ठपेत्वा ‘‘किं अज्जेव मं खादिस्ससि, उदाहु निबद्धं खादिस्ससी’’ति पुच्छि. ‘‘लभन्तो निबद्धं खादिस्सामी’’ति. राजा ‘‘इमं अज्ज मिगं खादित्वा मं विस्सज्जेहि, अहं ते स्वे पट्ठाय एकाय भत्तपातिया सद्धिं एकं मनुस्सं पेसेस्सामी’’ति. ‘‘तेन हि अप्पमत्तो होहि, अपेसितदिवसे तञ्ञेव खादिस्सामी’’ति. ‘‘अहं बाराणसिराजा, मय्हं अविज्जमानं नाम नत्थी’’ति. यक्खो पटिञ्ञं गहेत्वा तं विस्सज्जेसि. सो नगरं पविसित्वा तमत्थं एकस्स अत्थचरकस्स अमच्चस्स कथेत्वा ‘‘इदानि किं कातब्ब’’न्ति पुच्छि. ‘‘दिवसपरिच्छेदो कतो, देवा’’ति? ‘‘न कतो’’ति. ‘‘अयुत्तं वो कतं, एवं सन्तेपि मा चिन्तयित्थ, बहू बन्धनागारे मनुस्सा’’ति. ‘‘तेन हि त्वं एतं कम्मं कर, मय्हं जीवितं देही’’ति.
अमच्चो ‘‘साधू’’ति सम्पटिच्छित्वा देवसिकं बन्धनागारतो मनुस्सं नीहरित्वा भत्तपातिं गहेत्वा कञ्चि अजानापेत्वाव यक्खस्स पेसेसि. यक्खो भत्तं भुञ्जित्वा मनुस्सं खादति. अपरभागे बन्धनागारानि निम्मनुस्सानि जातानि. राजा भत्तहारकं अलभन्तो मरणभयेन कम्पि. अथ नं अमच्चो अस्सासेत्वा ‘‘देव, जीवितासातो धनासाव बलवतरा, हत्थिक्खन्धे सहस्सभण्डिकं ठपेत्वा ‘को इमं धनं गहेत्वा यक्खस्स भत्तं आदाय गमिस्सती’ति भेरिं चरापेमा’’ति वत्वा तथा कारेसि. अथ तं सुत्वा बोधिसत्तो चिन्तेसि ‘‘अहं भतिया मासकड्ढमासकं सङ्घरित्वा किच्छेन मातरं पोसेमि, इमं धनं गहेत्वा मातु दत्वा यक्खस्स सन्तिकं गमिस्सामि, सचे यक्खं दमेतुं सक्खिस्सामि, इच्चेतं कुसलं, नो चे सक्खिस्सामि, माता मे सुखं जीविस्सती’’ति. सो तमत्थं मातु आरोचेत्वा ‘‘अलं तात, न मम अत्थो धनेना’’ति द्वे वारे पटिक्खिपित्वा ततियवारे तं अनापुच्छित्वाव ‘‘आहरथ, अय्य, सहस्सं, अहं भत्तं हरिस्सामी’’ति सहस्सं गहेत्वा मातु दत्वा ‘‘अम्म, मा चिन्तयि, अहं यक्खं दमेत्वा महाजनस्स सोत्थिं करिस्सामि, अज्जेव तव अस्सुकिलिन्नमुखं हासापेन्तोव आगच्छिस्सामी’’ति मातरं वन्दित्वा राजपुरिसेहि सद्धिं रञ्ञो सन्तिकं गन्त्वा वन्दित्वा अट्ठासि.
ततो रञ्ञा ‘‘तात, त्वं भत्तं हरिस्ससी’’ति वुत्ते ‘‘आम, देवा’’ति आह. ‘‘किं ते लद्धुं वट्टती’’ति? ‘‘तुम्हाकं सुवण्णपादुका, देवा’’ति. ‘‘किंकारणा’’ति? ‘‘देव, सो यक्खो अत्तनो रुक्खमूले भूमियं ठितके खादितुं लभति, अहं एतस्स सन्तकभूमियं अट्ठत्वा पादुकासु ठस्सामी’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति? ‘‘तुम्हाकं छत्तं, देवा’’ति. ‘‘इदं किमत्थाया’’ति? ‘‘देव, यक्खो अत्तनो रुक्खच्छायाय ठितके खादितुं लभति, अहं तस्स रुक्खच्छायाय अट्ठत्वा छत्तच्छायाय ठस्सामी’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति. ‘‘तुम्हाकं खग्गं, देवा’’ति. ‘‘इमिना को अत्थो’’ति? ‘‘देव, अमनुस्सापि आवुधहत्थानं भायन्तियेवा’’ति. ‘‘अञ्ञं किं लद्धुं वट्टती’’ति? ‘‘सुवण्णपातिं पूरेत्वा तुम्हाकं भुञ्जनकभत्तं देथ, देवा’’ति. ‘‘किंकारणा, ताता’’ति? ‘‘देव, मादिसस्स नाम पण्डितस्स पुरिसस्स मत्तिकपातिया लूखभोजनं हरितुं अननुच्छविक’’न्ति. ‘‘साधु, ताता’’ति राजा सब्बं दापेत्वा तस्स वेय्यावच्चकरे पटिपादेसि.
बोधिसत्तो ‘‘महाराज, मा भायित्थ, अज्जाहं यक्खं दमेत्वा तुम्हाकं सोत्थिं कत्वा आगमिस्सामी’’ति राजानं वन्दित्वा उपकरणानि गाहापेत्वा तत्थ गन्त्वा मनुस्से रुक्खस्साविदूरे ठपेत्वा सुवण्णपादुकं आरुय्ह खग्गं सन्नय्हित्वा सेतच्छत्तं मत्थके कत्वा कञ्चनपातिया भत्तं गहेत्वा यक्खस्स सन्तिकं पायासि. यक्खो मग्गं ओलोकेन्तो तं दिस्वा ‘‘अयं पुरिसो न अञ्ञेसु दिवसेसु आगमननियामेन एति, किं नु खो कारण’’न्ति चिन्तेसि. बोधिसत्तोपि रुक्खसमीपं गन्त्वा असितुण्डेन भत्तपातिं अन्तोछायाय करित्वा छायाय परियन्ते ठितो पठमं गाथमाह.
१५. ‘‘राजा ते भत्तं पाहेसि, सुचिं मंसूपसेचनं;
मघदेवस्मिं अधिवत्थे, एहि निक्खम्म भुञ्जसू’’ति.
तत्थ पाहेसीति पहिणि. मघदेवस्मिं अधिवत्थेति मघदेवोति वटरुक्खो वुच्चति, तस्मिं अधिवत्थेति देवतं आलपति.
तं सुत्वा यक्खो ‘‘इमं पुरिसं वञ्चेत्वा अन्तोछायाय पविट्ठं खादिस्सामी’’ति चिन्तेत्वा दुतियं गाथमाह –
१६. ‘‘एहि माणव ओरेन, भिक्खमादाय सूपितं;
त्वञ्च माणव भिक्खा च, उभो भक्खा भविस्सथा’’ति.
तत्थ भिक्खन्ति मम निबद्धभिक्खं. सूपितन्ति सूपसम्पन्नं.
ततो बोधिसत्तो द्वे गाथा अभासि –
१७. ‘‘अप्पकेन तुवं यक्ख, थुल्लमत्थं जहिस्ससि;
भिक्खं ते नाहरिस्सन्ति, जना मरणसञ्ञिनो.
१८. ‘‘लद्धाय यक्खा तव निच्चभिक्खं, सुचिं पणीतं रससा उपेतं;
भिक्खञ्च ते आहरियो नरो इध, सुदुल्लभो हेहिति भक्खिते मयी’’ति.
तत्थ थुल्लमत्थन्ति अप्पकेन कारणेन महन्तं अत्थं जहिस्ससीति दस्सेति. नाहरिस्सन्तीति इतो पट्ठाय मरणसञ्ञिनो हुत्वा न आहरिस्सन्ति, अथ त्वं मिलातसाखो विय रुक्खो निराहारो दुब्बलो भविस्ससीति. लद्धायन्ति लद्धअयं लद्धागमनं. इदं वुत्तं होति – सम्म यक्ख, यं अहं अज्ज आहरिं, इदं तव निच्चभिक्खं सुचिं पणीतं उत्तमं रसेन उपेतं लद्धागमनं देवसिकं ते आगच्छिस्सति. आहरियोति आहरणको. इदं वुत्तं होति – ‘‘सचे त्वं इमं भिक्खं गहेत्वा आगतं मं भक्खसि, अथेवं मयि भक्खिते भिक्खञ्च ते आहरणको अञ्ञो नरो इध सुदुल्लभो भविस्सति. किंकारणा? मादिसो हि बाराणसियं अञ्ञो पण्डितमनुस्सो नाम नत्थि, मयि पन खादिते सुतनुपि नाम यक्खेन खादितो, अञ्ञस्स कस्स सो लज्जिस्सती’’ति भत्ताहरणकं न लभिस्ससि, अथ ते इतो पट्ठाय भोजनं दुल्लभं भविस्सति, अम्हाकम्पि राजानं गण्हितुं न लभिस्ससि. कस्मा? रुक्खतो बहिभावेन. सचे पनिदं भत्तं भुञ्जित्वा मं पहिणिस्ससि, अहं ते रञ्ञो कथेत्वा निबद्धं भत्तं पेसेस्सामि, अत्तानम्पि च ते खादितुं न दस्सामि, अहम्पि तव सन्तिके ठाने न ठस्सामि, पादुकासु ठस्सामि, रुक्खच्छायायम्पि ते न ठस्सामि, अत्तनो छत्तच्छायायमेव ठस्सामि, सचे पन मया सद्धिं विरुज्झिस्ससि, खग्गेन तं द्विधा भिन्दिस्सामि, अहञ्हि अज्ज एतदत्थमेव सज्जो हुत्वा आगतोति. एवं किर नं महासत्तो तज्जेसि.
यक्खो ‘‘युत्तरूपं माणवो वदती’’ति सल्लक्खेत्वा पसन्नचित्तो द्वे गाथा अभासि –
१९. ‘‘ममेव सुतनो अत्थो, यथा भाससि माणव;
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि मातरं.
२०. ‘‘खग्गं छत्तञ्च पातिञ्च, गच्छमादाय माणव;
सोत्थिं पस्सतु ते माता, त्वञ्च पस्साहि मातर’’न्ति.
तत्थ सुतनोति बोधिसत्तं आलपति. यथा भाससीति यथा त्वं भाससि, तथा यो एस तया भासितो अत्थो, एसो ममेवत्थो, मय्हमेव वड्ढीति.
यक्खस्स कथं सुत्वा बोधिसत्तो ‘‘मम कम्मं निप्फन्नं, दमितो मे यक्खो, बहुञ्च धनं लद्धं, रञ्ञो च वचनं कत’’न्ति तुट्ठचित्तो यक्खस्स अनुमोदनं करोन्तो ओसानगाथमाह –
२१. ‘‘एवं यक्ख सुखी होहि, सह सब्बेहि ञातिभि;
धनञ्च मे अधिगतं, रञ्ञो च वचनं कत’’न्ति. –
वत्वा च पन यक्खं आमन्तेत्वा ‘‘सम्म, त्वं पुब्बे अकुसलकम्मं कत्वा कक्खळो फरुसो परेसं लोहितमंसभक्खो यक्खो हुत्वा निब्बत्तो, इतो पट्ठाय पाणातिपातादीनि मा करी’’ति सीले च आनिसंसं, दुस्सील्ये च आदीनवं कथेत्वा यक्खं पञ्चसु सीलेसु पतिट्ठापेत्वा ‘‘किं ते अरञ्ञवासेन, एहि नगरद्वारे तं निसीदापेत्वा अग्गभत्तलाभिं करोमी’’ति यक्खेन सद्धिं निक्खमित्वा खग्गादीनि यक्खं गाहापेत्वा बाराणसिं अगमासि. ‘‘सुतनु माणवो यक्खं गहेत्वा एती’’ति रञ्ञो आरोचेसुं. राजा अमच्चपरिवुतो बोधिसत्तस्स पच्चुग्गमनं कत्वा यक्खं नगरद्वारे निसीदापेत्वा अग्गभत्तलाभिनं कत्वा नगरं पविसित्वा भेरिं चरापेत्वा नागरे सन्निपातापेत्वा बोधिसत्तस्स गुणं कथेत्वा सेनापतिट्ठानं अदासि. अयञ्च बोधिसत्तस्स ओवादे ठत्वा दानादीनि पुञ्ञानि कत्वा सग्गपरायणो अहोसि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि. तदा यक्खो अङ्गुलिमालो अहोसि, राजा आनन्दो, माणवो पन अहमेव अहोसिन्ति.
सुतनुजातकवण्णना ततिया.
[३९९] ४. मातुपोसकगिज्झजातकवण्णना
ते कथं नु करिस्सन्तीति इदं सत्था जेतवने विहरन्तो एकं मातुपोसकभिक्खुं आरब्भ कथेसि. वत्थु सामजातके (जा. २.२२.२९६ आदयो) आवि भविस्सति.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो गिज्झयोनियं निब्बत्तित्वा वयप्पत्तो वुद्धे परिहीनचक्खुके मातापितरो गिज्झगुहायं ठपेत्वा गोमंसादीनि आहरित्वा पोसेसि. तस्मिं काले बाराणसियं सुसाने एको नेसादो अनियमेत्वा गिज्झानं पासे ओड्डेसि. अथेकदिवसं बोधिसत्तो गोमंसादिं परियेसन्तो सुसानं पविट्ठो पादेन पासे बज्झित्वा अत्तनो न चिन्तेसि, वुद्धे परिहीनचक्खुके मातापितरो अनुस्सरित्वा ‘‘कथं नु खो मे मातापितरो यापेस्सन्ति, मम बद्धभावम्पि अजानन्ता अनाथा निप्पच्चया पब्बतगुहायमेव सुस्सित्वा मरिस्सन्ति मञ्ञे’’ति विलपन्तो पठमं गाथमाह –
२२. ‘‘ते कथं नु करिस्सन्ति, वुद्धा गिरिदरीसया;
अहं बद्धोस्मि पासेन, निलीयस्स वसं गतो’’ति.
तत्थ निलीयस्साति एवंनामकस्स नेसादपुत्तस्स.
अथ नेसादपुत्तो गिज्झराजस्स परिदेवितसद्दं सुत्वा दुतियं गाथमाह –
२३. ‘‘किं गिज्झ परिदेवसि, का नु ते परिदेवना;
न मे सुतो वा दिट्ठो वा, भासन्तो मानुसिं दिजो’’ति.
गिज्झो आह –
२४. ‘‘भरामि मातापितरो, वुद्धे गिरिदरीसये;
ते कथं नु करिस्सन्ति, अहं वसं गतो तवा’’ति.
नेसादो आह –
२५. ‘‘यं नु गिज्झो योजनसतं, कुणपानि अवेक्खति;
कस्मा जालञ्च पासञ्च, आसज्जापि न बुज्झसी’’ति.
गिज्झराजा आह –
२६. ‘‘यदा पराभवो होति, पोसो जीवितसङ्खये;
अथ जालञ्च पासञ्च, आसज्जापि न बुज्झती’’ति.
२७. ‘‘भरस्सु मातापितरो, वुद्धे गिरिदरीसये;
मया त्वं समनुञ्ञातो, सोत्थिं पस्साहि ञातके.
२८. ‘‘एवं लुद्दक नन्दस्सु, सह सब्बेहि ञातिभि;
भरिस्सं मातापितरो, वुद्धे गिरिदरीसये’’ति. –
नेसादपुत्तेन दुतिया, गिज्झेन ततियाति इमा गाथा पटिपाटिया वुत्ता.
तत्थ यं नूति यं नु एतं लोके कथीयति. गिज्झो योजनसतं, कुणपानि अवेक्खतीति योजनसतं अतिक्कम्म ठितानिपि कुणपानि पस्सति, तं यदि तथं, अथ कस्मा त्वं इमं जालञ्च पासञ्च आसज्जापि न बुज्झसि, सन्तिकं आगन्त्वापि न जानासीति.
पराभवोति विनासो. भरस्सूति इदं सो बोधिसत्तस्स धम्मकथं सुत्वा ‘‘पण्डितो गिज्झराजा परिदेवन्तो न अत्तनो परिदेवति, मातापितूनं परिदेवति, नायं मारेतुं युत्तो’’ति तुस्सित्वा आह, वत्वा च पन पियचित्तेन मुदुचित्तेन पासं मोचेसि.
अथस्स बोधिसत्तो मरणमुखा पमुत्तो सुखितो अनुमोदनं करोन्तो ओसानगाथं वत्वा मुखपूरं मंसं आदाय मातापितूनं अदासि.
सत्था इमं धम्मदेसनं आहरित्वा सच्चानि पकासेत्वा जातकं समोधानेसि, सच्चपरियोसाने मातुपोसकभिक्खु सोतापत्तिफले पतिट्ठहि.
तदा नेसादपुत्तो छन्नो अहोसि, मातापितरो महाराजकुलानि, गिज्झराजा पन अहमेव अहोसिन्ति.
मातुपोसकगिज्झजातकवण्णना चतुत्था.
[४००] ५. दब्भपुप्फजातकवण्णना
अनुतीरचारी भद्दन्तेति इदं सत्था जेतवने विहरन्तो उपनन्दं सक्यपुत्तं आरब्भ कथेसि. सो हि सासने पब्बजित्वा अप्पिच्छतादिगुणे पहाय महातण्हो अहोसि. वस्सूपनायिकाय द्वे तयो विहारे परिग्गहेत्वा एकस्मिं छत्तं वा उपाहनं वा एकस्मिं कत्तरयट्ठिं वा उदकतुम्बं वा ठपेत्वा एकस्मिं सयं वसति. सो एकस्मिं जनपदविहारे वस्सं उपगन्त्वा ‘‘भिक्खूहि नाम अप्पिच्छेहि भवितब्ब’’न्ति आकासे चन्दं उट्ठापेन्तो विय भिक्खूनं पच्चयसन्तोसदीपकं अरियवंसपटिपदं कथेसि. तं सुत्वा भिक्खू मनापानि पत्तचीवरानि छड्डेत्वा मत्तिकापत्तानि चेव पंसुकूलचीवरानि च गण्हिंसु. सो तानि अत्तनो वसनट्ठाने ठपेत्वा वुत्थवस्सो पवारेत्वा यानकं पूरेत्वा जेतवनं गच्छन्तो अन्तरामग्गे एकस्स अरञ्ञविहारस्स पिट्ठिभागे पादे वल्लिया पलिबुद्धो ‘‘अद्धा एत्थ किञ्चि लद्धब्बं भविस्सती’’ति तं विहारं पाविसि. तत्थ पन द्वे महल्लका भिक्खू वस्सं उपगच्छिंसु. ते द्वे च थूलसाटके एकञ्च सुखुमकम्बलं लभित्वा भाजेतुं असक्कोन्ता तं दिस्वा ‘‘थेरो नो भाजेत्वा दस्सती’’ति तुट्ठचित्ता ‘‘मयं, भन्ते, इमं वस्सावासिकं भाजेतुं न सक्कोम, इमं नो निस्साय विवादो होति, इदं अम्हाकं भाजेत्वा देथा’’ति आहंसु. सो ‘‘साधु भाजेस्सामी’’ति द्वे थूलसाटके द्विन्नम्पि भाजेत्वा ‘‘अयं अम्हाकं विनयधरानं पापुणाती’’ति कम्बलं गहेत्वा पक्कामि.
तेपि थेरा कम्बले सालया तेनेव सद्धिं जेतवनं गन्त्वा विनयधरानं भिक्खूनं तमत्थं आरोचेत्वा ‘‘लब्भति नु खो, भन्ते, विनयधरानं एवं विलोपं खादितु’’न्ति आहंसु. भिक्खू उपनन्दत्थेरेन आभतं पत्तचीवररासिं दिस्वा ‘‘महापुञ्ञोसि त्वं आवुसो, बहुं ते पत्तचीवरं लद्ध’’न्ति वदिंसु. सो ‘‘कुतो मे आवुसो, पुञ्ञं, इमिना मे उपायेन इदं लद्ध’’न्ति सब्बं कथेसि. भिक्खू धम्मसभायं कथं समुट्ठापेसुं ‘‘आवुसो, उपनन्दो सक्यपुत्तो महातण्हो महालोभो’’ति. सत्था आगन्त्वा ‘‘काय नुत्थ, भिक्खवे, एतरहि कथाय सन्निसिन्ना’’ति पुच्छित्वा ‘‘इमाय नामा’’ति वुत्ते ‘‘न, भिक्खवे, उपनन्देन पटिपदाय अनुच्छविकं कतं, परस्स पटिपदं कथेन्तेन नाम भिक्खुना पठमं अत्तनो अनुच्छविकं कत्वा पच्छा परो ओवदितब्बो’’ति.
‘‘अत्तानमेव पठमं, पतिरूपे निवेसये;
अथञ्ञमनुसासेय्य, न किलिस्सेय्य पण्डितो’’ति. (ध. प. १५८) –
इमाय धम्मपदे गाथाय धम्मं देसेत्वा ‘‘न, भिक्खवे, उपनन्दो इदानेव, पुब्बेपेस महातण्हो महालोभोव, न च पन इदानेव, पुब्बेपेस इमेसं सन्तकं विलुम्पियेवा’’ति वत्वा अतीतं आहरि.
अतीते बाराणसियं ब्रह्मदत्ते रज्जं कारेन्ते बोधिसत्तो नदीतीरे रुक्खदेवता अहोसि. तदा एको सिङ्गालो मायाविं नाम भरियं गहेत्वा नदीतीरे एकस्मिं ठाने वसि. अथेकदिवसं सिङ्गाली सिङ्गालं आह ‘‘दोहळो मे सामि, उप्पन्नो, अल्लरोहितमच्छं खादितुं इच्छामी’’ति. सिङ्गालो ‘‘अप्पोस्सुक्का होहि, आहरिस्सामि ते’’ति नदीतीरे चरन्तो वल्लिया पादे पलिबुज्झित्वा अनुतीरमेव अगमासि. तस्मिं खणे गम्भीरचारी च अनुतीरचारी चाति द्वे उद्दा मच्छे परियेसन्ता तीरे अट्ठंसु. तेसु गम्भीरचारी महन्तं रोहितमच्छं दिस्वा वेगेन उदके पविसित्वा तं नङ्गुट्ठे गण्हि. बलवा मच्छो परिकड्ढन्तो यासि. सो गम्भीरचारी उद्दो ‘‘महामच्छो उभिन्नम्पि नो पहोस्सति, एहि मे सहायो होही’’ति इतरेन सद्धिं सल्लपन्तो पठमं गाथमाह –
२९. ‘‘अनुतीरचारी भद्दन्ते, सहायमनुधाव मं;
महा मे गहितो मच्छो, सो मं हरति वेगसा’’ति.
तत्थ सहायमनुधाव मन्ति सहाय अनुधाव मं, सन्धिवसेन म-कारो वुत्तो. इदं वुत्तं होति – यथाहं इमिना मच्छेन न संहीरामि, एवं मं नङ्गुट्ठखण्डे गहेत्वा त्वं अनुधावाति.
तं सुत्वा इतरो दुतियं गाथमाह –
३०. ‘‘गम्भीरचारी भद्दन्ते, दळ्हं गण्हाहि थामसा;
अहं तं उद्धरिस्सामि, सुपण्णो उरगामिवा’’ति.
तत्थ थामसाति थामेन. उद्धरिस्सामीति नीहरिस्सामि. सुपण्णो उरगामिवाति गरुळो सप्पं विय.
अथ द्वेपि ते एकतो हुत्वा रोहितमच्छं नीहरित्वा थले ठपेत्वा मारेत्वा ‘‘त्वं भाजेहि, त्वं भाजेही’’ति कलहं कत्वा भाजेतुं असक्कोन्ता ठपेत्वा निसीदिंसु. तस्मिं काले सिङ्गालो तं ठानं अनुप्पत्तो. ते तं दिस्वा उभोपि पच्चुग्गमनं कत्वा ‘‘अयं, सम्म, दब्भपुप्फमच्छो अम्हेहि एकतो हुत्वा गहितो, तं नो भाजेतुं असक्कोन्तानं विवादो उप्पन्नो, समभागं नो भाजेत्वा देही’’ति ततियं गाथमाहंसु –
३१. ‘‘विवादो नो समुप्पन्नो, दब्भपुप्फ सुणोहि मे;
समेहि मेधगं सम्मा, विवादो वूपसम्मत’’न्ति.
तत्थ दब्भपुप्फाति दब्भपुप्फसमानवण्णताय तं आलपन्ति. मेधगन्ति कलहं.
तेसं वचनं सुत्वा सिङ्गालो अत्तनो बलं दीपेन्तो –
३२. ‘‘धम्मट्ठोहं पुरे आसिं, बहू अड्डा मे तीरिता;
समेमि मेधगं सम्मा, विवादो वूपसम्मत’’न्ति. –
इदं गाथं वत्वा भाजेन्तो –
३३. ‘‘अनुतीरचारि नङ्गुट्ठं, सीसं गम्भीरचारिनो;
अच्चायं मज्झिमो खण्डो, धम्मट्ठस्स भविस्सती’’ति. –
इमं गाथमाह –
तत्थ पठमगाथाय अयमत्थो – अहं पुब्बे राजूनं विनिच्छयामच्चो आसिं, तेन मया विनिच्छये निसीदित्वा बहू अड्डा तीरिता, तेसं तेसं ब्राह्मणगहपतिकादीनं बहू अड्डा तीरिता विनिच्छिता, स्वाहं तुम्हादिसानं समजातिकानं चतुप्पदानं अड्डं तीरेतुं किं न सक्खिस्सामि, अहं वो समेमि मेधगं, सम्मा मं निस्साय तुम्हाकं विवादो वूपसम्मतूति.
एवञ्च पन वत्वा मच्छं तयो कोट्ठासे कत्वा अनुतीरचारि त्वं नङ्गुट्ठं गण्ह, सीसं गम्भीरचारिनो होतु. अच्चायं मज्झिमो खण्डोति अपिच अयं मज्झिमो कोट्ठासो. अथ वा अच्चाति अतिच्च, इमे द्वे कोट्ठासे अतिक्कमित्वा ठितो अयं मज्झिमो खण्डो धम्मट्ठस्स विनिच्छयसामिकस्स मय्हं भविस्सतीति.
एवं तं मच्छं विभजित्वा ‘‘तुम्हे कलहं अकत्वा नङ्गुट्ठञ्च सीसञ्च खादथा’’ति वत्वा मज्झिमखण्डं मुखेन डंसित्वा तेसं पस्सन्तानंयेव पलायि. ते सहस्सं पराजिता विय दुम्मुखा निसीदित्वा गाथमाहंसु –
३४. ‘‘चिरम्पि भक्खो अभविस्स, सचे न विवदेमसे;
असीसकं अनङ्गुट्ठं, सिङ्गालो हरति रोहित’’न्ति.