६. अवुट्ठिकसुत्तवण्णना

७५. छट्ठे अवुट्ठिकसमोति अवुट्ठिकमेघसमो. एकच्चो हि मेघो सतपटलसहस्सपटलो हुत्वा उट्ठहित्वा थनन्तो गज्जन्तो विज्जोतन्तो एकं उदकबिन्दुम्पि अपातेत्वा विगच्छति, तथूपमो एकच्चो पुग्गलोति दस्सेन्तो आह ‘‘अवुट्ठिकसमो’’ति. पदेसवस्सीति एकदेसवस्सिमेघसमो. पदेसवस्सी वियाति हि पदेसवस्सी. एकच्चो एकस्मिंयेव ठाने ठितेसु मनुस्सेसु यथा एकच्चे तेमेन्ति, एकच्चे न तेमेन्ति, एवं मन्दं वस्सति, तथूपमं एकच्चं पुग्गलं दस्सेति ‘‘पदेसवस्सी’’ति. सब्बत्थाभिवस्सीति सब्बस्मिं पथवीपब्बतसमुद्दादिके जगतिप्पदेसे अभिवस्सिमेघसमो. एकच्चो हि सकलचक्कवाळगब्भं पत्थरित्वा सब्बत्थकमेव अभिवस्सति, तं चातुद्दीपिकमहामेघं एकच्चस्स पुग्गलस्स उपमं कत्वा वुत्तं ‘‘सब्बत्थाभिवस्सी’’ति.

सब्बेसानन्ति सब्बेसं, अयमेव वा पाठो. न दाता होतीति अदानसीलो होति, थद्धमच्छरिताय न कस्सचि किञ्चि देतीति अत्थो. इदानि दानस्स खेत्तं देय्यधम्मञ्च विभागेन दस्सेतुं ‘‘समणब्राह्मणा’’तिआदिमाह. तत्थ समितपापसमणा चेव पब्बज्जमत्तसमणा च बाहितपापब्राह्मणा चेव जातिमत्तब्राह्मणा च इध ‘‘समणब्राह्मणा’’ति अधिप्पेता. कपणा नाम दुग्गता दलिद्दमनुस्सा. अद्धिका नाम पथाविनो परिब्बयविहीना. वनिब्बका नाम ये ‘‘इट्ठं देथ कन्तं मनापं कालेन अनवज्जं उदग्गचित्ता पसन्नचित्ता, एवं देन्ता गच्छथ सुगतिं, गच्छथ ब्रह्मलोक’’न्तिआदिना नयेन दाने नियोजेन्ता दानस्स वण्णं थोमेन्ता विचरन्ति. याचका नाम ये केवलं ‘‘मुट्ठिमत्तं देथ, पसतमत्तं देथ, सरावमत्तं देथा’’ति अप्पकम्पि याचमाना विचरन्ति. तत्थ समणब्राह्मणग्गहणेन गुणखेत्तं उपकारिखेत्तञ्च दस्सेति, कपणादिग्गहणेन करुणाखेत्तं. अन्नन्ति यंकिञ्चि खादनीयं भोजनीयं. पानन्ति अम्बपानादिपानकं. वत्थन्ति निवासनपारुपनादिअच्छादनं. यानन्ति रथवय्हादि अन्तमसो उपाहनं उपादाय गमनसाधनं. मालाति गन्थितागन्थितभेदं सब्बं पुप्फं. गन्धन्ति यंकिञ्चि गन्धजातं पिसितं अपिसितं गन्धूपकरणञ्च. विलेपनन्ति छविरागकरणं. सेय्याति मञ्चपीठादि चेव पावारकोजवादि च सयितब्बवत्थु. सेय्यग्गहणेन चेत्थ आसनम्पि गहितन्ति दट्ठब्बं. आवसथन्ति वातातपादिपरिस्सयविनोदनं पतिस्सयं. पदीपेय्यन्ति दीपकपल्लिकादिपदीपूपकरणं.

एवं खो, भिक्खवेति विज्जमानेपि देय्यधम्मे पटिग्गाहकानं एवं दातब्बवत्थुं सब्बेन सब्बं अदेन्तो पुग्गलो अवस्सिकमेघसदिसो होति. इदं वुत्तं होति – भिक्खवे, यथा सो मेघो सतपटलसहस्सपटलो हुत्वा उट्ठहित्वा न किञ्चि वस्सि विगच्छति, एवमेव यो उळारं विपुलञ्च भोगं संहरित्वा गेहं आवसन्तो कस्सचि कटच्छुमत्तं भिक्खं वा उळुङ्कमत्तं यागुं वा अदत्वा विगच्छति, विवसो मच्चुवसं गच्छति, सो अवुट्ठिकसमो नाम होतीति. इमिना नयेन सेसेसुपि निगमनं वेदितब्बं. इमेसु च तीसु पुग्गलेसु पठमो एकंसेनेव गरहितब्बो, दुतियो पसंसनीयो, ततियो, पसंसनीयतरो. पठमो वा एकन्तेनेव सब्बनिहीनो, दुतियो मज्झिमो, ततियो उत्तमोति वेदितब्बो.

गाथासु समणेति उपयोगवसेन बहुवचनं तथा सेसेसुपि. लद्धानाति लभित्वा, समणे दक्खिणेय्ये पवारेत्वा पुट्ठो न संविभजति. अन्नं पानञ्च भोजनन्ति अन्नं वा पानं वा अञ्ञं वा भुञ्जितब्बयुत्तकं भोजनं, तं न संविभजति. अयञ्हेत्थ सङ्खेपत्थो – यो अत्थिकभावेन उपगते सम्पटिग्गाहके लभित्वा अन्नादिना संविभागमत्तम्पि न करोति, किं सो अञ्ञं दानं दस्सति, तं एवरूपं थद्धमच्छरियं पुरिसाधमं निहीनपुग्गलं पण्डिता अवुट्ठिकसमोति आहु कथयन्तीति.

एकच्चानं न ददातीति विज्जमानेपि महति दातब्बधम्मे एकेसं सत्तानं तेसु कोधवसेन वा, देय्यधम्मे लोभवसेन वा न ददाति. एकच्चानं पवेच्छतीति एकेसंयेव पन ददाति. मेधाविनोति पञ्ञवन्तो पण्डिता जना.

सुभिक्खवाचोति यो उपगतानं याचकानं ‘‘अन्नं देथ, पानं देथा’’तिआदिना तं तं दापेति, सो सुलभभिक्खताय सुभिक्खा वाचा एतस्साति सुभिक्खवाचो. ‘‘सुभिक्खवस्सी’’तिपि पठन्ति. यथा लोको सुभिक्खो होति, एवं सब्बत्थाभिवस्सितमहामेघो सुभिक्खवस्सी नाम होति. एवमयम्पि महादानेहि सब्बत्थाभिवस्सी सुभिक्खवस्सीति. आमोदमानो पकिरेतीति तुट्ठहट्ठमानसो सहत्थेन दानं देन्तो पटिग्गाहकखेत्ते देय्यधम्मं पकिरेन्तो विय होति, वाचायपि ‘‘देथ देथा’’ति भासति.

इदानि नं सुभिक्खवस्सितभावं दस्सेतुं ‘‘यथापि मेघो’’तिआदि वुत्तं. तत्रायं सङ्खेपत्थो – यथा महामेघो पठमं मन्दनिग्घोसेन थनयित्वा पुन सकलनदीकन्दरानि एकनिन्नादं करोन्तो गज्जयित्वा पवस्सति, सब्बत्थकमेव वारिना उदकेन थलं निन्नञ्च अभिसन्दन्तो पूरेति एकोघं करोति, एवमेव इध इमस्मिं सत्तलोके एकच्चो उळारपुग्गलो सब्बसमताय सो महामेघो विय वस्सितब्बत्ता तादिसो यथा धनं उट्ठानाधिगतं अत्तनो उट्ठानवीरियाभिनिब्बत्तं होति, एवं अनलसो हुत्वा तञ्च धम्मेन ञायेन संहरित्वा तन्निब्बत्तेन अन्नेन पानेन अञ्ञेन च देय्यधम्मेन पत्ते सम्पत्ते वनिब्बके सम्मा सम्मदेव देसकालानुरूपञ्चेव इच्छानुरूपञ्च तप्पेति सम्पवारेतीति.

छट्ठसुत्तवण्णना निट्ठिता.